तान्यहं वेद सर्वाणि ..

ईश्वरस्य संसारिणः स्वस्य भेदानुभवसमर्थनम्

श्रीमज्जयतीर्थटीका

किञ्चेश्वरवचनैस्तस्य संसारिभेदानुभव एवानुमीयते । कुतस्तत्राभेदानुभवप्रत्याशेत्या-शयवानाह-

मूल

तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ।१

तानि व्यतीतानि जन्मानि । अत्र ज्ञानित्वाज्ञानित्वाभ्यां भेदोऽभिधीयते ।

मूल

सुखं दुःखं भवो भावो भयं चाभयमेव च ।

अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः ।।

भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ।१

भव उत्पत्तिः, भावः सत्ता, समता द्वन्द्वेषु निर्विकारत्वं, तुष्टिर्विषयालम्बुद्धिः, भावाः धर्माः । अत्रेश्वरत्वेशितव्यत्वाभ्यां भेदोक्तिः ।

मूल

यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः ।

अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ।।२

अत्राप्युत्कृष्टत्वापकृष्टत्वाभ्यां भेदवचनम् ।

मूल

इत्यादिनेश्वरेणापि भेदस्यैवानुभूयमानत्वाच्च ।

ईश्वरेणापीत्यपिशब्दस्योपर्युपयोगः । भेदस्य संसारिभिरिति शेषः । न हीश्वरोऽर्जुनस्यानाप्तः । येनाननुभूतमपि वदेदिति सम्भावयामः । तदेवं विपक्षे बाधकसद्भावान्नायमप्रयोजको हेतुरिति सिद्धम् ।

श्रीविजयीन्द्रभिक्षु

उत्तरत्र गीतावचनोदाहरणस्यानुपयोगं मन्वानोऽवतारयति- किञ्चेति ।। उदाहृतवचने भेदस्याप्रतीतेः कथं भेदे इयं स्मृतिरित्याशङ्क्याऽह- अत्रेति ।। द्वन्द्वेष्विति ।। शीतोष्णसुख-दुःखादिष्वित्यर्थः । भेदस्येति ।। जीवाद्भेदस्यैवेश्वरेणानुभूयमानत्वस्यानुमीयमानत्वाच्चेत्यर्थः । अपिशब्दस्योपर्युपयोग इति ।। द्रष्टव्यमिति शेषः । उपयोगप्रकारमाह- भेदस्येति ।। भेदस्य संसारिभिरपि नाहमीश्वर इत्यनुभूयमानत्वादित्यपिशब्दोपयोगप्रकार इति भावः । ननूदाहृतवचनेन न तस्य भेदानुभवकल्पना युक्ता । विप्रलिप्सया तद्वचनोपपत्तेरित्यत आह- न हीति ।।

श्रीवेदेशतीर्थ

‘बहूनि मे व्यतीतानि जन्मानि तव चार्जुन ।’

इति पूर्ववाक्यस्थं परामृश्यं दर्शयति- व्यतीतानीति ।। ननु भवभावशब्दयोर्भूधातुनिष्पन्नत्वेन सत्तार्थत्वात् पौनरुक्त्यमित्यतोऽर्थभेदमाह- भव इत्यादिना ।। द्वन्द्वेषु शीतोष्णसुखदुःखादिषु । सुखशब्देन पौनरुक्त्यभयादाह- तुष्टिरिति ।। भावशब्दस्यानेकार्थत्वात् प्रकृते विवक्षितमर्थमाह- भावा इति ।। अनुभूयमानत्वाच्चेति मूलम् । अनुभूयमानत्वावगमाच्चेत्यर्थः ।

नन्वीश्वरवचनेनेश्वरानुभव एवावगम्यते । नास्मदाद्यनुभवः । अतोऽत्रापिशब्दो व्यर्थ इत्यत आह- उपरीति ।। सत्यमत्र व्यर्थ इति । तथापि तत एवेत्युत्तरवाक्ये तत एवेत्यनेनेश्वरेणाप्यनुभूयमानत्वस्य परामर्शे तत्रानुमानान्तरसमुच्चायकत्वेन संसार्यनुभवसमुच्चायकत्वेन चोपयोगो भविष्यतीति भावः । मूले प्रतियोगिविशेषानुक्तेराह- संसारिभिरिति ।। ईश्वरेणापीति ।। अत्रानुभूयमानत्वादपीति सम्बन्धः । तथा चानुमानान्तरसमुच्चायकतयाऽपिशब्दोपयोग इत्युक्तं भवति । अथ वेत्युत्तर-योजनायां न केवलमस्मदादिभिरिति यथावस्थित एवापिशब्दः । तत्र च प्रत्यक्षबाधितं च जगन्मिथ्यात्वमित्यनेनोक्तभेदसाधकास्मदादिप्रत्यक्षसमुच्चयः । तत्र जगन्मिथ्यात्वशब्देन भेदाभाव-स्याप्युपलक्षितत्वादिति ध्येयम् ।

श्रीराघवेन्द्रतीर्थ

‘बहूनि मे व्यतीतानि जन्मानि तव चार्जुन ।’

इति गीतास्थपूर्वार्धोक्तपरामर्शकं तानीति पदमित्युपेत्याऽह-ता(नि व्य)न्यतीतानि जन्मानीति ।। अप्रसिद्धपदानामर्थमाह- भव उत्पत्तिरित्यादि ।। द्वन्द्वेष्विति ।। सुखदुःखलाभालाभशीतोष्णा-दिषु । उत्कृष्टत्वापकृष्टत्वाभ्यामिति  ।।  भेदोक्तिरित्यनुषङ्गः    उपर्युपयोग इति ।। तत एवेत्यत्रेति भावेन उत्तरत्र तद्व्यनक्ति- तत एवेश्वरेणाप्यनुभूयमानत्वादिति  ।।  प्रत्यक्षोक्तिपरत्वेन योजनायां चेत्यर्थः । हेतुरिति ।। मुक्तत्वादिहेतुरित्यर्थः ।

अभेदानुभवेति ।। संसारिणैक्यं तेनानुभूयेतेत्युक्ता ऐक्यानुभवप्रत्याशेत्यर्थः । जन्मानि मदीयानवतारान् । मूले भेदस्यैवानुभूयमानत्वादिति ।। अनुभूयमानत्वावगमादित्यर्थः । पूर्वं संसारिभिर्भेदस्यानुभूयमानत्वानुक्तेरीश्वरेणापीत्यपिशब्दो व्यर्थ इत्यत आह- उपरीति ।। तत एवेत्युत्तरवाक्ये उपयोग इत्यर्थः । ननु ईश्वरस्यानाप्तत्वात्स्वाननुभूतमपि संसारिभेदमर्जुनं प्रति वदतीति चेत्तत्राऽह- न हीश्वर इति । हेतुनेति ।। विमतो भिन्नो मुक्तत्वादित्यनुमानेनेत्यर्थः । उपर्युपयोग इत्युक्तं दर्शयति- तत एवेति ।। तथा च तत एवेत्यनेन ईश्वरेणाप्यनुभूयमानपरामर्शेन मुक्तभेदसाधने अनुमानान्तरसमुच्चायकत्वमुक्तं  भवतीति ज्ञातव्यम् ।

गुरुराजीया

व्यतीतानीति ।।

बहूनि मे व्यतीतानि जन्मानि तव चार्जुन’

इति पूर्वत्र तेषामेव प्रकृतत्वादिति भावः । भेदवाचकशब्दस्यात्राश्रवणात्तदप्रतिपादकत्वमाशङ्क्य आगमतया तदनवगमकत्वेऽप्यर्थतस्तदवगमकत्वाद्युक्तमेतदुदाहरणमित्यभिप्रायेण तदुपदर्शयति- अत्रेति ।। अभिधीयते अवगम्यत इत्यर्थः । एवमुत्तरत्रापि द्रष्टव्यम् । सत्तार्थकभूधातुनिष्पन्नत्वेन भावादिशब्दानां पुनरुक्तत्वमाशङ्क्यार्थभेदकथनेन तत्परिहरति- भाव इत्यादिना ।। सुखशब्देन पौनरुक्त्यभयात् तुष्टिशब्दमन्यथा व्याचष्टे- तुष्टिरिति ।। ननु ईश्वरवचनेनेश्वरानुभवसिद्धावप्य-स्मादादिभेदानुभवस्यासिद्धत्वेन तत्समुच्चायकत्वासम्भवात्तदर्थकापिशब्दवैयर्थ्यमित्यत आह- उपर्युपयोग इति ।। तत एवेतीत्युत्तरवाक्य इत्यर्थः ।

गोविन्दीया

अभेदेति ।। तत्र वचनेषु अभेदानुभवप्रत्याशा कुत इत्यर्थः । उपर्युपयोग इति ।। उपरि तत एवेत्युत्तरवाक्योक्तेश्वरेणापीत्यपिशब्दस्योपयोग इत्यर्थः ।

जनार्दनभट्टीया

‘तान्यहं वेद’ इति श्लोके ‘तानि’ इत्यस्य ‘बहूनि मे व्यतीतानि जन्मानि तव चार्जुन’ इति पूर्वोक्तजन्मपरामर्शित्वमित्यत आह- तानीति ।। भेदोऽभिधीयत इति ।। ‘घटेन जलमाहर’ इत्यत्र छिदेतरवत्ववद् योग्यतावच्छेदकतया प्रामाण्यम् इत्यर्थः । भवभावशब्दयोरेकार्थप्रतीतिं वारयति- भव इति ।। समतातुष्ट्योः भेदमाह- समतेत्यादिना ।। ‘इत्यादिना’ इति मूले भेदस्यापीत्यपिशब्देन अभेदस्यापीति प्रतीतिं वारयितुमाह- ईश्वरेणापीति ।। अपिपदस्य ईश्वरपदेनान्वयाङ्गीकारे वैयर्थ्यं स्यादित्यत आह- उपरीति ।। ‘तत एव’ इति उत्तरवाक्ये परामर्शसौकर्यार्थमित्यर्थः ।