अनिर्वचनीयस्य सर्वत्राप्रसिद्धत्वादेव ..

भेदे सर्वत्र चानिर्वचनीयत्वादिप्रभेदाभावेन पूर्वोक्तसंशयायोगसमर्थनम्

श्रीमज्जयतीर्थटीका

अथ कथमनिर्वचनीयत्वपारमार्थिकत्वप्रभेदो भेदे न युज्यत इत्यत आह-

मूल

अनिर्वचनीयस्य सर्वत्राप्रसिद्धत्वादेव ।

अनिर्वचनीयस्य भेदस्येति शेषः । एवकारोऽनिर्वचनीयस्येत्यनेन सम्बध्यते । उपलक्षणं चैतत् । पारमार्थिकोऽपि भेदो न परस्य सिद्ध इत्यपि द्रष्टव्यम् । ननु नायमस्ति नियमः २यत्सन्देह-विषयजातीयमेवाऽरोप्यमाणकोटिसम्बन्धितया प्रतिपत्तव्यमिति । आरोप्यमाणकोटिप्रतिपत्ति-मात्रेणापि सन्देहदर्शनादिति चेत् सत्यम्    तथापि नायं सन्देहो युज्यते । आरोप्य-माणानिर्वचनीयस्य कुत्राप्यप्रतीतत्वात् । एतदप्युक्तं अनिर्वचनीयस्य सर्वत्राप्रसिद्धत्वादेवेति ।