अतो ब्रह्माश्रिताज्ञानपक्षो निर्मूल एव ते
ब्रह्मणिजगतःकल्पितत्वभङ्गः
युक्तिमल्लिका
अतो ब्रह्माश्रिताज्ञानपक्षो निर्मूल एव ते ।
अज्ञानं ब्रह्मणि न चेत्तत्रेदं कल्पितं च न ।
उपादानं तवाज्ञानमुपादेयप्रदेशि तत् ।। १५८ ।।
सुरोत्तमटीका
अतः प्रत्यक्षादिप्रमाणाभावात् तद्बाधितत्वाच्च । तत्र ब्रह्मणि । इदं जगत् । तत्र हेतुमाह ।। उपादानमिति ।। यद्यस्मात् तव मते अज्ञानमुपादानं तत्तस्मादुपादेयप्रदेशि उपादेयस्य कल्पितस्य प्रदेश एव प्रदेशोऽस्यास्तीति तत्तथोक्तम् । उपादानोपादेययोस्समानदेशत्वनियमात् । ब्रह्मणि जगदारोपोपादानरूपाज्ञानाभावे तदुपादेयारोपोपि नेति भावः।।१५८।।
सत्यप्रमोदटीका
अतः सकलप्रमाणानां जीवाश्रिताज्ञानसाधकत्वात् निर्मूलः प्रमाणशून्यो बाधितश्च । अतः ब्रह्मनियतं जीवाश्रितं चाज्ञानमिति पक्ष एव निर्दोषः । तदुक्तं भगवत्पादैः ‘स्वभावाज्ञानवादस्य निर्दोष-त्वादि’ति । माऽस्तु तर्हि ब्रह्मण्यज्ञानमिति वैयात्याद्ब्रुवन्तं प्रत्याह न चेदिति । आध्यासिकसम्बन्धासिद्ध्या जगन्मिथ्यात्वासिद्धिरिति भावः । कथमेतदित्यत आह उपादानमिति । तवेति । मत्पक्षे तु नैष दोषः । अज्ञानं भ्रमं प्रति निमित्तमेव । भ्रमश्च सत्योऽन्तःकरणोपादानकः । रूप्यं च न भ्रमात्मकं किं त्वत्यन्तासदेवेति मदभ्युपगमादिति भावः । तथा च जीवस्या-ज्ञानाश्रयत्वेन तस्यैव जगदारोपाधिष्ठानत्वं त्वयैष्टव्यम् । न च तत्सम्भवति । तस्य मिथ्यात्वादिति हृदयम् ।। १५८ ।।
युक्तिमल्लिका
अज्ञानापगमे तत्तच्चैतन्यं तस्य तस्य दृक् ।
इत्यादिप्रक्रिया सर्वा विक्रियाऽभूत्तवाधुना ।। १५९ ।।
सुरोत्तमटीका
अज्ञानासम्भवे प्रतिकर्मव्यवस्था नेति प्राक्सामान्येनोक्तं विविच्य दर्शयति ।। अज्ञानापगम इति ।। तत्तच्चैतन्यं तत्तदधिष्ठानचैतन्यम् । तस्य तस्य घटादेर्दृक् अपरोक्षदर्शनम् ।। १५९ ।।
सत्यप्रमोदटीका
अध्यासस्याविशिष्टत्वेन सर्वेषां सर्वदा सर्वोऽपि प्रपञ्चः प्रकाशेतेत्यतिप्रसङ्गपरिहाराय परेण प्रतिकर्मव्यवस्थोच्यते । यस्य चैतन्यस्य इन्द्रियद्वारेण बहिर्निर्गतमन्तःकरणं यदर्थाकारेण परिणमते तया च परिणामरूपया वृत्त्या यदर्थाधिष्ठानावरकाज्ञानं यदा निवर्तते तस्यैव, स एवार्थः तदैव प्रकाशते नान्यस्यान्योऽन्यदेति । अधिष्ठानचैतन्यं च ब्रह्मैवेति च । तदुक्तं ‘सर्वप्रत्ययवेद्ये च ब्रह्मरूपे व्यवस्थिते’ इति । इयं च व्यवस्था तदा स्याद्यदि ब्रह्मचैतन्यावरकं नामाज्ञानं सम्भवेत् । तस्यैवोक्तरीत्याऽसम्भवे त्वत्प्रक्रिया सर्वापि भग्नेत्याह अज्ञानेति ।। १५९ ।।
युक्तिमल्लिका
किं चाहमज्ञ इत्येव ह्यज्ञानस्याकृतिस्तव ।
मामहं न विजानामीत्याकारश्च निगद्यते ।। १६० ।।
सुरोत्तमटीका
प्रमाणवैकल्यादेव तदग्रहणोपपत्तेरिति वदता ब्रह्म-विषयकाज्ञानशक्त्यैव जगन्न जानामीत्यनुभवस्याप्यङ्गीकारात् । अहं किमपि न जानामीति वा अहं मामन्यं च नजानामीति वा अज्ञानज्ञानस्याकारः परमते प्रातीतिकमज्ञानं नाप्रतीतं तिष्ठतीति च । आरोपश्च सर्वमहं जानामि मां गौरत्वेन जानासि अन्यं जीवजडादिकं जीवत्वेन जडत्वादिना जानामीत्याकार-वान् । तथा च त्वदुक्तप्रातीतिकाज्ञाने सति नायमारोपः विरुद्धाकार-प्रतीतिद्वयस्य एकादाऽयोगात् । अज्ञानाभावदशायामीदृशप्रतीतौ नारोपरूप-त्वम् । तस्या अज्ञानानुपादानकप्रतीतित्वादिति भावेनाह ।। किं चेति ।। अहमज्ञः अहं न जानामि । अज्ञानस्य अज्ञानज्ञानस्य । मामहमन्यं चेति शेषः। विश्वभ्रमः विश्वभ्रमरूपम् । चितः ब्रह्मचैतन्यस्य ।। १६०-१६३ ।।
सत्यप्रमोदटीका
प्रकारान्तरेण परप्रक्रिययैवारोपासम्भवमुपपादयति किं चेत्यादिना पञ्चभिः श्लोकैः । तत्र विचारणीयं किं अज्ञानदशायां विश्वभ्रम उत तदपगमे । न प्रथमः । अज्ञानभ्रमयोः विरुद्धाकारतयाऽनुभूयमानत्वात् उपादानोपादेयभावापन्नयोः समानाकारतानियतेरिति दूषणं हृदि निधाय अज्ञानज्ञानाकारं तावद्विविनक्ति अहमज्ञ इत्यादिना । परेण खलु भावरूपाज्ञाने अहं अज्ञः, मामन्यं च न जानामि, न किञ्चिदहमवेदिषं इत्यादिकं प्रमाणमुपन्यस्तम् । अज्ञानविषयश्च न जडः किं तु ब्रह्मैव । जडस्याप्रकाशरूपत्वेन तत्रावरणाप्रसक्तेः । ‘प्रमाणवैकल्यादेव तदग्रहणो-पपत्तेरि’ति हि तदुक्तिः । तदुक्तं भगवत्पादैः ‘अप्रकाशस्वरूपत्वाज्जडेऽज्ञानं न मन्यते’ इति । अज्ञानं च प्रातीतिकं प्रतीतिस्वरूपमेवेति तन्मतम् ।।१६०।।
युक्तिमल्लिका
एवं चाज्ञानवद्ब्रह्म नैव विश्वभ्रमो भवेत् ।
इदं जानामीति सर्वभ्रान्तिर्यस्मात्प्रदृश्यते ।। १६१ ।।
सत्यप्रमोदटीका
यदर्थं अज्ञानज्ञानस्याकारो निर्धारितस्तदाह एवं चेति । तयोरन्योन्यविरुद्धाकारालिङ्गितत्वादिति पूरणीयम् । विरोधं स्फोरयितुं सर्वानुभवसिद्धं भ्रान्तेराकारमभिनीय दर्शयति इदमिति ।। १६१ ।।
युक्तिमल्लिका
सर्वं जानामि सर्वं च न जानामीति चैकदा ।
विरुद्धाकारसम्पत्तिरनानुभविकी चितः ।। १६२ ।।
सत्यप्रमोदटीका
सर्वं जानामि इति भ्रमाकारः, सर्वं न जानामीति चाज्ञानज्ञानस्याकारः इति ज्ञाततयाऽज्ञाततया चैकदा साक्षिचैतन्यविषयत्वं विरुद्धाकारयोः समावेशोऽनुभवविरुद्ध इत्याह अनानुभविकीति ।। १६२ ।।
युक्तिमल्लिका
अथाज्ञानस्यापगमे भ्रमत्वं यदि कथ्यते ।
अज्ञानकल्पितत्वोक्तिरयुक्ताऽभूत्तदा तव ।। १६३ ।।
सत्यप्रमोदटीका
अज्ञानापगमे भ्रम इति द्वितीयं कल्पं निरस्यति अथेति । अज्ञानकल्पितत्वोक्तिः अज्ञानोपादानकत्वोक्तिः । अयुक्ता भ्रमः अज्ञानापगमकालीनावस्थानवान्न तदुपादानकत्वात्, यथा तन्तूपादानकः पटः तन्त्वपगमकालीनावस्थानवान्नेत्येवंरूपयुक्तिविरुद्धा । तव भ्रमोपादानत्वं अविद्याया लक्षणमिति वादिनः ।। १६३ ।।
युक्तिमल्लिका
अज्ञानरूपमेवास्य प्रपञ्चस्य विचारणे ।
वक्त्यनारोपितत्वाख्यमहिमानं ततस्स्फुटम् ।। १६४ ।।
सुरोत्तमटीका
ततस्तस्मात्कारणात् । अज्ञानरूपं न जानामीति प्रतीयमानाज्ञानस्वरूपम् ।। १६४ ।।
सत्यप्रमोदटीका
अज्ञानस्य रूपं इति विग्रहः । न जानामीत्यज्ञान-ज्ञानस्याकार इत्यर्थः । एवकारेण परेषां भ्रमत्वनिरासोपायव्युत्पादनप्रयासं व्यवच्छिनत्ति । प्रपञ्चस्य महिमानमित्यनेन सम्बन्धः । विचारणे कृते सतीति शेषः । वक्ति ज्ञापयति ।। १६४ ।।