वादिराजाख्ययतिना साधिता युक्तिमल्लिका मुक्तिसौरभसर्वस्वमित्थं सत्सु न्यवेदयत्

समर्पणम्

युक्तिमल्लिका

वादिराजाख्ययतिना साधिता युक्तिमल्लिका

मुक्तिसौरभसर्वस्वमित्थं सत्सु न्यवेदयत् ।। १००० ।।

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमद्वादिराजतीर्थ श्रीपादविरचितायां

श्रीमद्युक्तिमल्लिकायां फलसौरभसर्वस्वं सम्पूर्णम् ।।

।। श्रीमद्वादिराजबन्धवे हयवदनाय नमः ।।

सुरोत्तमटीका

 मुक्तिसौरभसर्वस्वं मुक्तिसौरभसम्पदम् ।। १००० ।।

अनिन्द्याय सुरश्रेणीवन्द्याय गुणसिन्धवे ।

हयग्रीवाय महते हयग्रीवाय ते नमः ।। १ ।।

सुरोत्तमाख्ययतिना कृता भावविलासिनी ।

भूयाच्छ्रीरमणप्रीत्यै मध्वस्य च मुदे सदा ।। २ ।।

प्रारम्भमात्रं तु मया कृतं प्राग्गुर्वनुज्ञया ।

पूर्तिस्तु वादिराजाख्ययोगीन्द्रेणैव साधिता ।। ३ ।।

यत्राश्रुतर्चां चर्चास्ति युक्तयश्चाश्रुताः पुरा ।

तन्मूलं सा च टीकेयं किं मानुषकृतिर्भवेत् ।। ४ ।।

कृतिमेतां स्वयं कृत्वा वादिराजो बुधाग्रणीः ।

ख्यापयामास मन्नाम्ना सन्तो ह्याश्रितवत्सलाः ।। ५ ।।

इति श्रीमत्कविकुलतिलकवादिराजतीर्थपूज्यचरणविरचितायाः युक्तिमल्लिकायाः टीकायां सुरोत्तमतीर्थकृतायां भावविलासिन्यां पञ्चमसौरभसर्वस्वम् ।।

नमोऽस्तु वादिराजाय गुरवे परवेदिने ।

यो वाजिवक्त्रदयया श्राव्यं काव्यमचीक्लृपत् ।

सत्यप्रमोदटीका

साधिता प्रसन्नीकृता । युक्तिमल्लिका ग्रन्थाभिमानिनी भारती । ‘सिद्धं साधनं सव्यापारीकरणीयम् । व्यापारश्च प्रसन्नतैव’ इत्युक्तेः ।। मुक्तीति फलस्वरूपोक्तिः पराभिमतनिर्विशेषभावस्य पराकरणाय । तत्र सौरभासम्भवात् । सर्वस्वं सम्पदम् । इत्थम् उक्तप्रकारेण । तमेव प्रकारं विवृणोति सस्त्विति । सच्छब्दो मुख्यप्राणवाची । ‘सतो बन्धुमसति निरविन्दन्’ इत्यादिश्रुतिषु ‘ततो वयं सत्प्रमुखा यदर्थे बभूविमात्मन्करवाम किं ते’ इत्यादिस्मृतिषु च तत्र प्रयोगात् । सत्सु मुख्यप्राणावतारभूतेषु हनुम-द्भीममध्वेषु । तेषां हृदयाम्बुजमन्दिरेषु सत्सु इत्यावर्तते । नित्यसन्निहितेषु । सत्सु ‘सच्छब्द उत्तमं ब्रूयात्’ ‘सत्त्वं स्वातन्त्र्यमुद्दिष्टं’ ‘सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते’ इत्यादिप्रमाणैः सर्वोत्तमस्वतन्त्रनिर्दोषभगवदवतारभूतेषु लक्ष्मीहयग्रीवात्मकेषु रामकृष्णवेदव्यासात्मकेषु भगवद्रूपेषु । न्यवेदयत् समर्पयां बभूव । तथा समर्पितं सौरभं तत्त्वज्ञानं सत्सु सात्त्विकप्रकृतिषु मुमुक्षुषु ।। तद्वचनचेतस्सु । न्यवेदयत् सानुग्रहं संस्थापयामास । सकलवचन-चेतोदेवतात्वात् निरूढमकरोत् ।।

श्रीवादिराजतीर्थार्याः श्रद्धाजाड्येन मत्कृतम् ।

क्षाम्यन्तु साहसं नित्यं प्रीताः सन्तु कृपालवः ।।

यत्कृपालेशमालम्ब्य लब्धात्मेयं कृतिर्मम ।

श्रीशे समर्पयन्त्वेनां सत्याभिज्ञगुरूत्तमाः ।।

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमत्सत्याभिज्ञतीर्थश्रीचरणचरणाराधक श्रीसत्यप्रमोदतीर्थविरचिता श्रीमद्युक्तिमल्लिकाविवृतिः सम्पूर्णा ।।