एवमेव हेत्वादिष्वपि..
मुक्तत्वहेतुना पारमार्थिकभेदासिद्धिशङ्का
एवमेव हेत्वादिष्वपि
श्रीमज्जयतीर्थटीका
अथापि स्यात् । नानेनानुमानेन मुक्तौ भेदः सिद्ध्यति । असिद्धेः प्रमाणविरोधाच्च । तथा हि, एकस्यैव परमार्थसतः परब्रह्मणोऽनाद्यविद्याविलसितो हि जीवेश्वरजडरूपोऽयं भेद-प्रपञ्चः । न परमार्थः । ब्रह्मैवाविद्यादिप्रतिबिम्बितं खलु बालैर्जीव इति ईश्वर इति चाभिलप्यते । जडप्रपञ्चस्तु स्वरूपेणैवाविद्योपादानको ब्रह्मविवर्तः । अत्र च विवादपदं मिथ्या दृश्यत्वाज्जडत्वात् परिच्छिन्नत्वात् शुक्तिरजतवत् । विमता आत्मानः परमात्मनस्तत्त्वतो न भिद्यन्ते आत्मत्वात् परमात्मवत् इत्याद्यनुमानं मानम् । ‘वाचारम्भणं विकारो नामधेयम्’१ ‘नान्योऽतोऽस्ति द्रष्टा’२ इत्यादिश्रुतिश्च । सैवाविद्याकर्तृत्वभोक्तृत्वदोषसंसर्गाध्यासप्रवाहरूपसंसारस्योपादानम् । संसार-निवर्तकेन चाऽत्मज्ञानेनावश्यमविद्या निबर्हणीया । सति चैवं बन्धस्यैव परमार्थतोऽभावात्कुतो मुक्तत्वम् । कुतो वा मुक्तौ भेदः स्यात् । बहुजीववादे भेदे विद्यमानेऽपि नासौ मुक्तप्रतीतिगोचर इति न तस्य नियम्यत्वोपयोगित्वम् इति ।
श्रीविजयीन्द्रभिक्षु
ननु दृश्यत्वाद्यनुमानस्य परेण प्रागनुपन्यासात् तद्दूषणोक्तिरसङ्गतेत्यतोऽवतारयति- अथापि स्यादिति ।। अनेन मुक्तत्वरूपेण । मुक्तत्वहेतोरसिद्धिं प्रमाणबाधितत्वञ्चोपपादयितुमाह- अनाद्यविद्याविलसित इति ।। एकस्यैवेति ।। सजातीयविजातीयस्वगतभेदशून्यस्येत्यर्थः । अनादीत्युपलक्षणम् । भावरूपानिर्वचनीयेत्यपि द्रष्टव्यम् । हिशब्दो हेतौ । यस्माद्भेदप्रपञ्चोऽयं ब्रह्मस्वरूपाऽवरकतादृशाविद्याविलसितस्तस्मान्न परमार्थ इत्यर्थः । ननु जडप्रपञ्चवज्जीवेश्वर-योरप्यविद्याविलसितत्वे स्वरूपेण मिथ्यात्वापत्तिरित्याशङ्क्याऽह- ब्रह्मैवेति ।। तथा च स्वरूपेणाविद्याविलसितत्वाभावेन प्रतिबिम्बादेरविद्याविलसितत्वेऽपि न स्वरूपेण मिथ्यात्वमिति भावः । अविद्याप्रतिबिम्बितमित्यस्यानन्तरं बिम्बभूतञ्चेति शेषः । बालैः अज्ञैः । नन्वेवं जडप्रपञ्चस्यापि स्वरूपेण मिथ्यात्वं न स्यादित्यत आह- जडप्रपञ्चस्त्विति ।। अविद्योपादानकः अविद्यासमानसत्ताकस्तत्परिणाम इत्यर्थः । ब्रह्मविवर्त इति ।। ब्रह्मसत्तान्यूनसत्ताकोऽन्यथाभाव इत्यर्थः । ‘तात्विकोऽन्यथाभावः परिणामः । अतात्विकोऽन्यथाभावो विवर्तः’ इति लक्षणात् । ब्रह्मव्यतिरिक्तस्यापरमार्थत्वे किं मानमित्यत आह- अत्रेति ।। विवादपदमिति ।। ब्रह्मासत्प्रातिभासिकाविषयकविमतिगोचर इत्यर्थः । आत्मान इति ।। अन्तःकरणातिरिक्तत्वे सति अहमिति प्रतीयमाना जीवा इत्यर्थः । परमात्मन इति ।। मोक्षसाधनज्ञानगोचरादित्यर्थः । व्याव-हारिकभेदमादाय बाधवारणायाऽह- तत्वत इति ।। ननु कर्तृत्वभोक्तृत्वादिविरुद्ध-धर्माधिकरणत्वादभेदो बाधित एवेत्यत आह- सैवेति ।। या परमार्थसद्ब्रह्मस्वरूपावरिका जीवेश्वरजडरूपभेदप्रपञ्चरूपविलासाऽपादिका सैवेत्यर्थः । तथा च कर्तृत्वादिविरुद्धधर्मस्य कल्पितत्वेन न स्वाभाविकाभेदविरोधित्वम् । न हि कल्पितेन कार्श्येनाऽकाशस्य स्वाभाविक-कूटस्थता विहन्यत इति भावः । ननु यद्यविद्यैव कर्तृत्वादिरूपसंसारस्योपादानं तदा आत्मज्ञानेन संसारनिवृत्तावपि अविद्यानुवृत्त्या पुनस्तादृशसंसारः स्यादित्यत आह- संसारनिवर्तकेन चेति ।। ‘तरति शोकमात्मवित्’ इत्यादिना संसारनिर्वतकत्वेन सिद्धात्मज्ञानस्यैव -
‘विभेदजनकेऽज्ञाने नाशमात्यन्तिकं गते ।
आत्मनो ब्रह्मणोऽभेदमसन्तं कः करिष्यति ।।’
इत्यादिना अज्ञाननिबर्हणत्वेनापि सिद्धत्वात् तादृशसंसारनिवृत्तेश्च स्वोपादानभूताज्ञानात्यन्तिक-निवृत्तिं विना अयोगात् तन्निवृत्तिरपि अज्ञाननिवृत्तिद्वारैव वाच्या । न साक्षात् । तथा च संसारनिवर्तकज्ञानमेवाविद्यानिवर्तकमिति नाज्ञानानुवृत्त्या पुनः संसारापत्तिरिति भावः ।
ननु बन्धस्य मिथ्यात्वेऽपि तदभावलक्षणमुक्तत्वं वा मुक्तौ तत्प्रयुक्तभेदो वा पारमार्थिकः किं न स्यादित्यत आह- सति चैवमिति ।। परमार्थतो बन्धस्यैवाभावे मुक्तेरप्यभाव एव । मुक्तेर्बन्धसत्तापूर्वकत्वनियमात् । न हि कदाऽपि वस्तुतो निगडासंस्पृष्टस्ततो मुक्त इत्युच्यते । न वा भेदकधर्मस्य मिथ्यात्वे भेदः सत्यः । अङ्गुल्यवष्टब्धचक्षुषा चन्द्रे विरुद्धधर्मोपलम्भेऽपि भेदस्य सत्यत्वादर्शनादिति भावः । नासाविति ।। भेदप्रतीतिमात्रस्य अज्ञानमूलतया मुक्तस्य चाज्ञानाभावेन तत्प्रतीत्यसम्भवादिति भावः ।
यद्यपि स्वानियम्यपित्रादिभिन्नतया ज्ञानरहिते सुप्ते शिशौ तन्नियम्यत्वमिव मुक्ते ईश्वरभिन्नत्वज्ञानराहित्येऽपि तन्नियम्यत्वमुपपद्यते तथाऽपि पित्रादेरिवेश्वरस्याज्ञानविधुरतया भेदप्रतीत्यसम्भवेन नियामकत्वस्यासम्भवात्तन्नियम्यत्वमपि मुक्ते असम्भवीति भावः ।
श्रीवेदेशतीर्थ
एकस्येति ।। सजातीयविजातीयस्वगतभेदशून्यस्येत्यर्थः । अनादीत्युपलक्षणम् । भाव-रूपानिर्वचनीयेत्यपि द्रष्टव्यम् । हिशब्दो हेतौ । यस्माद्ब्रह्मस्वरूपावरकतादृशाविद्याविलसितः तस्मान्न परमार्थ इति । अविद्याविलसितत्वं त्रयाणां नैकप्रकारमित्याह- ब्रह्मैवेत्यादि ।। प्रति-बिम्बितमित्यस्यानन्तरं बिम्बभूतं चेति शेषः । बालैः अज्ञैः । अविद्योपादानकः अविद्यासमान-सत्ताकस्तत्परिणाम इति यावत् । ब्रह्मविवर्त इति ।। ब्रह्मसत्तान्यूनसत्ताकोऽन्यथाभाव इत्यर्थः । ‘तात्विकोऽ-न्यथाभावः परिणामः । अतात्विकोऽन्यथाभावो विवर्तः’ इति तल्लक्षणात् । ब्रह्मव्यतिरिक्तस्यापारमार्थिकत्वे किं प्रमाणमित्यत आह- अत्रेति ।। विमता आत्मन इति ।।
नन्वत्र पक्षतावच्छेदकं न तावदात्मत्वम् । परमात्मनोऽपि पक्षत्वापत्त्या अंशे सिद्धसाधनत्वात् । नापि परमात्मेतरात्मत्वम् । पक्षतावच्छेदकस्य साध्येन सह विरोधात् । अत एव न परमात्मेतरतया प्रमीयमानत्वं तथा । नापि भ्रान्त्या परमात्मेतरतया प्रतीयमानत्वम् । जडस्यापि पक्षत्वापत्त्या हेतोरसिद्ध्यापत्तेः । नापि तथा प्रतीयमानात्मत्वम् । परमात्मन्यपि परमात्मेतरत्वभ्रान्तिसम्भवेन तस्यापि पक्षतापत्तावंशतः सिद्धसाधनतातादवस्थ्यादिति चेन्न । परमात्मनो भिद्यन्ते न वेति विप्रतिपत्तिगोचरत्वस्यैव पक्षतावच्छेदकत्वात् । तदेतदाह- विमता इति ।। अन्यथा तवापि परमात्मनः परमार्थतो भिद्यन्त इति भेदसाधनस्याप्यसम्भव इति भावः ।
व्यावहारिकभेदस्य स्वमते सिद्धत्वाद्बाधः । तत्परिहारायाऽह- तत्त्वत इति ।। अत्र मिथ्यात्व-साधकानुमानागमौ स्वरूपासिद्ध्युपपादनोपयुक्तौ । अभेदसाधकौ तु प्रमाणविरोधप्रर्दशनायेति ज्ञातव्यम् । ननु कर्तृत्वभोक्तृत्वादिरूपविरुद्धधर्माधिकरणत्वादभेदो बाधित एवेत्याशङ्क्याऽह- सैवेति ।। तथा च कर्तृत्वादिरूपविरुद्धधर्मस्य कल्पितत्वेन स्वाभाविकाभेदविरोधित्वं नेति भावः । ननु यद्यविद्यैव कर्तृत्वादिरूपसंसारस्योपादानं तदा आत्मज्ञानेन संसारनिवृत्तावप्यविद्यानुवृत्त्या पुनस्तादृशसंसारः स्यादित्यत आह- संसारनिवर्तकेन चेति ।।
‘विभेदजनकेऽज्ञाने नाशमात्यन्तिकं गते ।
आत्मनो ब्रह्मणोऽभेदमसन्तं कः करिष्यति ।।’
इत्यादिश्रुत्याऽज्ञाननिवृत्तिद्वारेणैवाऽत्मज्ञानस्य संसारनिवर्तकत्वश्रवणात् ‘तरति शोकमात्मवित्’ इत्यादावपि स एवार्थ इति भावः । ननु बन्धस्य मिथ्यात्वेऽपि तदभावलक्षणं मुक्तत्वं मुक्तौ तत्प्रयुक्तभेदो वा पारमाथिकः किं न स्यादित्यत आह- सति चैवमिति ।।
परमार्थतो बन्धस्यैवाभावे मुक्तेरप्यभाव एव । मुक्तेर्बन्धसत्तापूर्वकत्वनियमात् । न हि कदाऽपि वस्तुतो निगडासंस्पृष्टस्ततो मुक्त इत्युच्यते । न वा भेदकधर्मस्य मिथ्यात्वे भेदः सत्यः । अङ्गुल्यवष्टब्धचक्षुषा चन्द्रे विरुद्धधर्मोपलम्भेऽपि भेदस्य सत्यत्वादर्शनादिति भाव इत्याहुः ।
वस्तुतस्तु ‘बन्धस्यैव परमार्थतोऽभावात्’ इति ‘कुतो मुक्तत्वम्’ इत्यत्रैव हेतुः । ‘कुतो वा मुक्तौ भेदः स्यात्’ इत्यत्र तु ‘जीवस्यैकत्वेन तन्मुक्तौ कस्याप्यनवशेषेण प्रतियोगिन एवाभावात्’ इति हेतुर्द्रष्टव्यः। अत एवाह- बहुजीववाद इति ।। भेदस्याऽविद्यकत्वेन निवृत्ताविद्ये मुक्ते न तत्प्रतीतिरित्याशयेनाऽह- नासाविति ।।
द्वैतद्युमणि
भेद इति ।। भिद्यत इति व्युत्पत्त्या भेदवत्परम् । बालैः अनिवृत्ताविद्यैः । ब्रह्मविवर्तः स्वबाधावधित्वे सति स्वप्रतियोगिकतादात्म्यानुयोगि यद् ब्रह्म तत्र प्रतीयमान इत्यर्थः । ‘अस्वाभाविकान्यथाभावो विवर्तः’ इत्यादितदुक्तेरत्रैव पर्यवसानात् । अविद्योपादानक इत्यस्य तत्परिणाम इत्यर्थः । स्वाभाविकान्यथाभावस्यैव परिणामत्वेनोक्तत्वात् । स्वबाधानावधि स्वप्रतियोगिकतादात्म्यानुयोगि यत् तज्जन्यत्वं तत्परिणामत्वमिति निष्कर्षः । उभयानुगतोपादानत्वं तु स्वतादात्म्यवत् कार्यजनकत्वं ज्ञातव्यम् । विमता आत्मान इति ।। अत्र जीवपदवाच्यत्वं वोपलक्षणविधया दुःखित्वादिकं वा पक्षतावच्छेदकम् । अवच्छेदकावच्छेदेन साध्यमभिलषितम् । परमात्मन इति ।। सर्वज्ञत्वाश्रयचेतनादित्यर्थः । भेदस्य स्वरूपतो निषेधाभावपक्षे बाधवारणाय तत्त्वत इति । पारमार्थिकत्वेनेत्यर्थः । व्यधिकरणधर्मावच्छिन्नाभावश्चायम् । अतो न बाधः । आत्मत्वादिति ।। व्यक्तीनां कल्पितस्वसमानसत्ताकभेदवत्त्वेनाऽत्मत्वजातिः पक्षदृष्टान्तयोरस्तीति भावः । मिथ्यात्वे अभेदे च क्रमात् श्रुतिद्वयमनुसन्धेयम् । नान्योऽत इति ।। अतः = अन्तर्यामितया प्रकृताद् ब्रह्मणः सकाशाद्, अन्यो = भिन्नो द्रष्टा = जीवो न भवतीत्यर्थः ।
श्रीराघवेन्द्रतीर्थ
विलसितः प्रतिभातः । अविद्यादि इत्यादिपदेन परव्यामोहनकरमायाग्रहः । अविद्या तु स्वाश्रयव्यामोहनकरीति ज्ञेयम् । ब्रह्मविवर्तः ब्रह्मण्यारोपितः । अत्रेत्यस्येत्यनुमानमित्यादि-श्रुतिश्चेत्यन्वयः । मानमिति शेषः । विवादेति । सत्यत्वमिथ्यात्वाभ्यां विवादस्थानं ब्रह्मासत्प्राति-भासिकेभ्योऽन्यज्जगदित्यर्थः । व्यावहारिकभेदेन बाधवारणाय तत्त्वत इत्युक्तिः । वाचेत्यादि-श्रुत्यर्थस्त्वग्रे व्यक्तः । बन्धमिथ्यात्वेन मुक्तत्वहेतोरसिद्ध्युपपादनाय न परमार्थ इत्यन्तोक्तिः । तद्घटनाय विलसित इत्यन्तोक्तिः । जीवादेरनादित्वघटनाय अनाद्यविद्येति । तदुपपत्तये तदाश्रयत्वाय ब्रह्मण इत्यन्तोक्तिः । जीवेश्वरस्वरूपयोरप्यपरमार्थत्वशङ्कानिरासाय१ अभेदोप-पादनाय च ब्रह्मैवेत्यादिग्रन्थः । श्रुतिश्चेत्यन्तेन प्रमाणविरोधोक्तिः ।
नन्वस्तु भेदप्रपञ्चोऽपरमार्थः । तावता कथं मुक्तत्वहेतोरसिद्धिः । बन्धस्य सत्यत्वादित्यत आह- सैवाविद्येति ।। दोषेति । रागद्वेषदुःखादिदोषेत्यर्थः । अध्यासेत्युक्त्या कर्तृत्वादिधीः भ्रान्तिरित्युक्तं भवति । अविद्यायाः असत्त्वोपपादनाय संसारनिवर्तकेनेत्यादि ।। मुक्तप्रतीतीति ।। मुक्तपदेन नियामकस्य परमात्मनोऽपि ग्रहणादेवमुक्तम् । नियम्यत्वेति । आद्यपद्योक्तनियम्यत्वघटनायैवात्र भेदसाधनादिति भावः ।
गुरुराजीया
तदुभयं कथमित्यतस्तदुपपादयितुमाह- तथा हीति ।। एकस्यैवेति ।। सजातीय-विजातीयस्वगतभेदशून्यस्येत्यर्थः । अन्योन्याश्रयत्वप्रसङ्गवारणाय परमार्थसत इत्युक्तम् । हिशब्दो हेतौ । यस्मादविद्याकल्पितस्तस्मादपरमार्थ२ इति । अविद्याविलसितत्वं त्रयाणामपि नैकप्रकार-मित्याह- ब्रह्मैवेति ।। अविद्योपादानक इति ।। अविद्यासमानसत्ताकस्तत्परिणाम इति यावत् । ब्रह्मविवर्त इति ।। ३ब्रह्मसत्ताशून्यसत्ताकोऽन्यथाकार इत्यर्थः । ब्रह्मव्यतिरिक्तस्यापारमार्थिकत्वे किं प्रमाणमित्यत आह- अत्रेति ।। अत्र स्वरूपासिद्ध्युपपादनाय मिथ्यात्वसाधनं कृतम् । प्रमाण-विरोधव्युत्पादनाय भेदाभावसाधनम् । उपाधिप्रतिपक्षग्रस्ततया मिथ्यात्वानुमानस्य भेदाभाव-साधकानुमानस्य चाऽभासताशङ्कापनोदाय तदनुग्राहकतयोभयत्र क्रमेण श्रुत्युदाहरणं कृतमिति द्रष्टव्यम् ।
ननु १कर्तृत्वाभाववत्कर्तृत्वाध्यासरूपबन्धस्याविद्योपादानकत्वानुक्त्याऽपारमार्थिकत्वाभावेन वास्तवतया ततो मुक्तत्वस्य भावात् कथं तदसिद्धिरित्यतः बन्धस्याप्यविद्योपादानकत्वेना-पारमार्थिकत्वेन वास्तवत्वाभावात् ततो मुक्तत्वाभावेन मुक्तत्वहेत्वसिद्धिरवर्जनीयेत्याह- सैषेति ।। यद्विलसितो जीवेश्वरजडरूपः प्रपञ्चः सैषेत्यर्थः ।
ननु निवर्तकशून्यत्वेनाविद्याया निवृत्त्यसम्भवान्न तदुपादानकस्य कर्तृत्वभोक्तृत्वाद्यध्यास-रूपबन्धस्य निवृत्तिः स्यादित्यतोऽविद्याया आत्मज्ञाननिवर्त्यत्वेन तन्निवृत्तौ बन्धस्याप्यवश्यं निवृत्तिसम्भवान्न तन्निवृत्त्यनुपपत्तिरिति भावेनाविद्यानिवृत्तौ बन्धनिवृत्तिमुपपादयितुम् अविद्या-निवृत्तिं निवर्तकोक्त्योपपादयति- संसारनिवर्तकेनाऽत्मज्ञानेनेति ।।
नन्वस्तु बन्धस्याविद्योपादानकत्वम् । किमेतावता सिद्धमित्यतः ‘असिद्धेः प्रमाणविरोधाच्च’ इति प्रतिज्ञातं दोषद्वयं सिद्धमित्याशयेन तदुपपादयति- सति चैवमिति ।। बन्धस्याविद्योपादानकत्वेऽविद्यायाश्चाऽत्मयाथात्म्यज्ञानेन निवर्त्यत्वे सिद्धे सतीत्यर्थः ।
मुक्तपरमात्मनोर्भेदस्य बहुजीववादिमते२ सत्त्वात् तन्मतेऽपि नियम्यनियामकभावोपपत्तेर्न भेदाभावेन तदाक्षेपो युक्त इत्यतः सत्यं, बहुजीववादिमते भेदोऽस्ति तथाऽपि नासौ मुक्तप्रतीतिगोचरः । यथा हि लोकेऽनेकेषु मायामयान् गजतुरगादीन् पश्यत्सु यस्य कारणविशेषेण मायाऽपगच्छति स एव तान्न पश्यति । अन्ये तु पश्यन्त्येव । एवं यस्य द्वैतदर्शनकारणमज्ञानमपगतं स एव तन्न पश्यति । अन्येषां तु भेदादिदर्शनं वर्तत एवेति भेदस्य मुक्तप्रतीतिगोचरत्वाभावस्य तन्मतेऽन्यत्र व्युत्पादितत्वान्न भेदसद्भावमात्रेण नियम्यनियामकभावो युक्त इति युक्त एव तदाक्षेप इत्याह- बहुजीववाद इति ।।
गोविन्दीया
अथापि स्यादिति ।। अथापि उक्तरीत्या भेदे शङ्कापरिहारेऽपि प्रकारान्तरेण शङ्का स्यादित्यर्थः । तथा हीति ।। असिद्धिप्रमाणविरोधौ उपपादयतीत्यर्थः । अविद्याविलासित इति ।। अविद्याप्रकाशित इत्यर्थः । भेदप्रपञ्च इति ।। जीवेश्वरजडभेदमुक्तप्रपञ्च इत्यर्थः । ब्रह्मविवर्त इति ।। ब्रह्मण्यारोपित इत्यर्थः । वाचारम्भणमिति ।। भेदज्ञापकः विकारः नामधेयं च वाचारम्भणं वाक्प्रलपनमित्यर्थः । नान्योऽतोऽस्तीति ।। अतः ब्रह्मणः सकाशादन्यो नास्तीत्यर्थः । कर्तृत्वेति ।। कर्तृत्वभोक्तृत्वसम्बन्धारोपप्रवाहरूपसंसारस्योपादानमित्यर्थः । बहुजीवेति ।। संसारावस्थायां भेदे विद्यमानेऽपि नासौ भेदो मुक्तप्रतीतिगोचर इत्यर्थः । इतीति ।। इतिरीत्या तस्य भेदस्य नियम्यताकारणकत्वं च नास्तीत्यर्थः ।
नारोपन्तीया
एवं बन्धस्यैव परमार्थतोऽभावादिति । यद्यपि प्रतियोगिनोऽप्रसिद्धत्वेऽपि शशशृङ्गाद्य-भावो दृष्टः । तथाऽप्यसत्प्रतियोगिको ध्वंसो न सम्भवति । प्रकृते च मुक्तत्वं बन्धध्वंसरूपमित्युक्त-मिति भावः । भेदनिराकरणानुपपत्तिश्चेति । सद्विवेकस्येत्यत्र विवेकशब्देन भेदादन्यस्य वक्तु-मशक्यत्वादिति भावः ।
जनार्दनभट्टीया
असिद्धेरिति ।। ‘मुक्तत्वहेतोः’ इति शेषः । प्रमाणविरोधाच्चेति ।। ‘भिन्नत्वलक्षणस्य’ इति शेषः ।
ननु प्रपञ्चस्य अविद्योपादानकत्वे ब्रह्मोपादानकत्वमिति सिद्धान्तभङ्गः स्यादित्यत आह – ब्रह्मविवर्त इति ।। अयमाशयः– उपादानं द्विविधम् । परिणाम्युपादानं विवर्तोपादानञ्चेति । तत्र अविद्या प्रपञ्चस्य परिणाम्युपादानम्, घटस्य मृत्पिण्ड इव । ब्रह्मा तु जडस्य विवर्तोपादानम्१ शुक्तिरूप्यं प्रति शुक्ति-रिव । विवर्तो नाम आरोपाधिष्ठानमिति । सर्वप्रपञ्चमिथ्यात्वसाधकानुमानमाह– अत्र चेति ।। भेदरूप-तत्साधनानुमानमाह –विमता इति ।। प्रातिभासिकभेदाभावमादाय अर्थान्तरवारणायाह – परमात्म-वदिति ।। परमात्मनि परमात्मप्रतियोगिकभेदाभावेन साध्यमस्तीति भावः । वाचारम्भणमिति ।। विकारः घटशरावादिः । वाचारम्भणम् = वाचा केवलमारभ्यते ।
न तु वस्तुगत्या विकारो नाम कश्चिदस्ति । नामधेयमात्रं हि एतदनृतमिति श्रुत्यर्थः । एवं सर्वप्रपञ्चमिथ्यात्वे श्रुतिमभिधाय भेदमात्रमिथ्यात्वे तामाह – नान्य इति ।। अतः परमात्मनः सकाशात् अन्यो द्रष्टा नास्तीति श्रुत्यर्थः । भेदाभावलक्षणसाध्यमुपपादयति – सैवेत्यादिना ।। कुतो मुक्तत्व-मिति ।। भवन्मते२ मोचनस्य पारमार्थिकावधिसापेक्षत्वाङ्गीकारादिति भावः । भट्टभास्करमतानु-सारेणाऽह– बह्विति ।। विद्यमानेऽपीति ।। ‘सत्योपाधिकृत’ इति शेषः । नासाविति ।। मुक्तौ उपाधेः निवृत्तत्वेन भेदस्यापि निवृत्ततया भेदस्य मुक्तप्रतीत्यगोचरत्वमिति भावः ।