नासतोऽदृष्टत्वात्’..

नासतः’ इत्यादिसूत्राणां शून्यवादिमतनिरासपरतया न प्रपञ्चमिथ्यात्वविरोधित्वमिति शङ्का

नासतोऽदृष्टत्वात्’

श्रीमज्जयतीर्थटीका

नन्वेतानि सूत्राणि शून्यवादिमतनिराकरणपरतया सिद्धान्ते व्याख्यायन्ते । तथा हि । शून्यमेव जगत्कारणमस्तु किमीश्वरेणेति प्राप्ते प्रत्याख्यातं ‘नासतः’ इति । नासतः शून्यस्य जगत्कारणत्वं मन्तव्यम्    कुतः ? अदृष्टत्वात्    न हि किमपि शून्यादुत्पद्यमानं दृष्टम् । येन जगदपि तथा प्रतिपद्येमहि ।

भवेदिदं यदि जगत्पारमार्थिकं स्यात् । असत्त्वे तु शुक्तिरजतस्येव शून्यादुत्पत्तौ काऽनुपपत्तिरित्यतोऽभिहितम् ‘नाभावः’ इति । न जगत् अभावः असत् प्रतिपत्तव्यम् । कस्मात्? उपलब्धेः । सदिति प्रतीयमानत्वात् । सत्त्वेन प्रतीयमानमपि जगत्स्वप्नादिवदसत्किं न स्यात् इत्यत उक्तम् ‘वैधर्म्याच्च’ इति । स्वप्नादिवत् असदेव जगत्सत्त्वेन प्रतीयत इति न वाच्यम् । कुतः? वैधर्म्यात् । भवति हि स्वप्नादिवैधर्म्यं विश्वस्य बाधाभावलक्षणम् । उपलब्धिश्च प्रागबाधितैव हेतुतयोपन्यस्तेति भावः। दूषणान्तरसमुच्चयार्थश्चकार इति । तथा च कथमेषां सूत्राणां मायावादि-मतनिरासायोदाहरणे सिद्धान्तविरोधो न स्यात् ? न च योजनाभेदेनोभयपरता तददर्शनादित्यत आह -

श्रीविजयीन्द्रभिक्षु

ननु मायावादिमतनिरासे प्रवृत्तेन तन्निरासक्षममेव प्रमाणमुदाहर्तव्यम् । न तु बाह्यमत-निरासार्थं प्रवृत्तं प्रमाणम् । सङ्गत्यभावादिति शङ्कते- नन्विति ।। नन्वस्य तन्मतनिराकरणपरतया व्याख्यानं सिद्धान्तिनोऽसङ्गतत्वापादकं कथमित्यत उक्तम्- सिद्धान्त इति ।। न प्रतिज्ञा-मात्रेणार्थसिद्धिरित्यत सिद्धान्तव्याख्यानप्रकारं दर्शयति- तथा हीति ।। सत्त्वेन प्रतीतिमात्रमत्र साधकम् । चकार इति ।। ‘वैधर्म्याच्च’ इति सूत्रस्थ इत्यर्थः । चकार इतीतिशब्दस्य व्याख्यायन्त इत्यनेन सम्बन्धः । एतावता कथमसङ्गतिरित्यत आह- तथा चेति ।। न केवलमसङ्गतिमात्रम् । किन्तु शून्यवादिमतनिरासार्थत्वेन स्वयमङ्गीकृतानामुदाहृतसूत्राणां तत्त्यागेन मायावादिमतनिरा-सार्थत्वाङ्गीकारे सिद्धान्तविरोधश्च स्यादिति भावः । तददर्शनादिति ।। मायावादिनिरासस्य ततोऽ-प्रतीतेरित्यर्थः । इदमुपलक्षणम् । उभयनिरासपरत्वाङ्गीकारे चानेकार्थत्वमिति न्यायविरोधादित्यपि द्रष्टव्यम् ।

श्रीवेदेशतीर्थ

शून्यवादिमतनिराकरणपरतयेति ।। ‘शून्यवादमपाकरोति’ इति भाष्येऽस्याधिकरण-स्यावतारितत्वादिति भावः । ‘अदृष्टत्वादसतः कारणत्वं न युज्यते’ इति भाष्यं मनसि निधाय सूत्रार्थमाह- नासतः शून्यस्येति ।। नन्वदृष्टमपि शून्यस्य जगत्कारणत्वमभ्युपगतञ्चेत्को दोष इत्याशङ्कापरिहारार्थं सूत्रम्- ‘उदासीनानामपि चैवं सिद्धिः’१ इति । तत्तात्पर्यमाह- न हि किमपीति ।। शुक्तिरजतस्येवेति ।। यथाऽसत एव रजताकारेण प्रतीयमानत्वमेवं शून्यस्यैव संवृतिवशाज्जगदाकारेण प्रतीयमानत्वम् । इयमेव शून्यादुत्पत्तिः यज्जगत्तत्राध्यस्तमिति । तथा च न पूर्वानुपपत्तिरिति भावः । ‘न च जगदेव शून्यमिति वाच्यम् । दृष्टत्वात्’ इति भाष्यं मनसि निधाय नाभाव इति सूत्रार्थमाह- न जगदिति ।। असतोऽप्युपलब्धिविषयत्वाद् व्यभिचार इत्यत आह - सदिति प्रतीयमानत्वादिति ।। उपलक्षणमेतत् । न चासत एव रजताकारेण प्रतीयमानत्वं युक्तम् । तथात्वे नेदं रजतं किन्तु शुक्तिरेवेति बाधविरोधात् । तथा च रजतस्येवेत्युक्तदृष्टान्तानुपपत्ति-रित्यपि द्रष्टव्यम् । ‘न च दृष्टस्यापि स्वप्नादिवदभावः । तस्योत्तरकाले स्वप्नोऽयं नायं सर्प इत्याद्यनु-भवात् । न चात्र तादृशं प्रमाणमस्ति’ इति भाष्यं मनसि निधाय सूत्रार्थमाह-स्वप्नादिवदिति ।। अत्राऽदिपदेन रज्जुभुजङ्गादिकं ग्राह्यम् । नन्वस्तु विश्वस्य बाधकाभावलक्षणं स्वप्नादिवैधर्म्यम् । तथाऽप्युपलब्धेरिति सौत्रो हेतुर्व्यभिचारेण दुष्ट एवेत्यत आह-उपलब्धिश्चेति ।। दूषणान्तर-समुच्चयार्थश्चकार इतीति ।। ‘वैधर्म्याच्च’ इति सौत्रश्चकारः न केवलमनुमानविरुद्धं विश्वमिथ्यात्वम् । अपि तु प्रत्यक्षविरुद्धं प्रमाणशून्यञ्चेत्यनुक्तदोषान्तरसमुच्चायक इत्यर्थः । तथा अनुव्याख्याने-

‘...........चेति दृष्टिविरुद्धताम् ।

 निष्प्रमाणत्वमप्यस्य सूचयामास सूत्रकृत् ।।’

इति व्याख्यातत्वादिति भावः ।

श्रीराघवेन्द्रतीर्थ

द्वितीयसूत्रमवतार्यार्थमाह - भवेदिदमित्यादिना ।। जगत्कारणत्वं शून्यस्य नेतीदमि-त्यर्थः । स्वप्नादिवदसदेवेति ।। स्वाप्नपदार्थगतजाग्रत्त्ववदसदेवेत्यर्थः  । उपलब्धिश्च प्रागिति ।। ‘नाभाव उपलब्धेः’१ इति सूत्रे हेतूकृता सत्त्वेनोपलब्धिश्चाबाधितैवोक्ता । अबाधितोपलब्धेरित्युक्तं सूत्रकृतेत्यर्थः । अतो न स्वप्नपदार्थेष्वनैकान्त्यचोदना युक्तेति भावः । इतीतिशब्दस्य इति व्याख्यायन्त इति पूर्वेणान्वयः । दूषणान्तरेति ।। स्वप्न एवायं न जाग्रदिति स्वप्नादौ बाधभावाच्चेति दूषणान्तरेत्यर्थः ।

गुरुराजीया

शून्यवादिमतनिराकरणपरतयेति ।। भाष्ये ‘शून्यवादिमतमपाकरोति’ इत्यस्याधिकरण-स्यावतारितत्वादिति भावः । ‘अदृष्टत्वादसतः कारणत्वं न युज्यते’ इति भाष्यं मनसि निधाय सूत्रार्थमाह- नासतः शून्यस्येत्यादिना ।। नन्वदृष्टमपि शून्यस्य जगत्कारणत्वमभ्युपगतं चेत् को दोष इत्याशङ्कापरिहारार्थस्योदासीनानामिति सूत्रस्य तात्पर्यमाह- न हीति ।। शुक्तिरजतस्येवेति ।। यथाऽसत एव रजताकारेण प्रतीतिः तथा शून्यस्यैव संवृतिवशाज्जगदाकारेण प्रतीतिः । इयमेव शून्याज्जगदुत्पत्तिः यज्जगत् तत्राध्यस्तमिति । न त्वपरेति न पूर्वोक्तातिप्रसङ्ग इति भावः । ‘न च जगदेव शून्यमिति वाच्यम् । अदृष्टत्वात्’ इति भाष्यं मनसि निधाय सूत्रार्थमाह- न जगदिति ।। असतोऽप्युपलब्धिविषयत्वाद् व्यभिचार इत्यतस्तदर्थमाह- सदिति प्रतीयमानत्वादिति ।। उपलक्षणं चैतत् । नासत एव रजताकारेण प्रतीयमानत्वं युक्तम् । तथा सति नेदं रजतं किन्तु शुक्तिरेवेति बाधविरोधात् । तथा चोक्तदृष्टान्तोऽप्यसम्प्रतिपन्न इत्यपि द्रष्टव्यम् । ‘न च दृष्टस्यापि स्वप्नादि-वदभावः । तस्योत्तरकाले ‘स्वप्नोऽयं नायं सर्पः’ इत्याद्यनुभवात् । न चात्र तादृशं प्रमाणमस्ति’ इति भाष्यं मनसि निधाय सूत्रार्थमाह- स्वप्नादिवदिति ।। अत्राऽदिपदेन रज्जुभुजङ्गादिग्रहणम् । नन्वस्तु जगतो बाधाभावलक्षणं स्वप्नादिवैधर्म्यम् । तथाऽपि ‘उपलब्धेः’ इति सौत्रो हेतुर्व्यभिचारितया कथं साधकतयोपादीयत इत्यत आह- उपलब्धिश्चेति ।। दूषणान्तरमिति ।। दृष्टिविरुद्धत्वनिष्प्रमाणकत्वरूपदूषणान्तरसमुच्चयार्थ इत्यर्थः ।

‘................ चेति दृष्टिविरुद्धताम् ।

 निष्प्रमाणत्वमप्यस्य सूचयामास सूत्रकृत् ।।’

इत्यनुव्याख्यानोक्तेरिति द्रष्टव्यम् ।

गोविन्दीया

भवेदिदमिति शून्यादनुत्पद्यमानत्वं भवेदित्यर्थः । ‘नाभाव उपलब्धेः’ इत्यत्रोप-लब्धेर्हेतोर्व्यभिचारवारणायोत्तरसूत्रे वैधर्म्याच्चेति विशेषणादाने व्यभिचारिहेतुपरतया पूर्वसूत्रस्या-प्रामाण्यं स्यादित्याशङ्क्याऽह- उपलब्धिश्चेति ।। प्राक् पूर्वसूत्रेऽपि अबाधितोपलब्धिरेव हेतुतयोप-न्यस्तेति नाप्रामाण्यमित्यर्थः । दूषणान्तरेति ।। न केवलं मिथ्यात्वानुमानागमयोरनुमानविरोधः, किन्तु प्रत्यक्षविरोधश्चेति दूषणान्तरसमुच्चयार्थः सूत्रस्थचकार इत्यर्थः ।

नारोपन्तीया

 बाधाभावलक्षणमिति ।।  स्वप्ने यद्बाह्यत्वं तद्बाधितत्वादारोपितम्    न च प्रपञ्चे वियदादौ । बाध इति वैधर्म्यान्नाऽरोपितः स इत्यर्थः ।

जनार्दनभट्टीया

प्रतिपद्येमहि= जानामीत्यर्थः । ‘नाभाव....’ (ब्र.सू.) इति सूत्रमवतारयति- भवेदेव-मित्यादिना ।। अभाव इत्यस्यार्थमाह – असदिति ।।

ननु यदि सदिति प्रतीयमानत्वम् असत्यस्वाप्नपदार्थसाधारणमङ्गीकृत्य बाधाभावलक्षणवैधर्म्येणैव जगत्सत्यत्वं सूत्रकृतोऽभिप्रेतं स्यात्, तर्हि प्रागुक्तोपलब्धत्वहेतोः स्वाप्नपदार्थे व्यभिचार इत्यत आह– उपलब्धिश्चेति ।। ‘नाभाव....’ इति सूत्रे इत्यर्थः । अतः असतः तदभावादेव न स्वाप्नपदार्थे व्यभिचार इति भावः ।