वादिराजाख्ययतिना साधिता युक्तिमल्लिका

समर्पणम्

युक्तिमल्लिका

वादिराजाख्ययतिना साधिता युक्तिमल्लिका

विश्वसौरभसर्वस्वमथ विष्णौ न्यवेदयत् ।। १२३७ ।।

।। इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमद्वादिराजतीर्थश्रीपादविरचितायां श्रीमद्युक्तिमल्लिकायां विश्वसौरभं सम्पूर्णम्।। ४ ।।

सुरोत्तमटीका

 सौरभं समापयंस्तत्र निरूपितमर्थं हरावर्पयति ।। वादिराजेति ।। अथ भेदसौरभनिवेदनान्तरम् ।। १२३७ ।।

।। इति श्रीमत्कविकुलतिलकश्रीमद्वादिराजतीर्थचरणारविंद चञ्चरीकसुरोत्तमभिक्षुविरचितायां युक्तिमल्लिकाटीकायां भावविलासिन्यां चतुर्थं विश्वसौरभसर्वस्वं सम्पूर्णम् ।। ४ ।।

सत्यप्रमोदटीका

समर्पणं शास्त्रोक्तप्रकारेण विदधाति वादिराजा-ख्येति । आख्या इति प्रयोगेण स्वस्य वादिराज इत्यभिधानं स्वगुरुणाऽख्या-तत्वेन न केवलं रूढ््या, किन्तु ‘वादी मध्वो राजा यस्ये’ति अन्यत्र स्वयमेव व्युत्पादितत्वस्यानुसारेण योगेन चेति स्वनाम्नो योगरूढत्वं प्रदर्शितम् । साधिता रचिता । यद्वा प्रसन्नीकृता युक्तिमल्लिकाग्रन्थाभिमानिनी सकलवचन-चेतोदेवता भारती । तेन समर्पणक्रियायां भारत्या एव कर्तृत्वं, तस्या एव समर्पणे योग्यता च ज्ञापिता । विश्वसौरभसर्वस्वं विश्वनामकविष्णोः सत्या-शेषजगज्जन्मपूर्वकर्तृत्वं सौरभं गुणपूर्णत्वादिमहिमस्थापकम् । विश्वसत्यत्व-स्थापनेनात्मना समासादितं सुकृतम् । अथ भेदसौरभसर्वस्वसमर्पणानन्तरं, इति, स्वरमणमुख्यप्राणे समर्पणानन्तरं तद्द्वारैव इति च अर्थः । अनन्तरं करिष्यमाणं फलसौरभमपि तत्पूजात्वेन सङ्कल्पयामासेति चार्थः । ‘एष्यत्तु निश्चितं’ इति न्यायेन लङ्प्रयोगः । ग्रन्थान्त्येऽपि मङ्गलस्यानुष्ठेयत्वेन अथशब्दो मङ्गलप्रयोजनकश्च इत्यशेषमतिमङ्गलम् ।। १२३७ ।।

यत्कृपालेशमाश्रित्य लब्धात्मेयं कृतिर्मम ।

समर्पयन्तु तां विष्णौ सत्याभिज्ञगुरुत्तमाः ।।

।।इति श्रीमत्सत्यप्रमोदतीर्थश्रीचरणविरचितायां युक्तिमल्लिकाटीकायां विवृत्यां चतुर्थं विश्वसौरभसर्वस्वं सम्पूणम्।।४ ।।