अपरोक्षदृशो मिथ्यादर्शनं न ..
सर्वस्य जगतो मायाजन्यत्वाभावे प्रमाणोक्तिस्तद्भावे प्रमाणविरोधोक्तिश्च
श्रीमज्जयतीर्थटीका
एवं वियदादेरमायामयत्वे प्रमाणमभिधाय दुःखादेरनाविद्यकत्वे प्रमाणं विवक्षुस्तस्य वियदाद्यमायामयत्वेऽपि प्रवृत्तेरुभयसाधारणमनुमानमाह-
मूल
अपरोक्षदृशो मिथ्यादर्शनं न क्वचिद्भवेत् ।
सर्वापरोक्षविद्विष्णुर्विश्वदृक् तन्न तन्मृषा ।। इति ब्रह्माण्डे ।
अत्र पूर्वार्धेन व्याप्तिं दर्शयति । अधिष्ठानमपरोक्षेण पश्यतस्तत्रारोपितमिथ्यार्थदर्शनं न भवेत् । अधिष्ठानापरोक्षज्ञानवता दृश्यमानं तत्रारोपितं न भवेदिति यावत् । अनेनान्वयो दर्शितः । यन्मिथ्या तस्य दर्शनमधिष्ठानापरोक्षदृशो न भवेदिति व्यतिरेको वा । क्वचिदित्यनेन तदुभय-नियमः । यद्यपि दृशिरेवापरोक्षज्ञाने वर्तते तथापि ‘पश्यार्थैश्चानालोचने’ इत्यादौ ज्ञानमात्रेऽपि दर्शनादपरोक्षेत्युक्तम् । अत एव ‘सर्वापरोक्षविद्विष्णुर्विश्वदृक्’ इति सामान्येन हेतोः पक्षधर्मतां दर्शयति ‘सर्वात्मनाऽपरोक्षतोऽधिष्ठानाभिमतं जानन् विष्णुर्विश्वं पश्यति’ इति । अपरोक्षतः शुक्तिकां पश्यन्नेव तदारोपितं रजतं पश्यतीति व्यभिचारपरिहाराय सर्वेत्युक्तम् ।
नन्वेवं सति दृष्टान्ते साधनाभावः प्राप्नोति । न हि लोके कोऽपि किमपि सर्वात्मना पश्यति । मैवम् । सर्वशब्देन व्यावर्तकाकारस्य विवक्षितत्वात् । व्याप्तिकथनेऽप्येतदनुसन्धेयम् ।
आप्तवाक्यादिना शुक्तिकां पश्यन्नपि रजतं पश्यतीति व्यभिचारनिरासायापरोक्षेत्युक्तम् । विष्णुरित्यसिद्धिपरिहाराय स्वरूपकथनम् । तत्तस्मात् तद्वियदादि मायामयत्वेन दुःखादि अविद्यामयत्वेन च मृषा न भवतीति साधनत्वाभिव्यक्तिपूर्वकं साध्यनिर्देशः ।
इयमत्र प्रयोगप्रक्रिया । विवादपदं नाऽरोपितं सर्वात्मनाऽधिष्ठानापरोक्षज्ञानवता दृश्यमान-त्वात् । यदेवं तदेवं यथा उक्तविधया स्तम्भविदा दृश्यमानो न कुम्भस्तत्राऽरोपितः । अथ वा यन्नैवं तन्नैवं यथा शुक्तिकाऽरोपितरजतमुक्तरीत्या शुक्तिदर्शिना न दृश्यते । अधिष्ठानज्ञानेऽपि भ्रमानुवृत्तौ बन्धनिरासाय ब्रह्मज्ञानान्वेेषणाऽयासवैयर्थ्यप्रसङ्गः ।
एतेनानुमानागमयोः प्रत्यक्षविरोधोपपादनेनैवानुमानविरोधोऽप्युक्तो भवति । उपन्यस्तानुमान-योरागमिकत्वेनातिबलवत्त्वात् । अनेनागमविरोधोऽपि सूचितः ।
श्रीविजयीन्द्रभिक्षु
उत्तरश्लोके ‘न मृषा’ इति साध्यनिर्देशस्य हेतोश्च मायिकत्वाविद्यकत्वोभयनिषेध-साधारण्यात् वियदादिमायिकत्वनिषेधमात्रपरत्वशङ्कावारणायावतारयति- एवमिति ।। क्वचिदपरोक्ष-ज्ञानवतोऽपि आरोपितवस्तुदर्शनस्याऽनुभविकत्वेन यथाश्रुतमयुक्तमित्याशङ्क्य व्याकुर्वन् व्याप्ति-स्वरूपं दर्शयति- अधिष्ठानेति ।। शुक्त्याद्यधिष्ठानापरोक्षज्ञानवताऽपि दृश्यमानस्य रजतस्य रङ्गादावारोपितत्वाद्व्यभिचार इत्यत उक्तम्- तत्रेति ।। यदधिष्ठानापरोक्षज्ञानवता यद्दृश्यते तत्तत्राऽरोपितं नेत्यर्थः । अधिष्ठानापरोक्षज्ञानवतेत्यनेनान्वये दर्शितेऽपि व्यभिचाराभावप्रदर्शनाय व्यतिरेकोपदर्शनमावश्यकमित्यभिप्रेत्याऽह- यन्मिथ्येति ।। ननूक्तरीत्या व्यतिरेकप्रदर्शनस्यैवो-भयार्थत्वसम्भवात् अन्वयप्रदर्शनपरत्वे मानाभाव इत्यत आह- क्वचिदिति ।। नियम इत्यस्यानन्तरं दर्शित इत्यनुषज्यते । तथा च व्यतिरेकप्रदर्शनस्योभयार्थत्वसम्भवेऽपि स्मृत्यैवोभयव्याप्तौ स्वतात्पर्यज्ञापनेनोभयपरत्वे मानाभावोऽसिद्ध इति भावः । यद्वा क्वचिच्छब्दरहितस्यैव पूर्वार्धस्य व्याप्तिप्रदर्शकत्वस्योक्तत्वात् क्वचिच्छब्दवैयर्थ्यमित्याशङ्क्याऽह- क्वचिदिति ।। तथा च पूर्वं सहचारमात्रं प्रदर्शितम् । अनेन तु नियमांशः प्रदर्श्यत इति न वैयर्थ्यम् । एतच्च स्वकृत-व्याख्यानद्वयाभिप्रायेण । क्वचिच्छब्दस्तु नियमांशमात्रपर इत्यवधेयम् ।
श्लोके अपरोक्षपदस्य गतार्थस्य शङ्कते- यद्यपीति ।। यद्यपि बहुव्रीहिलाभार्थं पदान्तरमपेक्षितं तथाऽपि दृक्पदस्थाने ज्ञानपदमेव प्रयोक्तुमुचितम् । बहुव्रीह्यभावेऽपि पश्यतीति दृगिति व्युत्पत्त्या अपरोक्षज्ञानवतो लाभादपरोक्षपदस्याऽनर्थक्यमेवेति भावः । दृशेर्ज्ञानमात्रेऽप्यभियुक्तप्रयोगादप-रोक्षपदं तद्विशेषलाभार्थत्वान्न व्यर्थमिति परिहरति- तथाऽपीति ।। अत एवेति ।। यत एव दृशेर्ज्ञानसामान्यमप्यर्थः अत एवेत्यर्थः ।
ननु ‘सर्वापरोक्षविद्विष्णुर्विश्वदृक्’ इत्येतन्न पक्षधर्मतोपपादकम् । व्यावर्तकधर्मवत्तयाऽ-धिष्ठानापरोक्षज्ञानवता दृश्यमानत्वादिति करिष्यमाणहेतोरप्रतीतेरित्यत आह- सामान्येनेति ।। व्यावर्तकधर्मवत्त्वाकारेणाप्रतिपादनेऽपि सामान्यधर्माकारेण प्रतिपादनान्नोक्तदोष इति भावः । सर्वात्मनेति ।। अशेषविशेषाकारेणेत्यर्थः । उक्तमिति ।। इदन्त्वेन शुक्तिकां पश्यन्नपि न शुक्तित्वाद्याकारेण पश्यतीति विवक्षितहेत्वभावान्न व्यभिचार इति भावः । न हीति ।। स्तम्भत्वादि-योग्यधर्मवत्तया लोके कस्यचिदपरोक्षज्ञानसम्भवेऽपि गुरुत्वाद्ययोग्यधर्मवत्तया तदसम्भवादिति भावः। लोके कोऽपीत्यनेनोभयवादिसम्प्रतिपन्नो जनो विवक्षित इति न काऽप्यनुपपत्तिरिति ध्येयम् । व्यावर्तकेति ।। यद्यपि शुक्ती रजतञ्चेति समुच्चयभ्रमव्यावर्तकशुक्तित्वाकारवत्तया तदपरोक्षज्ञान-वताऽपि दृश्यते तथाऽपि यस्य धर्मस्य येन रूपेण ज्ञाने इतरव्यावृत्तिर्बुद्ध्यते तेन रूपेण तद्वत्तया अधिष्ठानापरोक्षज्ञानवत्त्वं विवक्षितमिति नोक्तदोषः ।
नन्वधिष्ठानापरोक्षज्ञानवतेत्यनेनाविशिष्टस्य हेतोर्व्याप्तिः प्रदर्शिता । अत एवेत्यादिना तु विशिष्टस्य पक्षधर्मता प्रदर्श्यते । एवञ्च वैयधिकरण्यमित्यत आह- व्याप्तिकथनेऽपीति ।। एतत् व्यावर्तकाकारवत्तयेति विशेषणम् । पश्यन्नपि जानन्नपीत्यर्थः । ननु व्यावर्तकधर्मवत्तयाऽ-धिष्ठानापरोक्षज्ञानवता दृश्यमानत्वं वियदादावसिद्धम् । तस्यास्मदाद्ययोग्यत्वादिति शङ्कोत्तरत्वेन विष्णुपदमवतारयति- विष्णुरितीति ।। विष्णोश्च ‘तुरीयं तत्सर्वदृक्सदा’ (मां. १.२.४) इत्यादिश्रुत्या सर्वापरोक्षज्ञानवत्त्वावेदनान्नासिद्धिरिति भावः । स्वरूपकथनमिति ।। वियदादौ विष्णुप्रत्यक्षविषयत्वमादायैव हेतूपपादनमिति वस्तुस्थितिकथनमित्यर्थः । स्मृतावाद्यं तत्पदं व्याचष्टे- तदिति ।। द्वितीयं तत्पदं व्याचष्टे- वियदादीति ।। वियदादि दुःखादि च मायिकत्वेनाऽविद्यकत्वेन मृषेति यदुक्तं तन्नेत्यर्थः ।
ननु श्लोकेऽधिष्ठानापरोक्षज्ञानवता दृश्यमानत्वस्य पञ्चम्यन्तेन तृतीयान्तेन वा निर्देशाभावात्तस्य हेतुत्वे प्रमाणमेव नास्तीत्याशङ्क्य सर्वनामप्रतिरूपकमव्ययरूपं तत्पदं व्याचष्टे- तदिति ।। साध्यनिर्देश इति ।। कृत इति शेषः । हेतोरप्रयोजकत्वशङ्कानिरासाय विपक्षे बाधकमाह- अधिष्ठानज्ञानेऽपीति ।। व्यावर्तकधर्मवत्तयाऽधिष्ठानापरोक्षज्ञानेऽपीत्यर्थः । बन्धनिरासायेति ।। कर्तृत्वभोक्तृत्वाद्यध्यासस्यैव परेण बन्धरूपत्वाङ्गीकारादिति भावः । एतेनेत्यस्यैव विवरणं प्रत्यक्षविरोधोपपादनेनैवेति । अनुमानेति ।। दृश्यत्वाद्यनुमानस्य ‘नान्योऽतोऽस्ति दृष्टा’ ‘वाचारम्भणम्’ इत्याद्यागमस्येत्यर्थः । अनुमानविरोधोऽपीति ।। ‘न च मायाविना माया’ इत्यादि-पुराणवाक्यप्राप्तानुमानविरोधोऽपीत्यर्थः । प्रबलप्रत्यक्षमूलत्वेनोक्तानुमानयोः प्राबल्यादिति भावः । किञ्चाऽगमोपनिबद्धत्वादप्यस्मदुक्तानुमानयोरतिबलवत्त्वेन बाधकत्वमित्याह- उपन्यस्तेति ।। अनेनेति ।। आगमोपनिबद्धानुमानबाध्यत्ववर्णनेनेत्यर्थः । उपन्यस्तस्मृत्योरागमतयाऽपि प्रामाण्य-सम्भवादिति भावः । यद्यप्युदाहृतस्मृत्योर्न्यायनिबन्धनरूपतया न्यायांश एवाऽगमतया प्रामाण्यं न त्वनुमेयविषयतयेति तथाऽपि प्रतिवादिवाक्यस्याऽगमतयाऽपि प्रामाण्यं सम्भवतीत्यभिप्रायः ।
श्रीवेदेशतीर्थ
दृशेः साक्षात्कारार्थत्वादापरोक्ष्येण पश्यता इत्यनुपपन्नम् । तत्राऽरोपितमिथ्यादर्शनं न भवेदित्येतत् न तन्मृषेति निगमनसूचितवक्ष्यमाणप्रमेयाननुगुणं चेत्यत आह- अधिष्ठानापरोक्ष-ज्ञानवतेति ।। अत्र यत्किञ्चिदपरोक्षज्ञानवता दृश्यमाने शुक्तिरजते व्यभिचारवारणायाधिष्ठाने-त्यध्याहृतम् । शुक्तिलक्षणाऽधिष्ठानापरोक्षज्ञानवता दृश्यमाने रङ्गारोपितरजते व्यभिचारवारणाय तत्रेत्युक्तम् । यत्राधिष्ठाने अपरोक्षज्ञानं तत्रेत्यर्थः । अपरोक्षज्ञाने वर्तत इति ।। तथा चापरोक्षपदं मूले गतार्थमिति भावः । ज्ञानमात्रेऽपीति ।। पश्यार्थैरित्यस्य ज्ञानार्थैरिति वृत्तिकारादिभिर्व्याख्यात-त्वादित्यर्थः । दर्शनात् प्रयोगदर्शनादित्यर्थः । अत एवेति ।। यतो दृशिर्ज्ञानसामान्यार्थकोऽत एवेत्यर्थः । सामान्येनेति ।। विदिति ज्ञानसामान्यस्यैवोदितत्वात् । अन्यथा सर्वापरोक्षदृगिति वक्तव्यम् । न ह्येकस्य व्याप्तिरन्यस्य पक्षधर्मता वक्तुं युक्तेति भावः । एतत् सर्वात्मनेत्येतत् । अन्यथा व्याप्तेर्न्यूनता स्यादिति भावः । आप्तवाक्यादिनेति ।। अपरोक्षभ्रमस्य परोक्षदर्शनानिवर्त्यत्वादिति भावः । असिद्धिपरिहारायेति ।। अस्मदादिषु सर्वात्मना जगदधिष्ठानापरोक्षज्ञानाभावात्पक्षहेत्वो-रसिद्धिरित्याशङ्कायां विष्णुज्ञानमादाय हेतूपपादनार्थं विष्णुग्रहणं कृतम् । न हेतुशरीरप्रविष्टतयेति भावः । उक्तविधयेति ।। सर्वात्मनेत्याद्युक्तविधया । एवमुक्तरीत्येत्यपि व्याख्यातव्यम् ।
अप्रयोजकत्वशङ्कापरिहाराय विपक्षे बाधकतर्कमाह- अधिष्ठानज्ञानेऽपीति ।। उक्तविधयाऽ-धिष्ठानज्ञानेऽपीत्यर्थः । अनुमानागमयोरिति ।। विश्वमिथ्यात्वभेदाभावानुमानागमयोरित्यर्थः ।
श्रीराघवेन्द्रतीर्थ
अनुमानमित्यनन्तरं व्याप्तिपक्षधर्मतोपपादनायासनिरासाय पुराणवाक्येनेति योज्यम् । व्याप्तिप्रदर्शके पूर्वार्धे किं विषयापरोक्षेणेत्याकाङ्क्षायामाह- अधिष्ठानेति ।। यद्वा भूतलाद्यपरोक्ष-दृशोऽपि शुक्तिरूप्यादिमिथ्यार्थदर्शनात्तत्राव्यभिचाराय व्याप्तिशरीरं व्यनक्ति - अधिष्ठानेत्यादि ।। तन्न तन्मृषेति निगमनम् । अवैयधिकरण्यायाऽह - इति यावदिति ।। अनेनेति ।। एवमुक्तार्थकेन पूर्वार्धेनेत्यर्थः । यत्तच्छब्दयोगे सति तस्य व्यञ्जनादिति भावः । अत्र सर्वात्मनेति विशेषणप्रक्षेपोऽग्रे व्यक्तः ।
पूर्वं मिथ्यादर्शनमित्येकं पदमुपेत्य वक्ष्यमाणहेतोरव्यभिचारव्यक्त्यर्थं यच्छब्दाध्याहारेण योजनान्तरमाह- यन्मिथ्येति ।। यन्मिथ्या तदधिष्ठानापरोक्षदृशा न दृश्यत इति ध्येयम् । अत्रापि सर्वात्मनेति विशेषणमग्रे स्पष्टीभविष्यति । साक्षादनुमित्युपयोगितया त्वपरयोजनेति भावः । तदुभयेति ।। अन्वयव्यतिरेकयोः नियमोऽव्यभिचारसहचारयोरित्यर्थः । दर्शित इति पदं व्यतिरेको वेत्यत्र चानुषज्यते । दृशिरेवेति ।। पूर्वप्रमाणे तथोक्तेरिति भावः । पश्यार्थैरिति ।। अचाक्षुषज्ञाने वर्तमानैः पश्यार्थकैर्धातुभिरित्युक्त्या दृशिधातोर्ज्ञानमात्रेऽपि प्रयोगदर्शनादित्यर्थः। अत एवेति ।। यतो ज्ञानमात्रार्थत्वमपरोक्षज्ञानार्थत्वं चास्ति दृशिधातोरतः प्रथमार्थमुपेत्यापरोक्षविदिति दृक्पदं विना द्वितीयार्थमभिप्रेत्य विश्वदृगित्यपरोक्षविशेषणं विना सामान्येन सर्वापरोक्षविद्दृश्यमानत्व-हेतोः पक्षधर्मतोक्ता । तथा च प्रागप्यपरोक्षज्ञानमात्रमपरोक्षदृक्पदेनाभिमतं दर्शनमित्यनेन चाप-रोक्षदृशिरिति भावः । इति सामान्येन हेतोः पक्षधर्मतां दर्शयतीत्युक्तं व्यनक्ति- सर्वात्मनेति ।। पश्यतीति ।। अपरोक्षतो जानातीत्यर्थः । शुक्तिकां पश्यन्निति ।। इदन्ताकारेणेति भावः । व्यभिचारेणेति वक्ष्यमाणहेतोरिति योज्यम् ।
अव्यभिचाराय सर्वेत्युक्तावन्यद्बाधकमाप्तमित्याशंक्य तस्य विवक्षितमर्थमाह- नन्वेवमिति ।। व्याप्तिकथनेऽपीति ।। अधिष्ठानापरोक्षज्ञानवता दृश्यमानं तत्राऽरोपितं न भवेदित्यादावपि व्यावर्तकशुक्तित्वादिधर्मप्रकारकतयाऽधिष्ठानापरोक्षज्ञानवतेति ग्राह्यमित्यर्थः । शुक्तिकां पश्य-न्निति ।। शुक्तिकां जानन्नित्यर्थः । असिद्धीति ।। व्यावर्तकधर्मप्रकारकतयाऽधिष्ठानापरोक्षवता दृश्यमानत्वं जगति नास्ति । तादृशपुरुषस्याभावादित्यतो विष्णुरित्युक्तम् । व्याप्तिशरीरे प्रवेशे कृत्याभावात् स्वरूपकथनमित्युक्तम् । सर्वात्मनेति ।। व्यावर्तकाकारवत्तयेत्यर्थः । ईश्वरश्च सर्वज्ञत्वाद्विश्वाधिष्ठानमशेषव्यावर्तकवत्तया पश्यन्नेव विश्वं पश्यतीति भावः । उक्तरीत्या शुक्तिदर्शिनेति ।। व्यावर्तकवत्तया शुक्त्यपरोक्षज्ञानवतेत्यर्थः ।
हेतोरप्रयोजकतानिरासाय विपक्षे बाधकतर्कमाह- अधिष्ठानज्ञानेऽपीति ।। बन्धनिरासायेति ।। परमते बन्धस्य ब्रह्मण्यध्यस्तत्वादधिष्ठानब्रह्मज्ञानेन च निवर्त्यत्वात्तज्ज्ञानाय श्रवणमननाद्यायास-वैयर्थ्यप्रसङ्ग इत्यर्थः । एतेनेति ।। वचनद्वयोदाहरणेन विश्वमीश्वरः सदा पश्यतीति सर्वापरोक्ष-विद्विष्णुर्विश्वदृगिति चाधिष्ठानाभिमतापरोक्षज्ञानवद्दृष्टत्वोक्त्या मिथ्यात्वानुमानागमयोः प्रागुक्तयोः प्रत्यक्षविरोधोपपादनेनोक्तरीत्याऽनुमानविरोध उक्तो भवतीत्यर्थः । एतेनात्र वचनद्वये प्रत्यक्षविरोध एव व्यक्तं प्रतिभातीति परास्तम् । उक्तदिशा त्र्यवयवरूपानुमानमुद्राया अपि प्रतीतेः ।
केचित्त्वनुमानविरोधोपपादनेन प्रत्यक्षविरोधोऽप्युक्तो भवतीति व्यत्यासेन वाक्ययोजना स्वरसेति व्याचक्षते । अनुमानोक्तिपरतयैव प्राक् स्पष्टं योजितत्वादिति । विरोधपदेन बाधोऽत्राभिमत इति भावेनाऽह- उपन्यस्तेति ।। वचनद्वय इति योज्यम् । अनेन स्मृतिद्वयकथनेनेत्यर्थः । तस्य अनुमानरूपप्रमाणस्य । साधारणमिति ।। अम्बराद्यमायामयत्वदुःखाद्यनाविद्यक-त्वोभयसाधारणमित्यर्थः । नञो व्यत्यासेनान्वयमङ्गीकृत्याह- यन्मिथ्येति ।। ज्ञानमात्रेऽपीति ।। दृशेर्धातोः प्रयोगदर्शनादिति शेषः । ननु पश्यार्थैर्ज्ञानार्थैरिति व्याख्यानेन पश्यधातोरेव ज्ञानमात्रे प्रयोगः प्राप्तो न दृशिधातोरिति चेत् । सत्यम् । ‘पाघ्राध्मेत्यादि’सूत्रेण दृशेर्धातोः पश्यादेशविधा-नात् । तथा च पश्यतीत्यस्य दृशिर् प्रेक्षण इत्येव धातुव्याख्यानं कार्यमिति द्रष्टव्यम् । अपरोक्षत इति ।। इदंत्वादिसाधारणाकारेणेत्यर्थः । ‘सर्वेत्युक्तं’ सर्वात्मनेत्युक्तम् । न हीति ।। पल-परिमाणप्रयोजनवत्त्वादिरूपेण सर्वात्मना स्तम्भसाक्षात्काराङ्गीकारे सार्वज्ञ्यं स्यात् । ‘एकं च तत्त्वतो ज्ञातुं विना सर्वज्ञता नरः । न समर्थो महेन्द्रोऽपि’ इति वचनादिति भावः । पश्यन् परोक्षतो जानन् । विवादपदम् अम्बरादिकं दुःखादिकं च । अप्रयोजकतां परिहरति - अधिष्ठानज्ञानेऽ-पीति ।। अधिष्ठानापरोक्षज्ञानवता दृश्यमानस्याप्यारोपितत्वे सर्वात्मना अधिष्ठानापरोक्षज्ञान-वतोऽपि आरोपितदर्शनाङ्गीकार इति यावत् । तत्तात्पर्यं भ्रमानुवृत्ताविति । ब्रह्मेति ।। तस्यैव जगदारोपाधिष्ठानत्वादिति भावः । प्रत्यक्षेति ।। मिथ्यात्वभेदाभावानुमानवाचारंभणाद्यागम-योरीश्वरप्रत्यक्षविरोधोपपादनेनैवेत्यर्थः । ननु अम्बरादिकं नेश्वरमायाजन्यं विवादपदं नारोपित-मित्यनुमानयोः कथमस्मदनुमानागमबाधकत्वम् अपौरुषेयत्वेन तदनुगृहीतत्वेन चास्मदीयानु-मानागमयोः प्रबलत्वादिति चेत्तत्राह । उपन्यस्तेति ।।
गुरुराजीया
अत्र यत्किञ्चिदपरोक्षज्ञानवता दृश्यमाने शुक्तिरजते व्यभिचारवारणायापेक्षित-मध्याहरति- अधिष्ठानेति ।। शुक्तिकालक्षणाधिष्ठानापरोक्षज्ञानवता दृश्यमाने रङ्गारोपितरजते व्यभिचारवारणाय तत्रेत्युक्तम् । यदधिष्ठानापरोक्षज्ञानं तत्रेत्यर्थः । आपरोक्ष्ये वर्तत इति ।। तथा च मूलेऽपरोक्षपदं व्यर्थमिति भावः । पश्यार्थैरित्यादि ।। ‘दर्शनं पश्यः । पाघ्राध्मेति पश्यादेशः। अस्मादेव निपातनाद्भावे शप्रत्ययः । पश्यः अर्थो येषां ते पश्यार्थाः । यदि तु पश्यतीति पश्य इति ‘पाघ्राध्माधेट्दृशः शः’१ इति कर्तरि शः क्रियते तदा द्रष्ट्रर्थैरित्यर्थः स्यात् । ततश्च आलोचनपर्युदासोऽनर्थकः स्यात् । न ह्यालोचनार्था द्रष्ट्रर्था भवन्ति । आलोचनं चाक्षुषं ज्ञानम् । तस्य पर्युदस्तत्वाद्दृशिरिह ज्ञानमात्रे वर्तते’ इत्याकरे स्थितत्वादिति भावः । ‘पश्यार्थैः’ अस्मादेव निपातनाद्भावे शः । दर्शनं पश्यः । तच्चेह ज्ञानमात्रम् । ‘अदर्शनं लोपः’२ इत्यत्र यथा । न तु चाक्षुषज्ञानमेव । अनालोचन इति निषेधात्’ इति । यदि पश्यार्थत्वं नाम चाक्षुषज्ञानार्थत्वमेव स्यात् तर्हि अनालोचन इति विरुद्ध्येत । चाक्षुषज्ञानस्यैवाऽलोचनशब्दार्थत्वेन पर्युदासानुपपत्तेः । अतो ज्ञानमात्रमत्र दृशेरर्थ इति स्थितम् । अत एवेति ।। यतोऽत्र दृशिः ज्ञानसामान्यार्थकोऽत एवेत्यर्थः । सामान्येनेति ।। विदिति ज्ञानसामान्यस्यैवोदितत्वात् । अन्यथा सर्वापरोक्षदृग्विष्णुरिति ब्रूयात् । न ह्येकस्य व्याप्तिरन्यस्य पक्षधर्मतेति युज्यत इति भावः । एतदिति ।। सर्वात्मनेत्येतदि-त्यर्थः । अन्यथा न्यूनत्वप्रसङ्गादिति भावः । आप्तवाक्यादिनेति ।। अपरोक्षभ्रमस्य परोक्षविशेष-दर्शनानिवर्त्यत्वादिति भावः । हेतुगतविशेषणानां व्यभिचारवारकत्वनियममभ्युपेत्याऽह- स्वरूप-कथनमिति ।। अप्रयोजकत्वपरिहाराय विपक्षे बाधकं तर्कमाह- अधिष्ठानज्ञानेऽपीति ।। व्यावर्तकाकारेण अधिष्ठानज्ञानेऽपीत्यर्थः । वैयर्थ्येति ।। ब्रह्मज्ञानेऽपि तदनुवृत्त्या तदनिवृत्तेरिति भावः । एतेनेत्यस्यैव व्याख्यानम् अनुमानागमयोः प्रत्यक्षविरोधोपपादनेनैवेति । विश्वमिथ्यात्व-भेदाभावानुमानागमयोः प्रत्यक्षविरोधोपपादनेनैवेत्यर्थः । अनुमानविरोध इति ।। ‘न च मायाविना माया’ इति ‘अपरोक्षदृशा’ इति च वाक्यद्वयोक्तानुमानद्वयबाध उक्तो भवतीत्यर्थः ।
ननु चोक्तानुमानद्वयस्य मिथ्यात्वाद्यनुमानापेक्षयाऽधिकबलवत्त्वाभावान्न तदनुमानबाधक-त्वम् । अन्यथा तदनुमानाभ्यामेवैतदनुमानद्वयबाधप्रसङ्गादित्यत आह- उपन्यस्तानुमानयोरिति ।। अम्बरादिकं नेश्वरमायाजन्यं तेन दृश्यमानत्वात्, दुःखादिकं नाऽविद्यकं अधिष्ठानापरोक्षज्ञानवता दृश्यमानत्वादित्युपन्यस्तानुमानयोः ‘न च मायाविना माया’ इति ‘अपरोक्षदृशा’ इत्याद्या-गमोक्तत्वेन१ मिथ्यात्वाद्यनुमानापेक्षयाऽधिकबलवत्त्वेनाविशेषासिद्धेर्न वैपरीत्यप्रसङ्ग इति भावः । अनेनेति ।। विश्वमिथ्यात्वभेदाभावानुमानागमयोः प्रत्यक्षविरोधोपपादकग्रन्थेनैवेत्यर्थः । आगमविरोधेऽपीति ।। ‘न च मायाविना’ इत्याद्यागमविरोधोऽपीत्यर्थः ।
गोविन्दीया
तस्येति ।। प्रमाणस्येत्यर्थः । अधिष्ठानेति ।। अधिष्ठानापरोक्षज्ञानवता दृश्यमान-मधिष्ठानम् । न तु तद्वस्तु तत्राधिष्ठाने आरोपितं न भवेत् स्वस्मिन्नारोपितत्वाभावादित्यर्थः । तदुभयेति ।। नियमेनोभयव्याप्तिर्दर्शितेत्यर्थः । पश्यार्थैरिति ।। अनालोचनेऽर्थेऽपरोक्षज्ञानादन्येऽर्थे प्रवृत्तेः, दृशिधातुः तदर्थधातुभिश्चेत्यादौ स्थले ज्ञानमात्रेऽपि दृशेः प्रयोगदर्शनादपरोक्षेत्युक्तमि-त्यर्थः । अत एवेति ।। सर्वापरोक्षविदित्यत्रापि विदधातोरपि ज्ञानमात्रे प्रयोगदर्शनादपरोक्षपदस्य सार्थक्यमित्यर्थः । सामान्येनेति ।। सामान्यत इत्यर्थः । सर्वात्मनेति ।। सर्वप्रकारेणाशेषविशेषेणेति यावत् । एवं सतीति ।। सर्वशब्दस्य सर्वात्मनेत्यर्थे सत्यपरोक्षतोऽधिष्ठानरूपस्तम्भविदा दृश्यमाने स्तम्भाख्यदृष्टान्ते सर्वात्मना दृश्यमानत्वाभावात् साधनाभाव इत्यर्थः । व्यावर्तकेति ।। अन्य-व्यावर्तकत्वाकारमात्रस्य न तु सर्वाकारस्येत्यर्थः । एतदिति ।। व्यावर्तकत्वाकारमित्यर्थः । विष्णु-रिति ।। सर्वात्मनाऽधिष्ठानापरोक्षज्ञानवान् पुरुष एव नास्ति । तेन दृश्यमानत्वं दूरापास्तमिति हेतोरसिद्धिः, तत्परिहाराय विष्णुरित्यर्थः । तस्मादिति ।। साधनवत्त्वादित्यर्थः । उक्तविधयेति ।। सर्वात्मनाऽपरोक्षतोऽधिष्ठानत्वेनेत्यर्थः । उक्तरीत्येति ।। सर्वात्मनाऽपरोक्षतोऽधिष्ठानत्वेनेत्यर्थः । अधिष्ठानज्ञानेऽपीति ।। भ्रमानुवृत्तौ कदापि भ्रमपरिहाराभावात् तस्य संसारबन्धरूपत्वेन तन्निरास-वैयर्थ्यप्रसङ्ग इत्यर्थः । एतेनेति ।। अनुमानद्वयेन परोदितजगन्मिथ्यात्वानुमानागमयोः प्रत्यक्ष-विरोधोपपादनात् तयोः प्रत्यक्षविरोधवद् उक्तानुमानद्वयविरोधोऽप्युक्तो भवति । उपन्यस्तानुमान-द्वयेनागमिकत्वेनातिबलवत्त्वादित्यर्थः । अनेनेति ।। तयोरनुमानयोरागममूलत्वेनेत्यर्थः ।
नारोपन्तीया
पश्यार्थैश्चानालोचन इति । यदि तत्र पश्यार्थत्वं नाम चाक्षुषज्ञानार्थत्वमेव स्यात् तर्हि अनालोचन इति विरुध्येत । चाक्षुषज्ञानस्यैवानालोचनशब्दार्थत्वेन पर्युदासानुपपत्तेः । अतो ज्ञानमात्रमत्र दृशेरर्थ इति स्थितम् । अत एवोदाहरणमपि ‘भक्तस्तव रूपं ध्यायति’ इति । विष्णुरित्यसिद्धिपरिहारार्थमिति ।। वेवेष्टीति विष्णुः । सर्वव्यापके तस्मिन्भगवति अस्मदादा-वविद्यमानमपि सर्वार्थदर्शित्वं युक्तमेवेति भावः ।
जनार्दनभट्टीया
‘अपरोक्षदृशो मिथ्या’ इत्युत्तरश्लोकस्य ‘न च माया’ इति पूर्वमूलार्थोपपादनपरत्वप्रतीतेः उपक्रान्तदुःखाद्यनाविद्यकत्वे प्रमाणानुक्तिदोषं परिहरन् ‘अपरोक्षदृश’ इति मूलमवतारयति – एवमित्यादिना ।। न स्यादितिवत् न क्वचिद् भवेद् इत्यस्य तर्कपरत्वप्रतीतिं वारयति – पूर्वार्धेनेति ।। घटमपरोक्षेण पश्यताऽपि शुक्तौ रजतारोपदर्शनादाह – अधिष्ठानमिति ।। शुक्तिपदात् शुक्तिपरोक्षज्ञानवतोऽपि शुक्तौ रजतारोपदर्शनादाह – अपरोक्षेणेति ।। शुक्तिं इदन्त्वाकारेण अध्यक्षीकुर्वतोऽपि रजताकारदर्शनेन व्यभिचारवारणाय- सर्वेति ।। व्यावर्तकाकारेणेति शेषः । यद् वक्ष्यति व्याप्तिकथनेऽपि एतदनुसन्धेयमिति । दृशिरेवेति ।। ‘दृशिर् प्रेक्षणे’ इति धातुव्याख्यानादिति भावः । ज्ञानमात्रेऽपीति ।। ‘त्वामौ द्वितीयाया’१ इति सूत्रेण ‘श्रीशस्त्वाऽवतु, मापीह’ इतिवत्, ‘चेतसा त्वामीक्षते’ इति भवितव्यमिति प्राप्ते, तदपवादत्वेन ‘पश्यार्थैश्चानालोचने’२ इति सूत्रं प्रवृत्तम् । पश्यतेश्च दृश्यादेशत्वात् तत्समानार्थत्वम् । अस्य च सूत्रस्य ‘अचाक्षुषज्ञानार्थैः धातुभिः योगे त्वा मा इत्यादेशा न स्युः’ इति वृत्तिकृता व्याख्यातत्वात् अचाक्षुषज्ञानमात्रेऽपि दृशिरस्तीति भावः । अत्र च ‘अनालोचने’ इत्यस्य अचाक्षुषेति प्रतिपदम् । ‘पश्यार्थैः’ इत्यस्य ‘ज्ञानार्थैः’ इति । यदि अत्र पश्यादेशस्थानीभूतो दृशिः ज्ञानसामान्यवाची न स्यात् तर्हि ‘अचाक्षुषज्ञानार्थैः’ इति वृत्तौ ज्ञानार्थैरित्यनेन व्याख्येयस्य पदस्य सूत्रे अभावेन वृत्तेरनुसूत्रत्वं न स्यात् । अतः अन्यत्र अपरोक्षज्ञानवाच्यपि दृश्यादेशः अत्र ज्ञानमात्रवाचीति ज्ञायत इति भावः ।
विष्णुरित्यसिद्धीति ।। ‘विषलृ व्याप्तौ’ इति धातुव्याख्यानाद् गुणतोऽपरिच्छेदे लब्धे ज्ञानलक्षणगुणस्य सर्वविषयत्वरूप-अपरिच्छेदो लभ्यते । एवञ्च सर्वात्मना अधिष्ठानापरोक्षज्ञानवता दृश्यमानत्वहेतोरसिद्धिपरिहारो विष्णुशब्देन सूचित इति भावः । ‘विश्वदृक् तन्न तन्मृषा’ इत्यत्र तत्पदद्वयस्य पौनरुक्त्यमाशङ्क्याऽह – तत् तस्मादिति ।। द्वितीयतच्छब्दार्थमाह – वियदादीति ।। साधनत्वाभिव्यक्तिपूर्वकमिति ।। उपनयपूर्वकमित्यर्थः । खण्डशो व्याख्यानेन प्रतिज्ञादेः विक्षेपात् तत्प्रदर्शनपूर्वकं विपक्षे बाधकतर्कं वक्तुमाह – इयमत्रेति ।। विपक्षे बाधकतर्कमाह – अधिष्ठानेति ।। अनुमानागमयोरिति ।। विवादपदं मिथ्या दृश्यत्वादिभ्यः । ‘विमता आत्मानः परमात्मना तत्वतो न भिद्यन्त आत्मत्वात् परमात्मवत्’– इत्यनुमानद्वयस्य, ‘वाचारम्भणम्’ इत्याद्यागमस्य चेत्यर्थः ।
ननु ‘न च मायाविना’ इत्याद्युक्तानुमानद्वयस्यापि अनुमानत्वाविशेषात् कथं मिथ्यात्वाद्यनु-मानबाधकत्वम्? इत्यत आह – उपन्यस्तेति ।। ‘न च मायाविना’ इत्यादिना उपन्यस्तयोरनु-मानागमयोरित्यर्थः । आगमिकत्वेनेति ।। ‘विश्वं सत्यम्’ इत्यादिनिरवकाशागममूलत्वेनेत्यर्थः । ‘विश्वं सत्यम्’ इत्यादि श्रुतिरेव मिथ्यात्वाद्यनुमानागमपराकरणाय अलम् । किमुत तत्सहकृतानुमानद्वयमिति भावः ।
अत एव तथैवाऽह – अनेनेति ।।