न च तदाकारम् ..

आत्माविषयकस्याप्यात्मज्ञानस्याऽत्माऽकारत्वशङ्का तन्निरासश्च

श्रीमज्जयतीर्थटीका

नन्वात्मनो दृक्कर्मत्वाभावेऽपि वेदान्तवाक्यजनितज्ञानस्याऽकारसमर्पकतया व्यावर्तकत्वमङ्गीक्रियत एव । अत आत्मकर्मत्वाभावेऽप्यात्माकारं वेदान्तवाक्यजनितापरोक्ष-विज्ञानं भविष्यति । तेन न कोऽप्यतिप्रसङ्गः । ‘द्रष्टव्यः’१ इत्यादिश्रुतयश्च तत्परतयैवोपपत्स्यन्ते ।

न चाऽत्मकर्मकत्वेन विना आत्माकारत्वं विज्ञानस्य कथमिति वाच्यम् । यथा खलु शशविषाणशब्दात्तदाकारं विज्ञानमुत्पद्यते । न च शशविषाणस्य कर्मता सम्भवति । सकल-सामर्थ्यविधुरस्य कारकताया एव दुर्लभत्वात् । तदिहापि वेदान्तवाक्यसामर्थ्यादनात्मकर्मकमपि विज्ञानमात्माकारमुत्पत्स्यते । को दोष इत्यत आह-

मूल

न च तदाकारम् ।

आत्मनो दृक्कर्मत्वं विनेत्यनुवर्तते । स्यादेवं यदि तदाकारं ज्ञानमुत्पद्येत । न चाऽत्मनो दृक्कर्मत्वं विना आत्माऽकारं ज्ञानमुत्प-द्यते । कुत इत्यत आह-

मूल

अतद्विषयत्वादेव ।

यथा अनात्मविषयत्वाद्वेदान्तवाक्यजनितविज्ञानमात्मज्ञानं न भवतीत्युक्तम् । तथा तत एव तदात्माऽकारमपि न भवतीत्येवकारसम्बन्धः । अनात्मविषयमपि तदात्माऽकारं कुतो न स्यादित्यत आह-

मूल

तद्विषयत्वमेव हि तदाकारत्वम् ।

हिशब्दो हेतौ । यस्मात्तद्विषयत्वमेव तदाकारत्वं ज्ञानस्य नान्यम् । तस्मादात्मविषयत्वा-भावादात्माऽकारमपि तन्न भवति । व्याघातादिति ।

श्रीविजयीन्द्रभिक्षु

नन्वात्मनोऽकर्मत्वेऽपि स्वाकारसमर्पकत्वेन तद्व्यावर्तकत्वमुपपन्नम् । तत एव अज्ञान-निवृत्तिश्चेति न वेदान्तानां वैयर्थ्यम् । न चाज्ञानस्याऽत्मना सह सम्बन्धानिरूपणम् । तज्ज्ञान-प्रतिबन्धकत्वस्यैव सम्बन्धस्य सम्भवादित्याशयेन शङ्कते- नन्विति ।। तत्परतयेति ।। तदाकारत्व-प्रतिपादनपरतयेत्यर्थः । यद्यपि तव्यादिप्रत्ययाः कर्मण्येव विहितास्तथाऽपि क्रियया आप्तुमिष्टतमत्वे सति क्रियानिष्पादकत्वरूपकर्मत्वस्य मुख्यस्य त्वात्मन्यसम्भवाद् अर्थान्तरस्वीकारे तु तदाकारत्व-मेव स्वीकारार्हमिति भावः । यदि तद्विषयत्वं न स्यात्तर्हि तदाकारत्वमपि न स्यात् । तद्विषयत्वाति-रिक्तस्य तदाकारत्वस्य दुर्वचत्वादिति परिहरति- अत आहेति ।। एवकारान्वयप्रदर्शनाय वृत्तानुवादपूर्वकं व्याचष्टे- यथेति ।। अनात्मविषयत्वादिति ।। आत्माविषयत्वादित्यर्थः । एवमुत्तरत्रापि द्रष्टव्यम् । तत् वेदान्तजनितं ज्ञानम् ।

श्रीवेदेशतीर्थ

तेन न कोऽपीति ।। आत्माऽकारज्ञानस्यैवाऽत्माज्ञाननिवर्तकत्वोपपत्तेः प्राचीनाति-प्रसङ्गस्य आत्माऽकारज्ञानप्रतिबन्धकमेवाऽत्माज्ञानमित्यङ्गीकाराद्द्वितीयातिप्रसङ्गस्य चाभावादि-त्यर्थः । तत्परतयैवेति ।। तदाकारत्वप्रतिपादनपरतयैवेत्यर्थः । यद्यपि तव्यादिप्रत्ययः कर्मण्येव विहितः तथाऽपि क्रिययाऽऽप्तुमिष्टतमत्वे सति क्रियानिष्पादकत्वरूपकर्मत्वस्य मुख्यस्य त्वन्मतेऽ-प्यसम्भवादर्थान्तरस्वीकारे तु तदाकारत्वमेव स्वीकारार्हमित्यर्थः । अनात्मविषयत्वात् । आत्माविषयत्वात् । एवमुत्तरत्रापि ।

श्रीराघवेन्द्रतीर्थ

वेदान्तजनितापरोक्षेति ।। ‘दशमस्त्वमसि’ इत्यादाविव वाक्यादप्यपरोक्षज्ञानोत्पत्तेः परैरङ्गीकारादेवमुक्तम् । न कोऽपीति ।। आत्मज्ञानत्वेनाभिमतस्य तज्ज्ञानत्वाभावप्रसङ्गो वा अज्ञाननिवृत्त्यभावप्रसङ्गो वा अज्ञानस्यैवाभावप्रसङ्गो वा नेत्यर्थः । करणसामर्थ्यादित्याह- यथा खल्विति ।। कारकताया एवेति ।। तद्विशेषकर्मकारकत्वं दूरादपास्तमित्यर्थः । तदिहेत्यत्र तदित्यस्य विज्ञानपदेनान्वयः। इहेति । आत्मज्ञानिन्यपीत्यर्थः । विप्रतिपन्नज्ञानाकारत्वविषयेऽपीति वाऽर्थः । अनात्मेति । आत्माकर्मकमपीत्यर्थः । स्यादेवमिति । ‘न कोऽप्यतिप्रसङ्गः’ इत्युक्तप्रकारः स्यादित्यर्थः । एवकारोक्तिघटनायाऽह- यथेति ।। तत एवेति ।। आत्माविषयत्वादेवेत्यर्थः । येन हेतुना आत्मज्ञानत्वाभाव आपादितः तत एव हेतोरित्यर्थः । इत्येवकारसम्बन्ध इति । एवकारेण प्रागुक्तहेतोरेवेति प्रतीतेः यथेत्यादिनोक्तप्रकारेण प्राक् प्रकृतहेतुतां स्पष्टीकृत्यानन्तरमेवकार-सम्बन्धो बोध्य इत्यर्थः । अन्यथाऽपूर्वहेतुत्वेऽतद्विषयत्वादित्येव ब्रूयादिति भावः । सामर्थ्यादिति । आकाङ्क्षादिमच्छब्दस्य तदाकारज्ञानजनकत्वस्वाभाव्यादित्यर्थः ।

गुरुराजीया

न कोऽपीति ।। आत्माऽकारज्ञानस्यैवाऽत्माज्ञाननिवर्तकत्वान्न तदनिवृत्तिप्रसङ्गः । आत्माऽकारज्ञानस्यैवाऽत्मज्ञानत्वान्न वेदान्तजनितविज्ञानस्याऽत्मज्ञानत्वानुपपत्तिरित्येवं प्रागुक्तं प्रसङ्गद्वयं नेत्यर्थः । तत्परतयैवेति ।। वेदान्तजनितज्ञानस्याऽत्माकारत्वपरतयैवेत्यर्थः । अनात्म-विषयत्वात् आत्मविषयत्वाभावात् ।

गोविन्दीया

नन्विति ।। आत्मनो दृक्कर्मत्वाभावेऽपि वेदान्तजनितज्ञानस्य स्वाकारसमर्पकतया, स्वाकारस्य समर्पणं यस्मिन् तत् तस्य भावः तत्ता, तया आत्मसदृशाकारत्वेन आत्मज्ञानत्वाद् व्यावर्तकत्वम् अज्ञाननिवर्तकत्वमङ्गीक्रियत एवेत्यर्थः । अत इति ।। स्वाकारासमर्पणाद् आत्मकर्मकत्वाभावेऽपि वेदान्तजनितविज्ञानाद् आत्माकारत्वेन आत्मज्ञानं भविष्यतीति तेन कारणेन न कोऽप्यतिप्रसङ्ग इत्यर्थः । द्रष्टव्य इति ।। द्रष्टव्य इत्यादिश्रुतयश्च वेदान्तजनितज्ञानस्य स्वाकारसमर्पणेन आत्मनः तत्परतया द्रष्टव्यत्वप्रतिपादकतयोपपत्स्यते । न तु ज्ञानकर्मत्वेन । द्रष्टव्यत्वप्रतिपादकतयेत्यर्थः । कारकताया इति ।। कर्तृकर्मादिकारकताया एव दुर्लभत्वादित्यर्थः । स्यादेवमिति ।। यद्यात्मनः दृक्कर्मत्वं विना तदाकारं ज्ञानमुपपद्येत तर्ह्येव दोषाभावः स्यादित्यर्थः । अतद्विषयत्वादिति ।। एतत्पदमावृत्य योज्यम् । तथा चायमर्थः- यथेत्यादिना तत एवेति ।। अतद्विषयत्वादित्यावृत्य तस्यैवकारेण सम्बन्ध इत्यर्थः । व्याघातादिति ।। अनात्मविषयमपि आत्माकारं चेत् आत्मविषयत्व-अविषयत्वाङ्गीकारेण व्याघातादित्यर्थः ।

जनार्दनभट्टीया

न कोऽपीति ।। अनैकान्तिकतालक्षणातिप्रसङ्गेनेत्यर्थः । तत्परतयेति ।। आकारसमर्पणपरतया इत्यर्थः । कारकताया एवेति ।। कुतः तद्विशेषरूपं कर्मत्वमित्यर्थः । ‘क्रियां कुर्वद्धि कारकम्’ इति न्यायेन क्रियानुकूलशक्तिमत्त्वरूपकारकत्वसामान्याभावे कुतः तद्विशेषरूपकर्मत्वम्? इति भावः । ‘अनात्मविषयत्वादेव’ इत्यत्र नत्वन्यस्माद्धेतोरित्यन्यथाप्रतीतेः एवकारसम्बन्धं दर्शयति – यथेत्या-दिना ।।