सर्ववैलक्षण्याङ्गीकाराद्दुर्घटमपि..

प्रमाणदृष्टस्य तर्कबाध्यत्वाभावसमर्थनम्

श्रीमज्जयतीर्थटीका

ननु प्रमाणदृष्टार्थे तर्कबाधोऽकिञ्चित्कर इत्येतत्कुत इति । तत्राऽह-

मूल

सर्ववैलक्षण्याङ्गीकाराद्दुर्घटमपि ब्रह्म प्रमाणादङ्गीक्रियत एव ।

ब्रह्म खलु सदेव सोम्येत्यादिप्रमाणैः सत्यमवगतं तर्कविरोधेन दुर्घटञ्च । तत्र न तावत्तर्कं पुरस्कृत्य प्रमाणमनादृत्य परेणानिर्वचनमङ्गीक्रियते । किन्तु दुर्धटमपि प्रमाणाद् सत्यमेवाङ्गी-क्रियते । तेन परस्यापि सिद्धमेतत् यत्प्रमाणसिद्धेऽर्थे तर्कोऽकिञ्चित्करः । प्रमाणविरुद्धस्य तर्कस्य विपर्ययापर्यवसानेनाऽभासत्वादिति । अन्यथा ब्रह्मापि मिथ्याङ्गीकरणीयं स्यात् ।

श्रीविजयीन्द्रभिक्षु

तर्कविरोधेनेति ।। वक्ष्यमाणतर्कविरोधेनेत्यर्थः । परेणेति ।। ब्रह्मेत्यनुषज्यते । अन्य-थेति ।। प्रमाणविरोधेऽपि तर्कस्य विपर्यये पर्यवसानाङ्गीकार इत्यर्थः ।

श्रीवेदेशतीर्थ

तर्कविरोधेनेति ।। वक्ष्यमाणतर्कविरोधेनेत्यर्थः ।

श्रीराघवेन्द्रतीर्थ

‘१अनिर्वचनमङ्गीक्रियते’ इत्यत्र ब्रह्मेत्यनुषज्यते । आभासत्वादिति ।। इत्येतत्परस्यापि सिद्धमिति पूर्वेणान्वयः । अन्यथेति ।। तर्कविरोधेन प्रमाणस्यानादर इत्यर्थः । प्रमाणं ब्रह्मणः सत्यत्वत्वप्रतिपादकं सदेवेत्यादि प्रमाणम् । दुर्घटमपि ब्रह्मेति शेषः ।

गुरुराजीया

 तर्कविरोधेनेति ।। ‘ते तु तर्कयन्ति’ इति वक्ष्यमाणतर्कविरोधेनेत्यर्थः ।

गोविन्दीया

अन्यथेति ।। एतत्प्रमेयं परस्यासिद्धं चेदित्यर्थः ।