एकस्य भ्रमनाशस्स्यादेकाज्ञानविनाशने
प्रतिकर्मव्यवस्थाभङ्गः
युक्तिमल्लिका
एकस्य भ्रमनाशस्स्यादेकाज्ञानविनाशने ।
तत्रैव पुनरन्येषां स्वस्वाज्ञानैर्भ्रमः किल ।। ४९० ।।
एवं च तत्तद्भ्रान्त्यर्थं बह्वज्ञानप्रकल्पने ।
अतिस्थिरतरे वस्तुन्यनन्ताज्ञानकल्पना ।। ४९१ ।।
सुरोत्तमटीका
किं च घटादावविद्यानिवृत्तावाविद्यकघटादीनां साक्षाच्चा-विद्यकभूधरादीनां च भ्रम एव भवति किल । शुक्तिरजतादावविद्यकरजतादीनां भ्रमनिवृत्तिस्स्यादिति यत्परो वक्ति तदपि पूर्वोत्तरविरुद्धमिति सूचयितुं तमपि भ्रममत्रैव प्रसञ्जयन्नुभयत्रापि तत्तद्वृत्तिनिवर्त्यानन्ताज्ञानपक्षे दोषमाह ।। एक-स्येति ।। भ्रमनाश इत्युपलक्षणम् । घटादौ भ्रमानुवृत्तिश्च ग्राह्या । उत्तरत्रापि भ्रमपदं घटादौ भ्रमाभावस्याप्युपलक्षणम् । भ्रान्त्यर्थं भ्रान्त्यभावार्थं च । कल्पनाऽपेक्षिता । अन्यथा एकाज्ञाननाशेऽपसरणे वा सर्वेषामपि भ्रमप्रसङ्गात् भ्रमनिवृत्तिप्रसङ्गाच्च ।
न च तत्तद्वृत्त्यभावान्न सर्वेषां भ्रमादिकमिति वाच्यम् । अविद्यानिवृत्त्यर्थ-मेव हि वृत्त्यनुसरणम् । अविद्यायाश्चैकत्वे एकस्य वृत्त्या च तन्निवृत्तौ कथं न सर्वेषां भ्रमः । न हि देवदत्तगृहदीपेनान्धकारनाशे तस्यैव घटप्रतीतिर्नान्य-स्येत्यस्ति । न च तत्तच्चितामभेदघटनाय तत्तद्वृत्त्युपयोगः । घटनशब्दस्य संपत्त्यर्थकत्वेऽभेदसंपत्तेरनादित्वेन वृत्तेरनुपयोगात् । उपस्थित्यर्थत्वे घटवृत्ते-श्चितश्चिदन्तराभेदाविषयकत्वेन घटव्यवसायस्य पटं प्रतीव ज्ञानस्य स्वाविषये उपस्थापकत्वस्यैवायोगेन पुनर्वृत्तेर्वैयर्थ्यात् । चिद्रूपचिदन्तराभेदबोधस्याप्य-नादित्वेन तद्धेतुतयापि वृत्तेरनुपयोगादावरणनिवर्तकतयैवोपयोगो वाच्यः । स चाज्ञानैकत्वपक्षे एकवृत्त्या जात एवेति कथं न तदधिष्ठानचैतन्यं सर्वेषां भ्रमः । सौभर्यादियोगिनामेकैकत्र स्थितानां बहुदूरस्थनानादेहगस्वांशैरभेदानुभवदर्शनेन विद्यमानाभेदानुभवाय तत्र गमनस्यानपेक्षितत्वाच्च वृत्तेरुपयोगः । सर्वगत-जीवपक्षे तु नितरामनुपयोगः । तस्मात् तत्तद्वृत्तिनिवर्त्यानेकाज्ञानपक्ष एव परेणादरणीयः ।। ४९०,४९१ ।।
सत्यप्रमोदटीका
‘विषयाश्रितं चेदज्ञानं निवर्तते तदैकेन ज्ञातस्य घटस्य अन्यैरज्ञातत्वं न स्यादि’ति तत्त्वोद्योतोक्तदोषपरिहाराय यद्यनेकाज्ञानानि अङ्गीक्रियन्ते तर्हि एकस्यैव स्थिरस्य वस्तुनः प्रतिपुरुषनियतानन्तभाव-रूपाज्ञानावृतत्वापत्त्या अणुरपि पदार्थः अद्रिसम आपद्यते इत्याह एकस्ये-त्यादिभिः । तदुक्तं न्यायामृते प्रतिकर्मव्यवस्थाभङ्गे । इष्टसिद्धिरीत्या अनेकाज्ञानाङ्गीकारपक्षे । ‘एकया वृत्त्या किं सर्वतदज्ञानानां निवृत्तिः । उतैकैकतदज्ञानस्य । आद्ये शुक्तेः पुनः कदाऽप्यप्रकाशो न स्यात् । अन्त्ये तदापि प्रकाशो न स्यात् । एकावरणनिवृत्तावपि अन्यस्य सत्त्वादिति । अथैतद्दोषपरिहाराय प्रतिपुरुषनियताज्ञानाङ्गीकारे दोषमाह एवं चेति । अत्र इयं परप्रक्रियाऽनुसन्धेया । ‘इदं रूप्यं’ इति ज्ञानं प्रातिभासिकपदार्थविषयकं यथा भ्रमः तथैव अयं घटः इत्यादि व्यावहारिकपदार्थविषयकमपि ज्ञानं भ्रम एव । आद्यः अल्पकालीनः अपरस्तु दीर्घकालीन इति विवेकः । आद्ये शुक्त्यवच्छिन्नचैतन्यावरणनिवृत्तौ भ्रमनिवृत्तिः । द्वितीये घटावच्छिन्न-चैतन्यावरणनिवृत्तौ अयं घटः इति भ्रान्त्युत्पादः । आद्यपक्षे तत्तद्भ्रान्त्यर्थं इत्यस्य एकस्य भ्रान्तिनिवृत्तावपि अपरेषां भ्रान्त्यनुवृत्त्यर्थं इत्यर्थः । द्वितीये तस्य तस्य भ्रान्त्युपादानार्थं इत्यर्थः । पक्षद्वयेऽपि प्रतिपुरुषनियतानेका-ज्ञानकल्पनं दुष्परिहरमिति हृदयम् ।। ४९०,४९१ ।।
युक्तिमल्लिका
भावरूपं च तेऽज्ञानं तेन स्यादणुरद्रिवत् ।। ४९२ ।।
सुरोत्तमटीका
सोऽप्ययुक्त इत्याह ।। भावरूपमिति ।। तेन भावरूप-निबिडावयवानन्ताज्ञानैरावृतत्वेन ।। ४९२ ।।
सत्यप्रमोदटीका
भावरूपं चेति । अभावरूपत्वे आवरणानुपपत्तेः अनेकत्वेऽपि परिमाणमहत्त्वानापत्तेश्च ।। ४९२ ।।
युक्तिमल्लिका
बहिष्ठं तद्धि चैतन्यं जीवस्त्वन्तस्स्थितस्सदा ।
ज्ञात्रन्यद्व्यवहर्ताऽन्यस्तस्मात्किं केन सङ्गतम् ।। ४९३ ।।
ऐक्यात्तेनैव दृष्टेऽर्थे यद्यस्य व्यवहर्तृता ।
यज्ञदत्तेन दृष्टार्थव्यवहारं तथैव हि ।। ४९४ ।।
देवदत्तोऽपि तद्गात्रमात्रदर्शी करोत्वयम् ।
व्यावहारिकभेदादेरैक्यस्य च समत्वतः ।। ४९५ ।।
सुरोत्तमटीका
अधिष्ठानचैतन्यस्य घटप्रकाशत्वे दोषान्तरं चाह ।। बहिष्ठमिति ।। तद्घटाद्यधिष्ठानचैतन्यम् । न च वाच्यं जीवचैतन्यमेव स्पष्टायामपरोक्षवृत्तौ प्रतिफलितं सद्घटनिकटं गत्वाऽधिष्ठानचैतन्येनैकीभूय न तदनुभवमेव स्वानुभवीकरोतीति । अरूपद्रव्यस्यात्मनः कालस्य दर्पण इव प्रतिफलनस्यैवायोगात् । रूपवति दर्पणादावेव प्रतिफलनदर्शनेन रूपायाश्च वृत्तेः प्रतिफलनोपाधित्वायोगाच्च । अन्यथा वृत्त्यभिमुखनयनादेरपि प्रतिफलन-प्रसङ्गात् । किञ्च लिङ्गदेहनयनगोलकादिना मध्ये प्रतिरुद्धस्यात्मनः कथं तत्र प्रतिफलनम् । न हि कुड्यव्यवहितमुखस्य बहिष्ठदर्पणे प्रतिफलनं दृष्टम् । न वा महाप्रकाशस्य सूर्यस्य तरुपत्रादिना प्रतिरुद्धस्य जले प्रतिफलनं दृष्टम् । वृत्तिप्रतिफलितचैतन्यस्य वृत्तिविशिष्टतया घटाधिष्ठानचैतन्यस्य घटविशिष्टतया विशिष्टयोस्तयोरैक्यायोगाच्च । उपाधेः प्रतिबिम्बपक्षपातित्वेन प्रतिमुखगत-मालिन्यस्य मुख इव प्रतिफलितचैतन्यस्य बिम्बभूतचैतन्ये स्वकार्यासमर्प-कत्वाच्च । घटाधिष्ठानचैतन्येऽनारोपितवृत्तेरस्तदज्ञाननिवर्तकत्वाय त्वयापि कस्मिंश्चित्सम्बन्धे वक्तव्ये तेनैव सर्वसामञ्जस्यात् बकबन्धस्यास्य निर्निबन्धन-त्वापाताच्च ।। प्रबलं दूषणान्तरं चाह ।। ऐक्यादिति ।। तेन अधिष्ठानचैतन्येन । अस्य जीवस्य । तद्गात्रमात्रदर्शी अत्र मात्रपदेन तदनुभूतसुखदुःखादे-स्तद्वचनद्वारा श्रवणं व्यवच्छिद्यते ।। ४९३–४९५ ।।
सत्यप्रमोदटीका
ज्ञानव्यवहारयोः समानकर्तृत्वनियमः सार्वजनीनः । सोऽपि परप्रक्रियायां विरुध्यते इत्याह । बहिष्ठमिति । तत् घटाद्यधिष्ठान-चैतन्यम् । बहिः देहादिति शेषः । जीवचैतन्यं व्यवहर्तृ । अन्तः देहस्य । सदा मरणपर्यन्तम् । अन्यत् अधिष्ठानचैतन्यम् ज्ञातृ । अध्याससंबन्धस्य तत्रैव सद्भावात् । व्यवहर्ता अभिलपनादिव्यवहारकर्ता । तथा च ज्ञानव्यवहारयोः जन्यजनकभावघटकं सामानाधिकरण्यं भग्नमित्याह किमिति । ननु नैष दोषः । वृत्तौ ज्ञातृचैतन्यप्रतिफलनस्य, प्रतिबिंबितस्य च अनावृताधिष्ठान-चैतन्येनैकीभावस्य चोपगमादिति चेन्न । वृत्तौ चैतन्यप्रतिबिंबनस्यैवाशक्यत्वात् । तदुक्तं न्यायामृते अनुद्भूतरूपान्तःकरणे शब्दान्यप्रतिबिम्बनोपाधिताया अचाक्षुषे चैतन्ये प्रतिबिम्वनस्य चायोगात् इति । (१/२४) दोषान्तरं चाह ऐक्यादिति । तेन अधिष्ठानचैतन्येन । अन्यस्य ज्ञातृचैतन्यस्य । सन्तमपि व्यावहारिकभेदमवधीर्य स्वरूपैक्यदर्शनमात्रेण व्यवहाराङ्गीकारेऽतिप्रसङ्गमाह यज्ञदत्तेनेति । तद्भावः ऐक्यम् । मात्रेति अवच्छेदकभेदस्य त्वयैवाप्रयोजकी-करणादिति भावः ।। ४९३–४९५ ।।
युक्तिमल्लिका
अवच्छेदकभेदश्च तत्रात्रापि च यत्समः ।
वृत्तिद्वारा बहिर्यात्रा तेनैक्यं चापि यत्समम् ।। ४९६ ।।
सुरोत्तमटीका
यत् यस्मात् । न च वाच्यं देहव्यवहितत्वात् न देह-वृत्त्या यज्ञदत्तचैतन्यानुभव इति । घटव्यवहितचैतन्येऽपि साम्यात् । योग्य-घटवृत्त्याऽयोग्यस्यापि घटावच्छिन्नचैतन्यस्योल्लेखे योग्यदेहवृत्त्या देहावच्छिन्न-चैतन्योल्लेखस्यापि सम्भवात् । न हि वृत्तेः पक्षपातोऽस्ति । प्रत्युत-यज्ञदत्तोऽयमिति वृत्तेरुपनीतजीवसहितदेहोल्लेखित्वस्यायं घट इति वृत्तौ चैतन्यासहितघटमात्रोल्लेखित्वस्य च सर्वानुभवसिद्धत्वेन वैपरीत्यस्यैव वक्तुं शक्यत्वाच्च ।। ४९६ ।।
सत्यप्रमोदटीका
बहिः यज्ञदत्तावच्छिन्नप्रदेशं प्रति ।। ४९६ ।।
युक्तिमल्लिका
घटोपस्थापिका वृत्तिर्ब्रह्मोपस्थापिकैव न ।
तदुल्लेखप्रकारस्य नतरां स्थापिका हि सा ।। ४९७ ।।
सुरोत्तमटीका
अस्तु तर्हि वृत्तिरेवाधिष्ठानचैतन्यविषयिणी सती तद्दृष्टं सर्वं स्वस्वामिजीवस्योपस्थापयतीति शङ्कामुक्तविधया दूषितामपि दोषान्तरेण दूषयितुमाह ।। घटोपस्थापिकेति ।। घटविषयकोऽपि हि व्यवसायो घटमात्र-मुपस्थापयेन तु तत्कार्यं जलाहरणादिकम् । यस्य तदुल्लेखेऽपि सन्देहः किमु वाच्यं तस्य तत्कार्यानुपस्थापकत्वमिति भावः ।। ४९७ ।।
सत्यप्रमोदटीका
अस्तु तर्हि वृत्तिरेव घटविषयिणी सती अधिष्ठानं ब्रह्म उल्लिखति तद्व्यवहारं च करोति इति तत्राह घटेति । नेति । रूपादिहीनस्य आसंसारमज्ञानावृतस्य ब्रह्मणः चाक्षुषवृत्तिविषयत्वासम्भवादेवेति भावः । दूरे तद्व्यवहारनिष्पादकत्वमित्याह नतरामिति ।। ४९७ ।।
युक्तिमल्लिका
यद्यधिष्ठानचैतन्यं तस्य तस्य भ्रमस्तव ।
घटोऽहमिति वा तस्याकारोऽयं घट इत्युत ।। ४९८ ।।
सुरोत्तमटीका
दूषणान्तरं चाह ।। यदीति ।। ४९८ ।।
सत्यप्रमोदटीका
तवेति । मम तु अयं घट इति वृत्तिरूपं प्रमा च इति विशेषः । घटोऽहमिति इति । अध्यस्तस्य अधिष्ठानसम्भिन्नतया भान-नियतेः । घटोऽयमिति कल्पस्तु अनुभवानुसारी ।। ४९८ ।।
युक्तिमल्लिका
आद्ये किं तेन देहस्थव्यवहर्तुः प्रयोजनम् ।। ४९९ ।।
सुरोत्तमटीका
तस्य भ्रमस्य । तेन ज्ञानेन । परेणापि व्यावहारिक-भेदाङ्गीकारेण जीवचैतन्यस्य ततो भिन्नत्वादिति भावः ।। ४९९ ।।
सत्यप्रमोदटीका
देहस्थव्यवहर्तुः अधिष्ठानचैतन्याद् व्यावहारिकभेदवतः ।। ४९९ ।।
युक्तिमल्लिका
वृत्तिद्वारा बहिर्गत्वा तेनैकीभावमेत्ययम् ।
अतस्तज्ज्ञानमेवास्य ज्ञानं व्यवहृतिर्यदि ।
देहान्तस्तर्हि जीवस्याभावान्निर्जीवता तनोः ।। ५०० ।।
अणुर्निरंशो जीवोऽयं कथमन्तर्बहिश्चरेत् ।
दूरस्थसूर्यचन्द्राप्तिर्मरणादतिरिच्यते ।। ५०१ ।।
सुरोत्तमटीका
चैतन्यप्रतिफलनस्य दूषितत्वात् पक्षान्तरमाशङ्कते ।। वृत्तीति ।। अयं देहस्थो जीवः । स्वयमेव न तु प्रतिफलनमुखेन । उपलक्षणं चैतत् । वृत्तेर्मृत्युदूतत्वाभावे जीवापकर्षकत्वासम्भवाच्चेत्यपि द्रष्टव्यम् ।। ५००,५०१ ।।
सत्यप्रमोदटीका
बहिर्गच्छन्निति । अनेन प्रतिफलनपक्षाद्वैलक्षण्यं उक्तम् ।। ननु व्याप्तत्वाद्देहान्तरपि अवस्थितिः संभवतीति तत्राह अणुरिति । देहावच्छिन्नस्य व्याप्तत्वासंभवादिति भावः । व्याप्तस्य बहिर्निर्गमनाद्यनु-पपत्तेश्च । अंशेनैव बहिर्निर्गमनात् न देहस्य निर्जीवत्वापत्तिरिति तत्राह निरंश इति ।। ५००,५०१ ।।
युक्तिमल्लिका
किञ्चैवं सति देहान्तः पुनरागत्य देहिनः ।
घटोऽहमित्येव तेन जन्या व्यवहृतिर्भवेत् ।। ५०२ ।।
कुतो घटोऽयमित्येवमाकारा सा प्रजायते ।
जलस्यानयनार्थं च स्वोदरे पूरयेज्जलम् ।। ५०३ ।।
सुरोत्तमटीका
वृत्तिद्वारा बहिर्गमनमेवासम्भावितमित्युक्तम् । गमनेऽपि दोषमाह ।। किञ्चेति ।। एवं सति घटोऽहमिति ज्ञाने सति । तेन ज्ञानेन । सा व्यवहृतिः । अपहसति ।। जलस्येति ।। स्वस्यैव घटत्वादिति भावः ।। ५०२,५०३ ।।
सत्यप्रमोदटीका
पुनर्देहप्रवेशेऽपि अधिष्ठानचैतन्येनैकीभूतस्य ज्ञातृ-चैतन्यस्य अहं घट इत्याकारिकैव धीः नत्वेव अयं घट इति ।। सा तज्जन्या व्यवहृतिः । अपहसति जलेति । इदमुपलक्षणम् । गले दृढरज्जुबन्धनेन श्वासनिरोधेनानर्थोऽपि स्यादिति ध्येयम्।।५०२,५०३ ।।
युक्तिमल्लिका
अनुभूत्यनुसारेण व्यवहारादि जायते ।
न चैवं व्यवहारोऽस्ति तस्मादनुभवोऽपि न ।
अतो नैतादृशारोप इत्यनारोपितं जगत् ।। ५०४ ।।
सुरोत्तमटीका
एवं व्यवहारः घटोऽहमिति व्यवहारः । अनुभवः घटोऽहमित्यनुभवः । इति हेतोः ।। ५०४ ।।
सत्यप्रमोदटीका
एवमीदृशादनर्थाद्विभ्यता आरोपपक्षपरित्याग एव श्रेयानिति हितोक्त्या उपसंहरति अत इति ।। ५०४ ।।
युक्तिमल्लिका
द्वितीये त्विदमंशेऽस्मिन्नाधिष्ठानप्रतीतिता ।
स्वात्मानमहमित्येव ह्युल्लिखेत्साक्षिचित्सदा ।
अयमित्युल्लिखन्नंशं तं पृथक्कुरुते स्वतः ।। ५०५ ।।
सुरोत्तमटीका
अस्मिन् अयमित्युल्लिख्यमाने । अयमित्युल्लेखो अधिष्ठानोल्लेखो न भवतीत्यर्थः । कुत इत्यत आह ।। स्वात्मानमिति ।। साक्षिचित् सर्वसाक्षिभूता ब्रह्मचित् । ब्रह्मचिदित्येव वक्तव्ये साक्षिचिदिति वचनं अहमित्युल्लेखमनुभावयितुम् । अंशं अयं घट इति प्रतीतेः प्रथमांशम् । स्वतः स्वस्मात् अधिष्ठानचैतन्यादित्यर्थः । अयमित्युल्लिख्यमानः अंशः नाधिष्ठानचैतन्यम् । तस्य स्वस्वरूपेऽहमित्युल्लेखस्यैवोचितत्वात् । न ह्यनिदम्पदार्थभूतमात्मचैतन्यं स्वेनैव स्वयमिदमित्युल्लिख्यमानं क्वापि दृष्टमिति भावः ।। ५०५ ।।
सत्यप्रमोदटीका
तस्मादनुभवानुसारी अयं घट इत्येव प्रतीतेराकार उररीकार्यः । तत्र च अधिष्ठानभूताहमर्थसंभेदाभावात् निरधिष्ठानकभ्रमस्या-सम्भवादनुपगमाच्च प्रतीतेः प्रमात्वं विषयस्य च सत्यत्वं निराबाधमित्याह द्वितीय इति ।। ५०५–५०६ ।।
युक्तिमल्लिका
स्वयमेव ह्यधिष्ठानं नासावंशोऽपि यः पृथक् ।
अधिष्ठानोल्लेखशून्यं घटज्ञानं न तद्भ्रमः ।
निरधिष्ठानकभ्रान्तिर्बाह्यानामेव नावयोः ।। ५०६ ।।
सुरोत्तमटीका
असौ अयमित्युल्लिख्यमानः । अंशः देशकालरूपः । यः अंशः । पृथक् अहमित्युल्लिख्यमानचैतन्यादन्यत् । तत् तस्मात् । अयमित्यंशस्याधिष्ठानचैतन्यानुल्लेख्यत्वात् ।। ५०६ ।।
युक्तिमल्लिका
अथ वृत्तिरियं तर्हि घटारोपकथा गता ।
घटापरोक्षवृत्तिस्स्याद्घटस्येन्द्रिययोगतः ।
घटस्येन्द्रिययोगश्च घटे सत्येव नान्यथा ।। ५०७ ।।
अतो वृत्तेः पुरा सन्निकर्षस्य घटको घटः ।
अस्त्येवेति कथं तस्य वृत्त्या स्यात्कल्पना वद ।। ५०८ ।।
सुरोत्तमटीका
अयं घट इति प्रतीतेश्चैतन्यरूपत्वपक्षे प्रमात्वं प्रसाध्य वृत्तिरूपत्वपक्षेऽपि द्वेधा तत्साधयति ।। अथेति ।। ५०७,५०८ ।।
सत्यप्रमोदटीका
‘चैतन्याविषयत्वेऽपि बाधकाभावात् वृत्तिविषयत्वेनैव व्यवहारोपपत्तेः’ इति वादावलीं हृदि कृत्वाऽऽह अथेति । इयं खलु अपरोक्षा वृत्तिः । सा चेन्द्रियसन्निकर्षजन्या । सन्निकर्षश्च न मिथ्याभूतेन । अतः सत्यत्वं विषयस्य सिद्धमेवेत्याह घटस्येति ।। स्वस्याः प्रागेव विद्यमान-वस्तुविषयिणी वृत्तिः तदारोपरूपा न भवतीत्याह अत इति ।।५०७,५०८।।
युक्तिमल्लिका
वृत्तेर्भ्रमत्वे दृश्यस्य तत्रारोपो न ते मते ।
यद्दृशोऽन्यत्र नारोप इत्यनारोपितं जगत् ।। ५०९ ।।
सुरोत्तमटीका
यत् यस्मात् । दृश्यस्य दृशि आरोपेण हि मिथ्यात्व-मुच्यते परेण । अयं घट इति दृशश्च वृत्तिरूपत्वे तदारोपस्य परेणाप्यनङ्गी-कारात् घटादेरनारोपितत्वमिति भावः ।। ५०९ ।।
सत्यप्रमोदटीका
किं च वृत्तिविषयत्वाङ्गीकारे वृत्तेर्मिथ्यात्वेना-धिष्ठानत्वासम्भवात् आध्यासिकसम्बन्धानुपपत्त्या सत्यत्वमेव जगतः सेत्स्यती-त्याह वृत्तेरिति । अन्यत्रेति चैतन्यारोपपक्षस्य प्रतीतिविरोधेन दूषितत्वादिति भावः ।। ५०९ ।।
युक्तिमल्लिका
दृग्दृश्ययोगायोगेन मिथ्यात्वाशापि ते गता ।। ५१० ।।
सुरोत्तमटीका
दोषान्तरं चाह ।। दृग्दृश्येति ।। उपलक्षणं चेदम् । वृत्त्याऽयमित्युल्लिख्यमानयोर्देशकालयोरधिष्ठानत्वानङ्गीकारात् निरधिष्ठान-भ्रमस्यायोगाच्च न वृत्तेर्भ्रमत्वमित्यपि द्रष्टव्यम् । नन्वयमिति न कालादेरु-ल्लेखः । किं त्वधिष्ठानचैतन्यस्यातो नैष दोष इति चेन्न । प्रागुक्तदोषत्रयस्या-परिहारात् । सर्वानुभवविरोधात् । क्षणिकत्ववादिनं प्रति घटादेस्स्थैर्य-साधकप्रत्यभिज्ञाभावप्रसङ्गाच्च ।। ५१० ।।
सत्यप्रमोदटीका
योगेति त्वदभिमताध्यासयोगेत्यर्थः ।। ५१० ।।
युक्तिमल्लिका
न चेयं वृत्तिरेवास्मिन् घटे तद्ब्रह्मताभ्रमः ।
चक्षुर्वृत्तावरूपस्य चैतन्यस्याप्रकाशनात् ।। ५११ ।।
सुरोत्तमटीका
वृत्तौ चैतन्योल्लेखोऽप्ययमनुपपन्न इत्याह ।। न चेति ।। तद्ब्रह्मताभ्रमः अधिष्ठानचैतन्याख्यब्रह्माभेदभ्रमः । अयमित्यधिष्ठानचैतन्य-मुल्लिख्य तस्य घट इति घटरूपत्वं न वृत्तिरुल्लिखतीति भावः ।। ५११ ।।
सत्यप्रमोदटीका
वृत्तिरेव घटस्य ब्रह्मण्यारोपरूपा इत्येतन्निराह न चेति । अरूपस्येति आसंसारमज्ञानावृतस्येत्यपि ध्येयम् । अन्यथा सद्यो मोक्षापत्तेरिति भावः ।। ५११ ।।
युक्तिमल्लिका
न हीदमिति वा गन्धरसाद्यं भासते दृशि ।
अतोऽधिष्ठानविज्ञानशून्योऽयं स्याद्भ्रमः कथम् ।। ५१२ ।।
सुरोत्तमटीका
दृशि चाक्षुषज्ञाने ।। ५१२ ।।
सत्यप्रमोदटीका
ब्रह्मणश्चाक्षुषत्वाभावे गन्धरसादिदृष्टान्ताः । गन्ध-रसाद्येति । विज्ञानेति सामान्यज्ञानेत्यर्थः । याथात्म्यज्ञाने भ्रमासंभवात् । तदुक्तं वादावल्यां ‘किं चाध्यस्तत्वेन जीवेऽध्यासपक्षे सर्वदा प्रपञ्चः प्रकाशेत । ब्रह्मण्यध्यासे न कदाचिदि’ति ।। ५१२ ।।
युक्तिमल्लिका
घटाक्षसन्निकर्षोत्था या वृत्तिस्तं घटं हि सा ।
प्रागेव सन्तमन्यत्र स्व(स्यांवा) स्मिन्वा कल्पयेत्कथम् ।। ५१३ ।।
सुरोत्तमटीका
अस्मिन्नपि पक्षे प्रागुक्तदोषद्वयं च स्मारयति ।। घटेति ।। ५१३ ।।
सत्यप्रमोदटीका
अन्यत्र स्वसंबन्धेन निवृत्तावरणेऽधिष्ठानचैतन्ये । स्वस्यां वृत्तौ । कथमित्याक्षेपे । अयं प्रयोगः । घटः सर्वथाऽकल्पितः सत्यत्वेन प्रमितत्वात् । ब्रह्मवदिति । नासिद्धिः । प्रातिभासिकेतरत्वात् तद्वदेव इति प्रयोगो ध्येयः ।। ५१३ ।।
युक्तिमल्लिका
वृत्त्याऽज्ञाने विनष्टे हि स्यादधिष्ठानदृग्भ्रमः ।
वृत्तिश्चोक्तप्रकारेण घटे सत्येव नान्यथा ।
भ्रमात्पूर्वं च सन्नर्थो ब्रह्मवन्न भ्रमोद्भवः ।। ५१४ ।।
सुरोत्तमटीका
चैतन्यभ्रमपक्षेऽप्येनं दोषमुपपादयति ।। वृत्त्येति ।। उक्तः वृत्तिभ्रमपक्षे ।। ५१४ ।।
सत्यप्रमोदटीका
भ्रमात् पूर्वं इति । प्रातिभासिकेतर इत्याशयः।। ५१४ ।।
युक्तिमल्लिका
किञ्चाहं घट इत्येव चैतन्यं चेद्घटभ्रमः ।
गौरोऽहमितिवत्तर्हि भ्रान्तिस्सा प्रातिभासिकी ।। ५१५ ।।
न चेतनो घट इति बाधस्याद्यैव दर्शनात् ।
व्यावहारिकता तस्माद्घटादेर्जगतो गता ।। ५१६ ।।
सुरोत्तमटीका
चैतन्यभ्रमपक्षे दोषान्तरं चाह ।। किञ्चेति ।। सा अहं घट इत्यादिरूपा । घटश्चेतनो नेति सम्बन्धः । औव ब्रह्मज्ञानात्पूर्वमेवे-त्यर्थः । तस्मात् इदानीमेव बाधितभ्रान्तिविषयत्वात् ।। ५१५,५१६ ।।
सत्यप्रमोदटीका
यदि अनुभवविरुद्धं अतिप्रसङ्गपराहतमपि घटोऽह-मिति भ्रमस्याकारं मन्वीत तर्हि गौरोऽहमिति प्रतीतिविषयगौरत्वमिव घटादिक मपि प्रतिभासिकमेव स्यात् न तु त्वद्रीत्या व्यावहारिकमित्याह किं चेति ।। औव ब्रह्मज्ञानात् पूर्वमेव ।।५१५,५१६ ।।
युक्तिमल्लिका
इदमित्यन्यदुल्लिख्य तदभेदं घटे यदि ।
उल्लिखेद्ब्रह्मचैतन्यं सा भ्रान्तिरपि पूर्ववत् ।
नासावयमिति स्पष्टं बाधस्यैवाद्यदर्शनात् ।। ५१७ ।।
सुरोत्तमटीका
अन्यज्जडान्तरं चैतन्यान्तरं वा । सा भ्रान्तिः अधिष्ठान-चैतन्यरूपा अयं घट इति भ्रान्तिः । पूर्ववत् प्रातिभासिकीत्यर्थः । असौ अयमित्युल्लिख्यमानो देशकालादिः । अयं घटः ।। ५१७ ।।
सत्यप्रमोदटीका
ननु भ्रमस्याकारः अहं घटः इति नाङ्गीक्रियते । येनोक्तदोषः । किन्तु अयं घट इत्येव । न चाधिष्ठानाननुवेधो दोषः । इदं-शब्देन ब्रह्मण एवोल्लेखाभ्युपगमादित्यतः चाक्षुषज्ञाने ब्रह्मणोऽप्रतिभासरूप-प्रागुक्तदोषे सत्येव दोषान्तरमाह इदमिति । अद्य त्वदभिमतभ्रमकाल एव । तदुक्तं वादावल्यां ‘यदि जगदात्मन्यारोपितं स्यात् तदाऽऽत्मनो भिन्नत्वेन न दृश्येत । दृश्यते च जगदिदानीं आत्मनो भिन्नत्वेन । तस्मान्न तत्रारोपित-मि’ति इति ।। ५१७ ।।
युक्तिमल्लिका
स्वस्मिन् वा देशकाले वा घटोऽस्तीत्युल्लिखेद्यदि ।
नायं तर्हि घटारोपः प्राक्सिद्धस्य विशिष्टधीः ।। ५१८ ।।
सुरोत्तमटीका
नन्वधिष्ठानचैतन्यं स्वाभेदमन्याभेदं वा नोल्लिखति । किं त्वयं देशकालसम्बन्धीमत्सम्बन्धी वेति देशकालाद्याश्रितत्वमेवोल्लिखति । तच्चेदानीमबाधितमेवेति कथं प्रातिभासिकत्वमिति चेत् । सत्यम् । एवं तर्हि प्रमात्वमेव स्यात् न भ्रान्तित्वमित्याह ।। स्वस्मिन्निति ।। देशसहितः कालः देशकालः । विशिष्टधीः मयि मुकुटमितिवत् भूतले घट इतिवद्वा विशिष्ट-मानमेवेत्यर्थः ।। ५१८ ।।
सत्यप्रमोदटीका
यदि पुनः मयि घट इति वा अत्र घट इति वा भ्रमस्य आकारस्तर्हि इयं घटस्य चैतन्येन वा देशकालाभ्यां वा संसर्गधीरेव स्यात् न तु त्वदभिमतः अधिष्ठानतादात्म्यावभासो भ्रम इत्याह स्वस्मिन्निति ।। ५१८ ।।
युक्तिमल्लिका
अधिष्ठानोल्लेखशून्यत्वाच्च नायं भ्रमस्तव ।
न हि देशाद्यधिष्ठानं नाप्यत्रायमिति भ्रमः ।। ५१९ ।।
सुरोत्तमटीका
देशादीत्यत्रादिपदेन आधारतया प्रतीयमानं चैतन्यं च गृह्यते । धर्मिणस्तादात्म्यारोपं वदता परेण तस्याप्यधिष्ठानत्वानङ्गीकारात् ।। ५१९ ।।
सत्यप्रमोदटीका
देशादीति । देशकालयोर्मिथ्यात्वेनाधिष्ठानत्वायोगात् । नापीति तादात्म्याध्यासत्वाभावात् ।। ५१९ ।।
युक्तिमल्लिका
अतस्मिंस्तदिति ज्ञानं भ्रमः किल भवन्मते ।
इदं रजतमित्येव भ्रमस्सर्वत्र दृश्यते ।। ५२० ।।
सुरोत्तमटीका
भ्रमस्सर्वत्र दृश्यत इत्यत्र भ्रमपदेन धर्म्यारोपो ग्राह्यः ।। ५२० ।।
सत्यप्रमोदटीका
सर्वत्र तादात्म्यायोपस्थले ।। ५२० ।।
युक्तिमल्लिका
अथेयं मानसी वृत्तिरधिष्ठानचितं हि ताम् ।
इदमित्युल्लिखन्त्यस्या घटाभेदं च पश्यति ।
अयमेव घटारोप इति पक्षो न शोभते ।। ५२१ ।।
अधिष्ठानदृगेवाध्यस्तस्यारोपो हि ते मते ।
अतीन्द्रियं रूपशून्यं कथं चाक्षुषधीस्स्पृशेत् ।। ५२२ ।।
सुरोत्तमटीका
प्रातिभासिकत्वदोषं परिहर्तुं पुनर्वृत्तिपक्षमालम्बते ।। अथेति ।। तस्याः अधिष्ठानचितः । सामान्यत एव चैतन्याभेदग्रहणात् न प्रातिभासिकत्वमिति भावः ।। ५२१,५२२ ।।
सत्यप्रमोदटीका
अथ मतम् । नायं भ्रमश्चैतन्यरूपः । येन अहं घट इत्युल्लेखापत्तिः घटस्य प्रातिभासिकत्वापत्तिश्च । किं नाम वृत्तिरूप एव । न चाधिष्ठानानुल्लेखो दोषः । अयं घट इत्यत्र इदंशब्देन वृत्त्या चैतन्यं उल्लिख्य चैतन्यस्य घटाभेदो विषयीक्रियते इत्यङ्गीकारादित्यत आह नेति ।। वृत्ते-रनधिष्ठानत्वेनाध्यासिकसंबन्धानुपपत्तिस्तावदित्याह अधिष्ठानेति । इदंशब्देन चाक्षुषवृत्त्या चैतन्योल्लेखानुपपत्तिश्चेत्याह अतीन्द्रियेति ।। ५२१,५२२ ।।
युक्तिमल्लिका
यदि स्पृशेत्तदाऽज्ञानं विनाश्य स्पष्टमेव तत् ।
उल्लिखन्ती जडाभेदं चेतने कथमुल्लिखेत् ।। ५२३ ।।
सुरोत्तमटीका
अस्मिन्नपि पक्षे प्रागुक्तं दूषणद्वयं स्मारयन्प्राति-भासिकत्वमेव स्थापयति ।। अधिष्ठानेति ।। अज्ञानं अधिष्ठानचैतन्यावरका-ज्ञानम् । तत् अधिष्ठानचैतन्यम् ।। ५२३ ।।
युक्तिमल्लिका
इदानीमेव बाधेन स्यात्तदा प्रातिभासिकी ।
एवञ्च घटकुड््यादेर्व्यावहारिकता गता ।
भिक्षाजिघृक्षया यान्तं श्वा जग्राह पदे किल ।। ५२४ ।।
सुरोत्तमटीका
तदा स्पष्टं चैतन्यमुल्लिख्य घटाभेदस्याप्युल्लेखे नहि स्पष्टदृष्टे शुनि अयमश्व इति सामान्यतः प्रतीतावपि बाधो नेत्यस्ति । एवं चेदमाभाणकमागतं परस्येत्याह ।। भिक्षेति ।। व्यावहारिकत्वाख्यस्वेष्टलाभाय प्रयत्नमानस्य प्रातिभासिकत्वाख्यमहादोषप्राप्तेरिति भावः ।। ५२४ ।।
सत्यप्रमोदटीका
तुष्यत्विति न्यायेन उल्लेखाङ्गीकारेऽपि वृत्तेरज्ञान-विरोधित्वेन इदानीमेव भ्रमनिवृत्त्या घटस्य व्यावहारिकत्वहानिः । तथा चेदमाभाणकं तवापन्नमित्याह भिक्षामिति । भिक्षा अध्यासः जिघृक्षा वृत्त्या उपपादनेच्छा । श्वा उक्तदोषकलापः । पदे जग्राह तव सिद्धान्तमूलमेव निकृन्तितमभूदिति भावः ।। ५२३,५२४ ।।
युक्तिमल्लिका
अतो देशे च काले च घटोऽस्तीत्येव सोल्लिखेत् ।
अयं च न घटारोपः प्राक्सिद्धस्य विशिष्टधीः ।। ५२५ ।।
सुरोत्तमटीका
सा अयं घट इति वृत्तिः ।। ५२५ ।।
सत्यप्रमोदटीका
इत्येव अत्र घटोऽस्तीत्येव । सा वृत्तिः । अयं अत्र घट इति ज्ञानम् । न घटारोपः इति । आरोप एव न भवति । तथात्वेऽपि घटसंसर्गारोप एव । उभयथाऽपि न घटस्य मिथ्यात्वसिद्धिः ।। ५२५ ।।
युक्तिमल्लिका
यद्यज्ञानान्न वैकल्यं ब्रह्मणस्तर्हि न भ्रमः ।
यद्यज्ञानेन वैकल्यं ब्रह्मणस्तर्हि न भ्रमः ।
प्रमाणस्य ह्यवैकल्ये दोषाभावाद्ग्रहः प्रमा ।
प्रमाणस्य हि वैकल्याद्घटस्याग्रहणं तव ।। ५२६ ।।
सुरोत्तमटीका
उभयतः पाशारज्ज्वा च भ्रमं वारयति ।। यदीति ।। एतदेवोपपादयति ।। प्रमाणस्येति ।। घटप्रमाणभूताधिष्ठानचैतन्यस्येत्यर्थः । अवैकल्ये अज्ञानेन वैकल्याभावे । दोषाभावात् अप्रामाण्यकारणीभूतदोषा-भावात् । ग्रह अयं घट इति ज्ञानम् । प्रमा प्रमैव स्यात् न भ्रमः । अप्रामाण्यपरतस्त्ववादिना त्वयापि दोषादेव जगद्भ्रम इति वक्तव्यम् । दोषश्चाज्ञानमेव तेन चाधिष्ठानचैतन्यस्य वैकल्याभावेनासौ तस्य दोष इति तच्चैतन्यं घटादिप्रमैव स्यात् न भ्रम इति भावः । प्रमाणस्याधिष्ठानचैतन्यस्य । वैकल्यात् अज्ञानकृतवैकल्यात् । तव मते प्रमाणवैकल्यात् घटादीनामग्रहणं वदतो मते वैकल्ये सति कथं घटादि ग्रहणरूपो भ्रमः स्यात् एवं च प्रमाणस्याज्ञानकृतवैकल्याभावे दोषाभावान्न भ्रमः । वैकल्ये चार्थग्रहण-शक्त्यभावान्न भ्रम इति नोभयथापि जगद्भ्रम इति भावः ।। ५२६ ।।
सत्यप्रमोदटीका
घटादौ प्रमाणाभिमतस्य अधिष्ठानब्रह्मचैतन्यस्य अज्ञानेन वैकल्यं भवति न वा । न द्वितीयः । दोषाभावेन घटज्ञानं प्रमैव स्यादित्याह दोषाभावाद्ग्रहः प्रमेति । नाद्यः । वैकल्यात् घटस्य ग्रह एव न स्यात् । दूरे तस्य ज्ञानस्य भ्रमत्वम् इत्याह अग्रहणं तवेति । तवेत्यनेन प्रमाणवैकल्यादग्रहणमिति तन्मतप्रक्रियां स्मारयति । तथा च उभयथाऽपि न जगद्भ्रमः । तव इत्येतत् दोषाभावाद्ग्रहः प्रमा इति पक्षेऽपि योज्यम् । तेन प्रामाण्यस्य स्वतस्त्वाङ्गीकारः परस्य द्योत्यते ।। ५२६ ।।
युक्तिमल्लिका
यद्यारोपं विनाऽपि स्याद्घटादीनामवस्थितिः ।
तर्ह्यनारोपितं सर्वं जगद्ब्रह्यवदेव हि ।। ५२७ ।।
सुरोत्तमटीका
प्रकारान्तरेणाप्युभयतः पाशारज्जुमाह ।। यद्यारोपमिति ।। ५२७ ।।
सत्यप्रमोदटीका
किं च आरोपाभावेऽपि घटादिकं प्रकाशते उत आरोपसद्भावदशायामेव । नाद्यः घटादेरनारोपितत्वमेव स्यादित्याह ब्रह्मवदिति ।। ५२७ ।।
युक्तिमल्लिका
यद्यारोपं विना न स्यात्सर्वं प्रातीतिकं भवेत् ।
प्रमाणस्य हि वैकल्यात्कस्याग्रहणमुच्यते ।
अज्ञानाद्येव कस्मात्ते प्रातीतिकमभून्मते ।। ५२८ ।।
सुरोत्तमटीका
प्रातीतिकं प्रतीतिदशायामेव विद्यमानम् ।। ५२८ ।।
सत्यप्रमोदटीका
न द्वितीयः । सर्वस्यापि अज्ञानादिवत् प्राति-भासिकत्वस्यैवापत्तेः । व्यावहारिकस्यैवाभावेन प्रमाणवैकल्याद्व्यावहारिका-ग्रहणं इति त्वत्प्रक्रियाहानिरित्याह प्रातीतिकमिति । कस्येति च । कस्मा-दिति । उभयेषां प्रतीतिमात्रसमयपरिवर्तित्वसाम्यादिति भावः ।। ५२८ ।।
युक्तिमल्लिका
आरोपकुण्ठनं चेत्स्यात्तदा घटनिवर्तने ।
निर्घटं जगदेतत्स्यात्सन्निकर्षाद्यसम्भवात् ।। ५२९ ।।
चक्षुर्वृत्तेरयोगेन कुण्ठने नास्ति कुण्ठनम् ।
अतः पुनर्भ्रमायोगादघटं भूतलं भवेत् ।। ५३० ।।
सुरोत्तमटीका
आरोपकुण्ठनं प्रातीतिकत्वपरिहाराय घटादीनां कदाचि-दारोपाभाव इत्यर्थः । निर्घटम् आरोपाभावदशायाम् आरोपितस्याप्यभावा-वश्यम्भावेन घटरहितम् । कुण्ठने आरोपकुण्ठने । कुण्ठनं परिहारः । प्रातीतिकत्वपरिहारायाङ्गीकृतारोपकुण्ठनस्य पुनरारोपोपायाभावेन कदापि परिहारो न स्यादिति भावः।अतः घटाभावेन घटापरोक्षवृत्तिजनकसंयोग-स्याप्यभावात्।।५२९,५३० ।।
सत्यप्रमोदटीका
प्रातीतिकत्वपरिहाराय घटारोपश्चेन्नङ्गीक्रियते तर्हि घटस्यैवाभावापादेन निर्घटमेव जगत् स्यादित्याह आरोपेति । कुण्ठने तदभावाङ्गीकारे । ननु पुनरारोपेण घटसिद्धिरस्तु इति चेत् नैतत्सम्भवतीत्याह सन्निकर्षासम्भवादिति । आरोपाभावेन घटस्यैव प्रागभावात् अविद्यमानेन सन्निकर्षस्यासम्भवात् सन्निकर्षापेक्षारोपस्य पुनरुत्पत्तेरेवायोगेन न घटप्रत्या-वृत्तिप्रत्याशेत्याह कुण्ठने इति । आरोपाभावे इत्यर्थः । कुण्ठनं परिहारः । सन्निकर्षजन्यवृत्त्यैव आरोपाभावस्य परिहारः पुनरारोपोत्पत्तिरिति यावत् । एष्टव्या । सैव न संभवतीत्युक्तमिति भावः ।। ५२९,५३० ।।
युक्तिमल्लिका
आरोपकुण्ठने चेत्स्यात्तर्ह्यनारोपितो घटः ।
नारोपितो हि सोऽश्वस्स्याद्योऽश्वाभावेऽपि तिष्ठति ।। ५३१ ।।
सुरोत्तमटीका
आरोपकुण्ठने आरोपकुण्ठनदशायामपि । स्यात् घटस्स्याच्चेदित्यर्थः । आरोपाभावे स्थितस्यानारोपितत्वमेवेत्यत्र दृष्टान्तमाह ।। न चेति ।। अश्वाभावे अश्वारोपाभावे ।। ५३१ ।।
सत्यप्रमोदटीका
आरोपाभावाङ्गीकारे निर्घटं स्यादिति पररीत्यैवोक्तम् । वस्तुतः तथात्वे घटस्यानारोपितत्वरूपं सत्यत्वमेव सेत्स्यतीति सदृष्टान्तमुप-पादयति नेति । अश्वाभावेऽपि अश्वस्यारोपाभावेऽपि ।। ५३१ ।।
युक्तिमल्लिका
घटोऽज्ञानेन जन्यश्चेत्तर्हीदंपूर्वता कुतः ।
अज्ञानस्य ब्रह्मणश्च सदा सर्वत्र वर्तनात् ।। ५३२ ।।
सुरोत्तमटीका
घटस्य भ्रमजन्यत्वे दोषान्तरमप्याह ।। घट इति ।। अज्ञानेन ज्ञानेन चेति द्वेधा पदच्छेदः । ज्ञानेन ब्रह्मज्ञानेन । घटादीनाम-ज्ञानसहितब्रह्मभ्रममात्रसम्भूतत्वे तयोरुभयोरप्यनादित्वाद्घटादीनामप्यनादित्वं स्यादित्यर्थः ।। ५३२ ।।
सत्यप्रमोदटीका
अध्यस्तं हि रूप्यादिकं अधिष्ठानाज्ञानजन्यं, तत्प्रति-भासात्मकं च परेणाङ्गीक्रियते । तदुभयं साधारणदोषेण दूषयति घट इति । अज्ञानेन जन्य इति पदच्छेदः । ज्ञानरूपं चेदित्यप्युपस्कर्तव्यम् । कुत इति । घटादीनामनादित्वमेव स्यादिति यावत् । तत्र हेतुः अज्ञानस्येति घटादि-कारणस्य । ब्रह्मणः घटावभासात्मकचैतन्यस्य । न हि सामग्री कार्यं व्यभिचरति नापि प्रतिभासः प्रतिभासिकं विनाऽवतिष्ठत इति भावः ।।५३२।।
युक्तिमल्लिका
मृदाद्यभावान्नाभूच्चेत्तत्किमज्ञानजं न ते ।
यदि तत्सर्वमन्यस्माद्घटस्तस्माद्भविष्यति ।। ५३३ ।।
सुरोत्तमटीका
तन्मृदादिकम् । ते मते । घटादिवन्मृदादीनामप्यज्ञान-ब्रह्मभ्रममात्रजन्यत्वेन तेऽप्यनादिकालमारभ्यस्युरिति भावः । अन्यस्मात् अज्ञानब्रह्मव्यतिरिक्तात् कुलालादेः ।। ५३३ ।।
सत्यप्रमोदटीका
अथाज्ञानमात्रं न सामग्री किन्तु मृदादिकमपि । तद-भावात् घटादेः नानदित्वं दोष इति चेत्तत्र प्रष्टव्यम् । तन्मृदादिकमपि कस्य कार्यमिति । अज्ञानस्येति चेदुक्तदोषानिस्तारः । मृदादीनामपि अनाद्यज्ञान-जन्यत्वादनादित्वेन तत्कार्यघटादेरनादित्वापातस्य तदवस्थत्वादिति । यदि पुनर्मृदादेरज्ञानातिरिक्तकार्यत्वं तर्हि तस्य सत्यत्वापत्तिरिति दोषे सत्येव दोषान्तरमाह घट इति । तस्मात् कारणान्तरात् । तथा चैकविध्यसम्भवेन किं घटादिमात्रस्य अप्रामाणिकाज्ञानजन्यत्वकल्पनयेति भावः ।। ५३३ ।।
युक्तिमल्लिका
यद्यज्ञानेन ते ब्रह्म घटं भ्रान्त्यैव कल्पयेत् ।
मठान्तर्घटसन्तानैः कुतो नापूर्यते स्थली ।। ५३४ ।।
सुरोत्तमटीका
बाधकान्तरं चाह ।। यदीति ।। मठान्तः मायि-मठान्तः । ब्रह्मभ्रमजन्यत्वस्य तैरेवाघोषितत्वादिति भावः ।। ५३४ ।।
युक्तिमल्लिका
किं कुलालस्य शालैव ब्रह्मणः क्षीरसागरः ।
किं दीर्घादीर्घबाधाभ्यां विशेषो बाध्यवस्तुनोः ।। ५३५ ।।
सुरोत्तमटीका
स्वाज्ञानेन स्वभ्रमेण च घटशारावोदं चनादिकं कुला-लशालायामेव सृजतीति परेणाङ्गीकारात्तमपि हसति ।। किमिति । ब्रह्मणः परकीयब्रह्मणः । मायिमते प्रातिभासिकस्थलीयस्य सर्वस्य भ्रमजत्वेऽपि प्रातिभासिकं यत्राज्ञानं तत्रैव सृजति । न तु व्यावहारिकमिति मन्दाशङ्कां परिहरति ।। किं दीर्घेति ।। बाधे चिरकालीनत्वाल्पकालीनत्वविशेष सद्भावेऽप्यारोप्योभयत्रसाम्यात् सृष्टौ साम्यमपरिहार्यमेवेति भावः ।। ५३५ ।।
सत्यप्रमोदटीका
दण्डादिनैरपेक्ष्येण अज्ञानेनैव ब्रह्म घटादीन् सृजतीति पक्षेऽतिप्रसङ्गमाह यदीति । कुलालशालातः मठस्य मृद्दण्डाद्यभाव एव विशेषो वाच्यः । स च त्वयैवाप्रयोजकीकृत इत्याशयः । कुलालशालामधिष्ठायैव ब्रह्म घटादिकं कल्पयति इति क्षुद्रशङ्कां परिहरति क्षीरसागर इति । स्यादेतत् । व्यावहारिकं घटादिकं ब्रह्म मृदादिसापेक्षमेव कल्पयति । प्रातिभासिकं अज्ञानादिकं तु तन्निरपेक्षमेव । अतो नोक्तो दोष इति । अत्र विवेक्तव्यम् । को नाम व्यावहारिकप्रातिभासिकयोर्विशेषः । उभयोः वाङ्मात्रत्वेन अकिञ्चि-त्करत्वादित्याह किमिति । दीर्घादीर्घेति । दीर्घादीर्घकालानन्तरभावीत्यर्थः । विशेषः सृष्टौ अज्ञानेतरसापेक्षत्वतन्निरपेक्षत्वरूपः । यथोक्तं सुधायां ‘बाध-विलम्बस्त्वप्रयोजकः । अर्थतादवस्थ्यानिवृत्ते’रिति ।। ५३५ ।।
युक्तिमल्लिका
अन्वयव्यतिरेकाभ्यां दृष्टं कारणचक्रतः ।
तत्तत्कार्यस्य जन्मास्तु तेऽज्ञानं तव तिष्ठतु ।। ५३६ ।।
सुरोत्तमटीका
दृष्टं जन्मेति सम्बन्धः । अन्वयव्यतिरेकाभ्यामिति वदताऽऽज्ञानस्य घटादौ तददर्शनात्तस्मादजन्म च सूचयति ।। ५३६ ।।
सत्यप्रमोदटीका
किं च अज्ञानोपादानकत्ववादिनाऽपि तत्तदुचिता-सङ्कीर्णव्यवहारनिर्वाहार्थं तत्तदुपादानभूतमृदादिकार्यत्वं स्वीकार्यम् । अन्वय-व्यतिरेकसिद्धत्वात् । तथा च आनुभाविकैः तत्तदुपादानमृदादिभिरेवालम् । किं अनर्थयाऽज्ञानकल्पनयेत्याह तत्तदिति । अज्ञानं तु त्वत्कुकपोलकल्पनाया निमित्तकारणमेवास्तु इत्याह तवेति ।। ५३६ ।।
युक्तिमल्लिका
यदीदमंशो ब्रह्म स्यादनिदंरूपता कथम् ।
स्थैर्यासिद्धिः पदार्थानां देशकालाविवक्षणे ।। ५३७ ।।
सुरोत्तमटीका
अयं घट इति ज्ञानस्येदमंशेन चैतन्योल्लेखाङ्गीकारे पुनरपि दूषणद्वयमाह ।। यदीति ।। ब्रह्मणः परेणाङ्गीकृतमनिदं पदार्थत्वम् । सोऽयं घट इति प्रत्यभिज्ञया तद्देशकालस्थितस्यैव तद्देशकालेऽपि स्थिति-बोधनात् । घटादीनां स्थैर्यमिति क्षणिकत्ववादिनं प्रति परेणाप्युच्यते । तदपि न स्यादिति भावः ।। ५३७ ।।
सत्यप्रमोदटीका
यदि अयं घट इत्यत्र इदंशब्देन अधिष्ठानं ब्रह्मोच्यते, तर्हि तस्य त्वदङ्गीकृतानिदंरूपता विरुध्यते इत्याह यदीति । घटादेः तदिदंपदाविषयत्वे सोऽयं घट इत्यादिप्रत्यभिज्ञया स्थैर्यासिद्ध्या क्षणिकत्व-निराकरणं न स्यादित्याह स्थैर्येति ।। ५३७ ।।
युक्तिमल्लिका
घटं ताडयता दण्डैः प्रायो ब्रह्मापि ताडितम् ।
यदौपनिषदत्वे स्वे छलं त्यक्त्वैव दृश्यते ।। ५३८ ।।
सुरोत्तमटीका
घटोत्पत्तिसमये घटं भ्रान्त्या पश्यन्कुम्भकारोऽधिष्ठानभूतं ब्रह्माप्ययमिति पश्यतीति परस्य प्रक्रिया । तत्र ब्रह्मणो नीरूपद्रव्यत्वान्न चाक्षुषत्वमिति दूषणं प्रागुक्तम् औपनिषदत्वाच्च तस्य न चाक्षुषत्वमिति साहित्यमुद्रयाऽऽह ।। घटमिति ।। ताडयता कुलालेन ।। ५३८ ।।
सत्यप्रमोदटीका
औपनिषदं ब्रह्म न चाक्षुषवृत्तौ विषय इत्येत-त्साहित्यमुद्रया रञ्जयति घटमिति ।। ५३८ ।।
युक्तिमल्लिका
किं लोकानुभवस्सूत्रं येन भाष्यमपेक्षते ।
देशकालस्थमेवेदं तदित्याहुर्हि लौकिकाः ।। ५३९ ।।
सुरोत्तमटीका
अयं घट इत्यत्रेदमंशस्य ब्रह्मपरत्वे सार्वजनीनानुभव-विरोधाख्यदोषं च साहित्यमुद्रयाऽऽह ।। किमिति ।। सूत्रं सूत्रस्थानीयम् । यथासूत्रस्य भाष्येण व्याख्यानं क्रियते तथानुभवस्यापि कुतो व्याख्यानं क्रियत इति भावः ।। ५३९ ।।
सत्यप्रमोदटीका
अनुभवो नापलापार्ह इत्येतत्साहित्यमुद्रयाऽऽह किं चेति । तदुक्तमभियुक्तैः ‘न हि प्रतीतिर्व्याख्यानमपेक्षते’ इति ।। ५३९ ।।
युक्तिमल्लिका
घटोऽयमिति धीर्भ्रान्तिः किल लोकस्य संमता ।
यद्ब्रह्म घटतादात्म्यधीत्वं तस्याः परो वदेत् ।। ५४० ।।
सुरोत्तमटीका
प्रकारान्तरेणाप्यनुभवविरोधमाह ।। घट इति ।। यत् यस्मात् । तस्याः घटोऽयमिति धियः ।। ५४० ।।
सत्यप्रमोदटीका
लोकसिद्धभ्रमबाधयोर्वैपरीत्यं चैवं सति स्यादित्याह द्वाभ्यां घट इत्यादिना ।। ५४०,५४१ ।।
युक्तिमल्लिका
घटे नायं घट इति या भ्रान्तिस्सा प्रमा किल ।
यद्घटो ब्रह्म नेत्यर्थस्तस्याः परमते भवेत् ।। ५४१ ।।
सुरोत्तमटीका
घटे पुरोवर्तिनि तस्मिन्घटे । यत् यस्मात् । तस्याः नायं घट इति प्रतीतेः ।। ५४१ ।।
युक्तिमल्लिका
यस्य ह्यभ्रमकालेऽपि सिद्धिस्स्वमतसंमता ।
अनारोपितमेवेदं ब्रह्मवद्धि घटादिकम् ।। ५४२ ।।
सुरोत्तमटीका
सन्निकर्षघटकतया घटादीनां प्राक्सत्त्वमिति पूर्वमुक्तम् । इदानीं घटादेरप्रातीतिकत्वमङ्गीकुर्वतः परस्य प्रक्रिययैव सिद्धमित्याह ।। यस्येति ।। यस्य घटादेः । स्वमतसंमता मायावादिमतसंमता । अज्ञान-सुखादिवत् घटादेः प्रातीतिकत्वानङ्गीकारादिति भावः ।। ५४२ ।।
युक्तिमल्लिका
अनानुभविकं स्वस्य सर्वानुभवबाधितम् ।
मिथ्यात्वे बहुकल्प्यं स्यात्ततस्सत्यमिदं जगत् ।। ५४३ ।।
सुरोत्तमटीका
किञ्च मिथ्यात्वाङ्गीकारे सर्वानुभवविरुद्धं बहुप्रमेयं कल्पनीयम् । सत्यत्वाङ्गीकारे तु न कापि कल्पना । अतो लाघवाख्यतर्कानु-गृहीतत्वात्सत्यत्वप्रमाणान्येव सुदृढानीत्याह ।। अनानुभविकमिति ।। ततः कल्पनागौरवाभावात् ।। ५४३ ।।
सत्यप्रमोदटीका
अभ्रमकाले भ्रमात्पूर्वं सन्निकर्षनिर्वाहार्थम् । स्वेति । अन्यथा वृत्तेः तत्र प्रतिबिम्बनमित्यादि तत्प्रक्रियाऽनुपपत्तेः ।। ५४३ ।।