असतः प्रतीतिं विनाऽसद्वैलक्षण्यज्ञानानुपपत्तेः..
असतः अपरोक्षप्रतीत्यनङ्गीकारे बाधकोक्तिः
असतः प्रतीतिं विनाऽसद्वैलक्षण्यज्ञानानुपपत्तेः
श्रीमज्जयतीर्थटीका
अथैवं ब्रूयात् ‘अस्त्येवासतोऽपि परोक्षप्रतीतिगोचरता । अपरोक्षप्रतीतिगोचरतां तु न मन्ये’ इति । तत्रापि ‘असतः प्रतीतिं विनाऽसद्वैलक्षण्यज्ञानानुपपत्तेः’ इत्येवोत्तरम् । यद्यत्यन्तासतोऽ-परोक्षप्रतीतिविषयता न स्यात् तर्हि प्रातिभासिकतयाऽर्थक्रियानर्हस्य रजतस्य यदसत् प्रातिभासिकवैलक्षण्यं तदपरोक्षज्ञानं भ्रान्तस्य नोपपद्येत । तथा चाप्रवृत्तिः प्रसज्ज्येतेति ।
श्रीविजयीन्द्रभिक्षु
तर्हीति ।। यद्यप्यसद्वैलक्षण्यज्ञानं नासदपरोक्षप्रतीतिसापेक्षम् । स्तम्भे पिशाच-वैलक्षण्यापरोक्षज्ञानवत्प्रतियोगिज्ञानमात्रेणोपपत्तेः । यद्यपि चाप्रामाण्यशङ्काशून्यं प्रवृत्तिविषये इष्टतावच्छेदकवैशिष्ट्यावगाहिज्ञानमेव प्रवर्तकं तथाऽपि प्रतियोगिविशिष्टासद्वैलक्षण्यापरोक्ष-ज्ञानस्यानुभवसिद्धतया असतोऽप्यपरोक्षप्रतीतिविषयत्वं दुर्वारमित्यत्र इष्टातावच्छेदकवैशिष्ट्याव-गाहिज्ञानवदनाभासविषयत्वज्ञानमपि निष्कम्पप्रवृत्त्यङ्गम् । अन्यथा असदेव रजतं, प्रतीतं रजतं प्रातिभासिकमेवेति ज्ञानदशायामपि प्रवृत्त्यापत्तिरित्यत्र च तात्पर्यम् ।
श्रीवेदेशतीर्थ
असतो वैलक्षण्यमसद्वैलक्षण्यमिति विग्रहाङ्गीकारेण व्याख्याय, इदानीमसच्च तद्वैलक्षण्यञ्चेति विग्रहमभिप्रेत्यापि व्याचष्टे- यद्यत्यन्तासत इति ।। प्रातिभासिकतयाऽर्थ-क्रियानर्हस्य रजतस्येत्यनेन रजते प्रातिभासिकवैलक्षण्यप्रतीतिरावश्यिकी । अन्यथा प्रवृत्त्यनुप-पत्तेरित्युक्तं भवति ।
इदमत्राऽकूतम् । शुक्तिरूप्यादिकं परेण प्रातिभासिकमङ्गीक्रियते । तच्च प्रतीतिवेलायां किं प्रातिभासिकत्वेन प्रतीयते उत तद्विलक्षणत्वेन । नाऽद्यः । रूप्यस्य प्रातिभासिकत्वज्ञाने प्रवृत्त्यभावापत्तेः । न हि प्रातीतिकं क्वचिदर्थक्रियासूपयुज्यमानं दृष्टम् । द्वितीये तत्प्रातिभासिक-वैलक्षण्यं सदुतासदिति प्रष्टव्यम् । नाद्यः । प्रातिभासिके प्राति-भासिकवैलक्षण्यस्य सत्त्वायोगात् । न द्वितीयः । प्रातिभासिके प्रातिभासिकवैलक्षण्यस्यासतो भ्रान्तिरूपापरोक्षज्ञानविषयत्वेऽसतोऽ-परोक्षज्ञानविषयत्वप्राप्तेः । न च तत्र प्रातिभासिकवैलक्षण्यं नासत्प्रतीयते । किं त्वनिर्वचनीयमेवेति वाच्यम् । तथात्वे प्रातिभासिकवैलक्षण्यस्यापि शुक्तिरूप्यवत्प्रातिभासिकत्वेन तत्प्रतीतेराव-श्यकत्वे तदपि किं प्रातिभासिकत्वेन प्रतीयते । उत तद्वैलक्षण्येनेत्यादिप्रकारेण दूषणाभिधाने तत्राप्यनिर्वचनीयत्वाङ्गीकारेऽनवस्था स्यादिति ।
केचित्तु ‘यद्यप्यसद्वैलक्षण्यज्ञानं नासदपरोक्षप्रतीतिसापेक्षम् । स्तम्भे पिशाचवैलक्षण्यापरोक्ष-ज्ञानवत्प्रतियोगिज्ञानमात्रेणोपपत्तेः । तथाऽपि प्रतियोगिविशिष्टासद्वैलक्षण्यापरोक्षज्ञानस्यानुभव-सिद्धतया असतोऽप्यपरोक्षप्रतीतिविषयत्वं दुर्वारमित्यत्र तात्पर्यम्’ इत्याहुः । तच्चिन्त्यम् । न ह्यत्रासद्वैलक्षण्यापरोक्षज्ञानेऽसदपरोक्षज्ञानं प्रतियोगिज्ञानत्वेनापेक्ष्यत इत्युच्यते । येनेदमुपपन्नं स्यात् । अपि तूक्तरीत्या रजतेऽसदेव प्रातिभासिकवैलक्षण्यमिदं रजतमिति साक्षात्कारे विषय इत्यसतोऽपि प्रातिभासिकवैलक्षण्यस्यापरोक्षप्रतीतिरागतेति । किञ्च यदि प्रतियोगिविशिष्टा-सद्वैलक्षण्यापरोक्षज्ञाने प्रतियोगिनोऽसतोऽपि विषयत्वं तर्हि स्तम्भे पिशाचवैलक्षण्यापरोक्षज्ञाने पिशाचस्याप्यपरोक्षं स्यात् । न च परोक्षज्ञानविषय एव पिशाचस्तटस्थस्सन्, अपरोक्षज्ञान-विषयवैलक्षण्यं व्यावर्तयतीति वाच्यम् । असदपि पदात्प्रतीतं तटस्थं सत् वैलक्षण्यं व्यावर्तयती-त्युपपत्तावसतोऽपरोक्षज्ञानाप्राप्तेः । तस्मादिदमसाम्प्रदायिकमेव तात्पर्यकल्पनमिति ।
ननु रजतसाक्षात्कारे रजते प्रातिभासिकवैलक्षण्यं न विषयः । येनासतोऽप्यपरोक्षज्ञानं स्यात् । अपि तु रजतत्वमात्रम् । प्रवृत्तिविषये इष्टतावच्छेदकवैशिष्ट्यावगाहिज्ञानस्यैव प्रवर्तकत्वादन्य-स्यानुपयोगादिति चेन्न । इदं रजतं प्रातिभासिकमिति ज्ञानेऽपि प्रवृत्त्यापत्तेः । न ह्यस्य साक्षात्प्रवृत्तौ प्रतिबन्धकत्वं प्रवृत्तिविषयाभावानवगाहित्वात् । अपि तु प्रवृत्तिजनकप्रातिभासिकवैलक्षण्य-ज्ञानविघटकत्वेनैव । तथा च प्रवर्तकापरोक्षज्ञाने रजतत्वादिवदसदपि प्रातिभासिकवैलक्षण्यं प्रकारत्वेन प्रतिभासत इत्यङ्गीकार्यमिति भावः ।
श्रीराघवेन्द्रतीर्थ
पूर्वम् असद्वैलक्षण्येत्यत्र षष्ठीतत्पुरुषमाश्रित्यासत्प्रतीत्यनङ्गीकारे बाधकोक्तिपरतया व्याख्यायाधुनाऽसच्च तद्वैलक्षण्यञ्चेति कर्मधारयमाश्रित्य ज्ञानपदञ्चापरोक्षज्ञानपरं वैलक्षण्यप्रतियोगि च प्रातिभासिकमिति चोपेत्यासतोऽपरोक्षप्रतीत्यनङ्गीकारे बाधकोक्तिपरतयाऽप्यवतार्य व्याचष्टे- तत्राप्यसत इत्यादिना ।। शुक्तिरूप्ये प्रतीतस्य प्रातिभासिकवैलक्षण्यस्यासत्त्वोपपादनायार्थ-क्रियानर्हस्येति हेतुगर्भविशेषणम् । तत्र हेतुः प्रातिभासिकतयेति । ननु प्रातिभासिके शुक्तिरूप्ये प्रातिभासिकवैलक्षण्यमसदस्तु तथाऽपि तद्भ्रान्तस्य न प्रतीयत एव येनासतस्तस्यापरोक्षधीरस्तीति स्यादित्यत आह- तथा चेति ।। तस्याऽभाने सतीत्यर्थः । अर्थक्रियानर्हं प्रातिभासिकं शुक्तिरूप्यं तथैव चेद्भ्रान्तः प्रतीयात्तदा तत्र न प्रवर्तेतैवेत्यर्थः ।
गुरुराजीया
असतो वैलक्षण्यमिति विग्रहमाश्रित्य व्याख्यायासच्च तद्वैलक्षण्यञ्चेत्यपि विग्रहमाश्रित्य व्याख्याति- यद्यत्यन्तासत इति ।। प्रातिभासिकतयेति ।। अत्यन्तासद् यत् प्रातिभासिकवैलक्षण्यं तदपरोक्षज्ञानमित्यर्थः । रजते प्रातिभासिकवैलक्षण्यस्यात्यन्तासत्त्वोपपादनाय प्रातिभासिकतया अर्थक्रियानर्हस्येत्युक्तम् ।
अयमर्थः । रजतं प्रातिभासिकम्मन्यमानस्यापि मते तत्किं प्रातिभासिकतया प्रतीयते उत तद्वैलक्षण्येन । न प्रथमः । तथा प्रतीत्यनुपलम्भात् । तथा प्रतीतौ प्रवृत्त्यभावप्रसङ्गाच्च । न हि प्रातिभासिकं कदाचिदनेनार्थक्रियासूपयुक्तं दृष्टम् । येन तद्भावं प्रतीत्यापि प्रवर्तेत । द्वितीये तत्प्रातिभासिकवैलक्षण्यं सदुतासदिति । नाऽद्यः । तथा सति रजतस्य प्रातिभासिकत्वानुपपत्तेः । न हि यस्य प्रातिभासिकवैलक्षण्यं सत् तत्प्रातिभासिकमिति सम्भवति । न द्वितीयः । तथा सति प्रातिभासिके प्रातिभासिकवैलक्षण्यस्यासतो भ्रान्तिरूपापरोक्षज्ञानविषयत्वेऽसतोऽपरोक्षज्ञान-प्राप्तेरिति ।
गोविन्दीया
असतः वैलक्षण्यं असद्वैलक्षण्यमिति तत्पुरुषसमासमपेक्ष्यार्थः कथितः । इदानीं असच्च तद् वैलक्षण्यं चेति कर्मधारयमाश्रित्यार्थं वक्तुं शङ्कामुद्भावयति- अथैवमिति ।। असत्परोक्ष-प्रतीत्यभावयोः व्याप्त्यभावेऽपि असदपरोक्षप्रतीत्यभावयोः व्याप्तिः स्यात् । तथा चार्थापत्ते-रनुपपत्तिरित्यर्थः । तर्हीति ।। प्रवृत्त्यनुपपत्त्या प्रातिभासिकतया अर्थक्रियाऽनर्हस्य रजतस्य प्रातिभासिकत्वेन धर्मेण सह भानं नोपपद्यते । किन्तु प्रातिभासिकवैलक्षण्येन भानमङ्गीकर्तव्यम् । प्रातिभासिके रजते प्रातिभासिकरूपवैलक्षण्यधर्मस्य शुद्धरजतत्वस्य धर्मस्य सत्त्वमङ्गीकर्तुं नोचि-तम् । यद्यङ्गीकृतं तदा रजतं प्रातिभासिकमेव न स्यात् । अतोऽसत्त्वमेवाङ्गीकार्यम् । तथा च सत् प्रातिभासिकवैलक्षण्यं तदपरोक्षज्ञानं भ्रान्तस्य नोपपद्येत । यदसत् तद् अपरोक्षतः न प्रतीयादिति भावेनैव व्याप्तेरनङ्गीकृतत्वादित्यर्थः । तथा चेति ।। अप्रवृत्तिप्रसङ्गात् माऽस्तु अपरोक्षतः प्रतीतिरिति वक्तुं न शक्यत इत्यर्थः ।
नारोपन्तीया
असत्प्रातिभासिकवैलक्षण्यमिति । असत् अत्यन्तासत् । एतादृशं यत्प्रातिभासिक-वैलक्षण्यं तद्ज्ञानमित्यर्थः । यद्वा- असच्च प्रातिभासिकं चेति द्वन्द्वः । उभयवैलक्षण्यज्ञानमित्यर्थः । ननु रजतत्वप्रकारकमिष्टसाधनताज्ञानं प्रवर्तकं लाघवात् । नतु प्रातिभासिकवैलक्षण्यादि-प्रकारकज्ञानमपि । गौरवात् । तथा च क्वातिप्रसङ्ग इति चेत् । इदं प्रातिभासिकम् अत्यन्तासद्वा रजतमिति ज्ञानेऽपि१ । न च प्रामाण्यनिश्चय एव प्रवर्तकः । उक्तविधज्ञानञ्च बाधरूपमेव । तथा च तादृशबाधकाले प्रवर्तकज्ञानाभावादेव न प्रवृत्तिरिति वाच्यम् । प्रातिभासिकरजतोत्पत्ति-वादिनस्तव मते तद्वति तत्प्रकारकज्ञानस्वरूपप्रामाण्यस्यापि तत्र सत्त्वात् । प्रामाण्यसंशयादपि प्रवृत्तिदर्शनाच्च । ननु मन्मते नेदं प्रामाण्यम् । किन्तु असत्प्रातिभासिकानवगाहित्वमेवेति चेत् । आगतं तर्हि मार्गे । पुरोवर्तिनि असत्प्रातिभासिकवैलक्षण्यज्ञानं विना तदनुपपत्तेरिति घट्टकुट्यां प्रभातः । नन्वस्तु प्रातिभासिकत्वज्ञानं प्रतिबन्धकमिति तदभाव एव तत्र हेतुः । प्रातिभासिक-वैलक्षण्यज्ञानस्य तु कुतः प्रवर्तकत्वं सिध्येदिति चेत् । हन्त तर्ह्यनुमितौ व्याप्तिज्ञाने शाब्दबोधे योग्यताज्ञानं रजतार्थिप्रवृत्तौ च रजतत्वप्रकारकज्ञानं च कारणं न स्यात् । तत्राप्यव्याप्य-त्वायोग्यत्वरजतत्वाभावावगाहिनिश्चयानां प्रतिबन्धकत्वेन तत्तदभावस्यैव तत्र तत्र कारणत्व-मस्त्वित्यादेरपि सुवचत्वात् ।
ननु तर्ह्यस्तु प्रातिभासिकवैलक्षण्यज्ञानं प्रवर्तकं तावताऽपि प्रातिभासिकरजतभ्रमकाले प्रवर्तमानस्य भ्रान्तस्य जायमानं प्रातिभासिकवैलक्षण्यज्ञानम् असद्विषयकं कुतः स्यात् ? अनिर्वचनीयापर-पर्यायप्रातिभासिकविषयमेव किं न स्यात् ? शुक्तिरजते प्रातिभासिकप्रातिभासिकवैलक्षण्यस्यापि प्रातिभासिकत्वाङ्गीकारे बाधकाभावादिति चेन्न । समानसत्ताकयोर्विरोध इति वादिनस्तव मते प्रातिभासिकतद्द्वैलक्षण्यस्याभ्युपगन्तुमशक्यत्वात् । अन्यथा पारमार्थिकत्वाकारेण वियदादि-प्रपञ्चाभाववति ब्रह्मणि पारमार्थिकप्रपञ्चाभ्युपगमोऽपि स्यात् । न तु व्यावहारिकतत्स्वीकारः । व्यावहारिकशुक्तौ च व्यावहारिकमेव रजतं स्यात् । न तु प्रातिभासिकमिति यत्किञ्चिदेतदिति दिक् । तस्मात्सुष्टूक्तं रजतस्य प्रातिभासिकवैलक्षण्यम् असदिति ।
जनार्दनभट्टीया
‘असतः प्रतीतिं विना’ इति मूलवाक्यं प्रकारान्तरेण योजयति–अथैवं ब्रूयादित्यादिना ।।
१ननु शुक्तिरूप्ये असतः प्रातिभासिकवैलक्षण्यस्य ज्ञानाभावेऽपि विषयमाहात्म्यादेव प्रत्ययोपपत्तेरित्यत आह – प्रातिभासिकतयेति ।। अर्थक्रियानर्हस्येति ।। एवञ्च विषयसामर्थ्यात् न प्रवृत्तिः सम्भवतीति भावः । यदसत्प्रातिभासिकेत्यत्र असदिति व्यस्तं पदं प्रातिभासिकवैलक्षण्यविशेष-णम् । नहि प्रातिभासिके प्रातिभासिकवैलक्षण्यं सद् भवितुमर्हतीति भावः । ननु शुक्तौ रजतारोपस्थले रजते प्रातिभासिकवैलक्षण्यं न प्रतीयत एव तत्प्रतीत्यनङ्गीकारे किं बाधकम्? इत्यत आह – तथा चेति ।। असद्वैलक्षण्यज्ञानाभावे तत्र असत्वमेव प्रतीयेत । तथा च प्रवृत्तिर्न स्यात् । अत एव ‘सर्वतो विलक्षणं पदार्थस्वरूपं दृश्यते’ इत्यस्माभिरङ्गीकृतं सर्वैरप्येवमेव अङ्गीकर्तव्यमिति भावः ।