‘विश्वं सत्यम्’ ..

ब्रह्मजगतोः सत्यत्वे मिथ्यात्वे च श्रुतिसाम्यम्

श्रीमज्जयतीर्थटीका

ननु विषमोऽयमुपन्यासः । यावता ब्रह्मणः सत्यतां प्रतिपादयन्ती ‘तत्सत्यम्’ इत्यादिका श्रुतिः तर्कमाभासयिष्यतीति चेन्न । विशिष्टादेरपि सत्यत्वे श्रुतेरुदाहृतत्वादित्याह-

मूल

‘विश्वं सत्यम्’ इत्यादिवचनमत्राप्युक्तम् ।

अत्रापि विशिष्टादिजगतः सत्यत्वेऽपि । अथापि स्यात्तर्को हि प्रमाणानामनुग्राहकः । अस्ति च विशिष्टादिनिराकरणतर्कस्यानुग्राह्यं वाचारम्भणमित्यादिप्रमाणं न तु ब्रह्मनिराकरणतर्कस्य । अतो वैषम्यमित्यत आह-

मूल

‘न सत्तन्नासदुच्यते । असद्वा इदमग्र आसीन्नासदासीन्नो सदासीत्तदानीम्’ इत्यादि ब्रह्मणो मिथ्यात्वे प्रमाणमस्ति ।

तदुपन्यस्ततर्कस्यानुग्राह्यं भविष्यति’ इति वाक्यशेषः ।

ननु जगदेव मिथ्या । तत्प्रतियोगिकभेदादिविशिष्टं च । अतः कथं तद्भिन्नमित्यनेन ब्रह्मणः शुद्धत्वहानिरुक्तेति चेन्न । परस्पराश्रयप्रसङ्गात् । वियदादिजगतो विशिष्टस्य मिथ्यात्वसिद्धये साम्प्रतमपि परस्य प्रवर्तमानत्वादिति ।।

श्रीविजयीन्द्रभिक्षु

ननु प्रतिकूलतर्कपराहतिप्रतिपादनावसरे ‘विश्वं सत्यमित्यादिवचनमत्राप्युक्तमिति’ वाक्यं प्रकृतानुपयुक्तमित्याशङ्क्य तत्सङ्घटनाय तदनुगुणां शङ्कामाह- नन्विति ।। ननु त्वदुक्तब्रह्म-निराकरणात्मकतर्कापेक्षया मदुक्तविशिष्टादिनिराकरणपरतर्क एव प्रबलः । श्रुत्यनुग्राहकत्वात् । अस्ति च तदनुग्राह्या वाचारम्भणमित्यादिश्रुतिरिति शङ्कते- अथापीति ।। शङ्कोत्तरत्वेन मूल-मवतारयति- अत आहेति ।। तत् न सत्तन्नासदिति श्रुतिवाक्यम् । उपन्यस्तेति ।। ब्रह्मानिर्वच-नीयत्वापादकवाद्युपन्यस्तेत्यर्थः । नन्विति ।। सत्यभूतविशेषणादिविशिष्टत्वमेव शुद्धत्वविघातक-मिति भावः । तद्भिन्नमित्यनेनेत्यर्थकोऽनुवादः । विशिष्टं चेति ।। वियदादिजगत्प्रतियोगिक-भेदादिविशिष्टचैतन्यं चेत्यर्थः । परस्परेति ।। विशिष्टस्य वियदादिप्रपञ्चस्य च मिथ्यात्वे सिद्धे ब्रह्मणः शुद्धत्वसिद्धिः । तत्सिद्धौ च तन्निर्वाहाय विशिष्टस्य वियदादिप्रपञ्चस्य च मिथ्यात्व-सिद्धिरिति परस्पराश्रयेत्यर्थः । साम्प्रतमिति ।। अद्यापीत्यर्थः ।

श्रीवेदेशतीर्थ

शुद्धत्वहानिरिति ।। सत्यभूतमेव विशिष्टादिकं शुद्धत्वविघातकं नारोपितम् । न ह्यारोपितेन नीलिम्ना गगनस्य नीरूपत्वमपगच्छति । तद्वदिति भावः । परस्पराश्रयेति ।। जगतो मिथ्यात्वसिद्धौ तत्प्रतियोगिकभेदादिविशिष्टस्यापि मिथ्यात्वेन ब्रह्मणः शुद्धत्वाहानिः । तदहानौ च भिन्नत्वपक्षे दोषाभावेन प्रतितर्कस्याप्राप्त्या तत्पराहत्यभावेन विशिष्टादिनिराकरणतर्केण विशिष्टादि-जगन्मिथ्यात्वसिद्धिरिति परस्पराश्रयप्रसङ्गादित्यर्थः ।। साम्प्रतमपीति ।। अद्यापीत्यर्थः ।

श्रीराघवेन्द्रतीर्थ

यावतेति ।। यस्मादित्यर्थः । भिन्नत्वपक्षे दोषो नेति शङ्कते- नन्विति ।। परस्परेति ।। विशिष्टस्य वियदादिरूपजगतश्च मिथ्यात्वसिद्धौ ब्रह्मणः शुद्धत्वसिद्धिः । तत्सिद्धौ च तन्निर्वाहाय विशिष्टादेर्मिथ्यात्वसिद्धिरिति परस्पराश्रय इति भावेन विशिष्टादेर्मिथ्यात्वसिद्धिं व्यनक्ति- वियदा-दीति ।। साम्प्रतम् इदानीमित्यर्थः । तदुपन्यस्तेति । तत् इति पदच्छेदः । ब्रह्मणोऽपि मिथ्यात्वे प्रमाणमस्ति तत्प्रमाणं अस्मदुपन्यस्तस्य तर्कस्येत्यर्थः ।। भिन्नमित्यनेनेति ।। भिन्नं चेदिति वाक्येनेत्यर्थः । भिन्नं चेदित्यत्र तदिति विशेष्यं पूरितम् । तथा च ब्रह्मणो जगत्प्रतियोगिकभेदविशिष्टत्वे शुद्धत्वहानिर्वक्तुं न शक्यते भेदवैशिष्ट्यस्य सत्यत्वे खलु सा स्यात् । न चैवम् । तस्याऽरोपितत्वेन मिथ्यात्वात् । न ह्यारोपितेन नीलिम्ना गगनस्य नीरूपत्वमपैतीति भावः ।

गुरुराजीया

ननु सत्यप्रतियोगिकभेदादिविशिष्टत्वस्य मिथ्यात्वे प्रयोजकत्वात् सत्यभूतब्रह्म-प्रतियोगिकभेदादिविशिष्टतया जगतो मिथ्यात्वेऽपि, जगतो मिथ्यात्वात् तत्प्रतियोगिक-भेदादिविशिष्टस्य ब्रह्मणः मिथ्याभूतजगत्प्रतियोगिकभेदादिविशिष्टत्वेऽपि सत्यप्रतियोगिकभेदादि-विशिष्टत्वाभावेन मिथ्यात्वाप्राप्तेर्न तस्य शुद्धत्वहानिरिति कथं तत्प्रतिपत्तव्याभाव इति शङ्कते- ननु जगदेवेति ।। परस्पराश्रयप्रसङ्गादित्युक्तमेव प्रपञ्चयति- वियदादीति ।। जगतो मिथ्यात्वसिद्धौ तत्प्रतियोगिकभेदादिविशिष्टस्य ब्रह्मणः उक्तप्रयोजकविरहान्मिथ्यात्वाभावसिद्धिः । तत्सिद्धौ सत्यभूतब्रह्मप्रतियोगिकभेदादिविशिष्टत्वादुक्तप्रयोजकाक्रान्तत्वाज्जगतो मिथ्यात्वसिद्धिरिति परस्पराश्रयत्वप्रकारोऽनेनोक्तो भवतीति भावः ।

गोविन्दीया

यावतेति ।। यावन्तीत्यर्थः । अथापीति ।। विशिष्टादिजगतः सत्यत्वं निराकुर्वत्तर्क-माभासीकुर्वाणश्रुतेर्विद्यमानत्वेऽपि वैषम्यं स्यादित्यर्थः । तदिति ।। तत् ब्रह्मणः । मिथ्यात्व-प्रतिपादकवेदवचनमित्यर्थः । तद्भिन्नमिति ।। शुद्धं भिन्नमित्यर्थः । तदित्यर्थः शुद्धमिति पदस्यानुवाद इति भावः । शुद्धत्वहानिरिति ।। यथाऽऽरोपितनैल्यमादायाऽकाशस्य नीरूपत्वहानिर्नास्ति, तथाऽऽरोपितभेदादिवैशिष्ट्यमादाय ब्रह्मणः न शुद्धत्वहानिर्भवतीत्यर्थः । परस्पराश्रयप्रसङ्गादिति ।। वियदादिजगतः विशिष्टस्य मिथ्यात्वसिद्धौ ब्रह्मणः शुद्धत्वहानिः सिद्ध्यति । तत्सिद्धौ तत्सिद्धिरित्यन्योन्याश्रयप्रसङ्गादित्यर्थः । अद्यापि तन्मिथ्यात्वे परस्य यतमानत्वादिति भावः ।

नारोपन्तीया

ननु जगदेव मिथ्येति । सत्यभूतब्रह्मप्रतियोगिकभेदविशिष्टम् अतः जगदेव मिथ्या । ब्रह्म तु मिथ्याभूतजगत्प्रतियोगिकभेदविशिष्टमेव । अतो न तस्य सत्यताहानिः, मिथ्यात्वापादनं च सङ्गच्छत इति भावः ।

जनार्दनभट्टीया

‘यद्येवमपि’ इति वाक्यस्य प्रसङ्गान्तरत्वभ्रान्तिं वारयन् अवतारयति – एवमिति ।। विशिष्टादेरपि सत्यत्व इति ।। ‘विश्वं सत्यम्’ इति श्रुतेः प्रपञ्चत्वावच्छेदेन सत्यत्वप्रतिपादकत्वात् तदन्तःपातित्वाद् विशिष्टादेरिति भावः । अत्राऽपीत्यस्य मूलस्य प्रकृतब्रह्मपरत्वभ्रान्तिं वारयति – अत्रापीति ।।