मिथ्याशब्दोऽनिर्वचनीयं वदतीत्यत्र च..

मिथ्याशब्दस्यासद्वाचित्वसमर्थनम्

मिथ्याशब्दोऽनिर्वचनीयं वदतीत्यत्र च..

श्रीमज्जयतीर्थटीका

ननु व्याकरणाभिधानादिप्रमाणाभावाद्वादिसमयमात्रस्यातिप्रसङ्गेनानिश्चायकत्वादनिर्वच-नीयस्य यदि न मिथ्याशब्दो वाचकस्तर्हि तद्वाच्यं वाच्यम् । सत्यम् । असदिति ब्रूमः । एवं तर्हि निरर्थक इति प्राप्तम् । न ह्यसदस्तीति सम्भवति । व्याघातात् । निरर्थकत्वे च पदत्वव्याघात इति चेन्मैवम् । अत्यन्ताभावप्रतियोगित्वलक्षणस्यासत्त्वस्य विद्यमानत्वात् । न हि मिथ्येत्यस्य शशविषाणादिकमर्थः । तथा सति शशविषाणं मिथ्येति न स्यात् । किन्नाम तन्नास्तीति । तथा च मिथ्यैव रजतमित्यस्य नास्ति रजतं रजतात्यन्ताभावोऽ स्तीत्यर्थः    स्वयमसतः  कथं  प्रतियोगित्वमिति  चेत् । किमिह कथम् । न हि प्रतियोगित्वं रूपादिवद्धर्मिसत्तासापेक्षम् । अभाव-ज्ञानोपयोगिज्ञानविषयतामात्रस्य प्रतियोगित्वात् । असतोऽपि प्रतीतिमुपपादयिष्यामः ।

श्रीविजयीन्द्रभिक्षु

नन्वनिर्वचनीये प्रमाणाभावं प्रतिज्ञाय तदुपपादनमेव कर्तुमुचितम् । न तु मिथ्या-शब्दस्यानिर्वचनीयवाचकत्वनिराकरणम् । अनुपयोगादित्याशङ्क्य तस्य प्रकृतोपयोगं दर्शयितुं तदनुगुणां शङ्कामुत्थापयति- कथमनिर्वचनीयार्थे प्रमाणाभाव इति ।। ननु शुक्ताविदं रजतमित्यादिप्रत्यक्षं स्वविषयस्य शुक्तिरजतादेः नानिर्वचनीयत्वं गोचरयतीत्यत आह- बाधक-ज्ञानसमनन्तरमिति ।। ननु बाधकप्रत्ययानन्तरं मिथ्यैव रजतमित्यनुवादो न त्वनिर्वचनीयं रजतमितीति चेत्तत्राऽह- यावदुक्तमिति ।। नन्वयमनुवादः शुकबालाद्यनुवादवदस्त्वित्यत आह- न चाप्रतीतमिति ।। प्रकृतवाक्यार्थगोचरयथार्थज्ञानवत एवाऽप्तत्वादिति भावः । नन्वयमनुवादो भ्रममूल एवास्त्वित्यत आह- न चेति ।। बाधकाभावादिति भावः ।

नन्वनुवादहेतुभूतो बाधकप्रत्ययो लिङ्गादिजन्यः किं न स्यादित्यत आह- नापीति ।। लिङ्गशब्दाद्यनुसन्धानाभावेऽपि नेदं रजतमिति बाधकप्रत्ययोदयाच्चक्षुरन्वयव्यतिरेकानुविधानाच्चेति भावः । यद्यपि नेदं रजतं, नात्र रजतमित्यादिबाधकप्रत्ययस्याभावविषयतया अनुपलब्धित्वमेव वक्तुमुचितं न प्रत्यक्षत्वं तथाऽपि आरोपिताभावस्य परेण शुक्त्यधिष्ठानरूपत्वोपगमात् तत्प्रत्यक्षत्वोक्तिरिति ध्येयम् । पररीत्या परो बोधनीय इति न्यायेन वा तत्प्रत्यक्षत्वोक्तिरित्यत आहुः१- भ्रान्त्युत्थितस्येति ।। विशेषदर्शनेन भ्रान्तित्वनिश्चयवत इत्यर्थः । तत्प्रयोगेति ।। मिथ्याशब्दप्रयोगेत्यर्थः । अनुमीयत इति ।। भ्रान्त्युत्थितोऽनिर्वचनीयविषयकप्रत्यक्षवान् तदा तद्वाचकशब्दप्रयोक्तृत्वात् । यथा सम्प्रतिपन्न इत्यनुमीयत इत्यर्थः । ननु मिथ्याशब्दोऽनिर्वचनीयं वदतीत्यत्र च इत्यस्य साकाङ्क्षत्वाद्योग्यार्थसमर्पकपदान्तराध्याहारं विना विवक्षितवाक्यार्थालाभ इत्यत आह- न किञ्चिन्मानमित्यस्येति ।। व्याकरणाभिधानादीत्यादिशब्देनाऽप्तवाक्यादिपरिग्रहः । वादिसमयमात्रस्येति ।। वादिपरिभाषामात्रस्यातिप्रसङ्गेनानिर्वचनीयवाचकत्वानिश्चायकत्वादि-त्यर्थः । तद्वाच्यमिति ।। मिथ्याशब्दवाच्यमित्यर्थः । असदिति ब्रूम इति ।। तद्वाच्यमित्यनुषङ्गः । यद्यपि मिथ्याशब्दवाच्यानुक्तावपि परमतदूषणं सिद्ध्यति तथाऽपि वस्तुगतिमभि-प्रेत्यासतस्तद्वाच्यत्वोक्तिरियमिति ध्येयम् । मिथ्याशब्दस्यात्यन्तासदर्थकत्वे बाधकं शङ्कते- एवं तर्हीति ।। नैरर्थक्यपरिहारायासतः सत्त्वाङ्गीकारे बाधकमाह- न हीति ।। व्याहतत्वादिति ।। त्रिकालसर्वदेशीयनिषेधप्रतियोगिनोऽसतः कालसम्बन्धित्वरूपसत्त्वस्य व्याहतत्वादित्यर्थः । नैरर्थक्याङ्गीकारे को दोष इत्यत आह- निरर्थकत्वे चेति ।। अर्थवत एव ‘अर्थवदधातुरप्रत्ययः प्रातिपदिकम्’१ इति प्रातिपदिकसञ्ज्ञायां स्वाद्युत्पत्तौ ‘सुप्तिङन्तं पदम्’२ इति पदत्वं सिद्ध्येत् । निरर्थकत्वे च तन्न सिद्ध्येदिति भावः । एतच्चोपलक्षणम् । मिथ्येति शब्दो मिथ्याशब्द इति मिथ्याशब्दशब्दशब्दयोर्मध्यमपदलोपी समासश्च न स्यात् । सुप्सुपेति समासशास्त्रप्रवृत्तौ निमित्तस्य सुबन्तत्वस्याभावादित्यपि द्रष्टव्यम् । एतेन ‘कृत्तद्धितसमासाश्च’३ इति समासत्वप्रयुक्तप्राति-पदिकसञ्ज्ञायां स्वाद्युत्पत्तौ पदत्वसिद्धिरित्यपास्तम् । अत्यन्ताभावप्रतियोगित्वलक्षणस्येति ।। अतीतानागतादिशब्दानां ध्वंसप्रतियोगित्वप्रागभावप्रतियोगित्वादिविद्यमानार्थवत्त्ववत्४ मिथ्या-शब्दस्यापि अत्यन्ताभावप्रतियोगित्वरूपविद्यमानार्थेनार्थवत्त्वोपपत्तेरिति भावः । तथा सतीति ।। न हि तुल्यार्थकत्वे सहप्रयोगो दृष्ट इति भावः । तन्नास्तीति ।। शशविषाणं कालत्रयेऽपि नास्तीत्यर्थ इत्यर्थः । एतदेव दर्शयति- तथा चेति ।। स्वयमसत इति ।। अत्यन्तासत इत्यर्थः । प्रागभावादि-प्रतियोगित्वाश्रयस्यास्त्येव कदाचिद्विद्यमानत्वमिति भावः । रूपादिवदिति ।। वैधर्म्यदृष्टान्तः । कदाचिद्धर्मिसत्त्वस्य कालान्तरे धर्मवत्त्वाप्रयोजकत्वादिति भावः । अभावज्ञानोपयोगीति ।। अभावत्वप्रकारकाभावज्ञानजनकज्ञानविषयतामात्रस्य प्रतियोगित्वरूपत्वादित्यर्थः । ननु शुक्ति-रूप्यादेरत्यन्तासत्त्वे इन्द्रियसम्प्रयोगादिसामग्र्यसम्भवेन कथं शुक्ताविदं रजतमिति प्रत्यक्षोदयः । कथं वा शुक्तिरूप्यादेरभावज्ञानोपयोगिज्ञानविषयत्वरूपं प्रतियोगित्वमित्यत आह- असतोऽपीति ।।

श्रीवेदेशतीर्थ

नन्विदं नीलमितिवदिदमनिर्वचनीयमिति प्रत्यक्षाभावात्कथं प्रत्यक्षस्य प्रमाणीकरण-मित्यत आह- बाधकेति ।। ननु मिथ्यैव रजतं प्रत्यभादित्यनुवादेन रजतमिथ्यात्वे प्रत्यक्षं प्रमाणं भवतु । तदनिर्वचनीयत्वे किमायातमित्यत आह- यावदुक्तं भवत्यनिर्वचनीयमितीति ।। ननु रजते मिथ्यात्वप्रतीत्यभावेऽपि मिथ्यैव रजतं प्रत्यभादित्यनुवादः सम्भवति । घटज्ञानाभावेऽपि घटोऽ-स्तीति शुकबालादिभिरनुवादात् । अतः कथमनुवादबलेन प्रत्यक्षकल्पनमित्यत आह- न चाप्रतीतमाप्तेनानूद्यत इति ।। ननु बाधकप्रत्ययस्य भ्रमत्वेऽप्यनुवादसम्भवात् कथं तन्मूलव्यवहारेण  १प्रत्यक्षकल्पनमित्यत आह - न च बाधकप्रत्यय इति ।। अन्यथाविज्ञातस्य सम्यग्विज्ञानस्यैव बाधकप्रत्ययत्वादिति भावः । ननु बाधकप्रत्ययस्य प्रमात्वेऽपि तस्य लिङ्गादिजन्यत्वेनाप्यनु-वादोपपत्त्या कथं तेन प्रत्यक्षकल्पनमित्यत आह- नापि लिङ्गादिजन्य इति ।। लिङ्ग-शब्दाद्यनुसन्धानाभावेऽपि जायमानत्वादिन्द्रियान्वयव्यतिरेकानुविधायित्वाच्चेति भावः । भ्रान्त्युत्थितस्येति ।। भ्रान्तित्वनिश्चयवत इत्यर्थः । अनुमीयत इति ।। भ्रान्त्युत्थितोऽनिर्वचनीय-विषयप्रत्यक्षवान् । तदा तद्वाचकशब्दप्रयोक्तृत्वात् । सम्प्रतिपन्नवदित्यनुमीयत इत्यर्थः । निरर्थ-कत्वे चेति ।। ‘अर्थवदधातुरप्रत्ययः प्रतिपादिकम्’२ इति प्रातिपदिकसञ्ज्ञायां ‘सुप्तिङन्तं पदम्’३ इति पदत्वं सिद्ध्येत् । निरर्थकत्वे च तन्न सिद्ध्येदिति भावः । तथा सतीति ।। पौनरुक्त्या-पातादित्यर्थः । नास्ति रजतमिति प्रतियोगिप्राधान्येन मिथ्याशब्दार्थमभिधायाभावप्राधान्येनापि तदर्थमाह- रजतात्यन्ताभावोऽस्तीति ।। किमिह कथं का कथन्तेत्यर्थः । धर्म्यभावे कथं धर्म इत्यत आह- न हीति ।। रूपादिकं यथा धर्मिसत्तासापेक्षं न तथा प्रतियोगित्वम् । प्रागभावादिदशा-यामसतोऽपि घटादेस्तत्प्रतियोगित्वदर्शनात् । कालान्तरे सत्त्वस्य चेदानीमनुपयोगादिति भावः । अभावज्ञानेति ।। नन्वभावज्ञानोपयोगिज्ञानविषयत्वमधिकरणस्याप्यस्ति । अतः कथं तत् प्रतियोगित्वमिति चेन्न । तज्ज्ञानहेतुभूतज्ञानविषयत्वविशेषस्यैव प्रतियोगित्वरूपत्वादिति भावः । नन्वभावज्ञानोपयोगिज्ञानविषयत्वरूपप्रतियोगित्वं कथमसति सम्भवति । असतः प्रतीतेरभावा-दित्यत आह- असतोऽपीति ।।

द्वैतद्युमणि

यावतेति ।। यस्मादित्यर्थः । यावदुक्तं भवतीति ।। अनिर्वचनीयमिति पदेन यादृश-विशिष्टस्वरूपं अस्मदभिमतं बोध्यते तदेव मिथ्यापदेन बोध्यते । तथैव लोकानुभवादित्यभिमानः ।

ननु अग्निर्माणवक इति वाक्यप्रयोक्तरि तद्वाक्येन यथाश्रुतेन जायमानबोधसमानविषयक-ज्ञानस्यादर्शनात् प्रकृते तादृशवाक्यप्रयोगमात्रेण तस्य तज्ज्ञानं कथं कल्प्यत इत्यत आह- न चाप्रतीतमिति ।।  अनूद्यते स्वकीयप्रतिपत्तिविषयतया प्रतिपाद्यते । आप्तेन यथार्थवक्त्रा । अयं भावः । यदि रजतं मिथ्येत्येव शब्दस्तेन प्रयुज्येत तदा तथा ज्ञानरहितोऽपि व्यपदेशमात्रं करोतीति वक्तुं शक्यते । न चैवम् । किन्तु रजतं मम मिथ्यैवाभादिति मिथ्यात्वविशिष्टरजतविषयिणीं स्वप्रतीतिमेव शब्देन बोधयति । वाक्यप्रयोगकारणीभूतं च ज्ञानं बाधकप्रत्ययविषयकानुव्यवसायो वा  गुरुमतवद्  बाधकज्ञानमेव  वा  रजतं  मिथ्या  जानामीत्याकारम् । नोभयथाऽपि काचित् क्षतिरिति ।

ननु प्रत्यक्षप्रमाणोपन्यासप्रस्तावे एतत् कथनमयुक्तम् । अस्य शुक्तित्वादिरूपलिङ्ग-वाक्यादिजन्यत्वादित्यत आह- नापीति ।। लोके घटादेरनुमितिशाब्दबोधानन्तरं घटो मे प्रत्यभादिति न परीक्षकादिव्यवहारः । किन्तु तर्कित इत्यादिरूप एव । प्रत्यक्षानन्तरमेव घटः प्रत्यभादिति व्यावहारः । अत उक्तवाक्यं तज्ज्ञानं प्रत्यक्षत्वेनैव बोधयतीति लिङ्गादिजन्यत्वाङ्गीकारे तद्विरोध इति भावः । अत एवोक्तबाधकप्रतीतेर्लिङ्गजन्यत्वाभावे हेत्वन्तरोपन्यासायासनिरासाय जन्यतया बाधकप्रतीत्यनुमापकं मिथ्यैव रजतमित्येतावन्मात्रवाक्यं विहाय बाधकप्रत्ययं प्रत्यक्षत्वेनावगाहमानेनानुव्यवसायेन वाक्यार्थज्ञानमुद्रया जन्यं बाधकप्रत्ययस्य प्रत्यक्षत्वेनैव शब्दविधया बोधकं वाक्यमुपात्तम् ।

असत्त्वस्य विद्यमानत्वादिति ।। तथा च मिथ्यापदं तद्बोधकमेवेति भावः । शशविषाणादीनां तत्पदेन बोधात् कथमुक्तार्थकत्वमित्यत आह- न हीति ।। शशविषाणादीनां तत्समभिव्याहृत-पदादिना बोध्यत्वेऽपि न शशविषाणत्वादिना तद्बोध्यत्वमित्यर्थः    विपक्षे बाधकमाह- तथा सतीति ।। तर्हि शशविषाणादिपदसभिव्याहृतमिथ्यापदेन किं प्रतीयत इत्यत आह- किं नामेति ।। तथा च प्रकृतेऽनुवादकवाक्यस्य कीदृशोऽर्थः पर्यवसन्न इत्यत आह- तथा चेति ।। प्रतियोगि-प्राधान्यविवक्षयाऽह-नास्ति रजतमिति ।। अभावप्राधान्यविवक्षयाऽऽह- रजतात्यन्ताभाव इति ।। स्वयमसत इति ।। सर्वैरपि रूपैरसत इत्यर्थः । तेन शङ्ककस्य मते सतोऽपि व्यावृत्तिरूपेणासत्त्वात् तस्य प्रतियोगित्वाङ्गीकारात् कथमेतदिति चोद्यानवकाशः । किमिह कथं का कथन्तेत्यर्थः । धर्मिसत्तासापेक्षमिति ।। तथात्वे स्वप्रागभावध्वंसकालेऽसतां घटादीनां प्रतियोगित्वेन भानाभाव-प्रसङ्गादिति भावः ।

श्रीराघवेन्द्रतीर्थ

यावतेति ।। यस्मादित्यर्थः । एवमग्रेऽपि ज्ञेयम् । प्रत्यक्षमिति ।। अस्तीत्यन्वयः । तच्च शुक्तिरजतादिभ्रमवतस्तत्र जायमानमिथ्यात्वप्रत्ययरूपबाधकज्ञानमिति भावः । परकीयं बाधक-ज्ञानं  तद्विषयमिति  कथं ज्ञेयमित्यतस्तदीयानुवादरूपवाक्यलिङ्गादिति भावेनाऽह- बाधकेति ।। तावता अनिर्वचनीये किमायातमित्यत आह- यावदिति ।। मिथ्येत्यनिर्वचनीयमिति च अनर्थान्तर-मित्यर्थः । ननु रजतमिथ्यात्वप्रतीत्यभावेऽपि मिथ्यैव रजतं प्रत्यभादित्यनुवादः सम्भवति । घटज्ञानाभावेऽपि घटोऽस्तीति बालादिभिरनुवादात् । अतः कथमनुवादबलेन प्रत्यक्षकल्पनमित्यत आह- न चेति ।।१ हेतोर्द्वेधाऽन्यथोपपत्तिं हृद्याशङ्क्य निराह- न चेत्यादिना ।। तावता तस्य प्रत्यक्षता कुतः? इत्यत आह- नापि लिङ्गादिजन्य इति ।। शङ्कामुखेन मूलार्थं व्यनक्ति- नन्वित्यादिना ।। वादिसमयेति ।। वादिकृतसंकेतेत्यर्थः । अस्तीति प्रत्ययस्य वादिसंकेतेनाभावविषयता स्यात् । अतिप्रसङ्गेनेति ।।२ अन्तरित्यस्य बहिरित्यर्थ इत्याद्यतिप्रसङ्गादित्यर्थः । सत्स्वरूपवाचक एवार्थ-वानिति मन्वान आह- एवं तर्हीति ।। पदत्वव्याघात इति ।। ‘अर्थवदधातुरप्रत्ययः प्रातिपदिकम्’३ इत्यर्थवत एव प्रातिपदिकसञ्ज्ञायां ‘ङ्याप् प्रातिपदिकात्’४ इत्यत्र ‘स्वौजसमौड्’५ इति सुप्प्रत्यये ‘सुप्तिङन्तं पदम्’६ इति पदत्वस्य विधानादर्थवत्त्वाभावे प्रातिपदिकसञ्ज्ञाभावेन सुबनुत्पत्तेः पदत्वव्याघात इत्यर्थः । अभावज्ञानोपयोगिज्ञानविषयतेति । सा चातीतादेरिवासतोऽपि युक्ता । अतीतादिकं कदाचिदस्ति असन्न कदाचिदपीति वैषम्यमात्रम् । ज्ञानकाले सत्त्वाभावस्योभयत्र साम्यादिति भावः । उपपादयिष्याम इति ।। ‘असतोऽप्रतीतावसद्वैलक्षण्यज्ञानानुपपत्तिः’ इत्यत्रेति भावः ।। शशविषाणादिकमर्थ इति ।। तथात्वे हि निरर्थकत्वं स्यादिति भावः । कथं प्रतियोगित्वमिति ।। अभावज्ञानजनकत्वरूपप्रतियोगित्वस्यासत्यसम्भवादिति भावः ।

गुरुराजीया

ननु इदं नीलमितिवत् इदमनिर्वचनीयमिति प्रत्यक्षानुपलम्भात् कथं प्रत्यक्षस्य प्रमाणीकरणमित्यतः प्रत्यक्षानुपलम्भेनोपपादनानपेक्षस्य प्रत्यक्षस्य तत्र प्रमाणत्वासम्भवेऽपि उपपादनसापेक्षस्य नेदं रजतमित्यादिप्रत्यक्षस्य तत्र प्रमाणत्वं स्यादेव । तथा हि । नेदं रजतमिति ज्ञानानन्तरं मिथ्यैव रजतं प्रत्यभादित्यनुवादान्यथानुपपत्त्या बाधकज्ञानस्य शुक्तिरजतमिथ्यात्व-विषयकत्वसिद्ध्या तदनिर्वचनीयत्वविषयकत्वसिद्ध्या तत्र प्रामाण्यसम्भवादिति भावेन तदुप-पादयति- मिथ्यैव रजतमिति ।। ननु मिथ्यैव रजतं प्रत्यभादित्यनुवादस्य मिथ्यात्वविषयकत्वेन तदन्यथानुपपत्त्या तन्मूलभूतबाधकप्रत्ययस्य मिथ्यात्वविषयकत्वसिद्ध्या मिथ्यात्वे प्रामाण्य-प्राप्तावपि नानिर्वचनीयत्वे प्रामाण्यप्राप्तिः । तन्नियामकस्यानिर्वचनीयविषयकत्वस्यासिद्धत्वादि-त्यतो मिथ्याशब्दानिर्वचनीयशब्दयोः पर्यायत्वान्मिथ्यात्वविषयकत्वेनैवानिर्वचनीयत्वविषयकत्व-सिद्धेः नानुपपत्तिरित्यभिप्रेत्य तयोः पर्यायतामुपदर्शयति- यावदुक्तं भवतीति ।। ननु बाधक-प्रत्ययस्य रजतमिथ्यात्वाविषयकत्वेऽपि तदनुवादोपपत्तेर्नानुवादान्यथानुपपत्त्या बाधकप्रत्ययस्य तन्मिथ्यात्वविषयकत्वसिद्धिरित्यत आह- न चाप्रतीतमिति ।। अप्रतीतेति हेतुगर्भं विशेषणम् । अन्यथा आप्तत्वानुपपत्तिप्रसङ्गादिति भावः ।

ननु बाधकप्रत्ययस्य भ्रमत्वेऽप्यनुवादसम्भवेन तदन्यथानुपपत्तेरेवाभावान्नोक्तरीत्या बाधक-ज्ञानस्य रजतमिथ्यात्वविषयकत्वसिद्धिरित्यत आह- न चेति ।। अन्यथाविज्ञातस्य सम्यग्-विज्ञानस्यैव बाधकत्वादिति भावः । ननु बाधकप्रत्ययस्य प्रमात्वेऽपि तस्य लिङ्गादिजन्यत्वेनापि अनुवादोपपत्त्या कथं तेनोक्तविधप्रत्यक्षकल्पनमित्यत आह- नापि लिङ्गादिजन्य इति ।। व्याप्त्याद्यनुसन्धानविधुराणामपि जायमानत्वान्न तस्य लिङ्गादिजन्यत्वमिति भावः । भ्रान्त्युत्थित-स्येति ।। भ्रान्तित्वनिश्चयवत इत्यर्थः । अनुमीयत इति ।। भ्रान्त्युत्थितः अनिर्वचनीय-विषयकप्रत्ययवान् तदा तद्वाचकशब्दप्रयोक्तृत्वात् सम्प्रतिपन्नवदित्यनुमीयत इत्यर्थः । निरर्थकत्वे चेति ।। ‘अर्थवदधातुरप्रत्ययः प्रातिपदिकम्’१ इति प्रातिपदिकसञ्ज्ञायां ‘सुप्तिङन्तं पदम्’२ इति पदत्वं सिद्ध्येत् । निरर्थकत्वे च तन्न सिद्ध्येदिति भावः । तथा सतीति ।। पौनरुक्त्यापातादि-त्यर्थः । नास्ति रजतम् इति प्रतियोगिप्राधान्येन मिथ्याशब्दार्थमभिधाय अभावप्राधान्यमाश्रित्यापि तदर्थमाह- रजतात्यन्ताभावोऽस्तीति ।। किमिह कथं का कथन्तेत्यर्थः । धर्म्यभावे कथं धर्म इति पराभिसन्धिमुद्घाट्य दूषयति- न हीति ।। रूपादिकं यथा धर्मिसत्तासापेक्षं न तथा प्रतियोगि-त्वम् । घटप्रागभावादिदशायामसतोऽपि घटादेः तत्प्रतियोगित्वदर्शनात् । कालान्तरे सत्त्व-स्येदानीमनुपयोगादिति भावः । नन्वभावज्ञानोपयोगिज्ञानविषयत्वमधिकरणस्याप्यस्ति । अतः कथं तत् प्रतियोगित्वमित्यतस्तज्ज्ञानहेतुभूतज्ञानविषयत्वविशेषस्यैव प्रतियोगित्वरूपत्वाङ्गीकारेण  तज्ज्ञानहेतुभूतज्ञानविषयत्वमात्रस्य तद्रूपत्वानङ्गीकारान्नानुपपत्तिरित्याह- अभावज्ञानेति ।। नन्वसतः प्रतीतेरभावात्तदपि कथमित्यतः असद्वैलक्षण्यज्ञानान्यथानुपपत्त्या तस्या उपपाद-यिष्यमाणत्वान्नानुपपत्तिरित्याह- असतोऽपीति ।।

गोविन्दीया

यावतेति ।। यथाऽनुवादबलात् शुक्तिरजतादेरनिर्वचनीयतामावेदयत् प्रत्यक्षमस्तीत्यनुमीयते तथा प्रकृत इत्यर्थः । न चाप्रमितमिति१ ।। आप्तानुवादाद् अनिर्वचनीयं प्रमितमेवेत्यर्थः । घटज्ञानाभावेऽपि घटोऽस्तीत्यनुवादवत् । अत्रापि सम्भवात् तद्बलात् प्रत्यक्षकल्पनं न युक्तमिति शङ्कानवकाश इति भावः । न च बाधकप्रत्यय इति ।। अन्यथाविज्ञातस्य सम्यग्विज्ञानस्य बाधकप्रत्ययत्वात् न भ्रान्तिरित्यर्थः । बाधकप्रत्ययस्य भ्रान्तित्वेऽनुवादसम्भवात् तेन प्रत्यक्षकल्पनं न युक्तमिति शङ्का दूरापास्तेति भावः । नापीति ।। अनुसन्धानाभावेऽपि जायमानत्वाद् इन्द्रियानुविधायित्वाच्च बाधकप्रत्ययो लिङ्गादिजन्यो न भवतीत्यर्थः । बाधकप्रत्ययस्य लिङ्गादिजन्यत्वात् मिथ्यारजतज्ञानमपि लिङ्गादिजन्यमेव । अतोऽनिर्वचनीये न प्रत्यक्षं प्रमाणमिति शङ्का दूरोत्सारितेति भावः । सत्यमिति ।। तद्वाच्यं वाच्यमित्यनेन वाच्यं नास्तीति लब्धम् । स चानङ्गीकारांश इत्यर्थः । व्याघातादिति ।। असदित्युक्ते नास्तीति लाभात्, पुनरस्तीत्युच्यमाने स्ववचनव्याघात इत्यर्थः । निरर्थकत्वे चेति ।। मिथ्यापदस्य ‘अर्थवदधातु-रप्रत्ययः प्रातिपदिकम्’, ‘सुप्तिङन्तं पदम्’ इति व्याकरणसूत्रात् सार्थकत्वम्, पुनर्निरर्थकत्वेऽङ्गीक्रियमाणे व्याघात इत्यर्थः । मैवमिति ।। असत्पदार्थस्य अविद्यमानत्वेऽपि तद्धर्मस्यात्यन्ताभावप्रतियागित्वलक्षणस्यासत्त्वस्य सत्त्वादित्यर्थः । तथा सतीति ।। यदि मिथ्येति पदस्य शशविषाणादिकमर्थः स्यात्, पौनरुक्त्या शशविषाणं मिथ्येति व्यपदेशो न स्यादित्यर्थः। किन्नामेति ।। तर्हि कोऽर्थः ? नास्तीति, तन्नास्तीति विशिष्टवाक्यार्थ इत्यर्थः । तथा चेति ।। मिथ्यैव रजतमित्यस्य प्रतियोगिप्राधान्येन नास्ति रजतम्, अभावप्राधान्येन रजतात्यन्ता-भावोऽस्तीत्यर्थः । असमभिव्याहृतमिथ्यापदस्यात्यन्ताभावप्रतियोग्यसदर्थः । रजतपदेन समभि-व्याहृतस्य तत्पदस्यात्यन्ताभाव एवार्थः । रजतमेव प्रतियोगीति भावः । स्वयमिति ।। अविद्यमानस्यासतः प्रतियोगित्वरूपधर्मः कथमिति चेदित्यर्थः । किमिह कथमिति ।। किं कथम्? का कथन्तेत्यर्थः । विषयतामात्रस्येति ।। ज्ञानविषयत्वमात्रस्य प्रतियोगित्वरूपत्वादित्यर्थः । असतः ज्ञानमेव नास्ति तद्विषयत्वरूपधर्मो दूरोत्सारित इत्याशङ्क्य तत्परिहारकत्वेनाऽह- असतोऽपीति ।।

नारोपन्तीया

नापि लिङ्गादिजन्य इति । यद्यपि लिङ्गादिजन्यत्वेऽपि न क्षतिः । तथापि प्रत्यक्षत्वेनोपन्यस्तप्रमाणस्योपपादनार्थमेव तदुक्तम् । अनुमानानां तु निरसिष्यमाणत्वात् । पदत्वव्याघात इति । अर्थवत्त्वाभावे प्रातिपदिकसञ्ज्ञाया अभावात्तन्निबन्धसुबुत्पत्तेरभावात्, सुबन्तत्वप्रयुक्तपदसंज्ञाऽनुपपत्तेरिति भावः ।

जनार्दनभट्टीया

यावतेति ।। यत इत्यर्थः । ‘मिथ्यैव रजतम्’ इत्यनुवादे भ्रान्तिविषयस्य मिथ्यात्वसिद्धावपि अनिर्वचनीयसिद्धौ किमायातम्? इत्यत आह – यावदुक्तमिति ।। न चैक्यवादिना त्वया ‘व्यवहारे भट्टनयः’ इत्युररीकरणात्, तन्मते च अनुवादस्य अप्रमाणत्वात्, कथं अनुवादस्य अनिर्वचनीये प्रमाणत्वम्? इत्यत आह – न चाप्रतीतमिति ।। तथा च अनुवादमूलभूतप्रतीतिरेव अनिर्वचनीये मानमिति भावः । न च बाधकेति ।। मिथ्यापदप्रयोगहेतुभूतबाधकप्रत्यय इत्यर्थः । नेदं रजतमिति बाधकप्रत्ययस्य लिङ्गजन्यत्वात् कथं प्रत्यक्षं शुक्तिरजतादेः अनिर्वचनीयतामावेदयदस्तीत्युक्त-मित्याशङ्क्य निराकरोति- नापीति ।। व्याप्त्यननुसन्धानेऽपि नेदं रजतमिति बाधकप्रत्ययस्य अनुभव-सिद्धत्वात् इति भावः । व्यवहरतीति कृत्वेति ।। अनिर्वचनीयविषयः प्रत्ययोऽनुमीयत इति पूर्वेण सम्बन्धः ।। व्याकरणाभिधानेति ।। तद्रूपप्रमाणाभावादित्यर्थः । वादिसमयमात्रस्येति ।। मिथ्याशब्दः अनिर्वचनीयवचनः अपह्नववचनश्च इति विवरणादिति वाक्यरूपसमयेत्यर्थः । अतिप्रसङ्गेनेति ।। अपह्नवेऽपि प्रयोगादिति भावः । अनिर्वचनीयस्येति ।। सदसद्विलक्षणस्येत्यर्थः । तद्वाच्यमिति ।।  मिथ्यापदशक्यमित्यर्थः । वाच्यमिति वक्तव्यमित्यर्थः । ‘त्वया’ इति शेषः ।

न ह्यसदस्तीति ।।  ‘अस्तीति सत्’ इति शतृप्रत्ययान्तसच्छब्दस्य विद्यमानवाचकत्वेन असच्छब्दस्य अविद्यमानवाचित्वादित्यर्थः । निरर्थकत्वे चेति ।। ‘अर्थवदधातुरप्रत्ययः प्रातिपदिकम्’ इति सूत्रेण प्रातिपदिकसञ्ज्ञायां ‘ङ््याप्प्रातिपदिकात्’१  इत्यादिना स्वाद्युत्पत्तौ ‘सुप्तिङन्तं पदम्’ इति पद-सञ्ज्ञाविधानादिति भावः । अथवा यत्पदं तदर्थवदिति अर्थवत्वस्य पदव्यापकत्वेन व्यापकी-भूतार्थवत्वाभावे व्याप्यं पदत्वमपि न स्यादिति व्याघात इत्यर्थः । असत्वस्य विद्यमानत्वादिति ।। मिथ्याशब्दवाच्यम् असत असत्वरूपं प्रवृत्तिनिमित्तं च तत्र विशेष्यस्य असतोऽविद्यमानत्वेऽपि प्रवृत्तिनिमित्तस्य विद्यमानत्वात् मिथ्याशब्दस्य पदत्वमुपपद्यत इत्यर्थः । लाघवात् यत्किञ्चिदभिधेयत्वमेव पदत्वप्रयोजकमिति भावः । मिथ्याशब्दस्य अत्यन्ताभावप्रतियोगित्वार्थकत्वं परिशेषेण दृढयति – नहीति ।। ननु मिथ्याशब्दस्य नास्तीत्यर्थकत्वे ‘मिथ्यैव रजतम्’ इति प्रयोगे एवकारवैयर्थ्यं स्यात् । एवशब्दार्थस्य नास्ति रजतमित्यस्य मिथ्यापदेनैव लाभादित्यत आह- तथा चेति ।। अत्यन्ता-भावोऽस्तीति ।। एवञ्च मिथ्याशब्दार्थविवरणपरत्वादेवकारः सार्थकः । कथं प्रतियोगित्वमिति ।। असति धर्मिणि धर्मस्यावस्थानासम्भवादिति भावः ।

ननु धर्मिसत्तानिरपेक्षं प्रतियोगित्वं कीदृशम्? इत्यतस्तन्निर्वक्ति–  अभावेति ।। अभाव-ज्ञानोपयोगिज्ञानं यस्य तत् तस्य भावस्तत्ता । अभावज्ञानकारणज्ञानविषयत्वं प्रतियोगित्वमित्यर्थः। मात्रस्येति ।। सत्तासामानाधिकरण्यनिरपेक्षस्यापीत्यर्थः ।  ननु अभावज्ञानेत्यादिप्रतियोगिलक्षणस्य असम्भवः । असतः शशविषाणादेः सन्निकर्षाभावेन ज्ञानविषयत्वाभावादित्यत आह– असतोऽपीति ।।

Load More