एकजीववादपक्षे ..
एकजीववादनिरासेन तत्र मुक्तत्वानुमानस्य विपक्षे बाधकाभावशङ्कानिरासः
श्रीमज्जयतीर्थटीका
यदुक्तं मुक्तामुक्तयोरित्यादि तदनुपपन्नं ब्रह्मैव ह्यविद्यावशाज्जीवभावमापन्नं सर्वक्षेत्रेषु संसरति न तु प्रतिक्षेत्रं क्षेत्रज्ञभेदोऽस्ति । तदेवोत्पन्नायां विद्यायां यदा मुच्यते न तदा किञ्चिदव-शिष्यते । शुकवामदेवादिमुक्तिवादास्त्वर्थवादा एव । अतो येषां तत्त्वतः कल्पनया वा बहवो जीवा ईश्वरश्चैकः तत्र यस्याविद्या निवृत्ता स मुच्यते अन्ये संसरन्तीति मतम् । तेषामेवोक्तोऽ-तिप्रसङ्गः सङ्गच्छते । न त्वेकजीववादिनाम् । तेषां मुक्त्यवस्थायां संसारिणोऽभावात् संसाराव-स्थायां मुक्तस्याभावात् । तथा चैकजीववादिनं प्रति विपक्षे बाधकाभावादप्रयोजको मुक्तत्व-हेतुरित्यत आह-
मूल
एकजीववादपक्षे तन्निष्ठानां मृत्यनन्तरमपि
विश्वस्यानिवृत्तत्वाद्भेदनिष्ठ एवैकजीव इत्यापतति ।
ये तु सर्वक्षेत्रेष्वेक एव जीवस्तदज्ञानवशादेव विश्वप्रतिभासो ज्ञानात्तन्मोक्षे सति न किञ्चिदवशिष्यत इति मन्यन्ते तत्पक्षे तावत्स एको जीवः साम्प्रतं भेदनिष्ठ एव वर्तत इत्यङ्गीकार्यं प्राप्नोति । कुतः? यद्यद्वैतनिष्ठोऽसौ स्यात्तदा तथात्वेन परप्रसिद्धः कश्चित् पुरुषः स्यात् । न चासौ तथा । तथात्वे तन्मृत्यनन्तरं विश्वनिवृत्तिः स्यात् । न चैवम् । अतोऽसौ नैको जीवोऽद्वैतनिष्ठः किं नाम भेदनिष्ठ इति स्वीकर्तव्यम् ? ततः किमित्यत आह-
मूल
तस्य च तत्रैवाग्रहान्न कदाचिद्भेदनिवृत्तिरित्यनिवृत्तिरेव भवति ।
इतिशब्दो हेतौ । अनिवृत्तिः संसारस्येति शेषः । यदि चैको जीवः साम्प्रतं भेदनिष्ठः स्यात् तदा तस्य कालान्तरेऽपि तत्संस्कारेण भेद एवाऽग्रहो वर्धेत न त्वद्वैतसाक्षात्कारः कदाचित् । तथा च निवर्तकाभावान्न कदाचिदपि भेदनिवृत्तिः स्यात् । ततश्च दुःखादिसंसारस्यानिवृत्तिरेव स्यात् । भेदे सति दुःखादिसद्भावनियमाङ्गीकारात् । प्रागनिवृत्ता एव कामक्रोधादयो निवर्तमाना दृष्टाः । तथा भेदप्रत्ययोऽपि निवर्तत इति चेन्न । अनुमानपक्षे प्रागुक्तदोषदूषितत्वात् । सम्भावनापक्षे प्रमाणस्य वक्तव्यत्वात् । मोक्षश्रुतिः प्रमाणमिति चेन्न । शुकवामदेवादिमुक्तिवादवदर्थवादत्वस्यापि सम्भवात् ।
श्रीविजयीन्द्रभिक्षु
ननु तथाऽपि मुक्तत्वहेतुरप्रयोजकः । विपक्षे बाधकाभावात् । न च मुक्तामुक्तयोर्भेदाभावे मुक्तस्य संसारः संसारिणो वा मुक्तत्वं स्यादिति बाधकमुक्तमिति वाच्यम् । तस्य बहुजीववादे प्रसारसम्भवेऽपि एकजीववादे मुक्तामुक्तव्यवस्थित्यभावेनासम्भवादित्येकजीववादी शङ्कते- यदुक्तमिति ।।
ननु शुको मुक्तो वामदेवो मुक्त इति श्रुत्यादौ शुकादीनां मुक्तत्वप्रतीतेस्तस्य चैकजीववादेऽ-सम्भवाद्बहुजीववाद एवाङ्गीकार्य इत्यत आह- शुकेति ।। ‘अनेन जीवेनाऽत्मनाऽनुप्रविश्य’ इति अद्वितीयब्रह्मण एव जीवभावेनानुप्रवेशश्रवणात्तद्विरोधेन शुकादिमुक्तिवादानां स्वार्थपरत्वं त्यक्तव्यमिति भावः । तत्त्वत इति ।। तत्त्वत इति भास्करमते । कल्पनया वेति मायावादिमते । शङ्कोत्तरत्वेनावतारयति । अत आहेति ।। तन्निष्ठानां मृत्यनन्तरं विश्वस्यानिवृत्तत्वादित्युक्तम् । ‘औतनिष्ठानां तत्वज्ञानित्वावश्यम्भावेन अज्ञानतत्कार्यनिवृत्त्यवश्यम्भावेन तन्निवृत्त्यनन्तरं प्रपञ्चस्यानिवृत्त्ययोगात्’ इति तद्व्याचष्टे- ये तु सर्वक्षेत्रेष्विति ।। भेदनिष्ठ एवेति ।। अप्रामाण्य-शङ्काशून्यभेदनिश्चयतदाहितानादिसंस्कारवानित्यर्थः । तथात्वे इति ।। पुरुषविशेषस्याद्वैतनिष्ठत्वेन परप्रसिद्धत्व इत्यर्थः । निवृत्तिः स्यादिति ।। कल्पनाहेतुभूताज्ञानशरीरेन्द्रियादेरभावादिति भावः । अनिवृत्तिरित्यस्य न कदाचिद्भेदनिवृत्तिरित्यनेन पौनरुक्त्यादानर्थक्यमाशङ्क्य योग्यसाध्य-मध्याहरति- संसारस्येतीति ।।
नन्विदानीं भेदनिष्ठस्यापि कालान्तरेऽद्वैतसाक्षात्कारसम्भवात्ततः संसारनिवृत्तिः किं न स्यादित्याशङ्क्य व्याचष्टे- यदि चेति ।। तत्संस्कारेणेति ।। अप्रामाण्यशङ्काशून्यभेदनिश्चयाहित-तद्वासनापरम्परयेत्यर्थः । आग्रहः अप्रामाण्यशङ्काशून्यनिश्चयप्रयुक्तोऽधिको वर्धेत । सर्वदा स्वसमानजातीयसंवलित एव तिष्ठेत् । न त्विति ।। विरोधिनिश्चयसद्भावादिति भावः । न कदाचिद्भेदनिवृत्तिरिति मूलांशं व्याचष्टे- तथा चेति ।। दुःखादिसंसारस्येति ।। दुःखादिरूप-संसारस्येत्यर्थः । ननु भेदसत्त्वेऽपि दुःखं मास्तु । तस्य तदहेतुत्वादित्यत आह- भेदे सतीति ।। तथा च भेदाध्यासहेतुत्वेनाज्ञानादेः सत्वस्याऽवश्यकत्वे तत्प्रयुक्तदुःखाद्यनिवृत्तिप्रसङ्गो दुर्वार इति भावः । नन्विदानीमनिवृत्तोऽपि भेदः कल्पान्तरे निवर्तिष्यते । न हि प्रागनिवृत्तस्य निवृत्तिर्नेति नियमोऽस्ति कामादौ व्यभिचारादित्याशङ्कते- प्रागिति ।। अनेन भेद उत्तरकाले निवर्तते प्रागनिवृत्तत्वात् कोपादिवदित्यनुमानं विवक्षितं सम्भावनामात्रं वा । नाऽद्य इत्याह- अनुमानपक्षे प्रागुक्तेति ।। जीवेश्वरस्वरूपस्य तद्भेदस्येश्वरप्रत्यक्षविषयत्वेन पारमार्थिकत्वेन तन्निवृत्तेरसम्भवात् तन्निवृत्तिसाधने बाध इति प्रागुक्तदोषदुष्टत्वादित्यर्थः । वक्तव्यत्वादिति ।। सम्भावनामात्रस्या-साधकत्वादिति भावः । अर्थवादत्वस्यापीति ।। न च मोक्षश्रुतिमात्रस्यार्थवादत्वं नोपपद्यते । विध्यन्तराभावादिति वाच्यम् । स्वार्थपरत्वत्यागमात्रेऽर्थवादत्वोक्तेरिति भावः ।
श्रीवेदेशतीर्थ
सर्वक्षेत्रेषु संसरतीति ।। अनेनाशरीरैकजीववादिमतमनूद्यते । न त्वेकशरीरैकजीववादिमतं, तन्मते एकस्यैव शरीरस्य सजीवत्वेनेतरेषां निर्जीवत्वेन सर्वक्षेत्रेष्वित्यस्यासम्भवात् ।
ननु तद्विहायेदं कस्मादनूदितमिति चेत् । तत्र तन्निष्ठानामिति वक्ष्यमाणदूषणायोगात् । न ह्येकशरीरैकजीववादिमते जीवस्य शरीरोपाधिकं वाऽनेकत्वमस्ति । येन तन्निष्ठानामिति बहुवचन-मुपपन्नं स्यात् । उक्तरीत्यैकजीववादिमतद्वैविध्यं च तद्ग्रन्थे न्यायामृतादौ च स्पष्टमिति न काचिदत्रा-नुपपत्तिरिति ध्येयम् । तत्त्वत इति भास्करमते । कल्पनया वेति मायावादिमते । यैरीश्वरोऽङ्गीक्रियते तेषामेवोक्तरीत्या तदीयभेदप्रत्यक्षविरोधः । मया तु ईश्वरस्यापि स्वाप्नवज्जीवाज्ञानपरिकल्पित-त्वाङ्गीकारान्न मम तदीयप्रत्यक्षविरोध इत्यभिप्रेत्येश्वरश्चैक इत्युक्तम् । एकजीववादिपक्ष इत्यनया सामान्योक्त्यैकशरीरैकजीववादिमतप्राप्तौ तत्र चोक्तरीत्या तन्निष्ठानामित्यस्यासम्भवादाह- येषामिति ।।
भेदनिष्ठ एवेत्यादिमूलं योजयति- साम्प्रतमिति ।। तदुपपादकत्वेन तन्निष्ठानामित्यादिमूलांशं व्याख्यातुमाह- यद्यद्वैतेत्यादिना ।। परप्रसिद्ध इति ।। औतज्ञानित्वेन परप्रसिद्धगौडपादादि-कतिपयदेहावच्छिन्नः स्यात् । न तु द्वैतज्ञानित्वेन प्रसिद्धदेहावच्छिन्नः । तथात्वेऽद्वैतनिष्ठत्वानुप-पत्तेः । तद्देहावच्छिन्नस्य मोक्षोऽन्यदेहावच्छिन्नस्य बन्ध इति बन्धमोक्षसाङ्कर्यप्रसङ्गाच्च । एवं च सर्वक्षेत्रेष्वेक एव जीव इति गतमिति भावः । कश्चित् कतिपयदेहावच्छिन्नः । न चात्रेष्टापत्तिरित्याह- न चेति ।। तन्मृत्यनन्तरमिति ।। तेषां जीवन्मुक्तत्वाङ्गीकारेण तच्छरीरपातानन्तरमेव मोक्षाभ्युप-गमादिति भावः ।
विश्वभ्रमानुवृत्तिदर्शनान्नात्रेष्टापत्तिरित्याह- न चैवमिति ।। एवमपेक्षितं पूरयित्वा विश्वस्या-निवृत्तत्वाद्भेदनिष्ठ एवेत्यनेन सम्बन्धं दर्शयन्नवधारणव्यावर्त्यं दर्शयति- अत इति ।। विश्वस्या-निवृत्तत्वादित्यर्थः । वर्धेतेति ।।
‘पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सन् ।’
इति वचनादिति भावः । भेदे सतीति ।। भेदाध्यासहेतुत्वेनाज्ञानादेः सत्त्वस्याऽवश्यकत्वे तत्प्रयुक्तदुःखादिप्रसङ्गो दुर्वार इति भावः । अनुमानपक्ष इति ।। विमतो भेदप्रत्ययः, कालान्तरे निवृत्तो भविष्यति, अन्तःकरणवृत्तित्वात् क्रोधादिवदित्यनुमानपक्ष इत्यर्थः । प्रागुक्तेति ।। तदपलापयुक्तेर्नितरां भ्रान्तित्वादिति प्रागुक्तेत्यर्थः । अत्र निवृत्तिशब्देन परस्य बाध एव विवक्षितो न नाशमात्रम् । तथात्वे प्रत्ययनाशेऽपि भेदस्य सत्यतयाऽप्युपपत्तेः । तथा च भेदप्रत्ययो बाध्य इत्यनुमितेरप्यन्तःकरणवृत्तित्वेन बाध्यत्वे भेदप्रत्ययस्य बाध्यत्वासिद्धिः । अबाध्यत्वे तत्रैव व्यभिचारेण हेतोरसामर्थ्ये पुनर्भेदप्रत्यये बाध्यत्वासिद्धिरेवेति प्रागुक्तदोषो द्रष्टव्यः ।
वक्तव्यत्वादिति ।। सम्भावनामात्रस्यासाधकत्वादिति भावः । मोक्षश्रुतिरिति ।। ‘तरति शोकमात्मवित्’ इत्यद्वैतज्ञानान्मोक्षस्तावच्छ्रूयते । एवं चैतच्छ्रुतिप्रामाण्यादद्वैतज्ञानं भविष्यति । तेन च भेदप्रत्ययनिवृत्तिरपि भविष्यतीति कल्प्यते । अन्यथैतच्छ्रुतिप्रामाण्याभावापत्तेरिति भावः ।
द्वैतद्युमणि
एकजीववादमवष्टभ्य मुक्तत्वानुमाने विपक्षे बाधकतर्काभावमाशङ्कते- यदुक्तमित्या-दिना ।। ब्रह्मैवेति ।। एवकारेण बहुजीववादिमत इव अविद्याबिम्बभूतात् सर्वैश्वर्यादिमच्चेतन-रूपादीश्वरादनादितोऽभिन्नोऽविद्याप्रतिबिम्बभूतो जीव इत्यस्य व्यवच्छेदः । व्याघ्रकुलसंवर्धित-राजपुत्रदृष्टान्ते ब्रह्मणः स्वाज्ञानात् संसारः, ज्ञाने सति मोक्ष इति परभाष्यकारेण बृहदारण्यकभाष्ये निगदितत्वात् । सर्वक्षेत्रेषु सुरनरतिर्यगादिदेहेषु संसरति । तत्तद्देहगान्तःकरणोपाध्यवच्छिन्नं सत् तत्तदन्तःकरणावच्छिन्नसुखाद्यनुभवितृ भवति । न त्विति ।। ननु सर्वक्षेत्रेष्वेकस्य सत्त्वे एकस्मिन् सुप्ते सर्वेषां ज्ञानाभावापातेन कस्यापि जागरानुपपत्तिः । एकस्मिन् सुखिनि दुःखिनि वा सति सर्वेऽपि तदनुसन्धानवन्तः स्युरिति चेन्न । तत्तन्मनोवच्छिन्नानां मनोरूपोपाधिभिन्नत्वाभ्युपगमेनौपाधिक-भेदाभावसहितस्वरूपैक्यरूपप्रयोजकाभावेनानुसन्धानाप्रसक्तेः । तन्मनसो लीनत्वेन तत्र सुप्तिसत्त्वेऽप्यन्यमनसामलीनत्वेनान्येषां जागराद्यनुपपत्तेरभावात् ।