अनुमानस्य चाप्रसिद्धविशेषणः पक्षः..

केवलव्यतिरेकिणि व्याप्तिग्रहस्य सुशकत्वशङ्का तन्निरासश्च

अनुमानस्य चाप्रसिद्धविशेषणः पक्षः

श्रीमज्जयतीर्थटीका

अभावः केवलव्यतिरेकिणा साध्यः । तथा सत्यभावाभावो भाव एवेति सुशको व्याप्तिग्रह इति कश्चित् । तदसत् । अभावाभावस्य भावत्वेऽपि १प्रतिषेधाकारबुद्धेरनिवारणात् । प्रतिषेधस्य च प्रतियोगिसापेक्षतानियमात् ।