मामहं न विजानामि मां जानाम्यहमित्यपि

स्वकर्मकप्रकाशत्वसमर्थनम्

युक्तिमल्लिका

मामहं न विजानामि मां जानाम्यहमित्यपि ।

सर्वस्यानुभवात्स्वस्य विषयोऽपि स्वयं भवेत् ।। २०१ ।।

सुरोत्तमटीका

 अधुना ईश्वरस्य ज्ञाने कर्तृकर्मभावविरोधात्स्वाविषयत्व-मिति यद्दूषणमुक्तं स्वस्वरूपानभिज्ञत्वस्य लोके दोषतया परिपठितत्वात् तत्परिहर्तुमाह ।। मामहमिति ।। मामहं न जानामीत्यज्ञानज्ञाने स्वस्यैव कर्मत्वस्य अज्ञानज्ञातृतया कर्तृत्वस्य च सर्वस्यानुभवात् मामहं जानामीत्यनु-भवस्यापलापं करिष्यतीत्यतः प्रथमोदाहरणम् । स्वस्याप्यभिमतत्वात् ।।२०१।।

सत्यप्रमोदटीका

 इदानी ईश्वरस्य स्वविषयकज्ञानाभावे सार्वज्ञं नोपपद्यत इति एतदुपपादनार्थं चेतनमात्रस्य स्वकर्मकसंविद्रूपतालक्षणं स्वप्रकाशत्वं पराभिमततल्लक्षणदूषणपुरस्सरं समर्थयते ‘मामहं न विजानामि’ इत्यारभ्य स्वस्यैव क्लेशकारकमि’त्यन्तेन पञ्चाशच्छ्लोकैः । तत्रात्मनः स्ववेद्यत्वं किं साधकाभावान्न उत बाधकसद्भावात् । नाद्यः सर्वानुभवस्यैव तत्साधकत्वा-दित्याह मामिति । न जानामि इत्यज्ञानज्ञानं, जानामीति ज्ञानज्ञानं च प्राणिमात्रस्यानुभवसिद्धे । तत्रोभयत्र स्वस्यैव कर्तृत्वं कर्मत्वं चेति स्ववेद्यत्वं सुस्फुटमिति भावः । परस्यापि संमतत्वादज्ञानज्ञानस्य प्रथममुदाहरणम् । तेन भावरूपाज्ञानविषये ‘मां अन्यं च न जानामी’त्यनुभवस्य प्रमाणतयोपन्यासात् ।। २०१ ।।

युक्तिमल्लिका

परस्मिन्समवेता या क्रिया तत्फलशालि यत् ।

तत्कर्मेति हि भाट्टोक्तलक्षणानुपपत्तितः ।। २०२ ।।

दृष्टार्थस्य कथं त्यागो वक्तव्यं लक्षणान्तरम् ।

किं नु किम्पुरुषो नास्ति किंनरो वा विलक्षणः ।। २०३ ।।

सुरोत्तमटीका

 किं च स्वस्यैव स्वविषयत्वं परसमवेतक्रियाफलशालित्वं कर्मत्वमिति भाट्टोक्तलक्षणानुपपत्त्या नाङ्गीकरोषि उत कर्तृकर्मभावविरोधादिति विकल्पं मनसि निधायाद्यं दूषयति ।। परस्मिन्निति ।। तस्याः क्रियायाः यत्फलं तच्छालितत्परसमवेतक्रियाफलशालि । दृष्टार्थस्य उक्तानुभवद्वय-बलात्सर्वानुभवसिद्धार्थस्य । लक्षणान्तरं कर्तुरीप्सिततममित्यादिलक्षणान्तरम् । लक्षणानुपपत्त्या दृष्टार्थपरित्यागो नेत्यत्र दृष्टातमाह ।। किं न्विति ।। किं पुरुषः तुरङ्गवक्त्राकारवक्त्रवानन्यत्र मनुष्याकारवान् । किंनरः मनुष्यमुख-सदृशमुखवानन्यत्र पक्ष्याकारः । विलक्षणः दृष्टमनुष्यविरुद्धलक्षणः स्वानुभूत-पक्षितुरङ्गलक्षणरहितोऽपि । किंपुरुषादिः यथादृष्टत्वादङ्गीकार्यः तथा भाट्टोक्त-कर्मलक्षणरहितमपि स्वकर्मकत्वमङ्गीकर्तव्यमिति भावः ।। २०२,२०३ ।।

सत्यप्रमोदटीका

 न द्वितीयः तदभावात् । तथा हि बाधकं किं कर्म-लक्षणानुपपत्तिः उत एकस्यैव कर्तृकर्मभावविरोधः । आद्येऽपि लक्षणं कि भाट्टोक्तं परसमवेतक्रियाजन्यफलशालित्वं यद्वा कर्तुरीप्सिततमं इत्याद्यन्यद्वा । नाद्यः तस्यैवानुपपत्तेः । समर्थयिष्यते चैतदनुपदमेव अन्त्य इत्यादिना । तादृशदुष्टलक्षणविरोधभिया दृष्टार्थपरित्यागायोगात् । दृष्टानुसारेण लक्षणान्तर-स्यैव कल्प्यत्वात् । अन्यथाऽतिप्रसङ्गादित्याह परस्मिन्नित्यादिना ।। परस्मिन् प्रकृतकर्मापेक्षयाऽन्यस्मिन् कर्तरि समवेता या क्रिया गमनादिरूपा तज्जन्यं फलं ग्रामसंयोगादि तच्छालित्वं ग्रामे । संयोगस्य द्विष्ठत्वेन कर्तर्यतिव्याप्ति-वारणाय परसमवेतेति क्रियाविशेषणम् । दृष्टविरोधे लक्षणमेव परकल्पितमव-धीरणीयमित्यत्र दृष्टान्तमाह किं न्विति । अश्वमुखोऽन्यत्र मनुष्याकारः किम्पुरुषः । मनुष्यमुखोऽन्यत्र पक्ष्याकार; किं नरः । विलक्षणः दृष्टमनुष्य-विरुद्धलक्षणः ।। २०२, २०३ ।।

युक्तिमल्लिका

कर्मत्वस्यानिरुक्त्या हि दृश्याध्यासो दृशीरितः ।

परोक्तलक्षणे भक्त्या तत्कुतोऽद्य निरुच्यते ।। २०४ ।।

सुरोत्तमटीका

 कर्मलक्षणानङ्गीकारेण कर्मत्वस्यानिरुक्त्या ज्ञानस्य ज्ञेयेन सह विषयविषयिभावानुपपत्त्येति यावत् । दृश्यस्य घटादेः अध्यासः आरोपः दृशि अधिष्ठानचैतन्ये । तत् विषयत्वम् । दृग्दृश्ययोस्सम्बन्धानुपपत्त्याहि ब्रह्मणि जगदारोपोऽङ्गीकृतः । अधुना परोदीरितविषयलक्षणे अभिमानं कुर्वतः कथं न पूर्वोत्तरविरोध इति भावः ।। २०४ ।।

सत्यप्रमोदटीका

 अस्तु वा परलक्षणं यथा तथा । तदङ्गीकारस्तु तव त्वत्सिद्धान्तविरुद्ध इत्याह कर्मत्वस्येति । अनिरुक्त्या ‘नियामकं न सम्बन्धं पश्यामो नीलतद्धियोः’ इति अख्यातिवादिनां ग्राह्यलक्षणाभावाख्यं तर्कं भिक्षित्वा मायिभिक्षुणा त्वया ज्ञानकर्मत्वनिर्वचनस्यानङ्गीकारेण । दृश्यस्य कर्मणः दृशि ज्ञाने । भक्त्येति काकुः । स्वसिद्धान्तमपि धिक्कृत्य ब्रह्मणः स्वविषयकज्ञानापलापदुराग्रहेण परलक्षणे कपटस्नेहप्रदर्शनेनेति ध्वनिः । अद्य ब्रह्मणः अवेद्यत्वसाधनदुःसाहसदीक्षादशायाम् । स्वनासां छित्वाऽपि पराप-शकुनं समीहमानमनुकरोतीति भावः ।। २०४ ।।

युक्तिमल्लिका

अन्त्यश्चरणसंयोगो ग्रामेण सह यो भवेत् ।

न तत्फलमनुद्देशात्क्रियाया बहुदूरतः ।। २०५ ।।

सुरोत्तमटीका

 अधुना परोक्तकर्मलक्षणं दूषयति ।। अन्त्य इति ।। क्रियाफलं किल ग्रामेण सह अन्तिमश्चरणसंयोगः । सः कर्तरि पुरुषेऽप्यस्तीति तत्रातिव्याप्तिपरिहाराय हि परसमवेतेत्युक्तम् । तत्र यः ग्रामेण सहांत्यश्चरण-संयोगः तत्फलमेव न । तत्र हेतुः बहुदूरतः क्रियायाः गमनक्रियायाः अनुद्देशात् अनुद्देश्यत्वादिति यावत् ।। २०५ ।।

सत्यप्रमोदटीका

 परोक्तलक्षणं दुष्टमित्युक्तम् । तत्समर्थयते अन्त्य इति । फलं क्रियाजन्यं किं संयोगादि, अभिलपनं, ज्ञातता, उत स्वरूप-सम्बन्धविशेषः । नाद्यः अनुद्देशात् । तत्र हेतुः बहुदूरत इति ।। २०५ ।।

युक्तिमल्लिका

ग्रामं पदा स्प्रष्टुमेव न हि कोऽपि व्रजेत्पुमान् ।

ग्रामस्थधनपूर्वार्थप्राप्तिरेव प्रयोजनम् ।। २०६ ।।

सुरोत्तमटीका

 तदेव विशदयति ।। ग्राममिति ।। पदा ग्रामं स्प्रष्टुमेव कोऽपि पुमान् न हि व्रजेत् । बह्वायाससाध्यगमनक्रियायाः ग्रामचरणसंयोग एव न कस्याप्युद्देश्य इति भावः । किं तर्हि प्रयोजनमित्यत आह ।। ग्राम-स्थेति ।। अतः क्रियाफलशालित्वं कर्तुरेव न कर्मण इति कथमिदं कर्मलक्षणं स्यात् । दूरे तस्यातिव्याप्तिपरिहाराय विशेषणदानम् ।। २०६ ।।

सत्यप्रमोदटीका

 क्रियाया अनुद्देश्यत्वमेव विशदयति ग्राममिति । एवकारेण वक्ष्यमाणं धनपूर्वार्थप्राप्तिरूपमुद्दिष्टफलं व्यवच्छिनत्ति । पूर्वेत्यनेन पुत्रमित्रादिदर्शनसङ्ग्रहः । ईदृशफलशालित्वं च कर्तुरेव न तु कर्मणो ग्रामस्य । अतो नेदं क्रियाफलशालित्वं कर्मलक्षणं येन तस्यातिव्याप्तिपरिहाराय परसम-वेतेति विशेषणं स्यादिति भावः । न हि गोरेकशफत्वलक्षणमभिधाय तस्यानतिव्याप्तये अश्वासमवेतत्वविशेषणं निवेश्यते इत्याशयः ।। २०६ ।।

युक्तिमल्लिका

न चेत्पदे पदे पुंसः क्रियया स्याद्विभागवान् ।

पूर्वः प्रदेशस्संयोगशाली स्यादुत्तरोऽपि च ।। २०७ ।।

सुरोत्तमटीका

 ननु मास्तूद्देश्यत्वं क्रियाजन्यत्वेनैव चरणसंयोगस्य फलत्वमस्त्वित्यत आह ।। न चेदिति ।। न चेद्धनादिप्राप्तिरेवोद्देश्यतया फलं न चेत् क्रियया गमनक्रियया पूर्वः प्रदेशः विभागवान्क्रियाजन्यविभागवानिति यावत् । स्यात् । उत्तरप्रदेशोऽपि संयोगशाली स्यात् क्रियाजन्यसंयोगवानिति यावत् । क्रिया क्रियातः पूर्वदेशविभागः उत्तरदेशसंयोगश्चेति सर्वैरनुभूय-मानत्वात् ।। २०७ ।।

युक्तिमल्लिका

त्वदुक्तलक्षणेन स्याद्विषयत्वं तयोरपि ।

अतस्स्वरूपसम्बन्धविशेषस्स हि कश्चन ।। २०८ ।।

सुरोत्तमटीका

 अस्त्वेवं प्रकृते किमित्यत आह ।। त्वदुक्तेति ।। त्वदुक्तलक्षणेन परसमवेतक्रियाजन्यफलशालित्वलक्षणेन । तयोः पूर्वोत्तर-देशयोः । अनुद्देश्यत्वादनयोस्संयोगविभागयोरफलत्वं चेत् अन्त्यचरण-संयोगस्यापि न स्यादिति पुनरव्याप्तिरेव । अतः उक्तलक्षणस्यातिव्याप्तत्वात् अव्याप्तत्वाद्वा । सः विषयविषयिभावः स्वरूपसम्बन्धविशेषः ।। २०८ ।।

सत्यप्रमोदटीका

 ननु फलत्वं नोद्देश्यत्वं विवक्ष्यते किन्तु क्रियाजन्यत्व-मात्रम् । तच्चान्त्यचरणसंयोगेऽपि सम्भवति इति नोक्तदोष इत्यत आह न चेदिति । उद्देश्यत्वं न विवक्ष्यते चेत् । क्रियाजन्यत्वमात्रत्वं फलत्वं इति स्वीक्रियते चेत् इति यावत् । गमनक्रियाजन्यविभागरूपफलस्य पूर्वदेशे तथा तज्जन्यसंयोगलक्षणफलस्योत्तरदेशे विद्यमानत्वेन लक्षणस्य तयोरतिव्याप्तिरापद्यत इत्याह त्वदुक्तेति । न खलु तयोः कर्मत्वं कोऽपि व्यवहरतीति भावः । अतः प्रकारान्तरानुपपत्तेः परिशेषात् चतुर्थः कल्प एव स्वीकार्य इत्याह स्वरूपसम्बन्धेति । कश्चनेति । कोऽसाविति विशेषजिज्ञासाया अनर्थकत्वात् । तदुक्तं वादावल्यां ‘संयोगासम्भवे समवायवदन्यस्यापि तयोरसम्भवे कल्प्य-त्वात्’ इति, ‘विषयविषयिभावस्य सम्भवादि’ति च ।। २०८ ।।

युक्तिमल्लिका

इत्येव सर्वथा वाच्यं न चेज्ज्ञानक्रियाफलम् ।

अर्थाभिलपनं पुंसि तच्छालित्वं कथं घटे ।। २०९ ।।

सुरोत्तमटीका

 न चेत्स्वरूपसम्बन्धविशेष एव विषयत्वं न चेत् । ज्ञानक्रियाफलं ज्ञानरूपक्रियाफलं अर्थाभिलपनं अर्थाभिलपनरूपव्यवहारः पुंसि । तच्छालित्वं कथं घटे विषयरूपघटे । तथा च परसमवेतक्रियाफल-शालित्वं घटे अव्याप्तत्वात् न विषयलक्षणमित्यर्थः । अतस्स्वरूपसम्बन्ध-विशेष एव विषयत्वं सर्वैर्वाच्यम् । स च स्वरूपे सुतरां घटत इति कुतो न ज्ञानस्य स्वकर्मकत्वम्

।। २०९ ।।

सत्यप्रमोदटीका

 परिशेषसिद्धये प्रसक्तौ द्वितीयतृतीयप्रकारौ प्रतिषेधति अर्थाभिलपनमिति ।। अभिलपनं व्यवहारः । तच्छालित्वं तदाश्रयत्वं व्यवहर्तृत्वमिति यावत् । घटे विषयरूपे । तथा च तत्राव्याप्तिरिति भावः । व्यवहारेण विषयविषयिभावसम्बन्धस्य स्वरूपसम्बन्धविशेषरूपस्य घटादे-र्विद्यमानत्वेऽपि तस्य त्वयाऽनङ्गीकारादिति भावः ।। २०९ ।।

युक्तिमल्लिका

अतीतानागतेऽभावान्नार्थस्था ज्ञातता फलम् ।

ज्ञानस्य विषयत्वं तज्ज्ञातता स्यान्न चापरा ।। २१० ।।

सुरोत्तमटीका

 ननु ज्ञानरूपक्रियाफलं ज्ञाततैव सा च विषये घटेऽ-स्तीति कथं लक्षणस्य तत्राव्याप्तिरित्यत आह ।। अतीतानागत इति ।। अतीतं चानागतं चेति द्वन्द्वैकवद्भावः । तस्मिन्ज्ञातताया अभावात् । प्रध्वंस-प्रतियोगिनि प्रागभावप्रतियोगिनि ज्ञातताया अयोगादित्यर्थः । फलं ज्ञानफलं नेति सम्बन्धः । ज्ञातताधारत्वेन ज्ञानज्ञेयत्वकथने अतीतानागतयोर्ज्ञेयत्व-लक्षणस्याव्याप्तिरिति भावः । तत्तस्माद्विषयाश्रितज्ञातताया असम्भवात् ज्ञातता ज्ञानस्य विषयत्वम् । अपरा न ।। २१० ।।

सत्यप्रमोदटीका

 ज्ञातता फलं इति द्वितीयं निराह अतीतेति । ज्ञातता नाम प्रमेयाश्रितः प्रकाशविशेषो वा ज्ञानविषयत्वं वा । आद्ये आह अतीतानागत इति । उपलक्षणम् । नित्यातीन्द्रियेषु चेत्यपि ग्राह्यम् । असति धर्मिणि प्रकाशविशेषरूपधर्मजननायोगादिति भावः । इदं च पररीत्योक्तम् । स्वमते ज्ञानविषयत्वातिरिक्ताया ज्ञातताया अप्रामाणिकत्वेन कुत्राप्यनङ्गी-कारादित्यवघेयम् । तदुक्तं वादावल्यां ‘स्वरूपासिद्धेरि’ति । अस्तु तर्हि ज्ञानविषयत्वमेव ज्ञातता इति चेत्सत्यमेवम् । तथापि न तद्विषयत्वलक्षणा-न्तर्गतमिति सम्भवति ज्ञप्तौ आत्माश्रयादित्याह सा चेति ।। अलक्षणविरोधेन दृष्टार्थापलापिनः परस्याविवेकमपहसति क्षुद्रेति ।। क्षुद्ररज्जोः असम्बद्ध-लक्षणस्य । अभावेन विरोधेन । लब्धा सर्वानुभवसिद्धा । गौः ‘अहमित्येव यो वेद्यः स जीव इति कीर्तितः’ इति जीवमात्रस्य स्वकर्मकज्ञानमभिदधाना वेदवाक् किं विसृज्यते कुतः अपलप्यते ।। २१०, २११ ।।

युक्तिमल्लिका

सा च नात्माश्रयात्कर्मलक्षणान्तर्गता भवेत् ।

क्षुद्ररज्जोरभावेन लब्धा गौः किं विसृज्यते ।। २११ ।।

सुरोत्तमटीका

 सा च ज्ञानविषयत्वरूपज्ञातता । कर्मणो विषयस्य लक्षणान्तर्गता । तत्र हेतुरात्माश्रयादिति ।। ज्ञानविषयलक्षणे ज्ञानविषय-रूपज्ञाततायाः प्रवेशने कथं नात्माश्रयः । लक्षणायोगेनानुभवसिद्धार्थत्यागिन-मुपहसति ।। क्षुद्रेति ।। क्षुद्ररज्जोः गोबन्धकरज्जोरभावेन लब्धा दानादिना लब्धा गौर्विसृज्यते किम् । प्रत्युत बहिर्वस्त्रेणापि बध्वा गां न मुञ्चसि । एवमेव लक्षणायोगादनुभूतस्वकर्मकत्वमपि न मुञ्चेति भावः ।। २११ ।।

युक्तिमल्लिका

न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः ।

स्वयमेवात्मनाऽऽत्मानं वेत्थ त्वं पुरुषोत्तम ।

इति गीताविरोधश्च स्वावेद्यत्वमते भवेत् ।। २१२ ।।

सुरोत्तमटीका

 स्पृष्टगीतावचनेनापि भगवतस्स्वरूपज्ञानस्य स्व-विषयकत्वमुपपादयति ।। नहीति ।। व्यक्तिं महिमानम् । पुरुषोत्तमत्वं स्वय-मेव आत्मना स्वस्वरूपज्ञानेनात्मानं स्वस्वरूपं वेत्थेति सम्बन्धः । अत्र स्वयमेवेत्युक्त्या स्वस्यैव कर्तृत्वम् आत्मानमित्युक्त्या स्वस्यैव कर्मत्वम् । आत्मनात्मानमित्युक्त्या स्वरूपभूतज्ञानस्य स्वविषयत्वं च प्रतीयत इति भावः ।। २१२ ।।

सत्यप्रमोदटीका

 प्राग्जीवमात्रस्य स्ववेद्यत्वेऽनुभवश्रुती उदाहृते । इदानीं भगवतस्तथात्वे आगमं प्रमाणयति नेति ।। व्यक्तिं प्रभावं, अपरिच्छिन्नं सामर्थ्यातिशयम् । न विदुः साकल्येनेति शेषः । स्वयमेव अन्यनिरपेक्षेण । आत्मना स्वसामर्थ्येनैव । स्वरूपज्ञानेनेति यावत् । अत्र स्वयमित्युत्तरं लुप्तप्रथमाविभक्त्या, मध्यमपुरुषप्रयोगादेव वा लब्धेन त्वमिति कर्त्रा वा भगवतः कर्तृत्वं, आत्मानं इति कर्मत्वं, आत्मना स्वरूपज्ञानेनेति च तस्यैव क्रियात्वमवगम्यते ।। स्वपक्षसाधकमिदं वाक्यं स्वावेद्यत्वमतं विरुणद्धि चेत्याह इतीति ।। २१२ ।।

युक्तिमल्लिका

यतोऽत्र वचनैस्सर्वैः कर्तृकर्मक्रियैकता ।

विभक्तीनां विभागेन व्यक्तमेव प्रदृश्यते ।। २१३ ।।

सुरोत्तमटीका

 कर्तृकर्मक्रियैकता कर्तुः कर्मणः क्रियायाश्चैकता । कर्तुरेव कर्मत्वं ज्ञानक्रियाया एव विषयत्वमित्यर्थः । विभक्तीनां प्रथमाद्वितीयातृतीया-विभक्तीनां विभागेन भिन्नभिन्नपदनिष्ठत्वेन ।। २१३ ।।

सत्यप्रमोदटीका

 तदेव विशदयति यत इति । कर्ता च कर्म च क्रिया च तासामेकता ।। २१३ ।।

युक्तिमल्लिका

कथं पुङ्कल्पनामात्रमूलं लक्षणमेव ते ।

अन्यथीकुरुते सर्वसंमतं स्पष्टमागमम् ।। २१४ ।।

सुरोत्तमटीका

 स्पष्टगीतावचनविरोधाद्भाट्टोक्तलक्षणमेवोपेक्षणीय-मित्याह ।। कथमिति ।। आगमं गीतावचनम् ।। २१४ ।।

सत्यप्रमोदटीका

 मात्रशब्देन कल्पनायाः प्रामाणिकत्वव्यवच्छेदः । ते त्वदुक्तम् । आगमं उदाहृतं गीतावचनम् ।। २१४ ।।

युक्तिमल्लिका

ज्ञानं प्रत्यक्पराग्ज्ञेयमिति बाह्यार्थधीस्थले ।

नान्तरे यन्मनोज्ञाने ज्ञेयः प्रत्यक्परस्तव ।। २१५ ।।

सुरोत्तमटीका

 विषयविषयिणोः पराक्प्रत्यग्भावनियमात्कथमेकस्यैव विषयविषयिभाव इत्यत आह ।। ज्ञानमिति ।। ज्ञानं प्रत्यक् अन्तस्स्थित्वा बहिर्मुखमित्यर्थः । ज्ञेयं पराक् बहिस्स्थित्वाऽन्तर्मुखमित्यर्थ इत्ययं नियमः बाह्यार्थधीस्थले घटादिज्ञानस्थल इत्यर्थः । तत्र हि मनोरूपं ज्ञानमान्तरं सद्बाह्यविषयोल्लेखनाय तदभिमुखम् । घटश्च बहिस्स्थस्सन् ज्ञानविषयी-करणयोग्यतया तदभिमुख इति बाह्यार्थस्य तज्ज्ञानस्य च पराक्प्रत्यग्भावनियमो न त्वान्तरे ज्ञाने विषये च । यद्यस्मान्मनोज्ञाने मनोवृत्तिरूपज्ञाने आत्मापेक्षया बाह्यतया पराचि । प्रत्यक् प्रत्यक्पदार्थरूपः । मनसोऽप्यन्तर्विद्यमानत्वा-त्प्रत्यग्भूत इत्यर्थः । परः परमात्मा ज्ञेयः । तस्माज्ज्ञानस्य प्रत्यक्त्वं ज्ञेयस्य पराक्त्वमिति नियमः आन्तरे नेति पूर्वेणान्वयः । नियमभङ्गे मनोवृत्तिरूपज्ञाने भेदघटितः पराक्प्रत्यग्भावोऽप्यस्ति । एकस्यैव ज्ञानत्वे ज्ञेयत्वे च सोऽपि नापेक्ष्यते । बहिः क्लृप्तनियमस्यान्तर्भङ्गवत् अन्तरपि भिन्ने क्लृप्तस्वभावस्य भेदरहिते स्वस्वरूपे भङ्ग इति भावः । यद्यपि विशेषबलात् पराक्प्रत्यग्भावो निर्वोढुं शक्यते । तथापि परन्यायेनैव परं पराभावयितुमिदमेवोक्तम् ।। २१५।।

सत्यप्रमोदटीका

 ‘कर्मकर्त्रोरुत्सर्गतो भिदा ।। अभेदोऽपि विशेषे स्यात्’ इत्यनुव्यानोक्तं समर्थयितुं उत्सर्गापवादकं अनुभवं आगमं च विशेषं प्रदर्श्य भगवतः स्ववेद्यत्वं व्युत्पादितम् । अधुना प्रत्यक्पराक्त्वरूपो हि कर्मकर्तृभावो भेदाभावे कथं घटतामिति शङ्कां विशेषेण भेदप्रतिनिधिनेति परिहारे सत्येव ज्ञानज्ञेययोः प्रत्यक्पराभाव एवासार्वत्रिक इति तथाभावरहित-स्थलप्रदर्शनेन पररीत्याऽपि प्रकारान्तरेण समाधत्ते ज्ञानमिति । तथा च यत्र बाह्यार्थघटादिविषयकत्वं ज्ञानस्य, तत्रैव ज्ञेयस्य पराकत्वमिति नियमः । नान्तरे मनसोऽय्यन्तर्नियामकतया स्थितभगवद्विषयके ज्ञाने । यत् यस्मात् । मनोज्ञाने मनःकरणकभगवद्विषयकज्ञाने ज्ञेयः परः प्रत्यक् । ‘अधिष्ठाय मनश्चायं’ इति गीतोक्तरीत्या मनोऽधिष्ठातृत्वेन तदन्तः स्थितत्वादिति भावः ।। २१५ ।।

युक्तिमल्लिका

जडे ज्ञानास्वरूपत्वाज्ज्ञानज्ञेयविभिन्नता ।

ज्ञानरूपे तु किं न स्याज्ज्ञानता ज्ञेयताऽपि च ।। २१६ ।।

सुरोत्तमटीका

 ननु ज्ञानज्ञेयभावस्य घटज्ञानादौ भेदे सत्येव दर्शना-देकस्यैव ज्ञानत्वं ज्ञेयत्वं च कथमित्यत आह ।। जड इति ।। जडे घटपटादौ । ज्ञानास्वरूपत्वात् ज्ञानरूपत्वाभावात् । ज्ञानरूपे तु वस्तु-न्यात्मादौ स्वस्यैव ज्ञानता ज्ञेयता च एकस्यैव किं न स्यादिति सम्बन्धः । घटादौ ज्ञानज्ञेयविभेदस्य ज्ञानास्वरूपत्वमेव तन्त्रम् । ज्ञानस्वरूपवस्तुनि उक्तनियमस्यापि भङ्ग इति भावः ।। २१६ ।।

सत्यप्रमोदटीका

 ज्ञाने प्रत्यक्त्वनियमस्य अपवाददर्शनेन यथा बाह्यार्थज्ञान एवेति सङ्कोचः तथा ज्ञानज्ञेययोर्भेदनियमस्यपि तद्दर्शनेन अचिदात्मकघटादिविषयकज्ञाने इति सङ्कोच उचित इत्याह जड इति ।।२१६।।

युक्तिमल्लिका

मनोऽनुमित्या मानस्या किं नानुमिमते बुधाः ।

ज्ञानरूपं तु यद्वस्तु स्वेनापि ज्ञेयमेव तत् ।

अतस्स्वरूपविज्ञाने स्वयमात्मा प्रकाशताम् ।। २१७ ।।

सुरोत्तमटीका

 ज्ञानरूपे ज्ञानज्ञेययोर्भेदघटितत्वनियमस्य व्यभिचारमपि दर्शयति ।। मन इति ।। मानस्या मनःपरिणामतया मनोरूपयाऽनुमित्या सुखादिज्ञानं सकरणकं क्रियात्वाद्रूपादिज्ञानवदित्यनुमित्या मनः बुधाः नानुमिमते किम् । अनुमिमत एव । तत्तस्मात् मानरूपस्य मनसः मनोरूप-ज्ञानेनैव वेद्यत्वात् ।अतः ज्ञानरूपे वस्तुनि ज्ञानज्ञेयविभेदनियमस्य भग्नत्वात्।।२१७ ।।

सत्यप्रमोदटीका

 ज्ञानं ज्ञेयभिन्नमित्यस्य व्यभिचारं दर्शयति मन इति । मनः कर्म । मानस्या मनोरूपया । अनुमित्या सुखादिप्रतीतिः क्रमिकसंयोग-वत्करणसाध्या क्रियात्वात् । छिदिक्रियावत् इत्येवंरूपया । तथा च तत्र मनस एव ज्ञानत्वेन ज्ञेयत्वेन च तयोर्भेदव्याप्तिस्तत्र भग्नेति भावः ।। प्रकृतोप-योगमाह अत इति ।। २१७ ।।

युक्तिमल्लिका

श्रुतेस्स्मृतेः कुतो बाधः क्रियतेऽनुभवस्य च ।

यतस्तदात्मानमेवावेदित्युपनिषज्जगौ ।। २१८ ।।

सुरोत्तमटीका

 श्रुतेरित्यादेस्स्वप्रकाशत्वप्रतिपादकश्रुतिस्मृत्यनुभावाना-मित्यर्थः । बाधः अपलापः । अन्यार्थकथनं वा । स्मृतेरनुभवस्य च प्रागेवोक्तत्वात् स्वप्रकाशत्वप्रतिपादिकां श्रुतिमाह ।। यत इति ।। तदात्मान-मेवावेदित्युपनिषत् तद्ब्रह्म आत्मानमेव स्वस्वरूपमेव आवेत् आवेदेति स्वप्रकाशत्वं यतः जगौ । अतश्श्रुतेर्बाधः कुत इति पूर्वेणान्वयः ।। २१८ ।।

सत्यप्रमोदटीका

चशब्देन न्यायामृतोक्तानि ‘आत्मरूपा संवित् स्वविषयः स्वजन्यव्यवहारविषयत्वादि’त्याद्यानुमानान्यपि ग्राह्याणि । प्रतिज्ञातां श्रुतिमाह तदिति । अत्र क्रियाकर्तृकर्मैक्यं सुस्पष्टम् । बाधः क्रियते अप्रामाण्यं उच्यते । दोषविसंवादयोरभावादिति भावः

।। २१८ ।।

युक्तिमल्लिका

न चेदेवमसम्बद्धं वदतो मरणे कथम् ।

विलपेत्पट्टमहिषी स्वोरस्ताडनपूर्वकम् ।। २१९ ।।

सुरोत्तमटीका

 एकस्यैव कर्तृकर्मभावानङ्गीकारिणं प्रति सोपहासमुत्तर-माह ।। न चेदिति ।। न चेदेकस्यैव कर्तृकर्मभावो न चेत् । एवमसंबद्धं वदतस्तव मरणे सति पट्टमहिषी स्वोरस्ताडनपूर्वकं कथं विलपेत् । स्वोर-स्ताडनेहि स्वस्या एव ताड्यमानत्वं ताडयितृत्वं च कथं स्यादिति भावः ।। २१९ ।।

सत्यप्रमोदटीका

 असम्बद्धं वदतः भगवत्प्रद्वेषमूलकतत्सार्वज्ञ्यापलाप-रूपात्युत्कटपापिनः मरणे ‘इहैव फलमश्नुते’ इति स्मृत्यनुसारेण क्षीणा-युष्ट्वतयेति हृदयम् । पट्टमहिषीति दुःखोद्रेकात्प्रवृत्तिमाह । तत्रैकस्यैव देहस्य कर्तृत्वं कर्मत्वम् । दृष्टमिति भावः ।। २१९ ।।

युक्तिमल्लिका

अवान्तरविशेषेण यद्येकत्रापि तद्भवेत् ।

आत्मा कर्म क्रिया ज्ञानमित्यत्रापि विशेषणे ।

अवकाशोऽस्ति यच्छब्दा अपर्यायास्तयोस्सदा ।। २२० ।।

सुरोत्तमटीका

 अवान्तरविशेषेण हस्तोरस्स्थलादिविशेषेण एकत्र एक-स्मिन्देहेऽपि तत्कर्तृत्वं कर्मत्वं च । अत्रापि ब्रह्मण्यपि आत्मा परमात्मा कर्मविषयः । तस्य ज्ञानं क्रियेति विशेषणेऽवकाशोऽस्ति । तयोर्ब्रह्मज्ञानयोः शब्दाः ब्रह्मात्मादिब्रह्मवाचकशब्दाः ज्ञानज्ञप्त्यादिज्ञानवाचकशब्दाः अपर्यायाः घटकरीरादिशब्दवत्पर्यायप्रयोज्या न किंतु घटपटादिशब्दवत्सहप्रयोज्या एव । अतः ब्रह्मणि तज्ज्ञानस्य सविशेषाभेद एव वक्तव्यः । नत्वत्यन्ताभेदः । अतस्तवेव ममाप्यवान्तरविशेषेण एकस्य क्रियाकर्मभावघटनेति भावः । एव-मेकस्यैवात्मनः स्वज्ञानप्रयत्नदशायां कर्तृत्वं ज्ञानदशायां कर्मत्वं चेति द्रष्टव्यम् ।। २२० ।।

सत्यप्रमोदटीका

 अवान्तरविशेषेण अवयवावयविनोर्भेदस्यापि सद्भावेन । एकत्र देहे । तत् कर्तृत्वं कर्मत्वम् । अत्रापि ‘आत्मानमेवावेदि’ति अनुप-चरितक्रियाकर्मभावरूपभेदव्यवहारेऽपि । विशेषणे विशेषबलेन भेदव्यवहार-निर्वाहे । उपलक्षणतयाऽपर्यायशब्दवाच्यत्वरूपमेकं भेदव्यवहारमाह यदिति । तयोः ज्ञानब्रह्मणेः ।। सदेत्यनेन व्यवहारस्यानुपचरितत्वमाह ।। २२० ।।

युक्तिमल्लिका

मामहं न विजानामीत्यत्र कर्तृत्वकर्मते ।

यथैकस्य तथा क्वापि क्रियाकर्मैक्यमुच्यताम् ।। २२१ ।।

सुरोत्तमटीका

 ननु मनोऽनुमितौ मनसोऽज्ञेयत्वं ज्ञानत्वं चास्ति । कर्तृत्वं तु आत्मन एव । उरस्ताडनेऽपि कर्तृत्वं कर्मत्वं चैकस्य देहस्यास्ति । क्रियात्वं तु न देहस्य । ब्रह्मणि कर्तृत्वं क्रियात्वं कर्मत्वं च कथमेकत्र स्यादित्यतः प्रागुक्तदृष्टान्तमपि स्मारयन्नुत्तरमाह ।। मामहमिति ।। कर्तृत्व-कर्मते इत्युपलक्षणम् । क्रियात्वं च ग्राह्यम् । एकस्यात्मन एव मामिति कर्मत्वं अहमिति कर्तृत्वं न जानामीति अज्ञानज्ञानरूपत्वं च यथा तथा क्वापि मामहं जानामीत्यत्रापीत्यर्थः । क्रियाकर्मैक्यमित्युपलक्षणम् । क्रियाकर्मकर्त्रैक्यं चेत्यर्थः । अथवा युष्मदस्मत्प्रत्ययगोचरयोर्विषय विषयिणोस्तमःप्रकाश-वद्विरुद्धस्वभावयोरितरेतरभावानुपपत्तावित्यादि भाष्यकारवचनेन प्रत्यग्भूत-मात्मतत्वं कथं पराग्भूतं विषयतत्वं स्यादिति विवरणोक्त्या च कर्तृकर्म-भावविरोधादिति वदतोऽपि क्रियाकर्मभावविरोध एव तात्पर्यम् । अतस्तदुप-पादनायैव दृष्टान्ताः कथ्यन्ते । तत्र केचित्साक्षात्क्रियाकर्मैक्यघटकाः साक्षादेव सम्बध्यन्ते । केचित्तु कर्तृकर्मैक्यघटका अपि यथा विरुद्धयोः कर्तृत्वकर्मत्व-योरेकत्र घटना तथा विरुद्धयोः क्रियाकर्मत्वयोरपि एकत्र घटनाऽस्त्विति परंपरया सम्बध्यन्ते । अस्मिन्पक्षे मामहं न विजानामीति श्लोके यथास्थितैव योजना । कर्तृत्वकर्मत्वे परस्परविरुद्धे अपि यथैकत्र अज्ञानज्ञानदशायां मामहमित्यात्मन एव कर्मत्वात्कर्तृत्वाच्च । तथा क्वाप्यात्मन एव स्वज्ञानेनैव स्वस्य ज्ञेयत्वस्थले क्रियाकर्मैक्यमुच्यताम् । विरोधस्योभयत्र साम्यादित्यर्थः । एवमेवोरस्ताडनदृष्टान्तस्यापि प्रकृतोपयोगो द्रष्टव्यः ।। २२१ ।।

सत्यप्रमोदटीका

 ननु मनोऽनुमितौ क्रियाकर्मैक्यमात्रम् । कर्ता त्वात्मैव । उरस्ताडने कर्तृकर्मैक्यमात्रम् । क्रिया तु ताडनमेव । उभयत्रापि न त्रयाणामैक्यमिति न दृष्टान्तयोरत्यन्तसङ्गतिरित्यतोऽन्योन्यं त्रयाणां विरोधा-भावमात्रे एतद्दृष्टान्तोक्तिरिति वा प्रागुक्तेन मामहं जानामीति अनुभवेनैव त्रयाणां ऐक्यसिद्धिरिति वा समाधत्ते मामिति ।। अत्र अज्ञानज्ञानानुभवे । क्वापि मामहं जानामीति ज्ञानज्ञानानुभवे । क्रियाकर्मैक्यं उपलक्षणम् । त्रयाणामप्यैक्यमित्यनुसन्धेयम् ।। उच्यतां अनुभव आदरवता भवता इति शेषः ।। २२१ ।।

युक्तिमल्लिका

अभिधाख्याभिधेयत्वमभिधानामि्न किं न ते ।

प्रमाणसदसत्त्वाभ्यां व्यवस्था च भविष्यति ।। २२२ ।।

सुरोत्तमटीका

 दृष्टान्तान्तरं चाह ।। अभिधेति ।। अभिधाख्यया । अभिधेति नाम्ना । अभिधेयत्वं वाच्यत्वम् । अभिधानामि्न अभिधेति नामि्न । ते मते किं न भवत्येवेत्यर्थः । यथाभिधानामैवाभिधेयम् अभिधा चाभूत् तथा प्रकृतेऽपि ब्रह्मैव ज्ञानं ज्ञेयं चास्त्विति भावः । नन्वेवं कर्मत्वक्रियात्वयोरेकत्वे छिदिक्रियायाश्चिद्यमानदारुणश्चैक्यं स्यादित्यत आह ।। प्रमाणेति ।। २२२ ।।

सत्यप्रमोदटीका

 कियात्वकर्मत्वयोरेकत्र समावेशं दृष्टान्तान्तरेण घटयति अभिधेति ।। अभिधा इति आख्यया नाम्ना अभिधेयत्वं वाच्यत्वम् । इदं चोपलक्षणम् । कृतिविशेषस्य कार्यत्ववत् इच्छाविशेषस्य चेष्टत्ववत् व्यवहृतेश्च व्यवहार्यत्ववत् इत्यादीनि न्यायामृते आत्मनः पराभिमतस्वप्रकाशभङ्गे उदाहृतानि दृष्टान्तान्तराण्यप्यनुसन्धेयानि ।। २२२ ।।

युक्तिमल्लिका

किं ज्ञानपदजन्यं यज्ज्ञानं स्वविषयं न तत् ।

न हि तस्याप्यवेद्यस्य व्यवहारो भवन्मते ।। २२३ ।।

सुरोत्तमटीका

 स्थलान्तरेऽपि क्रियाकर्मणोरैक्यं प्रदर्शयति । किं ज्ञानेति । ज्ञानपदजन्यं यज्ज्ञानं तत् स्वविषयं न किं भवत्येव । ज्ञानसामान्यवाचकस्य ज्ञानपदस्य ज्ञानमात्रविषयकज्ञानजनकत्वनियमेन तज्जन्यज्ञानज्ञानरूप-स्वविषयत्वस्यापि सर्वैरङ्गीकृतत्वादिति भावः । बहुपुंसहायेऽपि क्लीबस्य पुंस्त्वादर्शनात्स्वाविषयबहुसहाये एकांशेन स्वविषयत्वमित्यपि रिक्तं वचः । अभिधादृष्टान्ते कुचोद्यानवकाशाच्च । अवेद्यत्वे सत्यपरोक्षव्यवहारयोग्यत्वं स्वप्रकाशत्वमिति वदताऽपि ज्ञाने स्वविषयत्वमेव वक्तव्यम् । तथा च सर्वत्र स्वविषयत्वमेव स्वप्रकाशत्वं अननुगमपरिहाराय त्वयाऽपि वक्तव्यमित्याशये-नाह ।। नहीति ।। तस्य ज्ञानपदजन्यज्ञानस्य अवेद्यस्य ब्रह्मवदवेद्यस्यैव व्यवहारो नहि । किंतु स्वविषयत्वमेवात्र स्वप्रकाशत्वमिति तवाप्यभिमतमिति ।। २२३ ।।

सत्यप्रमोदटीका

 ज्ञान एव तयोः समावेशं दर्शयति किमिति । ज्ञानसामान्यविषयकस्य स्वविषयकत्वस्यापि सत्त्वादिति भावः । अन्यथा ज्ञानरूपस्य तस्य स्वविषयकव्यवहारजनकत्वं न स्यात् । त्वन्मते ‘अवेद्यत्वे सत्यपरोक्षव्यवहारायोग्यत्वं स्वप्रकाशत्वं’ इति लक्षणमभिदधता ब्रह्मण एव केवलं स्फुरणणरूपतया वेद्यत्वाभावेऽपि स्वव्यवहारजननयोग्यत्वमुररीकृतम् । नान्यत्र । न हि ज्ञानपदजन्यं ज्ञानं ब्रह्म येनात्रापि तथात्वं भवेत् । ब्रह्मणोऽ-जन्यत्वात् । अतोऽस्य स्वविषयकत्वमावश्यकमिति तत्रैव क्रियात्वकर्मत्वयोः समावेशः । अपिशब्देन ब्रह्मणोऽवेद्यस्यापरोक्षव्यवहाराङ्गीकारं परस्य व्याघातेन गर्हयामासेति ध्येयम् ।। तदेतदभिप्रेत्योक्तं न हीति ।। २२३ ।।

युक्तिमल्लिका

तत्र स्वविषयत्वं तत्स्वप्रकाशत्वमागतम् ।

जडेऽपि क्वचिदेवं चेच्चेतनेषु कुतो न तत् ।। २२४ ।।

सुरोत्तमटीका

 तत्तस्मात् । तत्र ज्ञाने स्वविषयत्वमेव स्वप्रकाशत्व-मागतं बलादागतमित्यर्थः । तत्स्वविषयत्वरूपस्वप्रकाशत्वं जडे जडत्वाक्रान्ते क्वचिज्ज्ञाने । चेतने कुतो नेति सम्बन्धः ।। २२४ ।।

सत्यप्रमोदटीका

 एवं चेदित्यनेन ‘मामहं जानामीत्येवंरूपं चेतनस्यैव न तु क्वापि जडे’ इति ध्वनितम् । तदुक्तं वादावल्यां प्राभाकरनिराकरण-प्रस्तावे प्रामाण्यस्वतस्त्ववादे ‘अनात्मरूपेषु मनोवृत्तिज्ञानेषु स्वप्रकाशत्वा-सम्भवादि’ति ।। २२४ ।।

युक्तिमल्लिका

यदि स्वावेद्यता स्वप्रकाशत्वमिति मन्यसे ।। २२५ ।।

सुरोत्तमटीका

 स्वाभिमतस्वप्रकाशत्वं प्रसाध्य पराभिमतस्वप्रकाशत्वं दूषयति ।। यदीति ।। २२५ ।।

युक्तिमल्लिका

तदा वदामश्शब्दस्य विरुद्धार्थपरिग्रहे ।

को हेतुरिति यद्येकस्यैव कर्तृत्वकर्मते ।। २२६ ।।

विरुद्धे इति भीतोऽसि शब्दायोग्यार्थकल्पनात् ।

कुतो न भीः किं च सा भीर्धावन्तं त्वाऽनुधावति ।। २२७ ।।

सत्यप्रमोदटीका

 इदानीं पराभिमतं स्वप्रकाशत्वं दूषयति यदीत्यादिना । शब्दस्य स्वप्रकाशेत्यस्य विरुद्धार्थपरिग्रहे स्वावेद्यत्वापरपर्यायस्वाप्रकाश्यत्व-रूपार्थस्वीकारे । कर्तृत्वकर्मते क्रियात्वकर्मते चेत्यपि ग्राह्यम् । विरुद्धे सहानवस्थिते । अयोग्येति स्वारसिकार्थप्रतिषेधात्मकेत्यर्थः । सहानवस्थान-लक्षणविरोधापेक्षया प्रतिषेधात्मकविरोधस्य प्राबल्यादिति भावः । यदि आद्या-द्भीस्तर्हि द्वितीयाद्विरोधात्सुतरां भेतव्यं इत्याशयः । अयोग्यस्य परवेद्यत्वरूपार्थ-स्याङ्गीकारेऽपि सा भीः कर्तृत्वकर्मत्वादेरेकत्र समावेशानुपपत्तिरूपा भीः । अनुधावति बलादापतति ।। २२५-२२७ ।।

सुरोत्तमटीका

 शब्दस्य स्वप्रकाशशब्दस्य विरुद्धार्थपरिग्रहे स्वा-प्रकाश्यत्वरूपविरुद्धार्थपरिग्रहे । स्वावेद्यत्वं स्वाप्रकाश्यत्वमिति च पर्यायः । को हेतुरिति वदाम इति सम्बन्धः । पराभिमतमनुवदति ।। यद्येकस्येति ।। कर्तृत्वकर्मते इत्युपलक्षणम् । क्रियात्वकर्मते इत्यपि द्रष्टव्यम् । उत्तरमाह ।। शब्दायोग्येति ।। दोषान्तरं चाह ।। किं चेति ।। २२६,२२७ ।।

युक्तिमल्लिका

दोषोऽयं परवेद्यत्वे समो यस्माद्विचारणे ।

आत्मनो वृत्तिवेद्यत्वे कर्तृकर्मैक्यमागतम् ।। २२८ ।।

सुरोत्तमटीका

 अयं दोषः एकस्यैव कर्तृकर्मत्वाख्यदोषः । परवेद्यत्वे मनोवृत्तिवेद्यत्वे । मनोवृत्तिरूपक्रियाया भिन्नत्वेऽपि मनसा अहं मां जाना-मीत्यात्मन एव कर्तृत्वात्कर्मत्वाच्च । आत्मनः ब्रह्मणः ।। २२८ ।।

सत्यप्रमोदटीका

 तत्कथमित्यत आह आत्मन इति । ‘अहं मां जानामि’ इत्यत्र जानामीति क्रियाया वृत्तिरूपत्वेन क्रियाकर्त्रैक्यं त्वदवस्थमेव

।। २२८ ।।

युक्तिमल्लिका

सुखादेस्साक्षिवेद्यत्वे क्रियाकर्त्रैक्यमापतेत् ।

क्रियाकर्मैक्यमप्येवं न्यायसाम्यात्कुतो न ते ।। २२९ ।।

सुरोत्तमटीका

 साक्षिवेद्यत्वे सुखमहं जानामीति साक्षिवेद्यत्वे क्रिया-कर्मैक्यम् अहमित्यात्मन एव कर्तृत्वात् । सुखानुभवस्य साक्षिरूपत्वेन क्रिया-त्वाच्च । अतः सा भीः एकस्यैव विरुद्धाकारद्वयत्वभीः धावन्तं त्वानुधावतीति पूर्वेणान्वयः । नन्वेवमपि कर्तृकर्मैक्यं कर्तृक्रियैक्यं चागतम् । न तु क्रिया-कर्मैक्यमित्यत आह ।। क्रियाकर्मैक्यमिति ।। न्यायसाम्यात् तत्रोक्तविरुद्धा-कारद्वयवत्त्वं येन न्यायेन समपाद्यते । तस्य न्यायस्य क्रियाकर्मैक्येऽपि साम्यादित्यर्थः । इयमपि स्वप्रकाशत्वप्रतिबन्दीरूपा युक्तिरिति ज्ञातव्यम् ।। २२९ ।।

सत्यप्रमोदटीका

 एवं सुखमहमनुभवामीत्यत्र सुखानुभवस्य साक्षि-रूपत्वेन क्रियाकर्त्रैक्यं तदवस्थमेव । तथा च भक्षितेऽपि लशुने न शान्तो व्याधिरित्याभाणकविषयोऽसीति भावः । विरोधसाम्ये क्रियाकर्मैक्यमपि विप्रतिपन्नं अङ्गीक्रियताम् । अर्धजरतीयानुपपत्तेरित्याह क्रियेति ।। २२९ ।।

युक्तिमल्लिका

किं च साक्ष्येव विषयावच्छिन्नाऽज्ञानदृक्त्वया ।

वाच्याऽवश्यं यतो वृत्तिनाश्यस्यान्याऽत्र नैव दृक् ।। २३० ।।

सुरोत्तमटीका

 परमुखेनैव चितः स्वविषयत्वमानेतुमाह ।। किं चेति ।। साक्ष्येव विषयावच्छिन्नाज्ञानदृक् मां न जानामीत्यज्ञानविषयीभूतेन ब्रह्मणाऽ-वच्छिन्नं विशिष्टं यदज्ञानं तस्य दृक् । त्वया मायावादिना अवश्यं वाच्येति सम्बन्धः । अज्ञानं विषयतया तदवच्छेदकात्मा चेति द्वयमपि साक्षिणैव विषयीकार्यमित्यर्थः । नन्वज्ञानमात्रं साक्षिविषयः विषयतया अवच्छेदक आत्मा तु मनोवृत्तिविषय एव अतः कथं स्वविषयत्वमित्यत आह ।। यत इति ।। वृत्तिनाश्यस्याज्ञानस्यात्र विषयतया अवच्छेदके आत्मनि । अन्या साक्षिणोऽन्या मनोवृत्तिरूपेति यावत् । दृग्दर्शनं, नैवेति सम्बन्धः । अज्ञानावच्छेदकस्यात्मनः मनोवृत्तिवेद्यत्वाङ्गीकारे तस्मिन्नात्मनि पुनर्मनोवृत्ति-नाश्यस्याज्ञानस्य ज्ञानमेव न घटत इति भावः ।। २३० ।।

सत्यप्रमोदटीका

 स्वव्याहतश्च परस्य चिदवेद्यत्वाङ्गीकार इति वक्तु-मुपयुक्तमाह किं चेति । त्वया साक्ष्येव शुद्धचिदेव न तु वृत्तिः । विषया-धिष्ठानचैतन्यावरकाज्ञानदृक् इति अवश्यं वाच्या । तत्र हेतुः यत इति । अत्र अज्ञाने आव्रियमाणतया अवच्छेदके चैतन्ये अन्या चिदन्या वृत्तिरूपा दृक् प्रकाशिका नैव । अयं भावः चिद्विषयकमज्ञानं केन प्रकाश्यते इति वाच्यम् । न तावद्वृत्त्या । तस्य तन्नाश्यत्वोपगमेन तत्प्रकाश्यत्वायोगात् । अतः साक्षिरूपचितैवेति वाच्यम् । उक्तं च ‘आश्रयत्वविषयत्वभागिनी निर्विशेष-चितिरेव केवले’ति । चिद्विषयकाज्ञानस्य चिद्वेद्यत्वे अज्ञाने विषयतयाऽ-वच्छेदिकायाश्चितोऽपि तद्वेद्यत्वं अङ्गीकृतमेवेति पुनस्तदवेद्यत्वोक्तिः कथं व्याहता न भवेदिति ।। २३० ।।

युक्तिमल्लिका

विषयश्च स्वयं तस्य स्वावेद्यत्वे च कीर्तिते ।

अज्ञानवेदनस्यैव भवेदत्यन्तवेदना ।

अवच्छेदकदृग्व्याप्तं यतोऽवच्छिन्नदर्शनम् ।। २३१ ।।

सुरोत्तमटीका

 विषयः अज्ञानविषयः । स्वयं आत्मा । तस्यात्मनः स्वावेद्यत्वे कीर्तिते । उक्तरीत्या परवेद्यत्वासम्भवात् । अज्ञानवेदनस्याज्ञान-ज्ञानस्यात्यन्तवेदना अतिसङ्कटं भवेदिति सम्बन्धः । अवच्छेदकात्मज्ञानाभावे तदवच्छिन्नाज्ञानज्ञानमपि सुतरां न स्यादिति भावः । तदेवोपपादयति ।। अवच्छेदकेति ।। २३१ ।।

सत्यप्रमोदटीका

 स्वयं चिदेव । विषयः अज्ञाने विषयतयाऽ-वच्छेदिका । तस्य चिद्रूपात्मनः कीर्तिते अवेद्यत्वं स्वप्रकाशत्वं इति लक्षण-कथनेनाभिहिते सति । अज्ञानवेदनस्यैव त्वदुपगताज्ञानज्ञानस्यैव । अत्यन्त-वेदना अतिसङ्कटः असम्भव इति यावत् । भवेत् । साक्षिचैतन्यं अज्ञाना-वच्छेदकचैतन्यविषयकं चैतन्यावच्छिन्नाज्ञानविषयकत्वात् । यद्यदवच्छिन्न-विषयकं ज्ञानं तत्तदवच्छेदकविषयकं यथा दण्डावच्छिन्नचैत्रविषयकं दण्ड-विषयकं इति प्रयोगो ध्येयः । विपक्षे हेतूच्छित्तिः ।। २३१ ।।

युक्तिमल्लिका

ज्ञानरूपत्वतः किं स्यात्तत्तद्गोचरतां विना ।

घटज्ञानं ज्ञानमिति किमन्यव्यवहारकृत् ।। २३२ ।।

सुरोत्तमटीका

 नन्वात्मनो ज्ञानाभावेऽपि ज्ञानरूपत्वादेव तदवच्छिन्ना-ज्ञानस्य ज्ञानव्यवहारादि सम्भवतीत्यत आह ।। ज्ञानरूपत्वत इति ।। तत्तद्गोचरतां तत्तज्ज्ञानविषयतां विना ज्ञानरूपत्वतः किं स्यान्न किमपीति सम्बन्धः । कुत इत्यत आह ।। घटज्ञानमिति ।। घटज्ञानं ज्ञानमिति ज्ञान-स्वरूपमित्येतावतेत्यर्थः । अन्यस्य ज्ञानविषयघटादन्यस्य पटादेर्व्यवहारकृत् किं व्यवहारकृदित्युपलक्षणम् । अवच्छेदकत्व कृदित्यपि ग्राह्यम् । यथा ज्ञान-रूपत्वेऽपि घटज्ञानस्य घटव्यवहारहेतुत्वमेव न तु स्वाविषयपटादिव्यवहार-हेतुत्वं तथा ज्ञानरूपत्वेऽपि ब्रह्मणस्स्वाविषयत्वे स्वावच्छिन्नाज्ञानव्यवहारादौ नैवोपयोगित्वमिति भावः ।। २३२ ।।

सत्यप्रमोदटीका

 माऽस्तु साक्षिज्ञानस्य अज्ञानविषयकत्वम् । चैतन्या-वच्छिन्नाज्ञानस्य ज्ञानरूपः साक्षीति व्यवहारादिकं साक्षिणस्तद्विषयतां विनैव स्वयं ज्ञानरूपतयैव सम्पत्स्यत इत्याशङ्कां परिहरति ज्ञानेति ।। किं स्यात् तद्व्यवहारादिकं नैव सम्भवतीति भावः । ज्ञानस्य तद्व्यवहारजनकत्वे तद्विषय-कत्वमेव तन्त्रं न तु स्वयं ज्ञानरूपतामात्रमिति भावः । एतदनङ्गीकारेऽति-प्रसङ्गमाह घटज्ञानमिति । ज्ञानमितीति । स्वयं ज्ञानरूपमित्येतावता । अन्यस्य पटादेर्व्यवहारकृत् किम् । नैव । तथेति भावः । ‘अन्यथा प्रमेयत्व-मपि स्ववृत्तिं विनैव स्वस्मिन्प्रमेयव्यवहारं कुर्यादिति केवलान्वयि न स्यात् । गतिरपि ग्राम इव स्वस्मिन्नपि स्वकार्यं कुर्यादि’त्यादीनि न्यायामृते स्वप्रकाशत्वभङ्गे उक्तानि अतिप्रसङ्गान्तराणि ध्येयानि ।। २३२ ।।

युक्तिमल्लिका

अतोऽज्ञानं स्वविज्ञप्त्यै क्षिपेत्तत्स्वप्रकाशताम् ।

चित्रमत्रापि ते बाणस्तव प्राणापहारकः ।। २३३ ।।

सुरोत्तमटीका

 अतः अवच्छेदकविषयज्ञानावश्यंभावात् । अज्ञानं भवदभिमतभावरूपाज्ञानम् । तत्स्वप्रकाशताम् । तस्य साक्षिणस्वाविषयताम् । अत्रापि स्वप्रकाशत्वविषयेऽपि । ते बाणः तवाभिमतभावरूपाज्ञानमेव । तव प्राणापहारकः तव प्राणसमस्वावेद्यत्वापहारकः । अतोऽत्राप्यात्मीय एव बाणो भवन्तं प्रहरतीति न्याये पतितोऽसीति भावः ।। २३३ ।।

सत्यप्रमोदटीका

 अतः अवच्छेदकज्ञानं विनाऽवच्छिन्नज्ञानायोगात् । स्वविज्ञप्त्यै चैतन्यावच्छिन्नस्वज्ञानाय तस्य चैतन्यस्य स्वप्रकाशतां अवच्छेदकी- भूतस्वविषयकत्वं क्षिपेत् आक्षिपेत, अन्यथाऽनुपपत्त्या साधयेत् । बाणः भावरूपाज्ञानस्फोरकं चैतन्यमित्यङ्गीकारः तव प्राणस्य परमप्रियस्य अवेद्य-त्वस्य । अपहारकः अभावसाधकः ।। २३३ ।।

युक्तिमल्लिका

किं च प्रागुक्तदृष्टान्तत्रितयं च न विस्मर ।

यत्र कर्मक्रियैक्यं च साक्षादेव निदर्शितम् ।। २३४ ।।

सुरोत्तमटीका

 प्रागुक्तदृष्टान्तत्रितयं मनसोऽनुमितिरूपत्वमनुमेयत्वं चाभिधानाम्नः अभिधेयत्वमभिधात्वं च ज्ञानपदजन्यज्ञानस्य स्वस्यैव ज्ञानत्वं ज्ञेयत्वं चेति त्रितयमित्यर्थः ।। २३४ ।।

सत्यप्रमोदटीका

 त्रितयं मनोऽनुमितिः, अभिधानाम, ज्ञानपदजन्यज्ञानं च । न विस्मर । विस्मृत्य ज्ञानव्यवहारयोः समानविषयकत्वनियमापलापं मा कार्षीः इति भावः । साक्षादेव अत्रेव नावच्छेदकत्वेन परम्परया ।। २३४ ।।

युक्तिमल्लिका

वृथा वागर्थदम्पत्योर्नायोगाय मतिं कुरु ।। २३५ ।।

सुरोत्तमटीका

 वागर्थदंपत्योः वाक्चार्थश्च वागर्थौ । तावेव दंपती एकस्य स्त्रीलिङ्गत्वात् । अपरस्य पुंलिङ्गत्वादिति भावः । अयोगाय मतिं मा कुर्विति सम्बन्धः । स्वप्रकाशशब्दस्य स्वविषयत्वाख्यस्वारसिकार्थं मा विघटयेति भावः ।। २३५ ।।

सत्यप्रमोदटीका

 वृथा बाधकं विनैव । क्रियायाः कर्मत्वे छिदाया-श्छेद्यत्वापात इत्याद्यतिप्रसङ्गस्य प्रमाणसदसत्त्वाभ्यां व्यवस्था च भविष्यति’ इति प्रागेव समाहितत्वात् । वाक् स्वप्रकाशशब्दः अर्थः स्वकर्मकप्रकाश-रूपता । दम्पत्योः नेत्यसम्बद्धयोः सीतारामयोरिव । अयोगाय विरुद्धार्थस्य स्वाप्रकाश्यत्वाख्यस्य वर्णनेन वियोजनाय । न मतिं कुरु रावणवत् दुःसाहसं मा कार्षीः ।। २३५ ।।

युक्तिमल्लिका

अतस्स्वावेद्यता त्याज्या स्ववेद्योऽपि भवेत्प्रभुः ।

न चेत्स्वानन्दानुभवो मुक्तौ मुक्तस्य किम्बलात् ।। २३६ ।।

सुरोत्तमटीका

 अतः शब्दार्थविघटनाया दोषहेतुत्वात् । विपक्षे बाधक-माह ।। नचेदिति ।। स्वानन्दानुभवः स्वस्वरूपानन्दानुभवः । किं बलात् कस्य बलात् । साक्ष्यतिरिक्तेन्द्रियाणां तत्राभावात् ।। २३६ ।।

सत्यप्रमोदटीका

 अतः भगवतः सार्वज्ञापलापपापहेतुत्वात् । स्ववेद्यः स्वेन साकल्येन वेद्यः । अपिशब्देन इतरैर्यथायोग्यज्ञेयत्वं समुच्चिनोति । अन्यथा मुक्तौ स्वरूपानन्दस्य स्वरूपेन्द्रियैरनुभवः मुक्तस्य । कर्तरि षष्ठी । मुक्तकर्तृकः कस्य बलात् । स्यादिति शेषः । तत्र बाह्योपाधेर्लयात्स्वरूपेणैव अवस्थितेरिति भावः । अत्र अनुभव इति क्रियायाः आनन्देति कर्मणः मुक्तस्येति कर्तृनिर्देशेन क्रियाकर्मकर्तॄणां तत्रैक्यानुपगमे मुक्तेः पुमर्थत्व-भङ्ग्रोऽनिष्ट आपादितो ध्येयः ।। २३६ ।।

युक्तिमल्लिका

अतस्स्वविषयो यस्य प्रकाशो विद्यते सदा ।

स एव स्वप्रकाशाख्य इति सर्वं समञ्जसम् ।। २३७ ।।

सुरोत्तमटीका

 स्वप्रकशशब्दार्थं वदन् स्वप्रकाशवादमुपसंहरति ।। अत इति ।। अतः स्वावेद्यत्वस्याशब्दार्थत्वात् असार्वज्ञाख्यदोषापादकत्वाच्च । सर्वं समंजसमित्यनेन यस्सर्वज्ञ इत्यादिश्रुतेरपि सामञ्जस्यमभूदित्यभिप्रैति । ब्रह्म-ज्ञानस्य ब्रह्मागोचरत्वे श्रुतेस्संकोचाख्यासामञ्जस्यं स्यात् । तत्परिहारायापि-स्वपराख्यसर्वविषयत्वमङ्गीकार्यमिति भावः ।। २३७ ।।

सत्यप्रमोदटीका

 स्वप्रकाशशब्दं निर्वक्ति स्वविषय इति । सर्वं उदाहृत- प्रमाणजातं समञ्जसं असङ्कोचेन भगवतः सार्वज्ञसिद्धिपर्यवसायि ।। २३७ ।।

युक्तिमल्लिका

मुखेनातिप्रसन्नोऽपि हृदि हालाहली खलः ।

जल्पतस्स्वप्रकाशत्वं स्वावेद्यत्वं यतो हृदि ।। २३८ ।।

सुरोत्तमटीका

 पराभिमतस्वप्रकाशत्वं नीतिविरुद्धं चेत्याह ।। मुखेनेति ।। हालाहलपदेन द्वेषेर्ष्यादिदोषा लक्ष्यन्ते । तद्वानित्यर्थः । एतद्दुर्नीतेर्निदर्शनं मायावाद्येवेत्याह ।। जल्पत इति ।। स्वावेद्यत्वकथनेन हरेरसार्वज्ञस्यैव निरूपणात् भगवन्महिमि्न द्वेषेर्ष्यादिदोषवानिति भावः ।। २३८ ।।

सत्यप्रमोदटीका

 मुखेन आपाततः अतिप्रसन्नोऽपि । अपिर्गर्हणे । तथा प्रतीयमानोऽपि । हृदि तात्पर्येण । हालाहली परतत्वप्रद्वेषविषवान् । एतेन कण्ठोक्त्यैव, अवेद्यत्वं तात्पर्यतः स्वप्रकाशत्वं आपाततः ब्रुवाणोऽयं खलतर इति ज्ञापितं भवति ।। २३८ ।।

युक्तिमल्लिका

अन्यानजानन्नप्यन्धो जानात्यहमिति स्फुटम् ।

स्वपरज्ञानशून्योऽसौ घटस्स्यादथवा पटः ।। २३९ ।।

सुरोत्तमटीका

 पूर्वमसार्वज्ञापादनाद्दोषीत्युक्तम् । अधुना घटवज्जडत्वा-पादनात् ततोऽप्यतिशयितदोषीत्याह ।। अन्यानिति ।। असौ मुक्तिदशायां विद्यमानः परमात्मा स्वपरज्ञानशून्यः मुक्तत्वादेव परज्ञानशून्यः स्वावेद्यत्वादेव स्वज्ञानशून्यश्च जात इति घटस्स्यादथवा पट इति सम्बन्धः ।। २३९ ।।

सत्यप्रमोदटीका

 ज्ञानस्य सविषयकत्वं स्वभावः । स च परमते आत्मनः ज्ञाने न सम्भवति । तथा हि । तज्ज्ञानं स्वविषयं परविषयं वा । नाद्यः स्ववृत्तिविरोधेनानङ्गीकारात् । न द्वितीयः मोक्षे पराभावात् । सविषयकत्व-स्वभावहानौ ज्ञानस्वरूपहानिरेव । तथा च तस्य घटादितुल्यतेति वक्तुं ज्ञानस्य सविषयकत्वस्वभावं व्युत्पादयति अन्यानिति । रूपवत्पदार्थान् । अजानन् अपश्यन् । अहमितीत्युपलक्षणम् । चक्षुरितरप्रमाणकानित्यर्थः । तथा च तज्ज्ञाने सविषयकत्वमविकलमिति भावः । असौ परमात्मा नित्यमुक्तः । उक्तरीत्या स्वपरज्ञानशून्यः तज्ज्ञानाभिमतस्य स्वपरविषयकत्वशून्यत्वात् वस्तुतो ज्ञानमात्रशून्यः घटः स्यात् जडः स्यादिति यावत् । अथवा पटः सर्वथा न चेतन इति भावः । तदुक्तं भगवत्पादैः ‘विषयवर्जितः प्रकाश एव न भवति घटवदि’ति ।। २३९ ।।

युक्तिमल्लिका

किं स्वादुना गुडेनापि यद्रसो नानुभूयते ।

किं स्वरूपसुखेन स्याद्यदि तन्नानुभूयते ।। २४० ।।

सुरोत्तमटीका

 ब्रह्मणस्स्वावेद्यत्वे मुक्तेरमुक्तित्वप्रसङ्ग इति दृष्टान्तमाह ।। किं स्वादुनेति ।। तत् स्वरूपसुखम् । अननुभूयमानगुडरसवदननुभूयमान-सुखमपि न प्रयोजनमिति भावः ।। २४० ।।

सत्यप्रमोदटीका

 जडत्वापत्त्या निर्विशेषज्ञानस्य अपुमर्थत्वं समर्थ्याधुना अनुभवाविषयस्य निर्विशेषसुखस्यापि तत्समर्थयते किमित्यादिना स्वादुगुडात्म-तैव न पुरुषार्थः किं तु तद्रसानुभव एव यथा तथा न सुखात्मतामात्रं पुरुषार्थः किं तु तदनुभव एव । यथोक्तं न्यायामृते निर्विशेषसुखस्य पुरुषार्थत्वभङ्गे ‘सुखी स्यामितिवत् सुखं स्यामितीच्छाया अदर्शनादि’ति ।। २४० ।।

युक्तिमल्लिका

चोरस्य चोरशिष्टोऽपि शिष्टश्शिष्टस्य केवलम् ।

स्वाज्ञं तत्किल सर्वज्ञं मुक्तं स्वानन्दभोक्तृ च ।। २४१ ।।

सुरोत्तमटीका

 शिष्टोऽपि चोरस्य चोर इव चोरश्शिष्टमपि स्वात्मवच्चोरं मन्यते । एतदपि मायिन्येव दृष्टमित्याह ।। स्वाज्ञमिति ।। सर्वज्ञं मुक्तं स्वानन्दभोक्तृ यत्तद्ब्रह्म स्वाज्ञं किल स्वज्ञानेनापि शून्यं किल । अतश्शिष्टस्य स्वात्मवच्चोरत्वापादकचोरवदयमपि वादीति भावः ।। २४१ ।।

सत्यप्रमोदटीका

 चोरस्य अन्यस्य सम्बन्धि परमात्मत्वं स्वस्येति मन्यमानस्य मायावादिनः । मते इति शेषः । शिष्टोऽपि तत्ववाद्यपि चोरः स्वकीयब्रह्मात्मत्वाभिसन्धित्यागवतो भेदज्ञानिनः स्तेनोपमत्वं इति तदाशयात् । शिष्टस्य प्रमाणसिद्धसम्प्रत्ययावलम्बिनः मते शिष्टः शिष्टः तथात्वेन व्यवहार-विषयः । ‘सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी’ इति गीतोक्तं तामस-बुद्धेर्लक्षणं मायावादिबुद्धौ समन्वेतीत्याह स्वाज्ञमिति । यत् सर्वज्ञं ब्रह्म तत् स्वाज्ञं स्वविषयकज्ञानशून्यम् । यत् मुक्तं तत् तत्र परस्यैवाभावेन, स्वपर-ज्ञानशून्यम्, यत् आनन्दभोक्तृ तत् निर्विशेषतया आनन्दानुभवरहितं इत्यपि पूरणीयम् ।। २४१ ।।

युक्तिमल्लिका

यदि स्वरूपविज्ञानं नैव स्वविषयं भवेत् ।

तदा स्वव्यवहारश्च कथं तस्मादुदीर्यताम् ।। २४२ ।।

सुरोत्तमटीका

 अधुना स्वावेद्यत्वस्वव्यवहारजनकत्वयोरेकत्रासम्भवेन परोदीरितस्वप्रकाशत्वलक्षणमनुपपन्नमित्याह ।। यदीति ।। तस्मात्स्वाविषयक-ज्ञानात् । अतस्स्वाविषयकत्वं स्वव्यवहारहेतुत्वमिति विशेषणद्वयमेकत्र न सम्भवतीति भावः ।। २४२ ।।

सत्यप्रमोदटीका

 ‘अवेद्यत्वे सत्यपरोक्षव्यवहारयोग्यत्वं स्वप्रकाशत्वं इति चेन्न व्याहतत्वेन असम्भवित्वात्’ इति वादावल्युक्तं व्याघातं समर्थयमान आह यदीति । व्यवहारविषयत्वोक्त्या वेद्यत्वमुक्त्वा पुनस्तन्निषेधे व्याघात एवेति भावः ।। २४२ ।।

युक्तिमल्लिका

घटज्ञानं मनोरूपं न मनोव्यवहारकृत् ।

विषयस्य घटस्यैव व्यवहारकृदिष्यते ।। २४३ ।।

सुरोत्तमटीका

 स्वावेद्यत्वेऽपि ज्ञानरूपत्वात्स्वव्यवहारहेतुत्वमित्यत आह ।। घटज्ञानमिति ।। न मनोव्यवहारकृत् मनोव्यवहारकृन्न । किं तु विषयस्येत्यादि योजना ।। २४३ ।।

सत्यप्रमोदटीका

 ‘ज्ञानरूपत्वतः किं स्यात्तत्तद्गोचरतां विना’ इति प्रागुक्तं दोषान्तरोक्त्या द्रढयति घटज्ञानमिति । मनः स्वयं ज्ञानरूपमित्येवता न मनोव्यवहारकृत् स्वविषयकत्वाभावात् । किं तु घटविषयकत्वात् स्वविषय-घटस्यैवेति भावः ।

ज्ञानरूपत्वतः किं स्यात्तत्तद्गोचरतां विना’ इति प्रागुक्तं दोषान्तरोक्त्या द्रढयति घटज्ञानमिति । मनः स्वयं ज्ञानरूपमित्येवता न मनोव्यवहारकृत् स्वविषयकत्वाभावात् । किं तु घटविषयकत्वात् स्वविषयघटस्यैवेति भावः ।। २४३ ।।

युक्तिमल्लिका

अतस्तद्विषयज्ञानमेव तद्व्यवहारकृत् ।

ज्ञानस्वरूपतामात्रं व्यवहारेऽप्रयोजकम् ।। २४४ ।।

सुरोत्तमटीका

 अतः मनोविषयत्वरहितमनोरूपघटज्ञानस्य मनो-व्यवहाराजनकत्वदर्शनात् । व्यवहारे अप्रयोजकमिति पदच्छेदः ।। २४४ ।।

सत्यप्रमोदटीका

 व्यवहारे अप्रयोजकमिति पदच्छेदः ।। २४४ ।।

युक्तिमल्लिका

सुखरूपत्वमप्येवं मनसि व्यभिचारतः ।

न फलं किं तु निर्दुःखसुखस्यानुभवः फलम् ।। २४५ ।।

सुरोत्तमटीका

 ननु सुखानुभवाभावेऽपि सुखरूपत्वान्मुक्तिः फलं भविष्यतीत्यत आह ।। सुखरूपत्वमिति ।। व्यभिचारतः फलत्वव्यभिचारात् । न फलं मुक्तौ न फलमित्यर्थः । किं तर्हि फलमित्यत आह ।। किं त्विति ।। २४५ ।।

सत्यप्रमोदटीका

 यथा सविषयकत्वं मुक्तज्ञानस्यापेक्षितं एवं तत्सुखस्य तदनुभवविषयत्वमपि अपेक्षितम् । अन्यथा मुक्तेरफलत्वापत्तिरित्याह एव-मिति । ननु निर्दुःखसुखात्मता एव फलमस्तु किं तदनुभवेन । यथाऽऽह नयकारिकायां

तस्मादविद्यास्तमयो नित्यानन्दप्रतीतितः ।

 निःशेषदुःखोच्छेदाच्च पुरुषार्थः परो मत’ इति ।

तन्न । सुखविषयकत्वाभावे स्फुरणस्य, ताद्रूप्यमात्रेण फलत्वानुपपत्तेरित्याह नेति । विमता मुक्तिः फलं सुखरूपत्वात् इत्यस्य वैषयिकसुखात्मके मनसि व्यभिचारः । तत्परिहाराय हेतौ सुखेऽनुभूयमानत्वविशेषणं निवेशनीयम् ।। २४५ ।।

युक्तिमल्लिका

तथैव सुखरूपत्वं ज्ञानरूपत्वमात्मनि ।

न फलं यन्मनो बाह्यज्ञानरूपं सुखात्मकम् ।। १४६ ।।

सुरोत्तमटीका

 तथैव सुखरूपत्ववदेव । आत्मनि मुक्तचैतन्ये । सुखरूपत्वं ज्ञानरूपत्वं चेति मिलितमपि न फलम् । यद्यस्मान्मनः बाह्य-घटादिज्ञानरूपं सुखात्मकं विषयजन्यसुखस्य मनःपरिणामरूपत्वात् सुखरूपं च भवति । तस्मान्मुक्तेरपि सुखरूपत्वं न फलमिति पूर्वेणान्वयः । बाह्य-ज्ञानरूपमित्युक्त्या यथा तस्य ज्ञानस्य सुखविषयत्वाभावान्न फलता तथा ब्रह्मस्वरूपभूतज्ञानस्यापि स्वरूपभूतसुखाविषयत्वे कथं फलतेति सूचयति ।। २४६ ।।

सत्यप्रमोदटीका

 सुखरूपत्वे सति ज्ञानरूपत्वं हेतुश्चेदपि मनसो बाह्यज्ञानात्मकत्वस्यापि सत्त्वेन व्यभिचारस्तदवस्थ इत्याह तथैवेति ।।२४६।।

युक्तिमल्लिका

यथा मानससौख्यस्य साक्षिणाऽनुभवः फलम् ।

संसारे मुक्तिकाले च फलं वाच्यं तथैव हि ।। २४७ ।।

सुरोत्तमटीका

 तर्हि कथं सुखस्य फलतेत्यतस्सदृष्टान्तं फलत्वप्रकारं दर्शयति ।। यथेति ।। संसारे मानससौख्यस्य साक्षिणाऽनुभवः मानससुख-विषयकसाक्ष्यनुभव इति यावत् । यथा फलं तथैव स्वरूपभूतसुखविषयकानुभव एव फलं वाच्यमिति सम्बन्धः ।। २४७ ।।

सत्यप्रमोदटीका

 मौक्तः सुखानुभवः, फलं सुखानुभवत्वात् साक्षि-कर्तृकसंसारिकालीनबाह्यसुखानुभववत् इति स्वपक्षे युक्तिमाह यथेति । मौक्तत्वस्याधिकस्य पक्षे निवेशनान्न पक्षतावच्छेदकहेत्वोरैक्यम् ।। २४७ ।।

युक्तिमल्लिका

न चेदपुरुषार्थत्वं मुक्तेस्स्यादुक्तवर्त्मना ।

तस्मात्स्वरूपानन्दस्य नानुभूतिः कथं तदा ।। २४८ ।।

सुरोत्तमटीका

 एतदनङ्गीकारे मुक्तेरपुरुषार्थत्वं स्यादित्याह ।। नचे-दिति ।। तदा मुक्तौ ।। २४८ ।।

सत्यप्रमोदटीका

 विपक्षे प्राग्व्युत्पादितमतिप्रसङ्गं स्सारयति न चेदिति ।। मुक्तेर्निर्विशेषभावदूषणमुपसंहरति तस्मादिति । प्रकृतपरमप्रमेयमुपसंहरति स्वेति । तथा च भगवतः स्ववेद्यत्वेन सर्वज्ञत्वसिद्धिर्निष्प्रत्यूहेति फलितम् । तथाऽपि चेद्दुराग्रहः तर्हि स्वप्रकाशशब्दनिर्वचनविरोधः, मुक्तेरपुमर्थत्वं, गीताद्युदाहृतव्यक्तोक्तिविरोधः इत्यादिदोषा वज्रलेपायिता इत्याह न चेदिति । तदुक्तं सुमध्वविजये

स्वानन्दविषये मोक्षे वेदोक्ते युक्तिसाधिते ।

 द्वेषोऽयं वादिनां कस्मात्तद्विरुद्धेऽथवाऽऽग्रह’ इति ।

हालाहलं भगवतो निर्विशेषत्वप्रतिपादनेन तस्य ज्ञाननन्दादिगुणवत्त्व-दूषणदुरुपक्रमः । क्लेशकारकं दुरन्तदुःखफलकम् । विस्तरोऽस्य न्यायामृते निर्विशेषसुखस्य पुरुषार्थत्वभङ्गे ।। २४८-२५० ।।

युक्तिमल्लिका

स्वगोचरत्वमेवातो वक्तव्या स्वप्रकाशता ।

आनर्थक्यं न चेन्मुक्तेस्स्वप्रकाशपदस्य च ।। २४९ ।।

सुरोत्तमटीका

 अतः मुक्तेः पुरुषार्थताया आवश्यकत्वात् । स्वगोचरत्वं स्वविषयकत्वम् । आनर्थक्यं अपुरुषार्थत्वं पदयोग्यार्थशून्यत्वं च

।। २४९ ।।

युक्तिमल्लिका

स्वस्य प्रकाशो यस्य स्यात्स्वप्रकाशं तदेव हि ।

गीतावाक्ये कर्मताया व्यक्तोक्तिश्च विरुध्यते ।

हार्दं हालाहलं तस्मात्स्वस्यैव क्लेशकारकम् ।। २५० ।।

सुरोत्तमटीका

 कोऽसौ पदलभ्यार्थ इत्यतस्तं स्मारयन् तदनङ्गीकारे प्रागुक्तगीताविरोधं च स्मारयति ।। स्वस्येति ।। तस्मान्मुक्तानन्दस्य स्वसाक्षिणा विषयीकरणावश्यम्भावात् । हार्दं हृदिस्थम् । हालाहलं हालाहलप्रायम् । स्वाविषयत्वं स्वस्यैव क्लेशस्य मुक्तेरमुक्तित्वं संपादनक्लेशस्य कारकमभूदित्यर्थः। यथा स्वोदरस्थविषेण स्वस्यैव हानिर्भवति तथेति भावः ।। २५० ।।