अनुमानस्य चाप्रसिद्धविशेषणः पक्षः..
केवलव्यतिरेकिणि अप्रसिद्धविशेषणत्वस्य दूषणत्वसमर्थनम्
अनुमानस्य चाप्रसिद्धविशेषणः पक्षः
श्रीमज्जयतीर्थटीका
न च वाच्यं केवलव्यतिरेकिणो नाप्रसिद्धविशेषणत्वं दूषणमिति । तथा सत्यन्यत्रासम्भवेन तत्कथाया एव वृथात्वापातात् । दूषणत्वोपयुक्तप्रकारानिरासे च केवलव्यतिरेकितामात्रस्यानुप-योगित्वात् । व्यतिरेकव्याप्तिस्तत्र ग्रहीष्यत इति चेन्न । प्रतियोगिप्रतीतिमन्तरेण व्यतिरेकस्यापि प्रत्येतुमशक्यत्वात् । एवं सति केवलव्यतिरेकिभङ्गः स्यादिति चेन्न । सामान्यप्रसिद्ध्या तत्प्रवृत्तिसम्भवात् । तदभावे तद्भङ्गस्येष्टत्वात् ।
श्रीविजयीन्द्रभिक्षु
नन्वनिर्वचनीये प्रत्यक्षवन्मानान्तरस्य निरासे कर्तव्ये अनुमानमात्रस्याप्रसिद्ध-विशेषणत्वदूषणोक्तिरयुक्तेत्याशङ्क्याऽह- मा भूदिति ।। प्रत्यक्षेणेति ।। सञ्जातबाधस्य मिथ्यैव रजतं प्रत्यभादित्यनुवादमूलभूतप्रत्यक्षेणेत्यर्थः । विवादपदमिति ।। अधिष्ठानान्यत्वे सति दोषप्रयुक्तभानमित्यर्थः । अनिर्वचनीयमिति ।। सदसद्विलक्षणमित्यर्थः । बाध्यत्वादिति ।। अव्याप्यवृत्त्यन्यत्वे सति स्वात्यन्ताभावाधिकरण एव प्रतीयमानत्वादित्यर्थः । अप्रसिद्ध-विशेषणत्वस्यानुमानदूषणत्वेन समुच्चेतव्याभावेन चशब्दानुपपत्तिमाशङ्क्याऽह- चशब्द इति ।। एतच्चोपलक्षणम् । पूर्वोक्तन्यायेन यस्मादित्यर्थेऽपि वर्तत इति द्रष्टव्यम् । तथा चायमर्थः- यस्मादनुमानस्य पक्षोऽप्रसिद्धविशेषणो भवति तस्मादनुमानमपि नानिर्वचनीयसाधकमिति । ननु साध्यधर्मविशिष्टस्यैव धर्मिणः पक्षशब्दार्थत्वेन साध्यस्य च तद्विशेषणत्वे विशिष्टविशेषणस्य विशेषणवृत्तित्वनियमेनाऽत्माश्रयत्वप्रसङ्गादिति पृच्छति- ननु विशिष्टस्येति ।। तदेकदेशः पक्षपदार्थैकदेशः । लक्ष्यत इति ।। एवंविधस्थलीयलक्षणाया निरूढलक्षणात्वेन प्रयोजनाभावो न दोषायेति भावः । यद्विशेषणेनेति ।। यद्विशेषणेन सिषाधयिषितधर्मरूपेण प्रवृत्तिनिमित्तेन अयं बुद्धिस्थो यः कश्चिद्धर्मी पक्षः पक्षपदेनाभियुक्तैः व्यवह्रियते तत् विशेषणमप्रसिद्धमिति वा तदर्थ इत्यदोष इत्यर्थः ।
अयमाशयः । चूताद्यनेकवृक्षसमुदायस्य वनशब्दार्थत्वेऽपि ‘वने चूतः’ इत्यादिप्रयोगे वनशब्दो यथा मुख्यार्थः । एवं सिषाधयिषितसाध्यरूपविशेषणतद्धर्मिरूपविशेष्यतदुभयसम्बन्धरूप-समुदायस्य पक्षशब्दार्थत्वेऽप्यप्रसिद्धं विशेषणं सिषाधयिषितधर्मरूपं यस्मिन्नुक्तसमुदाये पक्षशब्दार्थेऽस्ति सोऽयमप्रसिद्धविशेषणः पक्ष इति सप्तम्यर्थे बहुव्रीह्याश्रयणात् पक्षशब्दो मुख्यार्थ एव । न चैवमात्माश्रयदोषः१ । साध्यरूपविशेषणस्यापि पक्षशब्दार्थभूतोक्तसमुदायप्रविष्टत्वादिति वाच्यम् । वने चूत इत्यादिवत् पक्षे साध्यमित्यबाधितप्रत्ययात्सिद्धविषयत्वेन तस्यादोषत्वादिति ।
नन्वप्रसिद्धविशेषणत्वं कथं हेतुदुष्टत्वे कारणम् । हेत्वाभासानन्तर्गतत्वादित्याशयेन पृच्छति- अथ कथमिति ।। हेत्वाभासानन्तर्गतत्वेऽप्युपाधिवद्व्याप्यत्वासिद्ध्यादिसम्पादकत्वेन हेतुदुष्टत्वे कारणत्वमुपपद्यत एवेत्याशयेनोत्तरयति- व्याप्तीति ।। अप्रतीतेनेति ।। साध्येन निरूपितेति शेषः । यद्यप्यसाधकत्वमात्रं प्रसिद्धं तथाऽपि प्रकृतसाध्यासाधकत्वं प्रकृतसाध्यप्रसिद्धिविरहादप्रसिद्धमिति भावः । पक्षताविरहमुपपादयति- सन्दिग्धेति ।। यद्यपि सन्देहघटितपक्षता न सार्वत्रिकी । घनगर्जितादिस्थलेऽभावात् । किञ्च वादिप्रतिवादिनोः स्वपक्षनिर्णयवत्त्वेन संशय एवासम्भवी । तथाऽपि प्राचीनरीत्या वादकथायां संशयस्य पक्षत्वप्रयोजकत्वसम्भवादियमुक्तिरिति ध्येयम् ।
न चाप्रसिद्धेति ।। संशयस्य कोटिद्वयोपस्थितिसाध्यत्वादिति भावः । तथा सतीति ।। गृहीतसाध्यनिरूपितव्याप्तिकत्वादन्यस्यान्वयित्वस्याभावेनान्वयिनि साध्याप्रसिद्धेरेवासम्भवेना-गृहीतसाध्यनिरूपितव्याप्तिकतया व्यतिरेकिण्येव तद्दूषणत्वमुपेयम् । तत्रापि तदनभ्युपगमे साध्याप्रसिद्धिदूषणत्वकथाया एवोच्छेदापातादिति भावः । यद्वा, यदि साध्याप्रसिद्धिः व्यतिरेकिणि न दूषणं तदा तुल्यन्यायतया अन्वयिन्यपि तद्दूषणत्वस्यासम्भवापातेन साध्याप्रसिद्धिदूषणकथाया एव निर्मूलत्वापातादिति भावः । दूषणत्वोपयुक्तेति ।। व्याप्तिग्रहविघटकत्वरूपदूषणत्वोपयुक्त-प्रकारस्याविशिष्टत्वे साध्याप्रसिद्धिरन्वयिन्येव दूषणं, न तु व्यतिरेकिणीत्यस्यासम्भवदुक्ति-कत्वादिति भावः । ननु साध्याप्रसिद्धिरन्वयिन्येव दोषः । तां विना साध्यनिरूपितव्याप्तेः गृहीतुमशक्यत्वात् । व्यतिरेकिणि तु साध्यप्रसिद्धिं विनाऽपि हेत्वभावनिरूपितव्याप्तिः सुग्रहेति तत्र स न दोष इत्याशयेन शङ्कते- व्यतिरेकव्याप्तिरिति ।। ननु व्यतिरेकव्याप्तिग्रहार्थमपि साध्य-प्रसिद्ध्यपेक्षणे व्यतिरेकित्वभङ्गप्रसङ्गः । यत्र साध्यं प्रसिद्धं तस्यैव दृष्टान्तत्वसम्भवात्तत्र हेतोरवृत्तावसाधारण्यं स्यादित्यभिप्रेत्य शङ्कते- एवं सतीति ।। सामान्यप्रसिद्ध्येति ।। इच्छा अष्टद्रव्यातिरिक्तद्रव्याश्रिता अष्टानाश्रितत्वे सति गुणत्वादित्यादिना सामान्यतोऽधिकरण-विशेषागोचरत्वेन साध्यप्रसिद्धावपि केवलव्यतिरेकिप्रवृत्तिसम्भवादित्यर्थः ।
श्रीवेदेशतीर्थ
अन्यस्याप्रसिद्धविशेषणत्वस्यानुक्तत्वात् कथं चशब्द इत्यत आह - चशब्द इति ।। विशिष्टस्येति ।। साध्यविशिष्टस्येत्यर्थः । न हीति ।। न हि दण्डविशिष्टस्य दण्डो विशेषणम् । स्वविशेषत्वप्राप्त्या आत्माश्रयप्रसङ्गादित्यर्थः । एवमप्रसिद्धं विशेषणं यस्येति समासे उपपत्तिमभि-धायाप्रसिद्धं विशेषणं यस्मिन्निति सप्तम्यर्थे बहुव्रीहिरिति मुख्यार्थत्वेऽपि नानुपपत्तिरित्याह- यद्विशेषणेनेति ।। अथेति ।। तस्य पृथग्घेत्वाभासत्वाभावादिति भावः । उत्तरमाह- व्याप्तीति ।। क्रमेण तदुपपादयति- न हीत्यादिना ।।
केषाञ्चिन्मतमाशङ्क्य निराकरोति- न च वाच्यमिति ।। अन्यत्रासम्भवेनेति ।। अन्वय-व्यतिरेकिणि केवलान्वयिनि च सपक्षसत्त्वेन साध्यप्रसिद्धेः सत्त्वादप्रसिद्धविशेषणत्वस्य तत्रासम्भवे केवलव्यतिरेकिण्यपि तस्यादूषणत्वेऽप्रसिद्धविशेषणत्वरूपदूषणस्यैवापलापापातादिति भावः । दूषणान्तरमाह- दूषणत्वेति ।। अप्रसिद्धविशेषणत्वे हि व्याप्तिपक्षधर्मताविरह इत्युक्तम् । केवलव्यतिरेकिणि तददूषणत्वं वदता दूषणत्वोपयुक्तव्याप्त्यादिराहित्यरूपप्रकारनिरासः कर्तव्यः । व्याप्त्यादिकमुपपाद्यमिति यावत् । तदकरण इत्यर्थः । यद्वा, केवलव्यतिरेकिणि अप्रसिद्धविशेषणत्वं किं दूषणत्वोपयुक्तव्याप्त्यादिराहित्याभावाददूषणं किं वा केवलव्यतिरेकित्वादेव । नाऽद्यः । दूषणत्वोपयुक्तव्याप्त्यादिराहित्यानिरासात् । न द्वितीयः । केवलव्यतिरेकित्वमात्रस्याप्रयोज-कत्वादिति । दूषणान्तरमाह- दूषणत्वेति ।। ननु दूषणत्वोपयुक्तव्याप्त्यादिराहित्यमसिद्धमेव । साध्याप्रसिद्धावन्वयव्याप्तेर्ग्रहीतुमशक्यत्वेऽपि व्यतिरेकव्याप्तिग्रहसम्भवात् । तथा सिषाधयिषा-विरहसहकृतसाधकमानाभावरूपपक्षत्वस्यापि सम्भवात् पक्षधर्मत्वोपपत्तिरित्यभिप्रेत्य शङ्कते- व्यतिरेकेति ।। साध्याभावे हि साधनाभावनिरूपितव्याप्तिग्रहः साध्याभावग्रहे सति स्यात् । स चायुक्तः । साध्यस्याप्रसिद्धत्वे तदभावस्यापि ज्ञातुमशक्यत्वादित्याह- प्रतियोगीति ।। सामान्य-प्रसिद्ध्येति ।। निरात्मकत्वं किञ्चिन्निष्ठात्यन्ताभावप्रतियोगि व्यतिरेकिधर्मत्वाद्घटवदिति सामान्यतः क्वचित् सात्मकत्वप्रसिद्धौ प्रतियोगिप्रसिद्ध्या व्यतिरेकस्य प्रत्येतुं शक्यत्वेन व्यतिरेकव्याप्ति-ग्रहसम्भवादित्यर्थः । तदभावे सामान्यतः प्रसिद्ध्यभावे । अत एव शशविषाणोल्लिखिता भूरित्यादौ सामान्यतः प्रसिद्ध्यभावान्न केवलव्यतिरेकित्वमिति भावः ।
द्वैतद्युमणि
चशब्दस्य प्रत्यक्षसमुच्चायकत्वे तत्र पक्षाद्यभावात् तत्पक्षस्याप्रसिद्धविशेषणत्वकथन-मसङ्गतमित्यत आह- चशब्द इति ।। तथा चानुमानस्य पक्षोऽप्रसिद्धविशेषणश्चेति योजनोक्ता भवति । समुच्चितानि प्रत्यक्षनिराकरणानुमाननिराकरणागमनिराकरणानि विशेषाभावकूटविधया ‘न चानिर्वचनीये किञ्चिन्मानम्’ इत्युक्तमानसामान्यनिराकरणे हेतवो भवन्तीति तेषां परस्परसमुच्चयकथनं युक्तमिति भावः । पक्षपदस्य साध्यधर्मविशिष्टधर्मिपरतया अप्रसिद्धं विशेषणं यस्येति बहुव्रीहिविग्रहघटकयत्पदार्थत्वस्यापि तस्यैव प्राप्त्या यस्य विशेषणमित्युक्तौ विशिष्ट-सम्बन्धिविशेषणमित्युक्तं स्यात् । विशिष्टविशेषणत्वं च विशेष्यविशेषणत्वे सति विशेषणविशेषण-त्वम् । तदयुक्तम् । आत्माश्रयत्वप्रसङ्गेन प्रमाणं विना स्ववृत्तित्वनिर्वाह्यस्य स्वस्मिन् स्वविशेषणत्वस्य वक्तुमशक्यत्वादित्याशयेन शङ्कते- नन्विति ।।
पक्षपदस्य मुख्यार्थत्वमनुसृत्याह- यद्विशेषणेनेति ।। अनेनाप्रसिद्धं विशेषणं यस्येत्यत्र षष्ठ्यर्थो नाधेयत्वम् । किन्तु निर्वाहकत्वम् । विशिष्टनिर्वाहकत्वस्य विशेषणेप्यक्षतत्वात् । न च विशिष्टान्वय-स्थले विशेषणान्वयस्य त्वयोक्तत्वात् विशेषणे स्वनिर्वाहकत्वं बाधितमिति वाच्यम् । विशेषण-सम्बन्धपरिणतद्रव्यात्मकविशिष्टान्वयरूपतदुपलसितान्वयस्यैवाङ्गीकारात् । सति तात्पर्ये तत्पदस्य तादृशान्वयबोधजननाङ्गीकारे बाधकाभावात् । न चाधेयतान्वयपक्षोऽप्युक्तरीत्या युज्यत इति तत्पक्षे एकदेशलक्षणाङ्गीकारो व्यर्थ इति वाच्यम् । तत्र पौनरुक्त्यापरपर्यायरूपवैयर्थ्यस्योक्तत्वात् । तद्विशेषणे तदाश्रयधर्मिनिरूपिताधेयत्वसंशयस्यानाहार्यस्य कदाप्यनुत्पत्त्या तद्विशेषणे तदाश्रय-वृत्तित्वस्याजिज्ञासितत्वेन च फलानुत्पत्तेरानुभाविकत्वेन प्राचां मते जिज्ञासारूपाकाङ्क्षाभावेन नव्यमते समभिव्याहाररूपाकाङ्क्षाभावेन व्युत्पत्तिवादरीत्या कारणान्तरकल्पनेन वा तस्योपपादित-त्वात् । अत एव ‘घटो घटः’ इति वाक्यस्य ‘कर्म गच्छति’, ‘पक्ता पचति’ इत्यादेश्चाप्रामाण्य-मुक्तम् । तद्धर्मविशिष्टाख्यवस्तुनिर्वाहकत्वस्य विशेष्ये तद्धर्माश्रयत्वभानमात्रेणालब्धत्वेनतत्र तद्बोधनं युक्तमेवेत्यवधेयम् ।
यद्वा, अनेनाप्रसिद्धं विशेषणं यत्रेति विग्रहो विवक्षितः । तत्र घटकत्वं सप्तम्यर्थः । विशेषणान्वयरूपविशिष्टान्वयस्वीकारेऽपि विशेषणस्यापि स्वाविषयकप्रतीत्यविषयतत्कत्व-रूपघटकत्वस्याबाधेन क्षतिविरहात् । स्वस्मिन् स्वघटितत्वव्यवहारस्यानानुभविकत्वेन घटकत्वस्य भेदाघटितत्वेन विशेषणान्वय एतत्कल्पे नास्त्येव । किन्तु तदुपलक्षितान्वय एवेति द्रष्टव्यम् ।
श्रीराघवेन्द्रतीर्थ
अन्यस्याप्रसिद्धविशेषणत्वस्यानुक्तत्वात् कथं चशब्द इत्यत आह- च शब्द इति ।।१ विशिष्टस्य पक्षत्वमिति ।। ‘साध्यधर्मविशिष्टः पक्षः’ इत्युक्तेरिति भावः । व्याप्त्यादिविरहं व्यनक्ति- न ह्यप्रतीतेति ।। अन्यत्रेति ।। केवलान्वयिन्यन्वयव्यतिरेकिणि चेत्यर्थः । दूषणत्वोपयुक्तप्रकारेति ।। व्याप्त्यादिविरहरूपो यः प्रकारो दूषणत्वोपयुक्तस्तस्यानिरास इत्यर्थः ।तद्विशिष्टस्येति । केवलं देवदत्तस्यैव दण्डो विशेषणं न तु दण्डविशिष्टदेवदत्तस्य दण्डो विशेषणं आत्माश्रयप्रसङ्गादित्यर्थः । उल्लेखी तत्कोटिकः । युज्यत इति ।। तथा च तस्य पक्षत्वाभावेन पक्षधर्मत्वाभावेन स्वरूपासिद्धिरिति भावः ।
गुरुराजीया
एवं प्रत्यक्षं निराकृत्यानुमानमपि निराचिकीर्षुस्तावत् किं निरवकाशं सावकाशं वेति कल्पद्वयं मनसि निधायाऽद्यमुत्थाप्य दूषयति- मा भूदिति ।। नन्वनेनैवानुमानेनानिर्वचनीयत्व-रूपपक्षविशेषणस्य प्रसिद्धत्वात् कथमप्रसिद्धविशेषणत्वमित्यत एतदनुमानसाध्यानिर्वचनीयत्व-प्रसिद्धेर्नैतदनुमानप्रवृत्त्युपयुक्तत्वम् । तथा सति ‘अनिर्वचनीयत्वप्रसिद्धावेतदनुमानप्रवृत्तिः, एतदनुमानप्रवृत्तौ च तेनानिर्वचनीयत्वप्रसिद्धिरित्यन्योन्याश्रयप्रसङ्गादित्याशयेनाऽह- एतदनु-मानादिति ।। तदेकदेश इति ।। लक्षणाबीजभूतशक्यसम्बन्धकीर्तनम् । अत्र पक्षे पक्षशब्दस्य लक्षणा आश्रयणीया भवतीत्यपरितोषात् पक्षान्तरमाह- यद्विशेषणेनेति ।। ततश्च अप्रसिद्धं विशेषणं यस्मिन्निति मुख्यार्थ एव पक्षशब्द इति भावः । अथेति ।। अतिप्रसङ्गेन स्वतोऽ-साधकत्वहेतुत्वासम्भवाद् एतदुन्नेयदोषान्तराप्रतिभासेन तदुन्नायकत्वेनाप्यसाधकत्वे हेतुत्वासम्भ-वादिति भावः । दोषान्तरोन्नायकत्वेनैवास्य हेतुत्वमित्यभिप्रेत्य सिद्धान्तयति- व्याप्तीति ।।
ननु साध्यस्याप्रसिद्धत्वे कथं व्याप्तिपक्षधर्मताविरह इत्यतो व्याप्तिविरहं तावदुपपादयति- न हीति ।। ससम्बन्धिकपदार्थज्ञानस्य सम्बन्धिज्ञानाधीनत्वेन तदभावेऽसम्भवादिति भावः । पक्षधर्मताविरहमप्युपपादयति- सन्दिग्धेति ।। न चेति ।। कोटिप्रसिद्धेः सन्देहकारणत्वेन तदभावे तस्यासम्भवादिति भावः । गूढाभिसन्धिः केषाञ्चिन्मतमुपन्यस्यति- न चेति ।। आशयमजानानः परिहरति- तथा सतीति ।। केवलव्यतिरेकिण्यप्रसिद्धविशेषणत्वस्य दूषणत्वाभाव इत्यर्थः । अन्यत्र केवलान्वयिन्यन्वयव्यतिरेकिणि चेत्यर्थः । तत्कथायाः अप्रसिद्धविशेषणत्वस्य दूषणत्वकथायाः । तत्र सपक्षसद्भावादिति भावः ।
किञ्च व्याप्तिपक्षधर्मताविरहोन्नायकत्वेनाप्रसिद्धविशेषणत्वस्य दूषणताया उपपादितत्वाद्दूषण-त्वोपयुक्तप्रकारनिरासपूर्वकमेव तददूषणत्वस्य शङ्कनीयत्वेन दूषणत्वोपयुक्तं प्रकारमनिरस्या-दूषणत्वशङ्काया राज्ञामाज्ञामात्रत्वेन निर्दलत्वाच्चेत्याह- दूषणत्वोपयुक्तेति ।। इदानीं शङ्किता स्वाभिप्रायमुद्घाटयति - व्यतिरेकेति ।। उपलक्षणमेतत् । पक्षधर्मताया अपि सन्देहघटितत्वाभावान्न तद्विरहोऽपीति द्रष्टव्यम् । तस्यां व्याप्तौ साध्याभावसाधनाभावयोरेव सम्बन्धित्वेन तज्ज्ञानस्य तज्ज्ञानाधीनत्वेऽपि साध्यसाधनयोरसम्बन्धित्वेन तज्ज्ञानस्य तज्ज्ञानाधीनत्वाभावेन साध्या-प्रसिद्धावपि व्यतिरेकव्याप्तिज्ञानस्याप्रत्यूहत्वादिति भावः । व्यतिरेकव्याप्तौ साध्याभावसाधना-भावयोरेव सम्बन्धित्वेन साध्यसाधनज्ञानस्य सम्बन्धिज्ञानत्वेन तज्ज्ञानेऽनपेक्षायामपि तत्सम्बन्धि-भूतसाध्याभावज्ञानार्थतया प्रतियोगिज्ञानत्वेन साध्यज्ञानस्यापेक्षितत्वाद् असति तस्मिन् प्रतियोगिज्ञानाभावेन तदधीनसाध्याभावज्ञानासम्भवेन सम्बन्धिज्ञानविरहान्न व्यतिरेकव्याप्ति-ग्रहोऽपि सम्भवतीत्याशयेनाऽह- प्रतियोगिप्रतीतिमन्तरेणेति ।। एवं सतीति ।। केवलव्यतिरेकिणि सपक्षाभावेनाप्रसिद्धविशेषणत्वावश्यम्भावेन व्याप्तिपक्षधर्मताविरहध्रौव्यादिति भावः । किं सम्प्रतिपन्नप्रमाणभावानां केवलव्यतिरेकिणां भङ्गः आपाद्यत्वेनाभिमतः, उत तदन्येषामिति विकल्पं मनसि निधायाऽद्यं दूषयति- सामान्यप्रसिद्ध्येति ।।
अयमाशयः । ये हि सम्प्रतिपन्नप्रमाणभावाः केवलव्यतिरेकिणस्तेषु सामान्यतोऽन्वय-व्याप्तिरेवाभिधातव्या । तथा हि । प्राणादिमत्त्वेन जीवच्छरीरस्य सात्मकत्वे साध्ये यद्यत् कार्यवत् तत्तत् कारणवत् यथा अङ्कुरवती भूमिर्बीजगर्भेति, तथा गन्धवत्त्वेन भुवोऽन्यभेदसाधने यद्यदसाधारणधर्मवत् तत् तदन्यतो भिद्यते यथा अबादीति, एवमीश्वरस्य सर्वकर्तृत्वेन सार्वज्ञ्यसाधने यो यस्य कर्ता स तस्य कारणं प्रयोजनं च जानाति यथा कुलाल इति, एवं शब्दः पृथिव्याद्यष्टद्रव्यातिरिक्तद्रव्याश्रितः पृथिव्यादिवृत्तौ बाधकोपपन्नत्वे सति गुणत्वाद् इत्यादौ यो यद्वृत्तौ बाधकोपपन्नत्वे सति गुणः स ततोऽन्यद्रव्यवृत्तिः यथा गन्धः, इत्यादिरूपेण सामान्यतो व्याप्तिरभिधातव्या ।
यद्वा, सामान्यतो विशेषणप्रसिद्धिं विधाय केवलव्यतिरेकी प्रयोक्तव्यः । यथा ज्ञानतारतम्यं क्वचिद्विश्रान्तं तारतम्यत्वादित्यनेन सामान्यतः सार्वज्ञ्यसिद्धौ तस्येश्वरसम्बन्धः केवलव्यतिरेकिणा साध्यते, यथा च इच्छादयः क्वचिदाश्रिता गुणत्वाद्रूपवद् यश्चेच्छादीनामाश्रयस्स एवाऽत्मेति सामान्येनाऽत्मसिद्धौ तत्सम्बन्धो जीवच्छरीरस्य केवलव्यतिरेकिणा साध्यते । एवमन्यत्रापि यथासम्भवं द्रष्टव्यम् ।
क्वचित्पक्षैकदेश एव विशेषणप्रसिद्धिमाश्रित्य केवलव्यतिरेकी प्रवर्तते । यथा पृथिवी इतरेभ्यो भिद्यते पृथिवीत्वात् न यदेवं न तदेवं यथा जलादीत्यत्र घटादावेव विशेषणप्रसिद्धेर्नाप्रसिद्ध-विशेषणता । न चैवं सपक्षसम्भवेन केवलव्यतिरेकित्वभङ्गः। घटादेः पक्षैकदेशत्वात् । न चांशे सिद्धसाधनता । एकैकत्र प्रसिद्धावपि आपरमाणोः आ च भूगोलकादसिद्धेरिति ।
द्वितीयं दूषयति- तदभाव इति ।। एतेष्वन्यतमस्याप्यभावे तद्भङ्ग इष्ट एवेत्यर्थः । यदत्र जीवच्छरीरं सात्मकं प्राणादिमत्त्वादिति व्यतिरेकिविशेषमात्रपरतया शङ्कासमाधानाभिप्रायवर्णनं दार्शनिकम्मन्येन कृतं तत्तु एतद्ग्रन्थविवरणरूपोदाहृततात्पर्यसुधाग्रन्थादर्शनतदर्थाज्ञानग्रन्थ-द्वयैकवाक्यताननुसन्धानमूलकमिति स्पष्टमेवेत्ययुक्तत्वादुपेक्ष्यम् । तदनुसारेण केवलव्यतिरेकि-मात्रविषयकत्वसिद्ध्या तद्विशेषविषयकत्वाश्रयणस्य तद्विरुद्धत्वात् ।
गोविन्दीया
आत्माश्रयत्वेति ।। स्वस्यैव स्वं प्रति विशेषणत्वेन आत्माश्रयत्वप्रसङ्गादित्यर्थः । सत्यमिति ।। अप्रसिद्धविशेषणत्वं कथमित्याक्षेपानङ्गीकार इत्यर्थः । यद्विशेषणेनेति ।। अप्रसिद्धं विशेषणं यस्मिन् स इत्यधिकरणबहुव्रीहित्वे विशिष्टस्यापि पक्षस्याप्रसिद्धविशेषणत्वं सङ्गच्छत इत्यभिप्रायेण यद्विशेषणेन इत्याद्युक्तमिति भावः । अथ कथमिति ।। अप्रसिद्धविशेषणत्वं बाध्यत्वानुमानस्यानिर्वचनीयरूपसाध्यासाधकत्वे हेतुः, तस्य च हेत्वाभासेष्वगणितत्वादित्यर्थः । उत्तरमाह- व्याप्तिपक्षधर्मताविरहादिति ।। अप्रसिद्धविशेषणत्वमनुमानस्य व्याप्तिपक्षधर्मताविघटन-द्वारा दूषणं भवतीत्यर्थः । तथा सतीति ।। अन्यत्र केवलान्वयिनि अन्वयव्यतिरेकिणि चाप्रसिद्धविशेषणाख्यदूषणस्य असम्भवेन कथायाः परिसमाप्त्यभावे तया१ वृथात्वापातादित्यर्थः । दूषणत्वेति ।। दूषणत्वोपयुक्तव्याप्तिपक्षधर्मताविरहरूपप्रकारस्यानिरासे निराकरणाभावे व्याप्त्यादिकमुपपाद्येति यावत् । अप्रसिद्धविशेषणस्य दूषणत्वं नास्तीति वक्तव्यम्, तद्विहाय केवलव्यतिरेकितामात्रस्य दूषणत्वाभावं २प्रत्यनुपयुक्तत्वादित्यर्थः । व्यतिरेकेति ।। साध्याप्रसिद्धौ अन्वयव्याप्तिः ग्रहीतुमशक्यतः तत्र व्यतिरेकव्याप्तिर्ग्रहीष्यत इति चेदित्यर्थः । प्रतियोगीति ।। व्यतिरेकस्यापि= अभावस्यापि प्रत्येतुमशक्यत्वात् व्याप्तिर्दूरोपास्तेत्यर्थः । एवं सतीति ।। अभावप्रतीतौ प्रतियोगिप्रतीतेरावश्यकत्वे जीवच्छरीरं सात्मकं प्राणादिमत्त्वादिति व्यतिरेक्यनु-मानभङ्गः स्यात् । तत्र च सात्मकत्वरूपप्रतियोग्यप्रतीतावपि तदभावमादायानुमानस्य प्रवृत्तेरिति चेदित्यर्थः । सामान्यप्रसिद्ध्येति ।। निरात्मकत्वं किञ्चिन्निष्ठाभावप्रतियोगि व्यतिरेकिधर्मत्वाद् घटवदिति सामान्यतः क्वचित् स्वात्मकत्वप्रसिद्धौ तदभावस्य प्रत्येतुं शक्यत्वेन तदनुमान-प्रवृत्तिसम्भवादित्यर्थः । तदभाव इति ।। सामान्यतः प्रतियोगिप्रतीत्यभावे भूः शशविषाणोल्लिखिता भूत्वादिति व्यतिरेक्यनुमानभङ्गस्येष्टत्वादित्यर्थः ।
नारोपन्तीया
व्याप्तिपक्षधर्मताविरहादिति । साध्यस्याप्रसिद्ध्या तेन सह व्याप्तिज्ञानासम्भवात् सन्देहघटितपक्षतायाश्चानिर्वचननीयत्वरूपसाध्यकोटिप्रसिद्ध्यधीनत्वात् तदप्रसिद्ध्या पक्षत्वा-सम्भवाद्धेतोरपक्षधर्मत्वाच्चेत्यर्थः । तत्कथाया वृथात्वापातादिति । सपक्षसत्त्वरूपविशिष्टे अन्वयिनि साध्यनिश्चयस्याऽवश्यकत्वेन परिशेषेण व्यतिरेकिण्येव तद्दूषणं वाच्यम् । तत्रापि साध्यप्रसिद्धिः पक्षे वा स्यात् तदतिरिक्ते वा । आद्ये सिद्धसाधनमनुमानवैकल्यं च । सिषाधयिषया साधने तु पक्षस्यैव सपक्षत्वादन्वयित्वमेव । द्वितीये तत्र हेतुरवगतो न वा । आद्येऽन्वयितापत्तिः । द्वितीयेऽ-साधारण्यमित्यादिदूषणग्रासादिति भावः । सामान्यप्रसिद्ध्या तत्प्रवृत्तिसम्भवादिति । व्यति-रेकिण्यपि साध्यप्रसिद्धावेवानुमितिः । सा न पक्ष एव । किन्तु सामान्येन पक्षतावच्छेदक-सामानाधिकरण्येन साध्यसिद्धेरजातत्वात् नानुमानवैकल्यमिति भावः ।
ननु तादृशसाध्यप्रसिद्धिरप्युक्तव्यतिरेकिणि कथं सम्भवेदिति चेच्छृणु । अत्र सात्मकत्वं न तावदात्मसंयोगित्वं वा आत्माधिकरणत्वं वा? आद्ये पटादेरपि सात्मकत्वापत्तेः असाधारण्यानिस्तारः । द्वितीये बाधः । आत्मनो विभुत्वेनावृत्तित्वात् । तार्किकरीत्यैवैतत्प्रघट्टकस्य प्रवृत्तत्वान्न काऽप्यनुप-पत्तिः । ननु विभुद्रव्यस्य समवायेनैवावृत्तित्वं तत्र कुत्राप्यसमवेतत्वात् । समानन्यायत्वाच्च परमाणोरप्यवृत्तित्वमेव । न चैवं गुणकर्मादीनां संयोगेन कुत्राप्यवर्तनात्तेषामप्यवृत्तितापत्तिरिति वाच्यम् । नवीनमते इष्टत्वात् । तन्मते घटादेरेवावृत्तित्वानभ्युपगमात् । तस्य समवायेन कपालादौ संयोगेन भूतलादौ वृत्तिमत्त्वात् । तथा च संयोगेनाऽत्मनोऽपि साधिकरणत्वमिष्टमेवेति । नवीनकुसृष्टिस्वीकारे घटादेरपि सात्मकत्वापत्त्या पूर्वोक्तदोषतादवस्थ्यापत्तेः । तस्माद्घटादौ मृतशरीरादौ चावर्तमानं जीवच्छरीरमात्रवृत्ति किञ्चित्पारिभाषिकं सात्मकमत्वमेषितव्यम् । तन्निर्वचनं तु ज्ञानसमानाधिकरणज्ञानकारणीभूतसंयोगाश्रयकार्यत्वमिति । अत्र यत्किञ्चित्संयोगाश्रये घटेऽतिव्याप्तिवारणाय ज्ञानकारणेति संयोगविशेषणम् । शरीरप्राणसंयोगस्य चक्षुर्घटसंयोगस्य च तथाविधत्वाच्चक्षुर्घटप्राणेष्वतिप्रसक्तिनिरासाय ज्ञानसामानाधिकरण्येन संयोगो विशेषितः । तादृशात्ममनःसंयोगस्याऽत्ममनसोरतिव्याप्तिनिरासाय कार्यत्वमिति । आत्मप्राणसंयोगस्तु ज्ञानकारणमेवेति न कश्चिद्दोषः । तदेवं सात्मकत्वं निरुक्तम् ।
तत्प्रसिद्धिस्त्वित्थम् । तथा हि- तस्य च भूतपञ्चकगुणत्वे बहिरिन्द्रियप्रत्यक्षत्वापातात्, दिक्कालमनोगुणत्वे वाऽतीन्द्रियत्वापत्त्या अष्टद्रव्यातिरिक्तात्मरूपद्रव्याश्रितत्वे सिद्धे, आत्मनश्च भोजकादृष्टजन्येषु देशान्तरोत्पन्नकार्यद्रव्येषु अदृष्टप्रत्यासत्त्यर्थं विभुतायाश्च अवश्याश्रयणीयत्वेन विभुविशेषगुणत्वे सिद्धे इदमनुमानं उक्तरूपसाध्यप्रसिद्ध्यर्थं द्रष्टव्यम् । तथा हि- ज्ञानत्वं संयोगासमवायिकारणकवृत्ति । प्रत्यक्षविभुविशेषगुणवृत्तिगुणत्वसाक्षाद्व्याप्यजातित्वात् । शब्दत्व-वत् । अनेन समानसंवित्संवेद्यत्वात् ज्ञानकारणीभूतसंयोग इत्ययमंशः सिद्धः । यद्यप्यत्र ज्ञानमेव पक्षीकृत्य संयोगासमवायिकारणकत्वरूपं साध्यं विभुविशेषगुणत्वमात्रेण साधयितुं युक्तम् । तथापि विभागजशब्दे शब्दजशब्दे ईश्वरज्ञानादौ चानैकान्त्यं मा प्रसाङ्क्षीदिति जातिपक्षकमनुमानमादृतमिति ध्येयम् ।
अत्र चावयवरूपासमवायिकारणकवृत्तिनीलपीतादिवृत्तिनीलत्वपीतत्वादिजातिषु व्यभिचारवारणाय साक्षाद्व्याप्येति । रूपत्वादौ व्यभिचारवारणाय विभुविशेषगुणवृत्तीति । परिमाणत्वादौ तद्दोषवारणाय विशेषेति । धर्मत्वसंस्कारत्वादौ व्यभिचारादुक्तं प्रत्यक्षेति । ततश्च- तादृशसंयोगः, कार्याश्रितत्वे सति स्वजन्यगुणसमानाधिकरणः, विभुविशेषगुणासमवायिकारणसंयोगत्वात्, भेर्याकाशसंयोगवदिति अनुमानद्वयेन वा, ज्ञानत्वं स्वाश्रयसमानाधिकरणकार्यप्रतियोगिकसंयोगजन्यवृत्ति । नित्येन्द्रियग्राह्यविशेषगुणवृत्तिगुणत्वसाक्षाद्व्याप्यजातित्वादित्येकेन वानुमानेन समानसंवित्संवेद्यतया उक्तरूपसाध्यप्रसिद्धौ सत्यामेव व्यतिरेकप्रवृत्तिरितरथा तद्भङ्ग इष्ट एवेत्यर्थः ।
जनार्दनभट्टीया
स्वस्य भट्टमतानुसारित्वात् अवयवत्रयं दर्शयति – विवादपदमित्यादिना ।। अनिर्वचनीय-मिति ।। सदसद्विलक्षणमित्यर्थः । मूले ‘अनुमानस्य च’ इति चशब्देन न केवलं प्रत्यक्षस्य, अपितु अनुमानस्यापीति प्रतीयते । तच्च अयुक्तम् । अप्रसिद्धविशेषणत्वस्य अनुमानमात्रदोषत्वादित्यत आह– चशब्द इति ।। ननु अनेनैव अनुमानेन विशेषणाप्रसिद्धिः भविष्यतीत्यत आह– एतदिति ।। अनुमानप्रवृत्तिप्राक्कालिकसाध्यप्रसिद्धेरेव अनुमानाङ्गत्वादिति भावः । आत्माश्रयेति ।। ‘मायिमते विशिष्टस्य अनतिरिक्तत्वेन विशेषणस्य विशिष्टैकदेशतया अंशेन आत्माश्रयः’ इति भावः । धर्मी लक्ष्यत इति ।। धर्म्यपेक्षया विशेषणत्वे आत्माश्रयो नेति भावः । यद्विशेषणेनेति ।। तथा च पक्षपदेन साध्यधर्मविशिष्ट एव विवक्षितः । अप्रसिद्धविशेषणं पक्षत्वप्रयोजको धर्मो यस्येति योजनान्तरं सूचितं भवति । व्याप्तिपक्षधर्मताविरहादिति ।। तज्ज्ञानविघटनादित्यर्थः ।१ व्याप्तिज्ञानविघटकत्वमुपपादयति– न हीति ।। कस्यापीति ।। धर्मित्वहेतोरपि केवलव्यतिरेकित्वात् तत्र न अप्रसिद्धविशेषणत्वं दूषणमिति भावः । पक्षधर्मताविघटकत्वमुपपादयति – सन्दिग्धेति ।। केवलव्यतिरेकिण इति ।। एवं च बाध्यत्व .....२ दूषयति– तथा सतीति ।। तथा सति तत्कथाया एव वृथात्वापातादिति प्रथममन्वयः ।
ननु केवलान्वयि-अन्वयव्यतिरेकिणोः अस्तु अप्रसिद्धविशेषणत्वस्य दूषणत्वम्, अतो न तद्वार्ताया वृथात्वापात इत्यत आह – अन्यत्रेति ।। अन्यत्र केवलान्वयि अन्वयव्यतिरेकिणोरित्यर्थः । तयोः साध्यप्रसिद्धेरेव सत्वादिति भावः । किञ्च अप्रसिद्धविशेषणत्वस्य कथं व्यतिरेकिण्यदूषणत्वम्? दूषणत्वोपयुक्तप्रकाराणां निरासात् वा केवलव्यतिरेकित्वादेव वा इति विकल्प्य आद्यं निराह – दूषणत्वेति ।। दूषणत्वोपयुक्तप्रकारो व्याप्तिपक्षधर्मताविघटकत्वं तस्यानिरास इत्यर्थः । तथा च व्याप्तिपक्षधर्मताविघटकत्वरूपदूषणताप्रयोजकस्य केवव्यतिरेकिण्यपि सत्वात् अप्रसिद्धविशेषणत्वं तत्रापि दूषणमिति भावः ।
द्वितीयं निराचष्टे– केवलेति ।। अनुपयोगित्वादिति ।। ‘अदूषणतायाम्’ इति शेषः । केवलव्यतिरेकित्वादेव अप्रसिद्धविशेषणत्वं तत्रैव दूषणं किं न स्यात्? इति भावः । अप्रसिद्ध-विशेषणत्वस्य दूषणताप्रयोजकमन्वयव्याप्तिज्ञानविघटकत्वम् । व्यतिरेकिणि च व्यतिरेकव्याप्तिरेव गृह्यते नान्वयव्याप्तिः । एवञ्च विघटनीयान्वयव्याप्तिज्ञानाभावात् व्यतिरेकिणि नाप्रसिद्धविशेषणत्वं दूषणमित्याशयेन शङ्कते – व्यतिरेकेति ।। तथा च विघटनीयान्वयव्याप्तिज्ञानाभावेन अप्रसिद्ध-विशेषणत्वस्य व्यतिरेकिणि न दूषणमिति भावः । स्वसाध्यरूपविशेषणस्य अप्रसिद्धौ यथा अन्वयव्याप्तिधीः न सम्भवति, एवं व्यतिरेकव्याप्तिधीरपि । एवञ्च व्यतिरेकिणि व्यतिरेकव्याप्तिविघटन-द्वारा अप्रसिद्धविशेषणत्वस्य दूषणत्वमेव इत्याशयेन परिहरति– प्रतियोगीति ।। साध्यव्यतिरेकं प्रति प्रतियोगि साध्यम् । तत्प्रतीतिं विनेत्यर्थः ।१ व्यतिरेकस्य = साध्याभावस्य, प्रत्येतुं ज्ञातुम् । तथा च व्यतिरेकव्याप्तिग्रहार्थमपि साध्यरूपविशेषप्रसिद्धेरावश्यकत्वात् अप्रसिद्धविशेषणत्वं व्यतिरेकिणि दूषणमेवेति भावः । शङ्कते– एवं सतीति ।। केवलव्यतिरेकिणि अप्रसिद्धविशेषणत्वस्य दूषणत्व इत्यर्थः । केवलव्यतिरेकिणि साध्यवतः सर्वस्यापि पक्षीकृतत्वेन तत्र साध्यप्रसिद्ध्यभावात् केवलव्यतिरेकित्वभङ्गः स्यादिति भावः । भङ्गं परिहरति – सामान्येति ।। एवमत्र सामान्यप्रसिद्धि-सम्पादनरीतिः– ‘जीवच्छरीरं सात्मकं प्राणादिमत्वात्’ इत्यत्र सात्मकत्वं नाम ज्ञानासमवायि-कारणसंयोगावच्छेदकत्वम् । हेतै प्राणादित्यादिशब्देन ‘प्राणापाननिमेषोन्मेषण-गति- इन्द्रियविकाराः सुखदुःखइच्छाप्रयत्नाश्च आत्मनो लिङ्गानि’ इति कणादसूत्रोक्तापाननिमेषादयो विवक्षिताः । तत्र ‘प्राणादिमत्वं यत्किञ्चिद्धर्मेण प्रयोज्यम् । धर्मत्वात् यथा धूमवत्वम् अग्निमत्वेन’ इत्यनुमानेन साध्यप्रसिद्धिः ।
न च तेन धर्मान्तरसिद्ध्या अर्थान्तरता । कार्यघटितधर्मस्य स्वघटककार्यं प्रति कारणं तद्घटितधर्मं विना अनुपपत्त्या तस्यैव सिद्धिः । प्रकृतेऽपि प्राणादिमत्वघटकप्राणापानादेः सात्मकत्वघटक आत्ममनःसंयोगकार्यत्वेन तं विना अनुपपत्तेः’ इति । प्राञ्चस्तु – ‘निरात्मकत्वं किञ्चिन्निष्ठा-त्यन्ताभावप्रतियोगि धर्मत्वात्’ इत्यनुमानाभासेन निरात्मकत्वाभावरूपसात्मकत्वप्रसिद्धिरिति ‘‘सामान्यप्रसिद्ध्या’’ इत्यस्यार्थः – इति व्याचक्षते ।
ननु यत्र व्यतिरेकिणि कस्यचित् पुंसः एतादृशेनानुमानेनापि साध्याप्रसिद्धिः तस्य तत्र तद्भङ्गः स्यादित्याशङ्क्य, इष्टापत्त्या परिहरति – तदभाव इति ।।