उत तमादेश-मप्राक्ष्यो..
उत तमादेशमित्यादिश्रुतीनां पराभिमतार्थानुवादः
उत तमादेश-मप्राक्ष्यो..
श्रीमज्जयतीर्थटीका
मा भूदनुमानात्प्रपञ्चमिथ्यात्वसिद्धिः श्रुत्या तु भविष्यति । तथा हि । ‘उत तमादेश-मप्राक्ष्यो येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम्’ इति ब्रह्मज्ञानेन सर्वज्ञानमुच्यते ।
न च सर्वस्य वियदादिप्रपञ्चस्य ब्रह्मव्यतिरेकेण परमार्थतः सत्त्वे तदुपपद्यते । तेन ज्ञायते ब्रह्मैव परमार्थसत् । वियदादिकन्तु तत्राऽरोपितम् । तद्व्यतिरेकेण नास्तीत्यस्यार्थ इति । मैवम् । एकविज्ञानेन सर्वविज्ञानस्य सादृश्यप्राधान्याभ्यामुपपत्तेः । न चान्यथोपपद्यमानं वाक्यं प्रपञ्चस्य ब्रह्मण्यारोपितत्वं प्रतिपादयितुं शक्नोति ।
नन्वेकविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय दृष्टान्ताकाङ्क्षायामुच्यते ‘यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृण्मयं विज्ञातं स्यात्’ इत्यादि । तत्र हि कार्यस्य कारणव्यतिरेकेणासत्त्वमवगम्यते । अतः कथमेकविज्ञानेन सर्वविज्ञानमन्यथा व्याख्यायत इति । मैवम् । यथा सोम्येत्यादिदृष्टान्त-वाक्येष्वपि पराभिमतस्यार्थस्याप्रतिभासात् । न हि तत्र तत्सूचकं किमप्यस्ति ।
नन्वेतानि दृष्टान्तवाक्यानि ‘वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्’ इत्यादि-वाक्यैर्व्युत्पादितानि । यतो वाचा केवलमस्तीत्यारभ्यते विकारः घटः शरावः उदञ्चनं चेति न तु वस्तुवृत्तेन विकारो नाम कश्चिदस्ति । नामधेयमात्रं ह्येतदनृतम् । मृत्तिकेत्येव सत्यम् । अत एकेन मृत्पिण्डेन परमार्थतो मृदात्मना विज्ञातेन सर्वं मृण्मयं घटशरावोदञ्चनादिकं मृदात्मकत्वा-विशेषाद्विज्ञातं भवेदिति । तत्कथं यथा सोम्येत्यादिदृष्टान्तानां कारणव्यतिरेकेण कार्यासत्त्वे तात्पर्याभावः । कथं चैकविज्ञानेन सर्वविज्ञानमन्यथा व्याख्यात इति ।
श्रीविजयीन्द्रभिक्षु
दृश्यत्वानुमानदूषणावसरे वाचारम्भणश्रुत्यर्थकथनमयुक्तमित्याशङ्क्यावतारयितुमाह- माभूदिति ।। न च सर्वस्येति ।। अन्यज्ञानस्यान्यज्ञानत्वायोगादिति भावः । तदिति ।। ब्रह्मविज्ञानेन सर्वविज्ञानवचनमित्यर्थः । नन्वेकविज्ञानेन सर्वविज्ञानप्रतिज्ञया सर्वस्य ब्रह्माभिन्नत्वेन परमार्थ-सत्त्वमेव सिद्धम् । न मिथ्यात्वमित्यत आह- तेनेति ।। ब्रह्माभिन्नत्वमिह ब्रह्मव्यतिरेकेणासत्त्वं विवक्षितम् । न स्वरूपात्मकत्वम् । जडाजडयोस्तदसम्भवादिति न जगतः सत्यत्वसिद्धिरिति भावः । ब्रह्मव्यतिरेकेण जगदसदिति वदताऽपि न स्वरूपेणासदित्युच्यते । अत्यन्तासत्त्वापा-तात् । किन्तु ब्रह्मसत्ताव्यतिरेकेण सत्ता नास्तीति । तथा च ब्रह्मातिरिक्तस्य जगत्स्वरूपस्य सत्त्वात्कथमेकविज्ञानेन सर्वविज्ञानप्रतिज्ञोपपत्तिरिति शङ्कावारणायोक्तम् । वियदादिकन्तु तत्राऽ-रोपितमिति । अध्यस्तस्याधिष्ठानव्यतिरेकेण स्वरूपाभावाद्ब्रह्मैव सर्वस्य स्वरूपमिति तज्ज्ञानेन सर्व-विज्ञानप्रतिज्ञोपपद्यत इति भावः । अस्येति ।। एकविज्ञानेन सर्वविज्ञानप्रतिज्ञावचनस्येत्यर्थः ।
भवतु वियदादिप्रपञ्चस्य ब्रह्मव्यतिरेकेण परमार्थसत्त्वम् । न चैवं तद्विज्ञानेन सर्वविज्ञान-प्रतिज्ञानुपपत्तिः । सादृश्यप्राधान्याभ्यामेव तदुपपत्तेः । ‘प्रधानपुरुषे ज्ञाते ग्रामो ज्ञातो भवति’ ‘एकस्मिन् गवि विज्ञाते तत्सदृशगवान्तरमपि ज्ञातं भवति’ इति व्यवहारस्य लोके सिद्धत्वादिति परिहरति- मैवमिति ।। नन्वेकविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय तदुपपादनार्थं यथा सोम्येत्यादिना मृत्पिण्डादिदृष्टान्तोपादानं क्रियते । तत्रोपादेयस्य घटशरावादेः मृद्रूपोपादानव्यतिरेकेणासत्त्व-दृष्टान्तानुसाराद् वियदादिरूपोपादेयस्य ब्रह्मरूपोपादानव्यतिरेकेणासत्त्वमेव सिद्ध्यति । एतच्च वियदादेः ब्रह्मण्यारोपितत्वं विना नोपपद्यत इति सर्वविज्ञानप्रतिज्ञावाक्यस्यापि स एवार्थोऽङ्गी-कर्तुमुचित इत्याशयेन शङ्कते- नन्विति ।। न चोपादानोपादेयभावापन्नमृत्पिण्डादि-दृष्टान्तोपादानबलेन ब्रह्मणोऽप्यविद्योपादानत्वं वाच्यम् । तच्च वियदादिविवर्ताधिष्ठानत्व-मेवान्यस्यासम्भवादिति वाच्यम् । मृद्घटादेर्वस्तुत उपादानोपादेयभावापन्नत्वेऽपि तत्पुरस्कारेणापि दृष्टान्तत्वे मानाभावात् । एकमृत्पिण्डस्य सर्वमृन्मयोपादानत्वाद्यसम्भवात् । नखनिकृन्तनस्यान्त्या-वयवित्वेनोपादानत्वस्यैवासम्भवाच्च । तथा च प्रतिज्ञावाक्यस्य त्वदुक्तार्थपरत्वासम्भवेन अस्मदुक्तव्याख्यानमेवाऽदरणीयमिति भावः ।
ननु यथा सोम्येत्यादिदृष्टान्तवचनस्योपादानव्यतिरेकेणोपादेयासत्त्वप्रतिपादन एव तात्पर्यम् । वाचारम्भणमित्यादिवाक्यैस्तथैव तद्व्युत्पादनात् । तत्र हीत्थमर्थः प्रतीयते । वाचारम्भणं वाचा केवलमस्तीत्यारभ्यते । वाचा व्यवहारमात्रम् । विकारो घटः शराव उदञ्चनं चेति नामधेयं नाममात्रं ह्येतत्, शब्दव्यतिरेकेण वस्तुतो विकारः कोऽपि नास्ति, मिथ्येति यावत् । किं तर्हि सत्यम् । मृत्तिकैव । तथा च प्रतिज्ञावाक्यं यथाश्रुतार्थपरमेवाङ्गीकर्तुं युक्तम् । न तूक्तरीत्याऽर्थान्तरपरमिति शङ्कते- नन्वेतानीति ।।
श्रीवेदेशतीर्थ
श्रुत्येति ।। वाचारम्भणश्रुत्येत्यर्थः । तस्या एव पूर्वमुदाहृतत्वात् । ‘उत तमादेशम्’ इत्यादिश्रुतिविचारस्तूपोद्घातसङ्गत्येति भावः। न चेति ।। अन्यज्ञानेनान्यज्ञानायोगादिति भावः । तदिति ।। ब्रह्मज्ञानेन सर्वज्ञानवचनमित्यर्थः ।
नन्वेकविज्ञानेन सर्वविज्ञानप्रतिज्ञया सर्वस्य ब्रह्मभिन्नत्वेन परमार्थसत्त्वमेव सिद्ध्येन्न मिथ्यात्व-मित्यत आह- तेनेति ।। ब्रह्माभिन्नत्वमिह ब्रह्मव्यतिरेकेणासत्त्वमेव विवक्षितम् । न स्वरूपाभिन्न-त्वम् । जडाजडयोस्तस्यासम्भवादिति भावः । सर्वविज्ञानमिति ।। तत्प्रतिपादकं वाक्यमित्यर्थः । एवमुत्तरत्रापि ।
द्वैतद्युमणि
उत तमादेशमिति ।। सिद्धान्ते ‘आदिश्यते’ इत्यादेशो भगवान् । तमप्राक्ष्यस्तद्विषयक-प्रश्नमकरोः किमित्यर्थः । परमते आदेशो नामोपदेशः । तमुद्दिश्य प्रश्नं कृतवांस्त्वं किमित्यर्थः । येनेत्यादि ।। येन परमात्मना श्रुतेन मतेन विज्ञातेनेति योज्यम् । यथाक्रममन्वयः । अन्यमते येन यादृशोपदेशेनेत्यर्थः । यद्वा ‘ब्रह्मविद्याभरणो’क्तरीत्या आदिश्यते इति व्युत्पत्त्यनुसारेण आदेशपदं ब्रह्मवाच्येव । उत्तरत्र येनेत्यस्य ब्रह्मणैवेत्यर्थोऽनुसन्धेयः । ब्रह्मज्ञानेनेति ।। ब्रह्मज्ञानाभिन्नं सर्वज्ञानमित्यर्थः । ब्रह्मोपदेशेनैव सर्वेषामपि श्रुतत्वादिकस्योक्तौ ब्रह्मज्ञानमेव सर्वज्ञानमिति पर्यवसितम् । ब्रह्मव्यतिरेकेणेति ।। ब्रह्मात्यन्तभिन्नत्वेनेत्यर्थः । जगति ब्रह्मतादात्म्यसत्त्वेन भेदाभेदयोरङ्गीकारादभेदमात्रेण ब्रह्मज्ञानस्य सर्वज्ञानात्मकत्वोपपत्तेरित्थं व्याख्यातम् । तर्हि परमार्थसत्त्वनिषेधोऽनुपयुक्तः । ब्रह्मात्यन्तभेदनिराकरणस्यैवैकविज्ञानेन सर्वविज्ञानोपयोगादिति चेत् । ब्रह्मात्यन्तभेदनिराकरणार्थमेव परमार्थसत्त्वनिराकरणात् । अन्यथा परमार्थतोऽत्यन्तभेद-वन्नानापदार्थसार्थस्य जगतोऽद्वितीयैकब्रह्माभेदायोगात् । एवञ्च व्यतिरेकेणेति तृतीयायाः व्यापकत्वरूपमवच्छिन्नत्वं प्रयोजकत्वं चार्थः । व्यतिरेकस्य व्याप्यत्वञ्च स्वस्वरूपत्वसहितस्यातो न तुच्छे व्यभिचार इति बोध्यम् । ब्रह्मव्यतिरेकप्रयोजकस्य तद्व्यापकस्य च जगन्निष्ठपारमार्थिक-सत्त्वस्याङ्गीकारो न युक्त इति जगतः पारमार्थिकत्वनिषेधे जगतो ब्रह्मतादात्म्यापादनद्वारा ब्रह्मज्ञानस्य सर्वज्ञानात्मकत्वोपयोगीति तत्र श्रुतेस्तात्पर्यमवश्यमङ्गीकार्यमित्यर्थः ।
ननु परमार्थसत्त्वशून्यस्य जगतो ब्रह्मात्मकत्वं शशविषाणादिरूपतुच्छस्येवानुपपन्नमतस्तज्ज्ञानं न सर्वज्ञानरूपं भवतीत्याशङ्क्य ब्रह्मव्यतिरेकेणेत्युक्तम् । तथा च ब्रह्मव्यतिरेकप्रयोजक-पारमार्थिकसत्त्वमेवैकविज्ञानस्य सर्वविज्ञानत्वविरोधीति तन्निषेधे विशेषनिषेधस्वारस्येन सामान्यतः पारमार्थिकसत्त्वमनुमतं स्यात् । तच्च ब्रह्मतादात्म्यापन्नत्वेनैव वाच्यम् । तच्च तादात्म्यं न ब्रह्मसमसत्ताकम् । स्वसमानसत्ताकानन्तजगत्तादात्म्ये ब्रह्मणोऽनन्तत्वापत्त्याऽद्वितीयश्रुति-विरोधापत्तेः । अतस्तन्न्यूनसत्ताकमेव ब्रह्मजगत्तादात्म्यमित्यायातम् । तन्न्यूनसत्ताकतन्निष्ठ-तादात्म्यप्रतियोगिकत्वञ्च तत्रारोपितस्यैव । अतो ब्रह्मण्यारोपिततया तदीयपरमार्थसत्त्ववतो जगतः पारमार्थिकस्वरूपं ब्रह्मैव रजतस्य शुक्तिरिव । अतो ब्रह्मज्ञानमेव सर्वज्ञानम् । शशविषाणादि-रूपतुच्छस्य तु सर्वथा परमार्थसत्त्वं नास्तीति तेषां न ब्रह्मात्मकत्वमिति भावः ।
श्रीराघवेन्द्रतीर्थ
उतेति ।। येनाश्रुतं श्रुतं भवतीत्यादिरूपं तमादेशम् उपदेशम् अप्राक्ष्यः पृष्टवानभूः उत किमित्यर्थः । तत्रारोपितमित्यस्यार्थः, ‘तद्व्यतिरेकेण नास्तीत्यर्थोऽस्य वाक्यस्य’ इति । सादृश्यप्राधान्याभ्यामिति ।। एकगोज्ञाने तत्सदृशगवान्तरेषु ज्ञानमिव ब्रह्मज्ञानेऽबाधितत्वादि-सादृश्येन जगज्ज्ञानं भवति । ग्रामे प्रधानपुरुषज्ञानेऽप्रधानपुरुषज्ञानमिव प्रधानब्रह्मज्ञानेऽप्रधान-जगज्ज्ञानं भवतीत्यर्थः । फलापेक्षयैतद्ध्येयम् । अन्यथेति ।। सादृश्यादिना व्याख्यायत इत्यर्थः । न हि तत्रेति ।। यथा सोम्येति वाक्ये कारणव्यतिरेकेण कार्यासत्त्वसूचकं किमपि न ह्यस्तीत्यर्थः । लोहमण्याद्युपरितनदृष्टान्तद्वयाभिप्रायेणोक्तम्- एतानि दृष्टान्तवाक्यानीति ।। इत्यादीति ।। लोहमणिरित्येव सत्यं कार्ष्णायसमित्येव सत्यमिति वाक्यद्वयमादिशब्दार्थः । फलितार्थमाह - अनृतमिति ।। घटशरावादिकमित्यनुषङ्गः ।शुक्तिकाया एवेति । यत्सन्निकृष्टेनेत्यादि१ विषयत्वं शुक्तिकायामेवास्ति न रजते ; असता सन्निकर्षायोगादिति भावः । असिद्धेरित्यनूद्य अदृश्यत्वादिति व्याख्यातम् । तथा च दृश्यत्वासिद्धेरित्यर्थो द्रष्टव्यः । असिद्धिरित्यस्यार्थमाह- अनुपपत्तिरिति ।। वस्तुवृत्तेनेति पारमार्थ्येनेत्यर्थः ।
गुरुराजीया
श्रुत्येत्युक्तां श्रुतिमेवोदाहरति- उत तमादेशमिति ।। पूर्वम् अनुमानानुग्राहकत्वेन वाचारम्भणवाक्योदाहरणं तु, एकविज्ञानेन सर्वविज्ञानप्रतिज्ञानस्य मृत्पिण्डादिदृष्टान्तवाक्यानां च विकारविवर्ताभिप्रायकत्वस्य तद्वाक्यात् स्पष्टमप्रतीत्या वाचारम्भणमिति तदुपपादकवाक्यबलेनैव वक्तव्यत्वात् कृतम् । न तु तन्मात्रस्य मिथ्यात्वसाधकत्वाभिप्रायेण । एकविज्ञानेन सर्वविज्ञान-प्रतिज्ञायाः मृत्पिण्डादिदृष्टान्तानां च वक्ष्यमाणप्रकारेण तत्साधकत्वादिति द्रष्टव्यम् ।
ननु मिथ्यात्वस्यात्राश्रुतत्वात् कथमनेन वाक्येन तल्लाभ इत्यतः श्रुत्या तल्लाभासम्भवेऽप्यर्थ-तस्तदवगमकत्वात् तत्साधकत्वमक्षतमेवेत्यभिप्रेत्य तदुपदर्शयति- न चेति ।। तदुपपद्यत इति ।। लोकेऽन्यज्ञानेनान्यज्ञानस्यादृष्टत्वादिति भावः । मैवमिति ।। तथा चैकविज्ञानेन सर्वविज्ञानस्य ब्रह्मव्यतिरेकेण प्रपञ्चस्य २सत्त्वेऽप्युपपन्नत्वेन नार्थतोऽप्यस्य वाक्यस्य तदवगमकत्वमिति नानेन वाक्येन प्रपञ्चमिथ्यात्वसिद्धिरिति भावः । सादृश्यप्राधान्याभ्याम् एकविज्ञानेन सर्वविज्ञानोप-पादनस्य दृष्टान्तवाक्यविरुद्धतया व्याख्यातुमशक्यतया उक्तरीत्यैव व्याख्येयत्वेन तदवगमकत्वं युक्तमेवेत्यभिप्रेत्य शङ्कते- नन्विति ।। तत्कुत इत्यतस्तद्वाचकपदस्यात्राश्रवणादिति भावेनाऽह- न हीति ।।
गोविन्दीया
उत तमिति ।। येन श्रुतेन मतेन विज्ञातेन अश्रुतम् अमतमविज्ञातं सर्वं जगत् श्रुतं मतं विज्ञातं भवति तम् आदिष्टं ब्रह्म अप्राक्ष्य उत । जानासि किमित्यर्थः । मैवमिति ।। सर्वस्यासत्त्वाभावेऽप्येकविज्ञानेन सर्वविज्ञानस्य सादृश्यप्राधान्याभ्युपपत्तेरित्यर्थः । एकस्मिन् सदृशवस्तुनि दृष्टे सति तत्सदृशान्यानि वस्तूनि दृष्टान्येव तथा एकस्मिन् प्रधानपुरुषे ज्ञाते सति अप्रधानाः सर्वे ज्ञातप्राया एवेति भावः । अन्यथोपपद्यमानमिति ।। प्रकारान्तरेणोपपद्यमानमि-त्यर्थः । व्युत्पादितानीति ।। व्याख्यातानीत्यर्थः । मृदात्मनेति ।। कारणात्मनेत्यर्थः ।
जनार्दनभट्टीया
ननूच्यतां नाम ब्रह्मज्ञानेन सर्वज्ञानम् । तावता कथं सर्वमिथ्यात्वसिद्धिः? इत्यत आह – न चेति ।। यथा भेदवादिमते घटस्य पटव्यतिरिक्तत्वात् पटज्ञाने सति न घटज्ञानम्, एवं प्रपञ्चस्य ब्रह्मव्यतिरेकेण सत्त्वे ब्रह्मज्ञानेन सर्वविज्ञानं नोपपद्यत इति भावः । तेनेति ।। श्रुतावेकविज्ञानेन सर्वविज्ञानप्रतिपादनेनेत्यर्थः । वियदादिकमिति ।। वियदादिकं तद्व्यतिरेकेण नास्तीति प्रथममन्वयः ।
ननु तद्व्यतिरेकेण वियदादेरसत्त्वे कथं प्रत्यक्षादिना प्रतीतिः? इत्यत आह–तत्राऽरोपितमिति ।। एवञ्च सति यथा घटव्यतिरेकेण करीरस्य अभावात् घटज्ञाने सति करीरज्ञानं भवति१ । तथा ब्रह्मज्ञाने सति न प्रपञ्चज्ञानमुपपद्यत इति भावः । इत्यादीति ।। इत्यादिपदेन ‘यथा सोम्य एकेन लोहमणिना सर्वं लोहमयं विज्ञातं स्यात् ।’ ‘यथा सोम्य एकेन नखनिकृन्तनेन सर्वं कार्ष्णायसं विज्ञातं स्यात्’ इति वाक्ययोर्ग्रहणम् । तत्सूचकं बहु अस्तीति आशयेन शङ्कते – नन्वेतानीति ।।