यद्यन्ते निष्प्रकारा धीर्ब्रह्माऽन्यस्य न बाधनम्
चरमसाक्षात्कारनिराकृतिः
युक्तिमल्लिका
यद्यन्ते निष्प्रकारा धीर्ब्रह्माऽन्यस्य न बाधनम् ।
यद्यन्ते सप्रकारा धीर्ब्रह्माऽन्यस्य न बाधनम् ।। ७२० ।।
सुरोत्तमटीका
निष्प्रकारा ब्रह्मस्वरूपमात्रविषया तदितरनिषेधाख्य-प्रकारशून्येत्यर्थः । अस्मिन्पक्षे नेदं रजतमितिवत् अभावप्रमारूपबाधस्यैवा-भावात् ब्रह्मान्यस्य न बाधनम् । द्वितीयपक्षे प्रकारभूतनिषेधस्यैव ब्रह्मव्यति-रिक्तस्य चरमप्रमाविषयत्वेन ब्रह्मवदुर्वरितत्वात् ब्रह्मान्यस्य न बाधनमिति ज्ञातव्यम् ।। ७२० ।।
सत्यप्रमोदटीका
किं च चरमज्ञानं बाधकाभिमतं निष्प्रकारं सप्रकारं वा । नाद्य इत्याह ।। यदीति । निष्प्रकारकस्य साधनबाधनाक्षमत्वात् । भ्रमाविषयविशेषविषयकत्वमेव बाधकत्वे तन्त्रम् । न द्वितीय इत्याह यदीति चरमज्ञानस्य प्रमात्वेन तद्विषयस्य प्रकारस्य सत्यत्वापत्त्या ब्रह्मान्यस्य सर्वस्य बाधासिद्धेः ।। ७२० ।।
युक्तिमल्लिका
अतो बोधाद्धि सर्वस्य बाधं युक्तिरपाकरोत् ।
अबोधादेव बाधोक्तिरिति वक्ति ततस्सुधीः ।। ७२१ ।।
सुरोत्तमटीका
बोधात् ब्रह्मज्ञानाख्यबोधात् । बाधं जगन्निषेधाख्य-बाधम् । ततः उक्तरीत्या बाधासम्भवात् । अबोधात् पूर्वोत्तर प्रमेयाबोधात् । बाधोक्तिः जगद्बाधोक्तिः ।। ७२१ ।।
सत्यप्रमोदटीका
अतः पक्षद्वयेऽपि दोषस्योक्तत्वात् । अबोधात् तवाज्ञानादेव । सुधीः तत्त्ववादी ।। ७२१ ।।
युक्तिमल्लिका
ज्ञानेनाज्ञानस्य नाशे तदुपादानकं जगत् ।
नश्येच्चेन्न ह्ययं बाधो नाशोऽयं घटनाशवत् ।
अनित्यतैव तेन स्यान्मिथ्यात्वं निर्निबन्धनम् ।। ७२२ ।।
सुरोत्तमटीका
ज्ञानेन निषेधो बाध इति पक्षमपाकृत्य ज्ञानेन नाशो बाध इति पक्षं पूर्वोक्तदूषणद्वयेन दूषितमपि पुनर्दोषान्तरेण दूषयति ।। ज्ञानेनेति ।। ७२२ ।।
सत्यप्रमोदटीका
अथ ज्ञानेन बाधो नाम नाश इत्यभिप्रेयते तर्हि सुतरां सत्यत्वं सेत्स्यतीत्याह ज्ञानेनेति । अज्ञानस्येति । ज्ञानमज्ञानस्यैव निवर्तक-मिति नियमात् । तर्हि बाध इत्यपार्थकं वचः इत्याह नाश इति । विमतः, नाश एव, उपादाननाशपूर्वकत्वात् कपालनाशजन्यघटनाशवत् इति प्रयोगः अभिप्रेतः ।। ७२२ ।।
युक्तिमल्लिका
नाशानन्तरनास्तित्वबोधो घटपटादिके ।
नष्टे तन्नास्तिताबोधसमो मिथ्या ततोऽपि न ।। ७२३ ।।
सुरोत्तमटीका
ततः नाशानन्तरं जातान्नास्तित्वबोधात् ।। ७२३ ।।
सत्यप्रमोदटीका
नास्तिताबोधः ध्वंसविषयकः नाशानन्तरनास्तिता-बोधत्वात् तथाविधघटादिनास्तिताबोधवत् । तथा च न मिथ्यात्वमित्याह नाशेति ।। ७२३ ।।
युक्तिमल्लिका
प्रध्वंसाभावबोधोऽसौ न मिथ्यात्वस्य वेदनम् ।
प्राङ्नास्तिताया बोधस्तु न तवापि ममापि न ।। ७२४ ।।
सुरोत्तमटीका
प्राक् नाशात्प्राक् ।। ७२४ ।।
सत्यप्रमोदटीका
नाशात् प्राक् अस्तीति बोध उभयसंमत इत्याह प्रागिति ।। ७२४ ।।
युक्तिमल्लिका
सत एव विनाशेन प्रा(क्सत्तै)क्सत्येव जगत्यभूत् ।
अतो विषं महेशस्य कण्ठाभरणतामगात् ।। ७२५ ।।
सुरोत्तमटीका
अतः नाशोत्तरकालीननास्तित्वस्य प्राक्सत्त्वनियतत्वात् । यथाऽतिक्रूरमपि विषं महेश्वरस्य कण्ठाभरणमभूत् तथा नाशोत्तरकालीन-नास्तित्वमपि जगत्सत्तासाधकत्वेन सत्यत्ववादिनः कण्ठाभरणमेवाभूत् ।। ७२५ ।।
सत्यप्रमोदटीका
अतो दुरभिप्रायेणैव त्वयोक्तो नाशस्तत्ववादिनो मम सिद्धान्तभूतसत्यत्वसाधनायैवाभूदिति साहित्यमुद्रयाऽऽह महेशस्येति
।। ७२५ ।।
युक्तिमल्लिका
त्रिकालनास्तिताबोधो बाधोऽप्येतेन खण्डितः ।
प्राक्सत्तानियमो यस्मान्नाशस्याखिलसंमता ।। ७२६ ।।
सुरोत्तमटीका
एतेन प्राक्सत्तानियतनाशेन । एतेनेत्युक्तहेतुं विशदयति ।। प्रागिति ।। ७२६ ।।
सत्यप्रमोदटीका
अखिलेति । यथाऽह मायिभाष्यकारोऽपि ‘सत एव घटादेरुत्पत्तिर्विनाशो वा दृष्टः । नासतः शशविषाणादेरि’ति ।। ७२६ ।।
युक्तिमल्लिका
कालत्रयेऽपि सत्ताया निषेधः कुत्र विद्यते ।। ७२७ ।।
सुरोत्तमटीका
प्राक्क्रियाकालनास्तित्वरूपबाधमङ्गीकृत्य रज्जुभ्यामेव बन्धनं कृतम् । अधुना श्रौतपदावलीशोधने स एवाष्टमरसायित इत्याह ।। कालत्रयेति ।। ७२७ ।।
सत्यप्रमोदटीका
‘‘बन्धबाध एव मुक्तिरिति चेन्नैवं श्रुतिसूत्रे वदतः । ‘तरति शोकमि’त्यादौ विपरीताभिधानादि’’ ति सुधोक्तमाह कालत्रयेऽपीति
।। ७२७ ।।
युक्तिमल्लिका
न विद्यते द्वितीयं चेदद्वितीयाभिधं हि तत् ।
वर्तमाननिषेधोऽयं लटस्तत्रैव शासनात् ।। ७२८ ।।
सुरोत्तमटीका
एकमेवाद्वितीयमित्यत्राद्वितीयपदेनैव कालत्रयनिषेधोक्ति-रिति शङ्कां निराकरोति ।। न विद्यत इति ।। तत् ब्रह्म । अयं, न विद्यत इति निषेधः । तत्रैव वर्तमाने ।। ७२८ ।।
सत्यप्रमोदटीका
ननु ‘एकमेवाद्वितीयमि’ति श्रुतौ अद्वितीयशब्दः कालत्रयनिषेधपर इति चेन्मैवम् । न विद्यते द्वितीयं यस्य इति खलु तत्र विग्रहः । तत्र लटा वर्तमाननिषेध एव प्रतीयते । प्रलयवर्णनपरत्वात् । अतीतानागतकालयोः सत्ता अनुमन्यत एव । ‘विशिष्य निषेधः शेषविध्यनु-ज्ञापकः’ इति न्यायादित्याह नेति ।। ७२८ ।।
युक्तिमल्लिका
अघटा भूमिरित्युक्ते किं भाव्यपि घटोऽत्र न ।
अत ईदृक्पदस्थो नञ्नात्यन्ताभावबोधकः ।। ७२९ ।।
सुरोत्तमटीका
अद्वितीयपदस्यापि विग्रहं वदन्तः न विद्यते द्वितीयं यस्येत्येव वदन्ति । स च लडन्तपदप्रयोगमहिम्ना वर्तमानकाल एव तन्निषेधति । न सर्वदा । अन्यथाकालान्तरे सघटे भूतलेऽघट इति प्रयोग एव न स्यादित्याह ।। अघटेति ।। अतो नानेन पदेन त्रैकालिकनिषेधसिद्धिरिति भावः ।। ७२९ ।।
सत्यप्रमोदटीका
‘भावी’ इत्युपलक्षणम् । अतीतेत्यपि ग्राह्यम् ।। ७२९ ।।
युक्तिमल्लिका
सोऽपि यस्येति शब्दस्य वाच्यार्थे केवलं भवेत् ।
स्वस्वोपादानगानर्थान् समर्थान् किं निषेधति ।। ७३० ।।
एकदेशनिषेधश्च न मिथ्यात्वप्रयोजकः ।
सन्नप्यर्थो न सर्वत्र क्वचिन्नास्त्यस्ति च क्वचित् ।। ७३१ ।।
सुरोत्तमटीका
युक्तयन्तरं चाह ।। सोऽपीति ।। सोऽपि वर्तमान-निषेधोऽपि । वाच्यार्थे ब्रह्मणि । अद्वितीयं ब्रह्मेत्युक्ते ब्रह्मण्येव द्वितीयनिषेधं कुर्यात् न तु सर्वत्र । न ह्यधनोऽयं ब्राह्मण इत्युक्ते राज्ञः कोशस्थधन-स्याप्यभावस्सिद्ध्यतीति भावः । ततः किमित्यत आह ।। स्वस्वोपादान-गानिति ।। एकदेशनिषेधः एकस्मिन्देशे निषेधः । अर्थः घटादिः, अतः सार्वदैशिकसार्वकालिकनिषेध एव मिथ्यात्वोपयोगी । स चाद्वितीयश्रुतौ लटा कालविशेषोक्तेः यस्येति देशविशेषोक्तेश्च कथं सिद्ध्येदिति भावः ।। ७३०,७३१ ।।
सत्यप्रमोदटीका
एवं यस्य इति यच्छब्दवाच्यब्रह्मणि विशिष्य निषेधे तदन्यत्र स्वस्वोपादानेषु कपालादिषु घटादिकार्यवस्तूनां सत्तामनुजानात्येवेत्याह सोऽपीति ।। नेति किन्तु परिच्छिन्नत्वस्यैव । तदेवाह सन्नपीति ।। ७३०,७३१ ।।