अथ सर्वा व्यवस्थेयं दृश्यते केवलं जनैः
एकजीववादनिरासः
युक्तिमल्लिका
अथ सर्वा व्यवस्थेयं दृश्यते केवलं जनैः ।
वस्तुतो नास्ति तत्सर्वं मृषेति यदि मन्यसे ।। ५३० ।।
देहादिकं मृषा तेऽस्तु नानादेहस्थचेतनाः ।
मृषा चेद्गमनं न स्याद्रज्जुसर्पो न सर्पति ।। ५३१ ।।
सुरोत्तमटीका
एकजीवमतमवलम्ब्य शङ्कते ।। अथेति ।। इयं जीवादि-रूपा । केवलं अर्थाभावेऽपीत्यर्थः । दृश्यते भ्रान्त्या प्रतीयते । उत्तरमाह ।। देहादिकमिति ।। गमनं यज्ञदत्तदेवदत्तादीनामितस्ततो गमनम् । ननु चैतन्या-रोपात्संचरणमिति शङ्कां परिहरति ।। रज्जुसर्प इति ।। ५३०,५३१ ।।
सत्यप्रमोदटीका
अथेति एकजीववादमाशंक्य प्रत्याचष्टे । केवलं भ्रान्त्या । एक जीवः अमुक इति अनिश्चयात् । जनैरित्युक्तं सर्वं बहूनां सद्भावः तेषां गमनागमनादिकम् ।। अस्तु इत्यभ्युपगमः । मृषा अचेतनवत् स्वरूपेणैव कल्पिताः । आरोपितस्य गमनाद्यभावे दृष्टान्तः रज्जुसर्प इति ।। ५३०,५३१ ।।
युक्तिमल्लिका
अस्ति तत्रापि चैतन्यभ्रमस्स्थाणुषु पुम्भ्रमे ।
चरेयुर्भ्रमकाले वा व्यावहारिकताऽपि ते ।। ५३२ ।।
सुरोत्तमटीका
तत्रापि रज्जुसर्पेऽपि । उदाहरणान्तरं चाह ।। स्थाणुषु पुंभ्रम इति ।। दूरस्थस्थाणुषु पुंभ्रमे पुरुषोऽयमिति भ्रमे । चरेयुरित्युपलक्षणम् । हानोपादानव्यवहारं च कुर्युरिति द्रष्टव्यम् । भ्रमकाले अनुत्पन्नबाधभ्रमकाले । एषां रज्जुसर्पस्थाणुपुरुषादीनाम् । बाधतः पूर्वमपि अनुत्पन्नबाधभ्रमदशायामपि गत्यदर्शनात् । इतस्ततो गमनादर्शनात् ते व्यावहारिकतापि वृथाऽभूत् । अनुत्पन्नबाधदीर्घभ्रान्तिरूप व्यावहारिकत्वात् देवदत्तादीनां गमनागमनादिक-मिति कार्यनिर्वाहाय नाभूदित्यर्थः । तथा सत्यनुत्पन्नबाधभ्रमरूप व्यावहारिक दशावलंबियज्ञदत्तादिवत् रज्जुसर्पस्थाणुपुरुषादावपि बाधात्पूर्वं तत्तद्भ्रमदशायां गमनागमनादिक्रियाप्रसङ्गात् । अतश्चैतन्यस्यारोपितत्वेन न क्वापि क्रियेति भावः ।। ५३२ ।।
सत्यप्रमोदटीका
चैतन्यारोपाङ्गीकारेऽपि नोक्तदोषनिस्तार इत्याह स्थाणुषु पुम्भ्रमे इति ।। ५३२ ।।
युक्तिमल्लिका
वृथा भूद्बाधतः पूर्वमप्येषां गत्यदर्शनात् ।
सत्येन ब्रह्मणा तेषामैक्यं न स्यान्मृषात्मनाम् ।। ५३३ ।।
सुरोत्तमटीका
दूषणान्तरं चाह ।। सत्येनेति ।। तेषां जीवचैतन्यानां मृषात्मनामारोपितानाम् । प्रतीयमानसर्वजीवानां चैतन्यारोपादेव गमनागमनादि क्रिया सम्भवेऽविशेषादेकस्मिन्नपि जीवे ब्रह्मभ्रमनिमित्तचैतन्यारोपादेव सर्व-व्यवहारसम्भवादेकोऽपि जीवस्सत्यो न स्यात् । तथा च कथं जीवैक्यमिति भावः । अथवा । एकजीवव्यतिरिक्तसर्वजीवानामारोपितत्वे, तत्त्वमसि ब्रह्माहमस्मि सर्वं खल्विदं ब्रह्मेत्यादिना श्वेतकेत्वादि ऋषिविशेषाणां कथ्यमान मैक्यं न स्यात् । अत एकजीवव्यतिरिक्त जीवारोपपक्षो न मायावादिना वक्तुं शक्य इति भावः ।। ५३३ ।।
सत्यप्रमोदटीका
बाधतः पूर्वं अपि भ्रान्तिदशायामपि । एषां रज्जु-सर्पस्थाणुपुरुषादीनाम् । किञ्च त्वया ‘परेऽव्यये सर्व एकीभवन्ती’त्यादि श्रुत्यर्थतया बहूनां ब्रह्मैक्यमभिप्रेयते । बहूनामेवाभावे तेषां वाक्यानां त्वन्मतेऽप्रामाण्यं प्रसज्यत इत्याह सत्येनेति ।। ५३३ ।।