भेदाद्यनुभवस्य भ्रान्तित्वाङ्गीकारे ..

भेदाद्यनुभवस्य भ्रान्तित्वनिरासः

श्रीमज्जयतीर्थटीका

ननु विमतो भेदभेदिवैलक्षण्यादिप्रत्ययो भ्रमः । भेदादिप्रत्ययत्वात् । अब्रह्मज्ञानत्वाच्च । चन्द्रभेदादिप्रत्ययवदित्यादियुक्त्या प्रत्यक्षादिजन्यस्य भेदाद्यनुभवस्य भ्रान्तित्वेन कथं तद्विरोधा-दभेदविषयवाक्यानामन्यार्थत्वमुच्यते ? यद्यपीश्वरस्याऽवरणमज्ञानं नास्ति तथापि विक्षेपसद्भावात् तदीयं भेदादिप्रत्यक्षं भ्रम एव । आगमस्यापि भेदानुवादित्वात् ततो  जायमानं भेदादिसद्भावज्ञानं भ्रान्तिरुपपद्यत एवेति । तत्राऽह-

मूल

भेदाद्यनुभवस्य भ्रान्तित्वाङ्गीकारे त्वपलापयुक्तेर्नितरां

भ्रान्तित्वाद्भेदाद्यनुभवस्याभ्रान्तित्वमेव भवति

यदि भेदाद्यनुभवत्वादिति हेतुना विप्रतिपन्नभेदाद्यनुभवस्य भ्रान्तित्वमङ्गीक्रियते । तदा भेदाद्यनुभवो भ्रान्तिरिति युक्तिजानुभवस्य नितरां भ्रान्तित्वं स्यात्तस्यापि भेदाद्यनुभवत्वात् । अन्यथा भेदानुभवत्वादिति हेतोस्तेनैवानैकान्त्यप्रसङ्गात् । न हि भेदानुभवो भ्रम इत्ययं न भेदानुभव इति युक्तं विकल्परूपत्वात् । न ह्यसङ्कीर्णस्वरूपज्ञानत्वातिरिक्तं भेदानुभवस्य शृङ्गमस्ति । अस्त्वयमपि युक्तिजानुभवो भ्रमः किं नश्छिन्नं निर्विकल्पकं ब्रह्मैव तत्वमित्यङ्गीकारादिति चेन्न । तथा सति विप्रतिपन्नभेदाद्यनुभवस्याभ्रान्तित्वप्राप्तेः । तदेषोभयतः पाशा रज्जुः । युक्तिजानुभव-स्याभ्रान्तित्वेऽनैकान्त्येन भ्रान्तित्वे बाधितत्वेन विप्रतिपन्नस्य भ्रान्तित्वसाधनासामर्थ्यात् ।

ननु भ्रान्तित्वे कथं तारतम्यं येन नितरामित्युक्तम् । सत्यम् । तथाऽपि स्वरूपसम्मत्या निश्चितं तत्र भ्रान्तित्वमिति सूच्यते अनयोक्त्येत्यदोषः । ननु युक्तिजानुभवस्य भ्रान्तित्वेऽपि कुतो विप्रतिपन्नभेदाद्यनुभवस्याभ्रान्तित्वमित्यत आह-

मूल

परस्परविरुद्धयोरन्यतरनिषेधस्यान्यतरविधिनान्तरीयकत्वात् ।

विरुद्धयोरिति निर्धारणे सप्तमी । त्र्यादिष्वेकनिषेधे निश्चितेऽन्यतरैकविधिप्रतिपत्तिर्नास्तीति द्विवचनम् । नान्तरीयकत्वात् व्याप्तत्वात् । विप्रतिपन्नभेदाद्यनुभवयाथार्थ्यं तदपलापयुक्त्यनुभव-याथार्थ्यं च खलु परस्परविरुद्धे तत्र युक्त्यनुभवयाथार्थ्यप्रतिषेधे भेदाद्यनुभवयाथार्थ्यं बलात् सिद्ध्यति । परस्परविरुद्धयोर्मध्येऽन्यतरनिषेधस्यान्यतरविधिव्याप्ततया सर्वत्र दर्शनादिति ।

ननु कथमत्र प्रयोक्तव्यम् ? भेदाद्यनुभवो यथार्थः । युक्त्यनुभवस्यायथार्थत्वादिति चेन्न । व्याप्त्यभावात् । तदपलापेति विशेषणेऽपि युक्तिग्रहणवैयर्थ्यात् । तदपनयनेऽपि वैयधिकरण्या-निस्तारात् । मैवम् । भेदाद्यनुभवो यथार्थः तद्विरुद्धप्रत्ययस्यायथार्थत्वादिति प्रयोगात् ।

न च व्यधिकरणत्वं दोषः । तद्धि पक्षधर्मताविघटनाद्व्याप्तिविघटनाद्वाऽतिप्रसङ्गाद्वा दोषः स्यात् । नाऽद्यः । पक्षधर्मताया अनावश्यकत्वात् । स्वयमसिद्धं कथं साधयतीति चेत् न ब्रूमोऽसिद्धम् । किन्तु पक्ष एव । तत्रासत्कथं तत्र साधयेदिति चेत् अथ तत्र सत्कथं तत्रापरं साधयेत्? दर्शनादिति चेत्समम् । दृश्यते हि चक्रभ्रमदर्शनात् कुलालासत्त्यनुमानम् । तत्र तावान् प्रदेशः पक्ष इति चेत् किमेवं लौकिकी प्रतीतिरुत पक्षधर्मतावश्यम्भावादित्थं कल्प्यते? नाऽद्यः । अप्रसिद्धेः। न द्वितीयः । परस्पराश्रयप्रसङ्गात् ।

किञ्च  रसाद्रूपानुमाने यादृशी पक्षधर्मता न तादृशी धूमादग्न्यनुमाने । तत्र यथा यथादर्शनं व्यवस्था तथा क्वचित् पक्षधर्मता क्वचिन्नेति व्यवस्था किं नाऽश्रियते ? न द्वितीयः । चक्रभ्रमादौ वैयधिकरण्येऽपि व्याप्तिदर्शनात् ।

किञ्च धूमादग्न्यनुमाने यदि समानाधिकरणयोर्व्याप्तिस्तदा धूमदर्शनान्नियमेन तदर्वाग्भागेऽ-ग्न्यर्थिनः प्रवृत्तिर्न स्यात् । अथ तत्रापि य ऊर्ध्वभागे धूमवान् सोऽर्वाग्भागेऽग्निमानिति व्याप्तिरिति चेन्न । स्वतो व्यधिकरणयोर्वाचोभङ्ग्यैव सामानाधिकरण्येऽनुमानव्यवहारस्य काल्पनिकत्व-प्रसङ्गात् । समानदेशकालयोर्व्याप्तिदर्शनेऽपि भिन्नकालयोरपि यथा व्याप्तिदर्शनबलाद्ग्राह्या तथा भिन्नाधिकरणयोरपीति को दोषः ? तृतीयस्तु दर्शनादर्शननिरसनीय इति सङ्ग्रहः ।

ननु कतकरजोवद्वेणुसङ्घर्षणजाग्निवच्च भेदाद्यनुभवमाभासीकृत्य युक्तिः स्वयमाभासी-भविष्यतीति चेन्न । वैषम्यात् । न हि कतकरजःप्रभृतीनां सत्त्ववद्युक्तेः प्रमात्वं किञ्चित्काल-मस्तीति ।

श्रीविजयीन्द्रभिक्षु

नन्वभेदागमस्य प्रबलप्रमाणान्तरविरोधे सत्यर्थान्तरपरत्वकल्पनं कार्यम् । न च भेदग्राहि-प्रत्यक्षादिकं प्रमाणम् । भेदादिप्रत्ययत्वेन हेतुना तदप्रामाण्यस्यैव सिद्धेरिति शङ्कते- नन्विति ।। ननु यदि भेदादिप्रत्ययो भ्रमः स्यात्तदेश्वरज्ञानमपि भ्रमः स्यात् । न चेष्टापत्तिः । तस्य भ्रमहेतुभूता-ज्ञानाभावादिति शङ्कते- यद्यपीति ।। ईश्वरज्ञानमपि भ्रम एवेति परिहरति- तथाऽपीति ।। भेदो भेदिभ्यां भिन्नो न वा? आद्ये अनवस्था । द्वितीये धर्मधर्मिभावानुपपत्तिरित्यादियुक्तिसिद्धं भेदाद्यनिर्वचनीयत्वं न स्यादित्येवंरूपविपक्षे बाधकसद्भावादित्यर्थः ।

ननु द्वा सुपर्णेत्यागमबलाद्भेदसिद्धिः । न च तज्ज्ञानं भ्रमः । निर्दोषवेदोत्पन्नत्वेन तदसम्भ-वादित्यत आह- आगमस्यापीति ।। निर्दोषश्रुतिरपि स्वतात्पर्यविषयीभूतार्थ एव मानम् । तात्पर्यं चोपक्रमादिभिरेवावसेयम् । न च द्वा सुपर्णेत्यागमानां तत्र तात्पर्यं सम्भवति । प्रत्यक्षसिद्ध-भेदानुवादित्वेनापूर्वताविरहादिति भावः । भेदाद्यनुभवस्य भ्रमत्वेन तन्निरासकयुक्तिजन्यज्ञानं भ्रम इत्युक्तमयुक्तम् । व्यधिकरणत्वादित्यशङ्क्योपपादयति- तस्यापीति ।। तथा च भेदनिरासक-युक्तिजन्यज्ञानस्यापि भेदविषयत्वाद् भ्रमत्वं दुर्वारमित्यर्थः । विकल्परूपत्वादिति ।। असङ्कीर्ण-वस्तुस्वरूपविषयज्ञानत्वादित्यर्थः । अस्त्वसङ्कीर्णवस्तुस्वरूपविषयकज्ञानत्वं तस्य । तथाऽपि भेदज्ञानत्वं कुत इत्यत आह- न हीति ।। तथा सतीति ।। भेदज्ञानस्य भ्रमत्वं हि बाधकज्ञानस्य प्रमात्व एव स्यात् । तस्यापि भ्रमत्वे बाधकाभावाद् भेदानुभवस्याभ्रान्तित्वमिति भावः ।

उभयतः पाशा रज्जुत्वमेवोपपादयति- युक्तीति ।। भेदनिरासकयुक्तिजन्यानुभवस्याभ्रमत्वे भेदादिप्रत्ययस्य तत्रैव व्यभिचारः । भ्रमत्वे तु भेदानुभवस्याभ्रमत्वं विना तदयोगाद् भेदानुभवो भ्रम इति साधनस्य बाधितत्वेन विप्रतिपन्नभेदाद्यनुभवस्य भ्रान्तित्वसाधने सामर्थ्याभावादित्यर्थः । परस्परविरुद्धयोरिति मूलार्थः- विरुद्धयोरिति ।। तेन ‘परस्परविरुद्धयोरेकनिषेधस्य नापरविधिना व्याप्तत्वम् । घटादेर्गोत्वनिषेधेऽश्वत्वादेरदर्शनात्’ इत्याशङ्का निरस्ता । परस्परविरुद्धयोरि-त्यत्राऽधारसप्तम्यङ्गीकारे परस्परविरुद्धयोरधिकरणयोरेकनिषेधोऽपरविधिव्याप्त इत्यर्थः स्यात् । स चायुक्तः । गोत्वादौ घटत्वद्रव्यत्वयोरन्यतरनिषेधेऽप्यन्यतरविधेरदर्शनादित्यत आह- निर्धारणे सप्तमीति ।।

परस्परविरुद्धानामन्यतमस्येत्यनुक्त्वा परस्परविरुद्धयोरित्येवोक्तौ कारणमाह- त्र्यादिष्विति ।। परस्परविरुद्धे इति ।। प्रतीत्योर्विरोधस्य विषयविरोधं विनाऽयोगात् तद्विषययोः परस्परविरहरूपत्वेन भेदाद्यनुभवयुक्तिजन्यज्ञानयोर्यथार्थत्वे अपि परस्परविरुद्धे इत्यर्थः । व्याप्त्यभावादिति ।। शुक्तौ रजतानुभवस्य भ्रान्तित्वेऽपि घटभेदाद्यनुभवस्याभ्रमत्वदर्शनादिति भावः । तदपलापेतीति ।। तदपलापयुक्तिजन्यज्ञानत्वादिति हेतुकरणेऽपीत्यर्थः । तद्धीति ।। यत्र व्याप्तिसत्वेऽपि पक्षे साधनस्यासत्वं तत्र पक्षधर्मताविघटनद्वारा वैयधिकरण्यस्य दोषत्वम् । यथा पर्वतोऽग्निमान् महानसस्य धूमवत्त्वादिति । यत्र हेतुसाध्ययोः सामानाधिकरण्यमेव नास्ति तत्र व्याप्तिविघटकत्वेन तथा । सामानाधिकरण्यविशेषस्यैव व्याप्तित्वात् । अन्यत्र विद्यमानस्यापि हेतोरन्यत्र साध्यसाधकत्वे धूमवतीव धूमरहितेऽपि वह्निसिद्धिप्रसङ्ग इत्यतिप्रसञ्जकतया दोषः स्यादित्यर्थः ।

असिद्धमिति कोऽर्थः ? किमप्रसिद्धमिति किं वा पक्षेऽविद्यमानमिति? नाऽद्य इत्याह- न ब्रूम इति ।।  द्वितीयं शङ्कते- तत्रेति ।।  धूमादिहेतोः  स्वाधिकरण एव साध्यसाधकत्वदर्शनादिति भावः । परमुखेनैव स्वाभिप्रेतं वाचयितुं गूढाभिसन्धिरुत्तरयति- अथेति ।। दृश्यते हीति ।। ‘आसन्नकुलालोऽयं देशः चक्रस्य भ्रमणवत्त्वात्’ इति साध्यसाधनयोः वैयधिकरण्येनाप्यनुमान-प्रवृत्तिर्दृश्यत इत्यर्थः । तत्र तावानिति ।। तथा च स्थूलदेशस्यैव पक्षत्वात्तत्र हेतुसाध्ययोः सामानाधिकरण्यमस्त्येवेति न वैयधिकरण्यमिति शङ्कावकाश इति भावः ।

लौकिकीति ।। सर्वानुभवसिद्धेत्यर्थः । परस्परेति ।। पक्षधर्मताया अनुमानाङ्गत्वे तावत्प्रदेशस्य पक्षतासिद्धिः तत्सिद्धौ वाऽव्यभिचारात्पक्षधर्मताया अनुमानाङ्गत्वसिद्धिरिति परस्पराश्रयत्व-प्रसङ्गादित्यर्थः । तथा च यथादर्शनमेव साध्यसाधनभावव्यवस्थाऽङ्गीकार्येति क्वचित्पक्षधर्मताऽ-भावेऽपि साधकत्वमविरुद्धमित्याह- किञ्चेति ।। व्याप्तिदर्शनादिति ।। सामानाधिकरण्यविशेषो न व्याप्तिः । अविनाभाव एवेति भावः । यथा च साध्यसाधनयोः सामानाधिकरण्याभावेऽप्यविनाभावः तथोपपादितमस्माभिः प्रमाणपद्धतिटीकायां प्रमाणलक्षणटीकाभावप्रकाशिकायां च ।

किं च यदि सामानाधिकरण्यविशेष एव व्याप्तिः स्यात्तदा विच्छिन्नमूलेनापि धूमेन वह्न्यनुमानं न स्यात् । न चेष्टापत्तिः । ऊर्ध्वभागे धूमं दृष्टवतो वह्न्यर्थिनस्ततोऽर्वाग्भागे प्रवृत्त्यभाव-प्रसङ्गादित्याह- किं चेति ।। तत्रापीति ।। उपरि विद्यमानधूमवत्त्वतदधोविद्यमानाग्निमत्त्वरूप-साध्यसाधनयोः सामानाधिकरण्यसत्वान्नोक्तदोष इति भावः । स्वतो व्यधिकरणयोरिति ।। उक्तरीत्या व्यधिकरणयोरपि ऊर्ध्वभागे धूमवान् अधोभागे वह्निमानिति एकविभक्त्यन्तशब्द-प्रयोगविषयत्वेनैव सामानाधिकरण्यमस्तीत्यङ्गीकृत्यानुमानव्यवहारकरणे तद्व्यवहारस्य परिभाषा-मात्रत्वापत्तेरित्यर्थः । तृतीयस्त्विति ।। समुचितदेशवृत्तित्वस्यैवातिप्रसङ्गभञ्जकत्वात् समुचितत्वस्य च फलबलकल्प्यत्वान्नातिप्रसङ्ग इति भावः ।

ननु यथा स्वयं नश्यतोऽपि कतकरजसः वेणुसङ्घर्षणजातानलनाशकत्वं एवं स्वयमाभासी-भवतोऽपि भेदापलापयुक्तिजन्यज्ञानस्य भेदानुभवाभासीकरणसामर्थ्यं भविष्यतीति शङ्कते- नन्विति ।। कतकरजःप्रभृतीनां किञ्चित्काले सत्वाद् युक्तं तस्येतरनाशकत्वम् । इह तु आभासी-करणसामर्थ्यस्य प्रमात्वस्य कदाऽप्यभावेन वैषम्यसत्वान्न युक्तमिति परिहरति- नेति ।।

श्रीवेदेशतीर्थ

नन्वभेदागमस्य प्रबलप्रमाणविरोधे ह्यर्थान्तरकल्पनं कार्यम् । न च भेदग्राहिप्रत्यक्षादिकं प्रमाणम् । भेदादिप्रत्ययत्वेन हेतुना तदप्रामाण्यस्यैव सिद्धेरिति शङ्कते- नन्विति ।।

ननूक्तमत्र यदि भेदप्रत्यक्षमप्रमाणं तर्हि तद्द्रष्टुरीश्वरस्य भ्रान्तत्वं स्यादिति । न चेष्टापत्तिः । अस्मदादिवत् तस्याज्ञानाच्छादनाभावादित्याशङ्क्य परिहरति- यद्यपीति ।। विक्षेपेति ।। अतदाकार-प्रतिभासस्यैव विक्षेपशब्दार्थत्वादिति भावः । अनुवादित्वादिति ।। प्रत्यक्षसिद्धभेदानुवादित्वादि-त्यर्थः । तथा च प्रत्यक्षस्य भ्रमत्वे तत्सिद्धार्थानुवादकवाक्यजनितज्ञानमपि भ्रम एवेति भावः । भ्रान्तित्त्वं स्यादिति मूले अध्याहृतमिति ज्ञेयम् । अन्यथा भ्रान्तित्वादित्यनुवादासम्भवात् । कुत इत्यतः  परन्यायेनैव तदुपपादयति - तस्यापीति ।। अन्यथेति ।।  युक्तिजानुभवस्य भ्रान्तित्व इत्यर्थः ।

ननु तत्र हेतोरेवाभावान्न व्यभिचार इत्यत आह- न हीति ।। विकल्परूपत्वादिति ।। इतरभेदवैलक्षण्यादिविशिष्टस्वरूपलक्षणासङ्कीर्णवस्तुविषयकत्वादित्यर्थः ।

नन्वस्त्वसङ्कीर्णस्वरूपविषयकत्वं तस्य तथापि भेदानुभवत्वं कुत इत्यत आह- न हीति ।। इतरभेदवैलक्षण्यादिविशिष्टवस्तुन एवासङ्कीर्णत्वादिति भावः । इदानीं भ्रान्तित्वादित्यादिमूलांशं व्याख्यातुमाह-अस्त्विति ।। निर्विकल्पकमिति ।। निर्भेदमित्यर्थः । उभयत इति ।। उभयतो बन्धकरज्जुन्याय इत्यर्थः । उभयतो बन्धनमेवोपपादयति ।। युक्तिजानुभवस्येति ।। अनैकान्त्ये-नेति ।। उक्तरीत्या तत्रापि भेदानुभवत्वहेतोः सत्वादित्यर्थः । बाधितत्वेनेति युक्तिजानुभवस्य भ्रमत्वं विप्रतिपन्नानुभवस्याभ्रमत्वं विना नोपपद्यतेऽतोऽभ्रमभूते विप्रतिपन्नानुभवे भ्रमत्वसाधनं बाधितमिति भावः । निर्धारण इति ।। तेनाधिकरणसप्तमीत्वेन प्रकृतासङ्गतिरिति चोद्यानवकाश इति भावः । त्र्यादिष्विति ।। गोत्वाश्वत्वमहिषीत्वादिष्वित्यर्थः ।

ननु द्विवचनप्रयोगेऽपि गोत्वाश्वत्वयोः पुनर्व्यभिचार एव । न हि गोत्वनिषेधे निश्चितेऽ-श्वत्वविधिर्नियमेन प्रतीयत इति चेन्मैवम् । भावानवबोधात् । द्विवचनमहिम्ना ययोर्द्वयोरेव परस्पर-विरोधस्तयोर्मध्य इत्यर्थलाभात् । द्वयोः परस्परविरोधश्च परस्परविरहरूपयोरेव दृष्टः । न परस्पर-विरहव्याप्ययोः । तत्र त्र्यादीनामपि परस्परविरहव्याप्यत्वसम्भवात् । एवं च परस्परविरुद्धयोरिति द्विवचनाप्रयोगे सामान्यतो विरोधमात्रप्रतीत्या स्यादुक्तो व्यभिचारः । द्विवचनप्रयोगे तु तन्महिम्ना परस्परविरहरूपयोरित्यर्थलाभान्न गोत्वादिषु परस्परविरहव्याप्येषु व्यभिचार इति भावः ।

परस्परविरुद्धे इति ।। यद्यपि नेमे याथार्थ्ये परस्परविरहरूपे तथाऽपि विप्रतिपन्नानुभवयाथार्थ्यस्य भेदसत्तागर्भत्वेन युक्तिजानुभवयाथार्थ्यस्य भेदाभावगर्भभ्रमत्ववद्विशेष्यकत्वादिरूपत्वेन परस्पर-विरहात्मकपदार्थघटितमूर्तिके इति तथोच्यते । ज्ञानयोस्तद्धर्मयोर्वा विषयविरोधमनपेक्ष्य स्वतो विरोधाभावादिति भावः । व्याप्त्यभावादिति ।। यत्किञ्चिद्युक्तिजानुभवस्य भ्रमत्वेऽपि घटपटभेदा-द्यनुभवस्य भ्रमत्वादर्शनादिति भावः । तद्विरुद्धप्रत्ययस्येति ।। तदभावघटितभ्रमत्वावगाहि-प्रत्ययस्येत्यर्थः । अतिप्रसङ्गादिति ।। शब्दोऽनित्यः घटस्य कृतकत्वादित्यादेर्गमकत्वप्रसङ्ग-रूपातिप्रसङ्गादित्यर्थः । चक्रभ्रमदर्शनादिति ।। चक्रभ्रमणं चक्रसमवेतं कुलालासत्तिश्च देश-विशेषनिष्ठेत्यनयोर्वैयधिकरण्येऽप्यनुमानं दृश्यत इत्यर्थः । तावान् प्रदेश इति ।। तथा चैतावान् प्रदेशः कुलालासत्तिमान् भ्रमविशिष्टचक्रवत्त्वादित्येवात्र प्रयोगोऽभिमतोऽतो न वैयधिकरण्यमिति भावः ।

परस्पराश्रयप्रसङ्गादिति ।। पक्षधर्मताया अनुमानाङ्गत्वे सिद्धेऽव्यभिचाराय तावत्प्रदेशस्य पक्षत्वमाश्रित्योक्तप्रयोगानुसरणम् । तत्सिद्धौ चाव्यभिचारात् पक्षधर्मताया अनुमानाङ्गत्व-सिद्धिरिति परस्पराश्रयप्रसङ्गादित्यर्थः । व्याप्तिदर्शनादिति ।। अव्यभिचरितसामानाधिकरण्यं न व्याप्तिः । किन्तु यद्देशकालसम्बद्धस्य यस्य यद्देशकालसम्बद्धेन येन विनाऽनुपपत्तिस्तस्य तेन सा व्याप्तिः । इयञ्च साध्यसाधनयोर्वैयधिकरण्येऽप्यस्तीति भावः ।

ननु वैयधिकरण्ये कथं व्याप्तिर्ग्राह्येति चेत् ? काऽत्र कथन्ता ? यत्रेदं तत्रेदमितिवद्यदेदं तदेदमितिवच्च यदीदं तर्हीदमित्यपि व्याप्तिग्रहसम्भवात् । अनुभूयते हि यद्यधोदेशे नदीपूरस्तर्ह्यूर्ध्वदेशे वृष्टिरिति । अतो न काऽप्यनुपपत्तिरिति । काल्पनिकत्वप्रसङ्गादिति ।। लोकमर्यादातिक्रमे परिभाषामात्रत्वप्रसङ्गादित्यर्थः । तथा च पूर्वोक्तपरस्पराश्रयत्वप्रसङ्ग इति भावः । समानदेश-कालयोरिति ।। रूपरसयोरित्यर्थः    भिन्नकालयोरिति ।। कार्यकारणयोरित्यर्थः । दर्शनादर्श-नेति ।। यत्र व्याप्तिसमुचितदेशसिद्ध्यादिनानुमितिरूपं फलं दृश्यते । तत्र वैयधिकरण्येऽपि गमकत्व-मस्तीत्युच्यते यत्र तु  व्याप्त्याद्यभावेनानुमितिर्न दृश्यते । तत्र सामानाधिकरण्येऽपि न गमकत्वम् । अतोऽतिप्रसङ्गभञ्जकं व्याप्त्याद्यधीनानुमितिरूपफलदर्शनमेव । अन्यथा समानाधिकरण-योर्गमकत्वेऽप्येतादृशातिप्रसङ्गाभिधाने का गतिरिति भावः । किञ्चित्कालमिति ।। किञ्चित्कालं प्रमात्वाङ्गीकारे चोक्तरीत्या व्यभिचार इति भावः ।

द्वैतद्युमणि

भेदादिप्रत्ययत्वादिति ।। भेदभेदकधर्मादिप्रकारप्रत्ययत्वादित्यर्थः । न चैवमननुगमः । किञ्चिद्धर्मावच्छिन्ननिरूपितप्रतिबन्धकतावच्छेदकप्रकारताश्रयत्वस्य विवक्षितत्वात् । निष्प्रकारक-ब्रह्ममाने जगज्ज्ञानप्रतिबन्धकतावच्छेदकविषयताश्रये व्यभिचारवारणाय प्रकारतात्वेन निवेशः ।

अब्रह्मेति ।। नञ् ब्रह्मपदेनैव समस्तम् । अतः सन् घट इत्यादिप्रकारकज्ञानेषु नासिद्धिः । उक्तज्ञानेषु ब्रह्मांशघटादीनां सत्तासंसर्गादीनां भानात् । व्यासज्यवृत्तिधर्मावच्छिन्नभेदस्य स्वस्मिन्ननङ्गीकारान्न ब्रह्मणोऽपि ब्रह्मान्यत्वेन, अनवच्छिन्नतदवगाहिज्ञाने व्यभिचारः । विक्षेप-सद्भावादिति ।। अतदाभासशक्तेरेव विक्षेपपदार्थत्वादिति भावः । नन्वागमजन्यभेदादिज्ञानस्य भ्रमत्वे आगमस्याप्रामाण्यापत्तिरित्यत आह- आगमस्येति ।। परमतात्पर्यविषयीभूतबोधस्य भ्रमत्व एव वाक्याप्रमाण्यम् । प्रकृते चानुवादकवाक्यानां निषेधकवाक्यैकवाक्यतापन्नतया प्रमात्मक-बोधजनकत्वमेव । अवान्तरवाक्यजन्यबोधस्य भ्रमत्वं न तस्याप्रामाण्यपादकम् । अन्यथाऽति-प्रसङ्गादिति भावः । भ्रान्तिरुपपद्यत इति ।। भ्रान्तिरपि नाप्रामाण्यापादिका भवतीत्यर्थः ।

कथं ‘युक्तिजानुभवे प्रकृतहेतुर्नास्ति’ इत्येतदयुक्तमित्यत आह- विकल्परूपत्वादिति ।। विकल्पः किञ्चिद् व्यवच्छेदको धर्मः । स निरूप्यते विषयीक्रियते इति व्युत्पत्त्या किञ्चिद् व्यवच्छेदकधर्मप्रकारकज्ञानत्वादित्यर्थः । तावता भेदादिप्रत्ययत्वं कथं तत्रेत्यत आह- न हीति ।। असङ्कीर्णरूपस्वज्ञानत्वातिरिक्तं स्वेन विषयीक्रियमाणधर्मविशिष्टस्य तद्धर्मशून्याद् व्यावृत्तिग्रह-सम्पादकप्रकारकज्ञानत्वादतिरिक्तं पक्षीभूतभेदानुभवे विद्यमानं युक्तिजानुभवावर्तमानं शृङ्गं पशोः पशुविशेषाद् व्यावृत्तशृृङ्गसदृशं किञ्चिद्धेतुभूतमस्तीत्यर्थः । प्रमेयत्वादिप्रकारकज्ञानमप्यप्रमेयविलक्षण-मिदमिति ज्ञान सम्पादकं भवतीति सप्रकारकज्ञानसामान्यमसङ्कीर्णस्वरूपविषयकं भवति । न तु स्वरूपमात्रविषयकं ज्ञानमित्याशयेन वा व्यतिरेकधर्मसामान्यप्रकारकज्ञानस्योक्तासङ्कीर्णवस्तु-ज्ञानरूपत्वेन बाहुलिकत्वेन सप्रकारकपरिचायकतया वा तथोक्तिसम्भवः । पूर्वोक्तरीत्याऽऽदि-पदार्थाननुगमादिपरिहाराय पूर्वोक्तरीत्यैव हेतोः परिष्करणीयत्वात् तस्य युक्तिजानुभवेऽ-प्यक्षतत्वमिति भावः ।

वाचोभङ्ग्येति ।। यथायथमुदाहरणेन यथाकथञ्चिदेकाधिकरणसम्बन्धबोधन इत्यर्थः । यत्किञ्चिदेकस्थूलाधिकरणसम्बन्धित्वमात्रे हेतुसाध्ययोः सामानाधिकरण्यमस्तीत्यभ्युपगम इति यावत् । काल्पनिकत्वप्रसङ्गादिति ।। हेतुसाध्ययोर्वैयधिकरण्यादिदं नानुमानमिति व्यवहारस्य निर्बीजत्वापत्तेरित्यर्थः । फलवृत्तिरसस्य पटवृत्तिरूपस्यापि य आकाशः महाकालो वा रसवत्फलवान् सः स्वसम्बद्धफलवृत्तिरसकः, रूपवत्पटवान् सः स्वसम्बद्धपटवृत्तिरूपको वेति उदाहारणप्रयोग-सम्भवेनैकाधिकरणग्रहसम्भवात्, प्रकृतनदीपूरादेरपि भूतलादिरूपैकधर्मिणमादाय यथायथं सामानाधिकरण्यस्य वक्तुं शक्यत्वाच्च सामानाधिकरण्यवैयधिकरण्यकथाया एवोच्छेदापत्तेः । व्याप्तिज्ञानवेलायां यत्र हेतुदर्शनं तद्भाग एव साध्यदर्शनं तु धूमस्थलेऽपि नास्तीति भावः ।

श्रीराघवेन्द्रतीर्थ

अभेदवाक्यानाम् अन्यार्थकल्पनम्१ अयुक्तमिति शङ्कते - ननु विमत इति ।। भ्रमत्वाभ्रमत्वाभ्यां विमतिविषयो भेदप्रत्ययो भेदिनो भेदवतो घटाद्यर्थस्य प्रत्ययः ईशितृत्वेशित-व्यत्वादिरूपवैलक्षण्यप्रत्ययः । साधर्म्यं साम्यादिप्रत्ययश्च भ्रम इत्यर्थः ।

ननूक्तमीश्वरप्रत्यक्षं न भ्रान्तिरिति । तत्राऽह-यद्यपीति ।। विक्षेपेति ।। जगद्विषयज्ञानमित्यर्थः । विकल्पेति ।। सविकल्पकज्ञानत्वादित्यर्थः । तावता कथं भेदप्रत्ययत्वमित्यत आह-न हीति ।। ‘भेदादिप्रत्ययो भ्रमः भेदादिप्रत्ययत्वात्’ इत्यादौ प्रतिज्ञाहेतुदृष्टान्तादीनामन्योन्यासङ्कीर्णतया तत्तत्स्वरूपविषयज्ञानत्वमेवान्योन्यभेदग्राहित्वं विना न युक्तमिति तदेव तदित्यर्थः । तदेषोभयत इति ।। भेदादि-प्रत्ययस्य भ्रमत्वोपपादकयुक्तिकथनमित्यर्थः । तदेतदिति वक्तव्ये विधेयापेक्षया स्त्रीलिङ्गोक्तिः। पाशो ग्रन्थिविशेषः । उभयतः पार्श्वद्वये पाशो यस्याः सा उभयतःपाशेत्यर्थः । तद्व्यनक्ति- युक्तिजानुभव-स्येति ।। अनैकान्त्येनेति ।। तत्र भेदानुभवत्वरूपहेतुसत्त्वेऽपि भ्रमत्व-रूपसाध्याभावादिति भावः ।

विप्रतिपन्नस्येति  ।।  भेदभेदिवैलक्षण्यादिप्रत्ययस्येत्यर्थः । द्वयोरित्युक्तिकृत्यमाह- त्र्यादि-ष्विति ।। तदपलापेति ।। तद्याथार्थ्यापलापायोक्तभेदाद्यनुभवत्वयुक्तिजानुभवस्येत्यर्थः। बलादिति ।। व्याप्तिबलादित्यर्थः । सर्वत्र दर्शनादिति ।। घटतदभावादौ दर्शनादित्यर्थः ।

नन्वस्त्वेवं घटतदभावयोरन्योन्यविरहरूपत्वादन्यतरनिषेधेऽन्यतरविधिरिह तु कथम् ? न हि द्वयोर्याथार्थ्यमन्योन्यविरहरूपमिति चेन्न । युक्तिजानुभवयार्थार्थ्यस्य भेदाद्यनुभवयाथार्थ्याभाव-स्वरूपत्वादिति भावः । युक्त्यनुभवस्येति ।। युक्तिजन्यानुभवस्येत्यर्थः । तदपलापेति ।। तद्याथार्थ्याभावसाधनयुक्तिजानुभवत्वादित्युक्तावित्यर्थः    तदपनयन इति  ।। युक्तिपदत्याग इत्यर्थः । तद्विरुद्धेति ।। याथार्थ्याभावप्रत्ययस्येत्यर्थः । पक्षधर्मावच्छिन्नव्याप्त्यभिप्रायेणायं प्रयोगः। अन्यथाऽनुभवभिन्ने घटादावनैकान्त्यापत्तेः । अतिप्रसङ्गाद्वेति ।। शब्दोऽनित्यः घटस्य कृतकत्वाद् इत्यादेरपि साधुत्वापातरूपादित्यर्थः । पक्ष एवेति ।। असिद्ध इत्यनुषङ्गः । दर्शना-दिति ।। धूमाग्न्यादाविति भावः । तावानिति ।। भ्राम्यच्चक्रासन्नकुलालोपेतप्रदेश इत्यर्थः । विमतः प्रदेश आसन्नकुलालवान् भ्राम्यच्चक्रोपेतत्वादित्युक्तौ न वैयधिकरण्यमिति भावः ।

परस्परेति ।। पक्षधर्मताया अनुमानाङ्गत्वे सिद्धे हीत्थं कल्पनम् एतत्सिद्धौ च तत्सिद्धिरित्यर्थः। यादृशी पक्षधर्मतेति ।। समवायेन स्थितिरूपा । न तादृशीति ।। संयोगेन स्थितिरूपत्वात् तस्या इति भावः। व्यवस्थेति ।। क्वचित् समवेतत्वरूपा क्वचिच्च संयुक्तत्वरूपेत्येवं यथा दर्शनमनतिक्रम्य यथा व्यवस्था तथेत्यर्थः । व्याप्तिदर्शनादिति ।। यदि चक्रभ्रमः तर्हि कुलालासत्तिरित्येवंरूपव्याप्ति-दर्शनादित्यर्थः । धूमादिस्थलेऽपि साध्यसाधनवत्प्रदेशविशेषगतैव व्याप्तिरतो न वैयधिकरण्य-मित्याह- अथ तत्रापीति ।। स्वतो व्यधिकरणयोरिति ।। भिन्नदेशस्थयोरित्यर्थः । वाचोभङ्ग्यैव वचनवृत्त्यैवेत्यर्थः । काल्पनिकत्वेति  ।।  परिभाषामात्रत्वप्रसङ्गादित्यर्थः । समानदेशकालयो-रिति ।। रूपरसयोरित्यर्थः । भिन्नकालयोरिति ।। धूमाग्न्योरित्यर्थः । तृतीयस्त्विति ।। अतिप्रसङ्गस्तु दर्शने सत्यङ्गीकरणमदर्शने तु नेति निरसनीय इत्यर्थः    संग्रह इति ।। विस्तरस्तु सुधायाम् इति भावः । कतकरजोवदिति ।। कतकेति बीजविशेषः । मृत्तिकाकलुषितजले कतकबीजरजःस्थापने सति जलगतमृत्तिकामशेषामधः स्थापयित्वा स्वयमप्यधः पतति तथेत्यर्थः । युक्तिरिति ।। भ्रमत्वसाधकभेदाद्यनुभवत्वयुक्तिरित्यर्थः । इतिशब्दो बहुजीववादे मुक्तत्वहेतोर्विपक्षे बाधकोक्ति-समाप्तौ । भेदभेदिवैलक्षण्यादिप्रत्यय इति ।। भेदप्रत्ययः भेदिनोः प्रत्ययः वैलक्षण्यप्रत्ययो नाम पदार्थानां विरुद्धलक्षणयोगित्वप्रत्ययः विरुद्धधर्माधिकरणत्वप्रत्यय इत्यर्थः । भेदादीति ।। भेद-प्रत्ययत्वाद् वैलक्षण्यप्रत्ययत्वाच्चेत्यर्थः । चन्द्रेति ।। चन्द्रभेदप्रत्ययवत्  चन्द्रद्वयरूपभेदिप्रत्यय-वत्तयोर्वैलक्षण्यप्रत्ययवच्चेत्यर्थः । युक्त्येति ।। तद्विरोधेनेत्यर्थः । ननु ईश्वरप्रत्यक्षजन्यभेदानुभवस्य कथं युक्तिविरोधेन भ्रान्तित्वं वक्तुं शक्यते । तत्कारणीभूताज्ञानरूपावरणाभावादित्याशङ्क्याऽह- यद्यपीति ।। विक्षेपेति ।। अतदाकारप्रतिभासरूपविक्षेपसद्भावादित्यर्थः । भेदादिप्रत्यक्षम् भेदाद्यनु-भवः । अनुवादित्वादिति ।। ईश्वरप्रत्यक्षसिद्धमिथ्याभूतभेदानुवादित्वादित्यर्थः । तत इति ।। अनुवादित्वेन स्वार्थे तात्पर्यशून्यादागमादित्यर्थः । भ्रान्तिरुपपद्यते भ्रान्तिरित्युपपद्यत इत्यर्थः । अन्यथेति ।। युक्तिजानुभवस्य भ्रान्तित्वानङ्गीकार इत्यर्थः । तेनैवेति ।। युक्तिजानुभव एव व्यभिचारः स्यादित्यर्थः । हेतोरेवाभावान्न व्यभिचार इति चेत्तत्राऽह- न हीति ।। इत्ययमिति ।। इत्यनुभव इत्यर्थः । विकल्परूपत्वादिति ।। विशिष्टज्ञानरूपत्वात् । इतरभेदेतरवैलक्षण्यविशिष्टस्वरूप-लक्षणासङ्कीर्णवस्तुविषयकत्वादित्यर्थः । प्रायः सर्वतो विलक्षणं हि पदार्थस्वरूपं दृश्यते तथा च भेदादिविषयकोऽनुभवो भ्रम इत्येवं युक्तिजन्यानुभवस्यापि इतरसमस्तप्रतियोगिकभेदविशिष्ट-भेदाद्यनुभवभ्रमरूपवस्तुविषयकत्वेनास्यापि भेदानुभवत्वादिति भावः । ननु युक्तिजानुभवस्य सर्व-विलक्षणवस्तुस्वरूपविषयकत्वेऽपि भेदानुभवत्वं कुत इत्यत आह-न हीति ।।  असङ्कीर्णेति ।। स्वेतरसमस्तभिन्नं यत्स्वरूपं तद्विषयकज्ञानत्वमेव भेदानुभवत्वम् इदमेव तस्य लक्षणम् एतदतिरिक्तं शृङ्गं तज्ज्ञापकं लक्षणान्तरं नास्तीत्यर्थः । तथा च भेदानुभवो भ्रम इति युक्तिजानुभवस्याप्यसङ्कीर्ण-भेदानुभवभ्रमरूपवस्तुस्वरूपविषयकज्ञानत्वेन भेदानुभवलक्षणाक्रान्तत्वेन भेदानुभवत्वात् तस्य च त्वया भ्रान्तित्वानङ्गीकारादनैकान्त्यप्रसङ्गो दुर्वार इति भावः ।

साध्यस्यापि सत्त्वान्न व्यभिचार इत्याशङ्कते- अस्त्विति ।। बाधितत्वेनेति ।। एतद्युक्ति-जानुभवस्य भ्रान्तित्वे भेदाद्यनुभवस्याभ्रान्तित्वप्राप्त्या भ्रान्तिरूपसाध्याभावनिश्चयादित्यर्थः । विप्रतिपन्नस्य ईश्वरीयभेदाद्यनुभवस्य । स्वपरेति ।। भेदाद्यनुभवो भ्रम इति युक्तिजानुभव-भ्रमत्वमस्मत्सम्मतमेव । तस्यापि भेदानुभवत्वादित्यादिनोक्तरीत्या परसंमत्याऽपि तत्र युक्तिजानुभवे भ्रान्तित्वं निश्चितमिति । अनयोक्त्या सुतरामित्युक्त्या सूच्यत इत्यर्थः । व्याप्त्यभावादिति ।। यत्र युक्तिजानुभवस्य  भ्रान्तित्वं  तत्र भेदानुभवस्य यथार्थत्वमित्यत्र दृष्टान्ताभावेन व्याप्त्यभावादि-त्यर्थः । यद्वा ब्रह्म क्षणिकं सत्त्वादिति युक्तिजानुभवस्य स्थायित्वप्रत्ययविरोधेनायथार्थत्वेऽपि घटे घटभेदावगाह्यनुभवस्य यथार्थत्वाभावेन व्यभिचाराद्व्याप्त्यभाव इत्यर्थः ।

तदपलापेति ।। भेदाद्यनुभवो यथार्थः तदपलापयुक्त्यनुभवस्यायथार्थत्वात् यत्र यदपलापयुक्त्यनु-भवस्यायथार्थत्वं तत्र तदनुभवस्य यथार्थत्वं यथा घटापलापयुक्त्यनुभवस्यायथार्थत्वे घटानुभवस्य यथार्थत्वं दृष्टम् । अतो  व्यभिचाराभावाद्दृष्टान्तसद्भावाच्च न व्याप्त्यभाव इत्यर्थः । युक्तीति ।। तदपलापानुभवस्यायथार्थत्वादित्येव हेतुरस्तु व्यभिचाराभावाद् अतो युक्तिग्रहणं व्यर्थमित्यर्थः । तदपनयेति ।। युक्तिपदपरित्यागेऽपीत्यर्थः । वैयधिकरण्येति ।। भेदाद्यनुभवो यथार्थस्तदप-लापानुभवस्यायथार्थत्वादित्यत्रायथार्थत्वस्यापलापानुभवनिष्ठत्वेन पक्षीभूतभेदाद्यनुभवनिष्ठत्वा-भावात् शब्दोऽनित्यो घटस्य कृतकत्वादितिवद्व्यधिकरणमित्यर्थः । युक्तिपदपरित्यागेनैव हेतुमाह- तद्विरुद्धेति ।। तदपलापेत्यर्थः । तथाच व्याप्त्यभावादित्युक्तदोषो नेति भावः ।

तर्हि वैयधिकरण्यस्यानिस्तारादित्युक्तदोषः स्यादित्याशङ्क्य परिहरति– न चेति ।। अति-प्रसङ्गाद्वेति ।।  शब्दोऽनित्यो  घटस्य कृतत्वादित्यादेरपि गमकत्वं स्यादित्यतिप्रसङ्गाद्वेत्यर्थः । पक्षेति ।। समुचितदेशसिद्धेरेवानुमानाङ्गत्वेनाङ्गीकारादिति भावः । असिद्धमिति ।। पक्ष इति शेषः। साधयति साध्यमिति शेषः । असिद्धमिति ।। सर्वथा कुत्राप्यसिद्धमिति न ब्रूम इत्यर्थः । पक्ष एवासिद्धमिति ब्रूम इति वर्तते । ‘तत्र’ पक्षे । ‘असत्’ साधनम् । दर्शनादिति ।। धूमानुमानादाविति शेषः । चक्रेति ।। यदा कुलालो दण्डेन चक्रं भ्रामयित्वा स्वयं गृहान्तर्गतस्तदाऽन्यः कश्चित् चक्रभ्रमणं दृष्ट्वाऽनुमिमीते । गृहान्तर्गतः प्रदेशविशेषः कुलालासत्तिमान् चक्रस्य भ्रमणादिति । तत्र भ्रमणस्य चक्रसमवेतत्वात् कुलालासत्तेश्च देशविशेषनिष्ठत्वेन वैयधिकरण्येऽप्यनुमानं दृश्यतेऽतो न वैयधिकरण्यं दोष इत्यर्थः । तावानिति ।। न गृहान्तर्गतप्रदेशविशेष एव पक्षः, किन्तु यस्मिन् प्रदेशे चक्रभ्रमणं सोऽपि पक्ष इत्यर्थः । तथा च बाह्यान्तःस्थस्सर्वोऽपि प्रदेशः तावान् प्रदेशः कुलालासत्तिमान् भ्रमविशिष्टचक्रवत्त्वादित्येव समानाधिकरणतया प्रयोगस्याभिमतत्वेन न वैयधिकरण्यमिति भावः ।

लौकिकीति ।। एतादृशस्थले समानाधिकरणतया प्रयोगकरणं लौकिकप्रतीतिसिद्धमिति यावदित्यर्थः । परस्पराश्रयप्रसङ्गादिति ।। पक्षधर्मतायाः अनुमानाङ्गत्वे सिद्धे चक्रभ्रमात् कुलालासत्त्यनुमानस्थले पक्षधर्मताया अभावेन व्यभिचारे चोदिते तावत्प्रदेशस्य पक्षत्वमाश्रि-त्योक्तरीत्या प्रयोगानुसरणम् । तत्सिद्धौ च व्यभिचाराभावात्पक्षधर्मताया अनुमानाङ्गत्वसिद्धि-रित्यन्योन्याश्रय इत्यर्थः । रसादिति ।। अयं रूपी रसवत्त्वादित्यनुमान इत्यर्थः । यादृशीति ।। समवायसम्बन्धघटितेत्यर्थः । न तादृशीति ।। तत्र पक्षधर्मतायाः संयोगघटितत्वादिति भावः । व्याप्तिदर्शनादिति ।। कथमत्र व्याप्तिरिति चेत् । इत्थम् । यत्रेदं तत्रेदमितिवत् यदेदं तदेदमितिवद् यदीदं तर्हीदमित्यपि व्याप्तिग्रहसम्भवात् । अनुभूयते हि यद्यधोदेशे नदीपूरस्तर्ह्यूर्ध्वदेशे वृष्टिरिति अतो न काऽप्यनुपपत्तिरिति भावः ।

किञ्च व्यधिकरणयोर्व्याप्तिर्धूमानुमान एव प्रसिद्धेत्याह- किञ्चेति ।। धूमदर्शनादिति ।। ऊर्ध्वभाग इति शेषः । तदर्वाग्भागे धूमदेशादधोभागे । न स्यादिति ।। यस्मिन् देशे धूमोऽस्ति तद्भाग एव प्रवृत्तिः स्यात् न तदर्वाग्भाग इत्यर्थः । स्वत इति ।। भिन्नाधिकरणनिष्ठयोर्धूमाग्न्योरित्यर्थः । काल्पनिकत्वेति ।। लोकमर्यादातिक्रमेण काल्पनिकत्वप्रसङ्गात्पारिभाषिकत्वप्रसङ्गात् स्वकपोल-कल्पितत्वप्रसङ्गादित्यर्थः । समानेति ।। रूपरसयोरित्यर्थः । भिन्नकालयोरिति ।। यत्र कार्यात्कारण-मनुमीयते तत्र भिन्नकालयोर्व्याप्तिरित्यर्थः । तयोः पूर्वापरीभावघटितत्वेन समानकालीनत्वाभावा-दिति ज्ञातव्यम् । अतिप्रसङ्गाद्वेति तृतीयं निराकरोति- तृतीय इति ।। दर्शनादर्शनेति ।। व्याप्तिसमुचितदेशसिद्धिभ्याम् अनुमितिरूपं फलं यत्र दृश्यते ऊर्ध्वदेशो वृष्टिमान् अधोदेशे नदीपूरादित्यादौ तत्र वैयधिकरण्येऽपि साध्यगमकत्वमस्तीत्युच्यते । यत्र तु व्याप्तिसमुचित-देशसिद्ध्यभावेनानुमितिरूपफलं न दृश्यते शब्दोऽनित्यो घटस्य कृतकत्वादित्यादौ तत्र वैयधि-करण्येऽपि न गमकत्वमित्यर्थः । कतकरजोवदिति ।। ‘कतकरजः चिल्लबीजम्’ इत्यपभ्रष्टभाषा । यथा रजःकलुषिते जले कतकरजो स्थाप्यते चेत्तर्हि तत् जलकालुष्यं विनाश्य, पश्चात्स्वयमपि नश्यति तद्वदित्यर्थः । वेणुसङ्घर्षजेति ।। यथा वेणुसङ्घर्षजो वह्निर्वनं दग्ध्वा पश्चात्स्वयमपि शान्तो भवति तद्वदित्यर्थः । आभासीकृत्येति ।। तथा चापलापयुक्तेः सत्त्वस्यैवाभावात् कस्याः भ्रान्तित्त्वं  भवद्भिश्चाऽपाद्यते कुत्र वा व्यभिचारो दीयत इति भावः ।

सत्त्ववदिति । जले वने च स्थापितयोः कतकरजोवन्ह्योः किञ्चित्कालसत्त्ववदित्यर्थः । तयोः किञ्चित्कालं सत्त्वाभावे जलकालुष्यविनाशकत्वस्य वनदाहकत्वस्य चासम्भवादित्यर्थः । युक्तेः अपलापयुक्तिजानुभवस्य प्रमात्वमिति ।। तत्प्रयुक्तं सत्त्वमित्यर्थः ।  प्रामाण्यस्यार्थसत्ताघटितत्वा-दिति ज्ञातव्यम् । तथा च मुक्तिजानुभवस्यापि प्रमात्वमङ्गीकृत्य किञ्चित्कालं सत्त्वाङ्गीकारे च भेदानुभवत्वहेतोरुक्तरीत्या तत्र व्यभिचारः स्यात् । अतो युक्तिजानुभवस्य सत्त्वाभावाद्भेदाद्यनुभव-माभासीकृत्येत्युक्तमसदिति भावः ।।

गुरुराजीया

अभेदागमापेक्षया भेदागमस्य प्रत्यक्षाद्यनुसारितया प्राबल्येन तद्विरोधादभेदागमस्य भेदागमानुसारेण व्याख्येयत्वमुक्तम् । तदसत् । युक्त्या भेदानुभवस्य भ्रमत्वसिद्ध्या तदनुसारेण भेदागमस्य१ प्राबल्यासिद्धेरिति शङ्कते- नन्विति ।। विक्षेपेति ।। अतदाकारप्रतिभासरूप-विक्षेपसद्भावादित्यर्थः । अनुवादित्वादिति ।। प्रत्यक्षप्राप्तभेदानुवादित्वादित्यर्थः । तथा च भ्रमरूपप्रत्यक्षप्राप्तभेदानुवादिवाक्यजनितभेदज्ञानमपि भ्रम एवेति भावः । भेदाद्यनुभवत्वादित्युप-लक्षणम् । अब्रह्मज्ञानत्वादित्यपि द्रष्टव्यम् । भेदाद्यनुभवत्वादिति हेतोरित्युत्तरग्रन्थानुसारात् । तेनैवेति ।। युक्तिजानुभवेनैवेत्यर्थः । तत्र भेदानुभवत्वे अब्रह्मज्ञानत्वे च सत्यपि भ्रान्तित्वा-भावादिति भावः ।

ननु तत्र हेतोरेव अगमनान्न व्यभिचार इत्यतः अस्पष्टत्वादाद्यहेतोरेव वृत्तिमुपपादयति- नहीति ।। विकल्परूपत्वादिति ।। सविकल्पकज्ञानत्वादित्यर्थः । तावताऽपि कथं तस्य भेदानुभवत्वमित्यतः असङ्कीर्णज्ञानस्वरूपत्वात्२ तत्सिद्धिरिति भावेनाऽह- न हीति ।। निर्विकल्पकमिति ।। निर्धर्मिक-मित्यर्थः । उभयतः पाशत्वमेवोपपादयति- युक्तिजानुभवस्येति ।। अनैकान्त्येनेति ।। तथा च युक्तेरनैकान्त्येनाऽभासत्वात् तज्जन्यप्रत्ययस्य भ्रमत्वेन अन्यथा विज्ञातस्य सम्यग्विज्ञानत्वाभावेन बाधलक्षणानाक्रान्तत्वान्न बाधकत्वम् । अबाधकत्वेनेति ।। अन्यथा विज्ञातस्य सम्यग्विज्ञानस्यैव बाधत्वेन भ्रान्तित्वे सम्यग्विज्ञानत्वाभावेन बाधलक्षणानाक्रान्ततया अबाधत्वम् । यद्यपि च पक्षद्वयेऽपि सम्यग्ज्ञानत्वाभावप्रयुक्तमेव युक्तिजानुभवस्याबाधत्वमिति तथैव वक्तुमुचितम् । तथाऽप्येकत्र पक्षे पराङ्गीकारेणैव तत् । पक्षान्तरे तु अनुभवजनकयुक्तेरनैकान्त्यनिमित्तं तदिति भावेनैकत्र अनैकान्त्येनेति अपरत्र अबाधकत्वेनेति विचित्रः प्रयोगः ।

अधिकरणसप्तमीत्यस्य प्रकृतासङ्गतत्वादाह- निर्धारण इति ।। त्र्यादिष्वेकेति ।। पुरोवर्तिनः पुरुषत्वे असति, स्थाणुत्वमेव भवतीति नियमो नास्ति । वल्मीकत्वस्यापि सम्भवादित्यर्थः । द्विवचनमिति ।। द्वयोर्विरुद्धयोरित्युक्तमित्यर्थः । न च द्वयोरित्येतावताऽपि उक्तशङ्कापरिहारसिद्धेः विरुद्धयोरित्यधिकमिति वाच्यम् । द्वयोरिति विशेषणस्यासमर्थतापरिहाराय विरुद्धग्रहणस्य सार्थकत्वात् । अत एवोक्तं सुधायां द्वयोरिति विशेषणस्यासमर्थतापरिहाराय विरुद्धग्रहणमिति । अयमर्थः । द्वावेव यौ विरुद्धधर्मावित्यनुपपन्नम् । धर्माणां बहुत्वेन धर्मयोर्द्वित्वावधारणस्य बाधितत्वात् । विरुद्धौ द्वावेवेत्यत्र नानुपपत्तिः । नित्यत्वानित्यत्वयोः द्वयोरेव विरुद्धतया तद्विरोधिनस्तृतीयधर्मस्याभावादिति । परस्परविरुद्धे इति ।। यद्यपि नेमे याथार्थ्ये परस्परविरुद्धरूपे१ तथाऽपि विप्रतिपन्नानुभवयाथार्थ्यस्य भेदसत्त्वगर्भत्वेन युक्तिजानुभवयाथार्थ्यस्य भेदाभावगर्भ-भ्रमत्ववद्विशेष्यकत्वादिरूपत्वेन परस्परविरहात्मकपदार्थघटितमूर्तिकत्वेनेयं तथोक्तिः । ज्ञानयोस्तद्धर्मयोर्वा विषयविरोधमनपेक्ष्य स्वतो विरोधाभावादिति भावः ।

कथं प्रयोक्तव्यमिति ।। न कथमपि प्रयोगः सम्भवतीति भावः । तत् कथमित्यतः उक्तकथन्तामेव प्रथयितुं सम्भावितप्रयोगप्रकारमाशङ्कते- भेदाद्यनुभव इति ।। विप्रतिपन्नभेदाद्यनुभव इत्यर्थः । व्याप्त्यभावादिति ।। यत्र युक्तिजानुभवस्य भ्रमत्वं तत्र भेदानुभवस्य यथार्थत्वमिति विशेषव्याप्तौ दृष्टान्ताभावेन व्याप्त्यभावादित्यर्थः । ननु तदपलापयुक्त्यनुभवस्यायथार्थताया एव हेतुत्वात्, यदपलापयुक्त्यनुभवस्यायथार्थत्वं तदनुभवस्य यथार्थत्वमिति सामान्यव्याप्तेरविकलत्वान्न व्याप्त्यभाव इति भावेन हेत्वन्तरमाशङ्कते- तदपलापेति ।। वैयर्थ्यादिति ।। व्याप्त्युपयोगितयैव हेतुविशेषणस्योपादानेन विशेषणवैयर्थ्ये ‘विशिष्टस्य विशेषणे वैयर्थ्यमेकासिद्धौ च’ इत्युक्तन्यायेन व्याप्त्यभावाद्व्याप्त्यसिद्धिरिति भावः ।

युक्तिपदपरित्यागेनैव तद्विरुद्धानुभवायाथार्थ्यस्यैव हेतुत्वाङ्गीकारात् यत्र यद्विरुद्धानुभवस्या-यथार्थत्वं तत्र तदनुभवस्य यथार्थत्वमिति व्याप्तेरविकलत्वान्न व्याप्त्यसिद्धिर्न वा वैयर्थ्यमित्यत आह- तदपनयनेऽपीति ।। वैयधिकरण्यादिति ।। तद्विरुद्धानुभवायथार्थत्वस्य विरुद्धानुभवमात्रनिष्ठत्वात् । १भेदानुभवमात्रनिष्ठयथार्थत्वेन व्यधिकरणत्वादित्यर्थः । व्यधिकरणत्वस्य दूषणत्वस्यैवाभावा-न्नानुपपत्तिरिति भावेन तृतीयं प्रयोगप्रकारमुपादाय  गूढाभिसन्धिः  समाधत्ते -  तद्विरुद्धप्रत्यय-स्येति ।। तदभावघटितभ्रमत्वावगाहिप्रत्ययस्येत्यर्थः । आशयमविद्वान् शङ्कते- न चेति ।। सिद्धान्ती स्वाशयमुद्घाटयति- तद्धीति ।। अतिप्रसङ्गादिति ।। ‘आत्मा नित्यः कालस्य कार्ष्ण्यात्’ इत्ययमपि हेतुः स्यादित्यतिप्रसङ्गादित्यर्थः । यादृशी पक्षधर्मतेति ।। समवायेन पक्षनिष्ठत्वलक्षणेत्यर्थः । न तादृशीति ।। संयोगवृत्त्या धूमस्य पक्षे वृत्तावपि समवायवृत्त्या पक्षे तदवृत्तेरिति भावः । व्यव-स्थेति ।।  रसाद्रूपानुमाने समवायवृत्त्यैव पक्षनिष्ठता । धूमानुमाने संयोगवृत्त्यैव सेत्येवं व्यवस्थे-त्यर्थः । चक्रभ्रमादाविति ।। देशविशेषादिनिष्ठकुलालासत्त्या सह चक्रनिष्ठभ्रमणस्य वैयधिकरण्येऽ-पीत्यर्थः । आदिपदेन ऊर्ध्वदेशो वृष्टिमानधोदेशे नदीपूरवत्त्वादित्यादेः परिग्रहः । व्याप्तिदर्शना-दिति ।। यद्देशकालविशिष्टस्य यस्य यद्देशकालविशिष्टेन येन विना अनुपपत्तिस्तस्य तेन सा व्याप्तिरिति अनुपपत्तिरूपत्वाद्व्याप्तेः समानाधिकरणयोः साध्यसाधनयोरिव व्यधिकरणयोरपि तयोः सत्त्वादिति भावः ।

ननु चक्रधर्मेण तद्धर्मस्य कुलालासत्तेरेव साधनान्न साध्यसाधनयोर्वैयधिकरण्यम् । एवं नोत्तरदेशोऽत्र पक्षः । किं नाम नदी । तद्धर्मेणैव पूरेण तद्धर्मस्यैव वृष्टिमदुत्तरदेशसम्बन्धस्य साध्यत्वमिति न साध्यसाधनयोर्वैयधिकरण्यमिति शङ्कायाम्२, अस्योदाहरणस्य सामानाधिकरण्य-सम्भवेनानादरणीयत्वेऽपि

रोहिण्युदय आसन्नः कृत्तिकाभ्युदिता यतः ।’

इति आदिशब्दसङ्गृहीते प्रयोगान्तरे रोहिण्या वा कृत्तिकाया वा समानाधिकरणधर्मद्वयस्य सम्पादयितुमशक्यत्वेन सत्यपि वैयधिकरण्ये व्याप्तिदर्शनादिति पूर्वोक्तदोषानुद्धार एवेति सत्यपि दोषे तमुपेक्ष्य दोषान्तरमेवाऽह- किं चेति ।। न स्यादिति ।। तत्रापि ऊर्ध्वदेश एव प्रवृत्तिप्रसङ्गेनेति शेषः । अथेति ।। तथा चार्वाग्भागे प्रवृत्तिर्युक्तेति भावः ।

ननु समानदेशकालयो रसरूपयोः व्याप्तिदर्शनात् कथं भिन्नदेशयोः कृत्तिकोदयरोहिण्युदया-सत्त्योर्व्याप्तिः स्यादिति १चेत्, तथा सति तद्वदेव तत एव कार्यकारणभावापन्नतया भिन्नकाल-योर्धूमवह्न्योरपि व्याप्त्यभावप्रसङ्गः । यदि च दर्शनबलेन रसरूपयोः समानदेशकालयोर्व्याप्ति-नियमेऽपि भिन्नकालयोर्धूमवह्न्योर्दर्शनबलादेव व्याप्तिरिति न तदभावप्रसङ्ग इति मन्यसे तर्हि दर्शनबलेन रसरूपयोः समानदेशकालयोः व्याप्तिनियमेऽपि भिन्नदेशयोः कृत्तिकोदयरोहिण्युदया-सत्त्योर्दर्शनबलादेव व्याप्तिरङ्गीकर्तव्यैव पक्षपाते कारणाभावादित्याशयेनाऽह- समानदेशकालयो-रित्यादिना ।। दर्शनादर्शनेति ।। काकस्य कार्ष्ण्यं व्याप्त्यभावादेव नित्यत्वासाधकम् । न पुनर्व्यधि-करणत्वात् । अतो नातिप्रसङ्गः । कुत एतत्? व्याप्त्याद्यङ्गसाकल्ये व्यधिकरणत्वमात्रेणासाधकत्वस्य क्वाप्यनुपलम्भात् । घटस्य कृतकत्वाच्छब्दोऽनित्य इत्यादौ दृष्टमिति चेत् घटस्येत्येतत् हेतुविशेषणं न वा? आद्ये वैयर्थ्यान्न व्याप्तिः । ‘विशेषणे वैयर्थ्यमेकासिद्धौ च’ इत्युक्तत्वात् । द्वितीये कथमसाधकत्वम्? अनित्यत्वव्याप्तमपि कृतकत्वं घटवृत्ति न शब्दनित्यत्वं२ साधयतीति चेन्न । व्याप्त्यभावस्यान्यत्र व्यवस्थापितत्वेन तदतिप्रसङ्गाभावादिति३ भावः ।

कतकरजोवदिति ।। वर्षाकाले पङ्काविलस्य जलस्य विमलीकरणार्थं कतकरूपद्रव्यविशेषचूर्णं निक्षिप्यते । तद्यथा प्रागवस्थितं जलमालिन्यम् अपहृत्य स्वप्रयुक्तमपि कालुष्यं स्वयमपहरति । यथा  वा वेणुसङ्घर्षजो वह्निर्वनं भस्मीकृत्य स्वयमपि भस्मसाद्भवति तथेत्यर्थः । किञ्चित्काल-मिति ।। युक्तिजानुभवस्य किञ्चित्कालं प्रमात्वाङ्गीकारे अभ्रान्तित्वेन भेदानुभवत्वादेस्तत्र व्यभिचारप्रसङ्गादिति भावः ।

गोविन्दीया

भेदेति ।। आदिपेदन भेदसम्बन्धो वैलक्षण्यसम्बन्धश्च गृह्यत इत्यर्थः । तद्विरोधादिति ।। भेदग्राहिप्रत्यक्षानुकूलागमविरोधादित्यर्थः । विक्षेपसद्भावादिति ।। ईश्वरस्याऽवरणरूपज्ञानाभावेऽपि विक्षेपस्यातदाकाररूपभ्रमज्ञानस्य सद्भावादित्यर्थः । भेदानुवादित्वादिति ।। प्रत्यक्षसिद्धभेदानु-वादित्वादित्यर्थः । नितरामिति ।। प्रत्यक्षजन्यभेदाद्यनुभवस्य भ्रान्तित्वं पररीत्या सिद्धम् । युक्तिजन्यभेदाद्यनुभवस्य भ्रान्तित्वमुभयवादिसिद्धमिति नितरामिति पदेन सूचयतीत्यर्थः । अन्यथेति ।। युक्तिजन्यभेदानुभवस्याभ्रान्तित्वे तेनैव तत्रैव भेदाद्यनुभवत्वादिहेतोः सत्त्वाद् भ्रान्तित्वाभावादनैकान्त्यप्रसङ्गादित्यर्थः । हेतुसद्भावमेवोपपादयति- न हीति ।। विकल्प-रूपत्वादिति ।। सविकल्परूपत्वादित्यर्थः । न ह्यसङ्कीर्णेति ।। अयं भेद इत्यनुभवस्यासङ्कीर्ण-स्वरूपज्ञानत्वं भेदवैलक्षण्यादिविशिष्टस्वरूपज्ञानत्वं यथाऽस्ति तथा भेदानुभवो भ्रम इति युक्तिजानुभवस्यापि तादृशज्ञानत्वं न तु तद्व्यतिरिक्तं शृङ्गमस्तीत्यर्थः । तथा च युक्तिजानुभवस्यापि भेदाद्यनुभवत्वाद् भ्रान्तित्वमेवेति भावः । निर्विकल्पकं ब्रह्मैव तत्त्वम्, अन्यन्मिथ्येत्यङ्गीकाराद् युक्तिजानुभवस्य भ्रान्तित्वे किं नश्छिन्नमित्यर्थः । तथा सतीति ।। युक्तिजानुभवस्य भ्रान्तित्वे इत्यर्थः । उभयत इति ।। युक्तिजानुभवस्य भ्रान्तित्वा-भ्रान्तित्वाभ्यामित्यर्थः । भ्रान्तित्वे इति ।। युक्तिजानुभवस्य भ्रान्तित्वे बाधितत्वेन तदनुभव-जनकस्य भेदाद्यनुभवत्वहेतोर्दुष्टत्वम् । तथा च तस्यैव हेतोर्विप्रतिपन्नप्रत्यक्षजानुभवभ्रान्तित्व-साधनासामर्थ्यादित्यर्थः । सत्यमिति ।। तारतम्यं नास्तीत्यंशोऽङ्गीकारः । येन नितरामित्युक्त-मित्याक्षेपांशस्त्वनङ्गीकार इत्यर्थः । तथाऽपीति ।। भ्रान्तित्वे तारतम्याभावोऽपीत्यर्थः । तत्रेति ।। युक्तिजानुभवे इत्यर्थः । व्याप्त्यभावादिति ।। यत्किञ्चिद्युक्त्यनुभवयथार्थत्वस्य भेदानुभवयथार्थत्वेन व्याप्त्यभावादित्यर्थः । तदपनयन इति ।। युक्तिपदापनयनेऽपि वैयधिकरण्यानिस्ताराद् हेतुसाध्ययोः सामानाधिकरण्याभावादित्यर्थः । न चेति ।। अयथार्थत्वं तद्विरुद्धप्रत्यये वर्तते यथार्थत्वं भेदाद्यनुभवे वर्ततेऽतो व्यधिकरणत्वेन दोष इति न च वाच्यमित्यर्थः । तद्धीति ।। व्यधिकरणत्वं पक्षधर्मता-विघटनद्वारा व्याप्तिविघटनद्वारा वा । यदि वैयधिकरण्यं न दोषः, शब्दो नित्यः घटस्य कृतकत्वादि-त्यत्रापि वैयधिकरण्यं दोषो न स्यादित्यतिप्रसङ्गजननद्वारा वा दोषः स्यादित्यर्थः। न ब्रूम इति ।। विरुद्धप्रत्ययस्यायथार्थत्वं स्वतोऽसिद्धं न ब्रूमः । किन्तु पक्ष एवासिद्धं ब्रूम इत्यर्थः । तत्रेति ।। पक्षे इत्यर्थः । सममिति ।। दर्शनादेव पक्षेऽसदपि साध्यं साधयेदित्यर्थः । दृश्यते हीति ।। अयं प्रदेशः कुलालासत्तिमान् भ्रमवच्चक्रवत्त्वादित्यत्र व्यधिकरणयोरपि साध्यसाधकत्वं दृष्टमित्यर्थः । किमिति ।। एवमनुमानप्रवृत्तिः लौकिकी लोकानुसारिणी । किमुत पक्षधर्मतावश्यम्भावादित्थं कल्प्यत इत्यर्थः । परस्पराश्रयप्रसङ्गादिति ।। पक्षधर्मताया अनुमानाङ्गत्वे सिद्धेऽव्यभिचाराय तावत्प्रदेशस्य  पक्षत्वाश्रयणसिद्धिः,  तत्सिद्धौ    तत्सिद्धिरिति परस्पराश्रयप्रसङ्गादित्यर्थः । तत्रेति ।। अनुमानद्वये दर्शनमतिक्रम्य पक्षधर्मताव्यवस्था यथा वर्तते तथा क्वचित् पक्षधर्मता क्वचिन्नेति व्यवस्था किं नाऽश्रियत इत्यर्थः । वाचोभङ्ग्येति ।। वाचोयुक्त्येत्यर्थः । समानेति ।। समानदेशकालयो रसरूपयोरित्यर्थः    भिन्नकालयोरिति ।। कार्यकारणयोरित्यर्थः । तृतीय-स्त्विति ।। अतिप्रसङ्गस्तु व्याप्तिदर्शनादर्शनाभ्यां निरसनीय इत्यर्थः । नन्विति ।। यथा वेणुसङ्घर्षणेऽग्निः वेणुं विनाश्य स्वयं विनश्यति यथा वा कतकरजः तद्वद्युक्तिः भेदाद्यनुभव-माभासीकृत्य स्वयमाभासीभविष्यतीति चेदित्यर्थः ।

नारोपन्तीया

विकल्परूपत्वादिति । असाधारणधर्मप्रकारकविशिष्टज्ञानत्वादित्यर्थः । ननु तथाऽपि कथमयं भेदानुभवः स्यात् । न ह्ययं भेदानुभवो भिन्न इत्येवमाकारो ह्यनुभवः । किन्तु भेदानुभव-विशेष्यकः भ्रमत्वप्रकारक एव वेत्यत आह- न हीति ।। परेणापि इतरव्यावृत्तस्वरूपविषयकज्ञानमात्रं घटोऽयमित्याद्याकारकं भेदानुभव इति स्वीकृतम् । अन्यथा घटः पटाद्भिन्न इत्येवमादिरनुभव एव भेदानुभवः स्यात् । न तु घटोऽयं पटोऽयमित्यादिरूपः । ततश्च तद्बुद्धेरभ्रमत्वापत्त्या तद्विषयस्य घटादेरमिथ्यात्वं स्यादिति भावः ।

तथा भिन्नाधिकरणयोरपीति । ननु यदि भिन्नाधिकरणयोर्व्याप्तिरङ्गीक्रियते तर्हि व्याप्तिलक्षणस्य तत्राव्याप्तिः प्रसज्येत । पद्धतौ प्रमाणलक्षणादौ च ‘अविनाभावो व्याप्तिः’ इत्यभिहितम् । तत्र साधनस्य साध्येन विनाभावः साध्याभाववदवृत्तित्वमिति यावत् इत्येवार्थः स्वीकर्तव्यः । प्रकारान्तरासम्भवात् । तथोर्ध्वदेशवृष्टिरूपसाध्याभाववत्यधोदेशे वर्तमानस्य पूरस्य कथं तद्व्याप्तत्वं स्यादिति चेत् । मैवम् । भावानवबोधात् । अयं हि लक्षणवाक्यार्थः - यद्देशकालावस्थितस्य यस्य यद्देशकालावस्थितं यं विना अभावोऽघटनम् प्रमाणविरोध इति यावत् । तथा च यद्देशकालयोः साध्यत्वाभिमतस्य सत्तामनङ्गीकृत्य, यद्देशकालयोः साधनत्वाभिमतस्य सत्तायामङ्गीक्रियमाणायां प्रमाणविरोध आपतति, तयोर्व्याप्तिरित्युक्तं भवति । लक्ष्यस्याप्यननुगमाल्लक्षणाननुगमो न दोष इति परस्यापि सम्मतमेव । भवति हि - ऊर्ध्वदेशे वृष्टिं विना अधोदेशे पूराङ्गीकारे, अधोभागे वह्निं विना ऊर्ध्वभागे धूमाङ्गीकारे, तत्प्रदेशावच्छिन्नरूपं विना तत्प्रदेश एव रसाङ्गीकारे च प्रमाणविरोध इति सर्वेषां व्याप्तिः । एवं केवलान्वयिन्यपि द्रष्टव्यम् ।

ननु यद्यपि सिद्धान्ते अनुगतधर्मानङ्गीकारात् केवलान्वयित्वाभिमतस्य प्रमेयत्वादेरभावः सिध्येत् । तथा च कथमसौ व्याप्तिस्वरूपोपयोगी स्यात् । किन्तु सामान्याभावो वा, यावद्विशेषाभावो वा ऐकाधिकरण्यावच्छिन्न इति वक्तव्यम् । अन्यथा वह्निविशेषाभाववद्वृत्तित्वाद्धूमादेरपि वह्निव्याप्यत्वं न स्यादिति चेत् । सत्यम् । अत एवाङ्गीकार इत्युक्तत्वात् । अङ्गीकारो हि ज्ञानम् । तच्चासतोऽपि सम्भवतीति प्रागेवोपपादितम् आकर एव । अवश्यं चैतदेवम् । अन्यथा तर्कस्य प्रमाणत्वपक्षे वा, प्रमाणानुग्राहकत्वपक्षे वा, आपाद्यापादकयोर्व्याप्तिरङ्गीकार्या । तत्र हि यदि घटः घटं प्रति कारणं स्यात् तर्ह्यात्माश्रयत्वादिकं स्यादित्यादिकमापाद्यते । क्वचिदन्योन्याश्रयोऽनवस्था गौरवमित्यादि । न च तत्र सामानाधिकरण्यव्याप्तिर्वक्तुं शक्यते । आत्माश्रयत्वादेरप्रसिद्ध्या सामानाधिकरण्यस्यैवा-योगात् । मन्मते आत्माश्रयत्वं नाम यावत्स्वस्य पूर्ववृत्तित्वं, स्वप्रागभावावच्छिन्नकालवृत्तित्वम् । तदनङ्गीकारे स्वकारणत्वाङ्गीकारे प्रमाणविरोध आपततीति सुस्थः प्रबन्धः । ननु तर्हि नियमो व्याप्तिरित्यग्रिमग्रन्थेषु दृश्यते । तत्र का गतिरित्याशङ्कायामुक्तं पद्धतौ - ‘साहचर्यनियम इति यावत्’ इति । यो हि साहचर्यनियमो व्याप्तित्वेनोच्यते सोऽपीति यावत् । एतदेवाभिप्रेत्य तस्याप्यत्रैव पर्यवसानमिति न कश्चित् क्षुद्रोपद्रव इति दिक् ।

कतकरजोवदिति ।। वर्षाकाले पङ्काविलस्य जलस्य विमलीकरणार्थं द्रव्यविशेषस्य कतकाख्यस्य चूर्णं जले प्रक्षिप्यते । तद्यथा प्रागवस्थितं जलमालिन्यम् अपहृत्य, स्वप्रयुक्तमपि कालुष्यं स्वयमप-हरति । यथा वा वेणुसङ्घर्षजो वह्निरपि वनं भस्मीकृत्य स्वयमपि भस्मसाद्भवति तथेत्यर्थः ।

जनार्दनभट्टीया

ननु भेदप्रत्यक्षस्य भ्रमत्वेऽपि आगमेन भेदसिद्धिरस्तु इत्यत आह – आगमस्यापीति ।। भेदागमस्यापीत्यर्थः । विकल्परूपत्वादिति ।। भेदनिरूप्यत्वादित्यर्थः । ‘योऽनुभवो येन निरूप्यते स तदीयः’ इति व्याप्तेरिति भावः । ननु भेदस्य ‘भेदानुभवो भ्रमः’ इति अनुभवनिरूपकभेदानुभव-निरूपकत्वेन साक्षात् तन्निरूपकत्वाभावात्, कथं ‘भेदानुभवो भ्रमः’ इत्यस्य भेदानुभवत्वमित्यत आह – न हीति ।। असङ्कीर्णम् = स्वनिष्ठासाधारणधर्मेण विषयीक्रियमाणं यत्स्वरूपमित्यर्थः । तथा च ‘योऽनुभवो येन विषयेण = स्वनिष्ठासाधारणप्रकारेण निरूप्यते, सः= अनुभवः तत्प्रकारविशिष्टस्य तस्य अनुभवः’ इति व्याप्तिरभिमता । एवञ्च ‘भेदानुभवो भ्रमः’ इत्यनुभवोऽपि भेदेनाविषयेन भेदत्वेन प्रकारेण निरूप्यते इति भेदानुभव एव । साक्षात् निरूप्यत्वमप्रयोजकमिति भावः । अयमिति ।। भेदादिप्रत्यक्षो भ्रमः भेदादिप्रत्ययत्वाद् इत्यादियुक्तिजानुभव इत्यर्थः । निर्विकल्पकमिति ।। निर्विशेषमित्यर्थः । ब्रह्मैव तत्वमिति ।। अयमङ्गीकार एव । भेदमिथ्यात्वाङ्गीकारत्वाद् अस्यार्थ इत्यभिमानः । अभिमानमात्रमेवेदम् । न हि निर्विशेषं ब्रह्मैव तत्वमिति ज्ञानमेव भेदमिथ्यात्वज्ञानम् । ब्रह्मप्रतियोगिकतादात्म्यादिसर्वनिषेधविषयत्वात् । भेदो मिथ्येति ज्ञानस्य च तादात्म्यप्रतियोगिकाभावमात्रनिषेधविषयत्वादिना भिन्नविषयत्वादित्याह – तथा सतीति ।। भ्रान्तित्वानुभवस्य भ्रमत्व इत्यर्थः । अनयोक्त्येति ।। नितरामित्युक्तेत्यर्थः । युक्तिजानुभवस्येति ।। ‘भेदानुभवो भ्रमः’ इत्यनुभवस्येत्यर्थः । विप्रतिपन्नभेदाद्यनुभवस्येति ।। ‘यदा पश्यः पश्यते रुग्मवर्णम्’ इत्याद्यागमजन्यस्येत्यर्थः । परस्परेति ।। परशब्दद्विर्वचनस्य प्रयोजनमाह – त्र्यादिष्विति ।।

घटपटकुड्यादिषु एकस्य घटत्वस्य निषेधे इतरैकपटत्वविधिप्रतीतिः नास्ति । घटत्वपटत्वाभावेऽपि कुड्यत्वस्य कोट्यन्तरसम्भवादित्यर्थः । तथा च परस्परविरहव्यापकयोः अन्यतरनिषेधे अन्यतरस्य सत्त्वनियमोऽत्राभिमत इति भावः । परस्परविरुद्धेति ।। परस्परविरहव्यापके इत्यर्थः । एतेन विरुद्धत्वं यदि सहानवस्थाननियमः, यदि वा परस्परविरहव्यापकत्वम् उभयथाऽपि अन्यतरनिषेधे अन्यतर-सत्वनियमासम्भवः । गोत्व-अश्वत्वयोः तादृशयोः अन्यतरस्य घटादौ निषेधेऽपि अन्यतरसत्वाभावादिति निरस्तम् । तयोः परस्परविरहव्यापकत्वाभावात् । सर्वत्र दर्शनादिति ।। गोत्वाश्वत्वात्यन्ताभावादिस्थले सर्वत्र दर्शनादित्यर्थः । स्वमतावष्टम्भेनेदम् । व्याप्त्यभावादिति ।। सामानाधिकरण्यघटित-व्याप्तेरभावादित्यर्थः । व्याप्तिः साध्यसाधनसामानाधिकरण्यरूपैव न तु हेतोः साध्येन विना अनुपपत्ति-रूपेति शङ्कितुराशयः । अनुपपत्तिरूपव्याप्तिसम्पादनाय हेतौ विशेषणप्रक्षेपमाशङ्क्य निराकरोति– तदपलापेति ।। तदपलापेति विशेषणे सति यस्य अनुभवस्य याथार्थ्यापलापयुक्तिः अयथार्था, सोऽपलाप्यमानयाथार्थ्याश्रयत्वेन अभिमतो यथार्थ इति व्याप्तिः सम्भवतीति परिहर्तुराशयः ।

ननु युक्तिपदं मया नोपादीयत इति तद्वैयर्थ्यम् इष्टमेवेत्यत आह – तदपनयेति ।। युक्तिपदपरित्यागेऽपीत्यर्थः । साध्येन विना साधनस्य अनुपपत्तिरेव व्याप्तिः । सामानाधिकरण्यं तु अवर्जनीयसन्निधिः, न तु व्याप्तिशरीरप्रविष्टम् । अनुपपत्तिश्च प्रकृतेऽपि अस्तीत्याशयेन वैयधिकरण्येनैव अनुमानं प्रयुङ्क्ते – मैवमित्यादिना ।। स्वयमसिद्धमिति ।। पक्षे अविद्यमानत्वमेव असिद्धत्वम् इति शङ्कितुरभिमानः१ । न ब्रूमोऽसिद्धमिति२ ।। वयम् असिद्धं साधयतीति न ब्रूम इति पूर्वेणान्वयः । पक्ष एवासिद्धम् अविद्यमानं पक्षादन्यत्र समुचितदेशे विद्यमानमपि साधनं साध्यं साधयतीति ब्रूम इति योजना ।

इदमुक्तं भवति– अनुपपत्तिरेव व्याप्तिः । न तु सामान्याधिकरण्यगर्भा । व्यधिकरणयोरपि व्याप्तेः उपपादयिष्यमाणत्वात् । प्रायशः पक्षधर्मतायाः सत्वेऽपि तस्याः समुचितदेशवृत्तितारूपेणैव उप-योगः । समुचितदेशवृत्तितायाः अनुमानाङ्गत्वं तु अस्माकमिष्टमेवेति पक्षधर्मतायाः अनावश्यकतां प्रतिबन्दीमुखेन द्रढयति – अत्रेत्यादिना ।। तावानिति ।। चक्रभ्रमकुलालासत्त्युभयाधिकरणप्रदेश इत्यर्थः । व्याप्तिदर्शनादिति ।। साधनस्य साध्येन विना अनुपपत्तिरूपव्याप्तिप्रदर्शनादित्यर्थः ।

ननु व्यधिकरणयोरपि व्याप्त्यभ्युपगमे तादृशयोः शीतस्पर्शतेजस्त्वयोरपि व्याप्त्यापत्त्या अन्यतरेण अन्यतरानुमानप्रसङ्गाद् व्यधिकरणत्वम् अनुमानदोष इति तृतीयपक्षं निराह – तृतीयस्त्विति ।। यस्य व्यधिकरणस्य समानाधिकरणस्य वा येन विना अनुपपत्तिदर्शनं तस्य तेन व्याप्तिः । यस्य तु येन विना अनुपपत्त्यदर्शनं न तस्य तेन व्याप्तिरिति ३दर्शनादर्शनाभ्याम् इति प्रसङ्गो दर्शनीय इत्यर्थः ।  अपलापयुक्त्यनुभवयाथार्थ्यस्य अपलपनीयानुभवयाथार्थ्येन विनाऽनुपपत्तिरेव नास्ति । येन तयोः व्याप्तिः स्यादिति शङ्कते – नन्विति ।।