गृह्णीयात्तिन्त्रिणीशाखां शिग्रुशाखाग्रहेण किम्
वेदापौरुषेयत्वसमर्थनम्
युक्तिमल्लिका
गृह्णीयात्तिन्त्रिणीशाखां शिग्रुशाखाग्रहेण किम् ।
जगृहुस्तद्विदो वेदं वादिवाक्यान्यकोविदाः ।। ३३ ।।
सुरोत्तमटीका
अधुना शिष्यमनस्समाधानाय परमतनिराकरणात्मक-समयपादोक्तमपि समयनिराकरणं प्राक्प्रस्ताव्य पुनः समन्वयाध्यायप्रतिपाद्यं सर्वगुणपूर्णत्वं गुणसौरभसर्वस्वेन मनः प्रियं कुर्वन् तदनन्तरमविरोधाध्याय-प्रतिपाद्यं निर्दोषत्वं शुद्धिसौरभसर्वस्वेन रञ्जयन् पुनरेतदध्यायद्वयेऽपि सूत्रे सूत्रे प्रतिपादितं जीवेश्वरभेदं भेदसौरभसर्वस्वेन प्रतिपादयन् तदनु जन्माद्यस्य यत इति सूत्रप्रतिपादितजगज्जन्मादिकारणत्वलक्षणपरिरक्षणाय विश्वसौरभसर्वस्वेन जगतस्सत्यतां संस्थापयन् पुनस्साधनं फलाध्यायप्रतिपाद्यं साधनं फलं च फलसौरभसर्वस्वेन सङ्गृह्णन् प्रमाणाधीना प्रमेयसिद्धिरिति न्यायेन पञ्च-सौरभोक्तप्रमेयस्यापि प्रमाणसापेक्षत्वात् प्रमाणेषु च ‘‘प्राबल्यमागमस्यैव जात्या तेषु त्रिषु स्मृतमिति’’ वचनादलौकिकेऽर्थे प्रबलप्रमाणभूतवेदस्य नविलक्षणत्वादस्य तथात्वं च शब्दादिति सूत्रे नित्यतया प्रतिपादितं स्वतः-प्रामाण्यं समर्थयितुं वेदापौरुषेयतां तावदादौ साधयितुमुपक्रमते ।। गृह्णीया-दिति ।। सूत्रकृत्तु निश्चितवेदप्रामाण्यान्ब्रह्मादीन्स्वशिष्यान्प्रति नेदमादाव-साधयत् । परनिराकरणप्रस्तावे प्रास्तावयच्च । अयं तु ग्रन्थकृद्भाष्यदिशा मन्दोपकाराय प्रवृत्तस्तदेवादौ साधयतीति हृदयम् । तत्तस्माद्दृढादृढयोर्मध्ये दृढस्यैव ग्राह्यत्वात् । विदो ज्ञानिनः वेदं वेदमेव जगृहुरिति सम्बन्धः । वादिवाक्यानि तत्तदाचार्यवाक्यानि । अकोविदाः जैनादयः ।। ३३ ।।
सत्यप्रमोदटीका
एवमुपयुक्तमुक्त्वा इदानीं गुणसौरभसर्वस्वं समर्थयितु-मुपक्रमते । विष्णुस्तद्गुणाश्चातीन्द्रियाः । तत्सिद्धिश्च नित्यवाक्यमन्तरेण न सम्भवति । तदुक्तं भगवत्पादैः ‘न हि धर्मादिसिद्धिः स्यान्नित्यवाक्यं विना क्वचित्’ इति । ‘पुंवाक्यं ज्ञापकं न तत्’ इति च । धर्मादिकं अपौरुषेयशब्द-प्रमाणकं इन्द्रियलिङ्गपौरुषेयशब्दाप्रमाणकत्वे सति सप्रमाणकत्वात् इति तदभिप्रेतानुमाने विशेषणासिद्धिं बाधकोक्त्या तावत्परिहरतिगृह्णीयादित्यादिना अतः पुंवाक्यतो धर्मः कथं निर्णीयते इत्यन्तेन ।। अयमाशयः ।। स्वस्वाचार्येष्वाप्तत्वाभिमानेन तत्तद्वाक्यैः धर्मादिसिद्धिमभिलषन् प्रष्टव्यः तत्राप्तत्वं कुतो निश्चीयत इति । यतः विप्रतिपन्नः अनाप्तः पुरुषत्वात् सम्प्रतिपन्नवदिति तस्मिन्नपि अनाप्तत्वशङ्कयाऽश्वासासम्भवात् । निर्दोषत्वेन निश्चितप्रामाण्ये वेदे तु युज्यते आश्वासः इति । तदिदमाह गृह्णीयादिति । दृढत्वात्तिन्त्रिणीशाखायास्तदलम्बिनो यथा न भयं तथा सुस्थिरप्रामाण्यक-वेदानुसारिणस्तत्त्ववादिनः । अदृढशिग्रुशाखाऽवलम्बिन इव तु सदोषवादि-वाक्यानुसारिणोऽधःपातो नियत इति भावः ।। ३३ ।।
युक्तिमल्लिका
एकस्य वादिनो वाक्याद्धर्माधर्मव्यवस्थितौ ।
तद्व्यत्यासः कुतो न स्याद्वाक्यैस्तत्प्रतिवादिनाम् ।
बहुत्वेन बलीयांसि वचनानीति मे मतिः ।। ३४ ।।
सुरोत्तमटीका
ननु वेदं विहाय धर्मसिद्ध्यर्थं तत्तदाचार्यवाक्यग्रहणे को दोष इत्यत आह ।। एकस्येति ।। तद्व्यत्यासः तेनैकेनोक्तधर्माधर्मव्यत्यासः वैपरीत्यम् । तत्प्रतिवादिनां तदाचार्य प्रतिवादिभूतानामितरेषामाचार्याणाम् । तर्हि किं साम्यं नेत्याह ।। बहुत्वेनेति ।। तत्प्रतिवादिनामित्यस्यावृत्तिः । बहुत्वेन बहुसङ्ख्याकत्वेन वा । अयं धर्म इति वचनस्य एकाचार्यवचनत्वा-त्तदपेक्षया स धर्मो न भवतीति वक्तॄणां बहुत्वेन तद्वचनानां प्रबलत्वात् एकाचार्योक्तधर्मवैपरीत्यनिर्णय एव सुशक इति भावः ।। ३४ ।।
सत्यप्रमोदटीका
‘न चाप्तिनिश्चयस्तत्र शक्यते व्यभिचारतः’ इति अनुव्याख्यानं विवृण्वान आह एकस्येति ।। पुंवाक्यानि तावदन्योन्यं विरुद्धानि । न हि तेषां सर्वेषां प्रामाण्यं सम्भवति । वस्तुनो विरुद्ध-बहुरूपत्वापातात् । नापि यस्य कस्य चिदेकस्य । तद्विरुद्धैर्बहुभिरत एव प्रबलैः प्रतिवादिवाक्यैर्बाधापत्तेः । तथा च नैकस्यापि प्रामाण्यमिति न तेन धर्माधर्मव्यवस्थितिरिति ।। ३४ ।।
युक्तिमल्लिका
शुष्कतर्कशतोदर्कास्तैस्तैराप्ततयादृतान् ।
अनेकदर्शनाचार्यान् कथमेको निवारयेत् ।। ३५ ।।
सुरोत्तमटीका
तदेव विशदयति । तैस्तैः तत्तदाचार्यशिष्यैः । एकः आचार्यः ।। ३५ ।।
सत्यप्रमोदटीका
ननु जिनदर्शनं तर्कसचिवं अनुयायिभिरादृतं च । अत उपपन्नस्तेन धर्माधर्मव्यवस्थितिरित्यत आह शुष्केति ।। जिनोदाहृतास्तर्काः किं मूलप्रमाणाध्यवसितव्याप्तिपक्षधर्मतोपेता उतातथाभूताः । नाद्यः असिद्धेः । न द्वितीयः । शुष्कतर्कसाचिव्यस्य सर्वदर्शनसाधारण्यात् । अन्धपरम्परया तैस्तैरनुयायिभिरादृतत्वं तु अप्रयोजकम् । तदिदमाह शुष्कतर्केति तैस्तैरिति च ।। ३५ ।।
युक्तिमल्लिका
असर्वज्ञवचांस्येवं विरुद्धानि परस्परम् ।
न धर्मनिर्णयायालं तत्वज्ञानस्य शङ्कया ।
तेष्वेकस्य न सार्वज्ञमन्यस्येव प्रसिद्ध्यति ।। ३६ ।।
सुरोत्तमटीका
एवं एकवादिनोक्तस्वाभिमतधर्मनिर्णायकवाक्यवत् । स्वस्वागमोक्तधर्मनिर्णायकासर्वज्ञतत्तदाचार्यवचांसि तत्वज्ञानस्य तत्वमवबुध्य वदन्ति अनवबुध्य वा वदन्तीति शङ्कया निर्णयाय नालमिति योजना । एकेनोक्तधर्मप्रतिषेधमात्रे बहूनां संमतावपि स्वस्वागमोक्तधर्मविषये सम्मत्य-भावादिति भावः । ननु जिनस्सर्वज्ञः तद्वचसाऽस्माकं निर्णयो भवतीत्यत आह ।। तेष्विति ।। तेष्वाचार्येष्वेकस्य जिनादेरन्यस्येव तद्विपरीतभिन्न-तार्किकाचार्यादेरिव ।। ३६ ।।
सत्यप्रमोदटीका
ननु धर्मोपदेष्टा जिनः सर्वज्ञोऽङ्गीक्रियते । अतो युज्यते तद्वचनेन निर्णय इति चेत् । किं धर्मोपदेष्टारो ये ते सर्वेऽपि सर्वज्ञा इत्यङ्गीकार उत जिन एक एवेति । नाद्यः परस्परं विरुद्धार्थोपदेष्टॄणां सर्वेषां सार्वज्ञासम्भवादित्याह असर्वज्ञेति ।। नापि जिनस्यैकस्य अदृष्टकल्पना-प्रसङ्गादित्याह तेष्वेकस्येति ।। तदुक्तं तत्त्वनिर्णये ‘न च तदर्थत्वेन सर्वज्ञः कल्प्यते’ इति ‘अन्यत्रादृष्टस्य सर्वज्ञत्वस्य कल्पनम्’ इति च ।। ३६ ।।
युक्तिमल्लिका
क्षित्यादिकर्ता सर्वज्ञो न सर्वस्यापि सम्मतः ।
यस्यासौ सम्मतस्तं च बुद्धो युद्धे जिगीषति ।। ३७ ।।
सुरोत्तमटीका
ननु क्षित्यादिकं सकर्तृकं कार्यत्वादित्यनेन क्षित्यादि-कर्तृसिद्धावुपादानगोचरापरोक्षज्ञानवत एव कर्तृत्वेन तस्य सार्वज्ञमपि सिद्ध्यति । तथाच सर्वज्ञेश्वरवचसा धर्मादिनिर्णयो भवतीत्यत आह ।। क्षित्यादीति ।। सर्वस्यापि जैनादेः । यस्य तार्किकस्य । असौ सर्वज्ञेश्वरः । तमीश्वरम् । बुद्धस्यापीश्वरावतारत्वेन सर्वज्ञत्वात्तेन च तदुक्तविपरीतधर्मस्यैवोक्तत्वात् यज्ञादेरीश्वरोक्तमार्गेण न धर्मत्वनिर्णयो भवतीति भावः ।। ३७ ।।
सत्यप्रमोदटीका
वेदेन विना कार्यत्वादिहेतुना सर्वज्ञसिद्धिरेव दुर्घटा उपाधिप्रतिरोधपराहतेः । किमुत तद्वाक्येन व्यवस्थितिरित्याह क्षित्यादि-कर्तेति ।। अस्तु वा सर्वज्ञत्वम् । न तावदेव आप्तिः । किं नाम अविप्र-लम्भादिकमपि । न च सर्वज्ञत्वेनैव अविप्रलम्भानुमानम् । बुद्धे व्यभिचारा-दित्याह बुद्ध इति । जिगीषति व्यभिचारनिरूपको भूत्वाऽनुमानमाभासी-करोतीत्यर्थः ।। ३७ ।।
युक्तिमल्लिका
दैत्यान्सविप्रलिप्सुश्चेद्देवांश्चानुजिघृक्षति ।
अधर्ममपि तत्तृप्त्यै धर्मं वक्तीति संशयात् ।। ३८ ।।
सुरोत्तमटीका
ननु दैत्यमोहनार्थं बुद्धस्यावतीर्णत्वेन न तद्वचसि विश्वास इत्यत आह ।। दैत्यानिति ।। अनुजिघृक्षति अनुग्रहं कर्तुमिच्छति । ईश्वर इति शेषः । तत्तृप्त्यै तेषां देवानां तृप्त्यै ।। ३८ ।।
सत्यप्रमोदटीका
ननु सर्वज्ञस्य बुद्धस्य कथं विप्रलम्भकत्वं तद्धेतुराग-द्वेषयोरसम्भवात् अतो न तत्र व्यभिचार इत्यतः ज्ञानाङ्कुरसंरक्षणाय योग्येषु देवेषु रागः तद्विपरीतेषु दैत्येषु च द्वेषः उपपन्नावेवेति सुस्थो व्यभिचार इत्याह दैत्यानिति ।। ३८ ।।
युक्तिमल्लिका
कथं तदुक्तिमात्राच्च क्रत्वादेस्स्यात्प्रवर्तनम् ।
अतः पुंवाक्यतो धर्मः कथं निर्णीयते वद ।। ३९ ।।
सुरोत्तमटीका
तदुक्तिमात्रात् तस्येश्वरस्योक्तिमात्रात् । क्रत्वादेर्यज्ञादेः । उक्तमर्थमुपसंहरति ।। अत इति ।। पुंवाक्यतः ईश्वरादिपुरुषवाक्यतः ।।३९।।
सत्यप्रमोदटीका
‘न च पौरुषेयेण वाक्येन तत्सिद्धिरि’ति तत्व-निर्णयोक्तिसमर्थनमुपसंहरति कथमिति ।। ३९ ।।
युक्तिमल्लिका
यस्तु युक्त्यैव धर्मस्य निर्णयं वर्णयेद्बुधः ।
लाघवात्स सकृच्छुद्ध्यै पिबेदाचमनोदकम् ।। ४० ।।
पुनरुक्तत्वयुक्त्या च मन्त्रावृत्तिं परित्यजेत् ।
परोपकारयुक्त्या च गच्छेत्कामातुराङ्गनाम् ।। ४१ ।।
सुरोत्तमटीका
ननु मास्तु वचनं युक्त्यैव धर्मनिर्णयो भवतीत्यत आह ।। यस्त्विति ।। शुद्ध्यै सकृदाचमनोदकं पिबेदित्यन्वयः ।।
मन्त्रावृत्तिं मन्त्रस्य पौनःपुन्येन कथनरूपजपमित्यर्थः ।। ४०, ४१ ।।
सत्यप्रमोदटीका
एवं इन्द्रियलिङ्गपौरुषेयशब्दाप्रमाणकत्वे सतीति पूर्वोक्तहेतौ पौरुषेयशब्दाप्रमाणकत्वे सति इत्येतावदंशस्यासिद्धिं परिहृत्य इन्द्रियाप्रमाणकत्वं अतीन्द्रियस्य धर्मादेः स्फुटमेवेत्युपेक्ष्य लिङ्गाप्रमाणकत्वं विपक्षेऽनेकातिप्रसङ्गप्रदर्शनेन समर्थयति यस्तु युक्त्यैवेति ।। ४०,४१ ।।
युक्तिमल्लिका
देहबन्धाद्बहिर्जीवान्कुर्यात्कारागृहादिव ।
अनादिनित्या वाग्वाच्या धर्मसिद्ध्यै ततोऽखिलैः ।। ४२ ।।
सुरोत्तमटीका
देहबन्धाद्देहाख्यबन्धनात् । जीवान्बहिः कुर्यात् शिरश्छित्वा देहाद्बहिर्निस्सारयेदित्यर्थः । कारागृहादिवेति तत्र दृष्टान्तः । तथा च देहबन्धध्वंसरूपहिंसापि पुण्यसाधनं स्यादिति भावः ।। परिशेष-सिद्धमर्थमाह ।। अनादीति ।। ततः पुरुषवचनयुक्तिप्रत्यक्षाणामतीन्द्रिय-धर्मानिश्चायकत्वात् ।। ४२ ।।
सत्यप्रमोदटीका
एवं च इन्द्रियलिङ्गपौरुषेयशब्दाप्रमाणकत्वे सति सप्रमाणकत्वहेतुना धर्मादिकस्यापौरुषेयशब्दप्रमाणकत्वसिद्धिस्तर्कताण्डवोक्ता निष्प्रत्यूहेत्युपसंहरति अनादिनित्येति ।। ४२ ।।
युक्तिमल्लिका
अस्मदादिकृतं कार्यं व्यर्थं सार्थमनर्थकृत् ।
दृश्यते गेहकुड््यादि केनापि न कृता तु या ।। ४३ ।।
अनादितः पूर्वपूर्वसम्प्रदायबलागता ।
सा तु नार्थं व्यभिचरेत्कर्तृदोषविवर्जिता ।
किं क्वचिन्नावकाशोस्ति नित्याकाशे शरीरिणाम् ।। ४४ ।।
सुरोत्तमटीका
अनादिनित्यवाचा धर्मसिद्धिः सुशकेत्याह ।। अस्मदादिकृतमित्यादिना ।। किंचिद्व्यर्थं किंचिदनर्थकृच्च दृश्यत इति सम्बन्धः । महता प्रयत्नेन कृतगेहादे राजादिभिर्निष्कासिते सति व्यर्थं तदभावे सुखेनावस्थानात्सार्थं तुलाभित्तिपातादिना क्वचित्स्वस्यैव नाशाच्चानर्थकृदिति भावः ।।
सा वाक् । कर्तृदोषपदमज्ञानविपरीतज्ञानादिकर्तृदोषनिमित्ताबोधकत्व-विपरीतबोधकत्वरूपवाक्यदोषोपलक्षणम् । कर्तुर्निमित्तात्प्राप्तदोषः कर्तृदोष इति वा अस्मिन्नर्थेऽर्थान्तरन्यासः किमिति । अवकाशदानं ह्याकाश-साध्योऽर्थः । तद्व्यभिचारस्तु नित्याकाशे यथा नास्ति तथा नित्यवचस्यप्यर्थ-व्यभिचारो नास्तीति भावः ।। ४३, ४४ ।।
सत्यप्रमोदटीका
कार्ये दोषाः कर्तृदोषनिबन्धना इति सामान्यन्यायं व्युत्पादयति अस्मदादीति ।। तस्य प्रकृतोपयोगमाह केनापीति । वेदः न अर्थव्यभिचारी अकार्यत्वाद्गगनवदिति अभिप्रेतानुमाने असिद्धिं परिहरति अनादित इति । दृष्टान्तो न साध्यविकल इत्याह किं क्वचिदिति
।। ४३, ४४ ।।
युक्तिमल्लिका
सा च श्रुतिर्भवेदेषा श्रौतवादिप्रवादतः ।
श्रुतिनाम्ना च सर्वैश्च श्रुता या सैव हि श्रुतिः ।। ४५ ।।
सुरोत्तमटीका
ननु सा नित्यवाग्जिनादिवागन्यतमा किं न स्यादित्यत आह ।। सा चेति ।। श्रौतवादिप्रवादतः श्रौतवादिनो वैदिकाः । तेषां प्रवादः वेदोऽनादिरिति पारंपर्येणागता कथा । जिनादिवाचां जिनादिकृतवाक्यत्वेनैव लोकप्रसिद्धेरिति भावः ।। ४५ ।।
सत्यप्रमोदटीका
‘अपौरुषेयत्वं च स्वत एव सिद्धं वेदकर्तुरप्रसिद्धेः’ इति तत्त्वनिर्णयोक्तमाह सा चेति ।। ‘श्रुता एवाखिलैः श्रुतेः’ इति तदुदाहृतप्रमाणानुरोधेनाह श्रुतिनाम्नेति ।। ४५ ।।
युक्तिमल्लिका
न षड्भिर्दर्शनाचार्यैः कृतो वेदो विचारणे ।
द्वयोरसंमतत्वेन चतुर्णामपि संमतेः ।। ४६ ।।
सुरोत्तमटीका
कर्तुरप्रसिद्धेरपि वेदो नित्य इति वक्तुं सम्भावित-कर्तृनिषेधं करोति ।। नषड्भिरिति ।। षड्भिर्लोकायतादिभिः तत्र हेतुमाह ।। द्वयोरिति ।। द्वयोर्बौद्धलोकायतयोरसंमतेर्वेदस्य प्रमाणत्वेनासंमतेरित्यर्थः । न हि वेदोऽप्रमाणमित्यङ्गीकुर्वाते तत्कर्तारौ चेति युज्यते । चतुर्णां तार्किक-मीमांसकसाङ्ख्यवेदान्तिनाम् । नहि तन्मध्ये एकैकाचार्यकृतत्वे तद्विरोधिनाम-न्येषामाचार्याणां तत्प्रामाण्ये संमतिर्भवति । तत्तत्कृतभाष्यादौ तददर्शनात् । अस्ति चतुर्णामाचार्याणां वेदप्रामाण्ये संमतिः । तस्मान्नैकेकाचार्यकृतो वेद इति भावः । यातु जैनबौद्धकणादानां रीत्या कालासुराष्टकचतुर्मुखकृतत्वोक्तिः सापि तेषामेवान्योन्यं विप्रतिपत्त्या नैककर्तृकत्वस्यापि साधिका यावद्विशेषबाधे सामान्यस्यापि बाधान्न कृतत्वसामान्यसाधिका च । विस्तृतमेतत्कल्पलतायाम्
।। ४६ ।।
सत्यप्रमोदटीका
वेदोऽपौरुषेयः अप्रमितकर्तृकत्वात् गगनवत् इति तत्त्वनिर्णयोक्तां युक्तिं समर्थयितुं असिद्धिं परिहरति । तत्र शङ्क्यमानः कर्ता षट्सु दर्शनाचार्येष्वन्यतमो वा, तार्किकाभिमतेश्वरो वा इति विकल्प्य नाद्य इत्याह न षड्भिरिति ।। ४६ ।।
युक्तिमल्लिका
नापीश्वरकृतो वेदो भाट्टाद्यैस्त्रिभिरुच्यते ।
येनैकेनोच्यते तेन मुच्यते युक्तिमार्गतः ।
अशरीरस्तदीशस्तां नैव वक्ति कदाचन ।। ४७ ।।
सुरोत्तमटीका
नन्वीश्वरकृतो वेद इत्यत आह ।। नापीति ।। भाट्टाद्यैरप्यपौरुषेयत्वाङ्गीकारात् । येनैकेन नैयायिकेनोच्यते वेद ईश्वरकृत इति । युक्तिमार्गतः कथं मुच्यत इत्यत आह ।। अशरीर इति ।। अशरीरः अशरीरत्वेनाङ्गीकृतः । तदीशस्तार्किकाणामीश्वरः । तां वेदवाचम् ।। ४७ ।।
सत्यप्रमोदटीका
द्वितीयं निराह नापीति ।। तत्र हेतुमाह अशरीर इति ।। ईश्वरः न वेदकर्ता अशरीरत्वात् इत्यनुमाने असिद्धिं परिहरति तदीश इति । तार्किकाभिमत ईश इत्यर्थः । तेन तस्य शरीराङ्गीकारेऽपसिद्धान्तं सूचयति ।। ४७ ।।
युक्तिमल्लिका
तत्कर्तृता कथं तस्य नह्यणोश्चोदनादिना ।
नभोगुणस्यास्य जन्म किं तूच्चारणतस्तव ।। ४८ ।।
उत्पत्तये व्यक्तये वा शब्दानां सर्ववादिभिः ।
वाच्यैव किल ताल्वोष्ठपुटव्यापारमूलता ।। ४९ ।।
सुरोत्तमटीका
तत्कर्तृता वेदकर्तृता । नन्वीश्वरस्याशरीरत्वेऽपि परमाणुनोदनादिना द्व्यणुकाद्युत्पत्तिवदीश्वराद्वेदस्य जन्म भवतीत्यत आह ।। नहीति ।। अस्य वर्णात्मकस्य वेदस्य । नभोगुणस्येति हेतुगर्भविशेषणम् । वेदस्य वर्णात्मकशब्दत्वेन तन्मते नभोगुणत्वात् । न हि नित्यद्रव्यस्य गुणे परमाणुनोदनादेः प्राप्तिस्तन्मते । किं तु द्व्यणुकादिकार्योत्पत्तावेव तस्योप-योगः । नतु गुणोत्पत्तौ । कारणगुणादेव कार्ये गुणोत्पत्त्यङ्गीकारात् । नित्यद्रव्यगुणे तु नेयमपि प्रक्रिया सम्भवति । तर्हि तन्मते वेदस्य कथं जन्मेत्याशङ्कते ।। किं त्विति ।। उत्तरमाह ।। उच्चारणत इति ।।
उक्तमेवार्थं विशदयति ।। उत्पत्तय इति ।। ४८, ४९ ।।
सत्यप्रमोदटीका
साध्ये कर्तृत्वं उत्पादकत्वं व्यञ्जकत्वं वा भवतु । पक्षद्वयेऽपि न प्रयोजको हेतुः अकारणकार्योत्पत्तिरूपविपक्षेबाधकसद्भावादिति ज्ञापयितुं वाक्यकर्तृत्वं प्रति सशरीरत्वस्य कारणतामाह उत्पत्तये व्यक्तये वेति ।। तथा च यदि वेदकर्तृत्वं स्यात् तर्हि सशरीरत्वं स्यादिति हेतूच्छित्तिरुक्ता भवति ।। ४८, ४९ ।।
युक्तिमल्लिका
सृष्ट्यादौ निगमस्रष्टुर्न हि देहोऽस्ति भौतिकः ।
किं चेशमूलतामादौ श्रुतीनां न ददर्श सः ।। ५० ।।
सुरोत्तमटीका
नन्वीश्वरस्यापि अवतारे लीलाविग्रहस्वीकाराच्छरीर-मस्तीत्यत आह ।। सृष्ट्यादाविति ।। भौतिक इति हेतुगर्भविशेषणम् । भूतानां पृथिव्यादीनां पश्चादुत्पन्नत्वेन सृष्टेः पूर्वं भौतिकदेहाभावात् । तस्माद्यज्ञा-त्सर्वहुत ऋचस्सामानि जज्ञिर इति भूतेभ्योऽप्यादौ वेदसृष्टेरुक्तत्वादवतारे कथंचिद्देहाङ्गीकारेऽपि मूलरूपे तदनङ्गीकाराच्चेति भावः । किञ्च वेदस्येश-कृतत्वं तवप्रत्यक्षेण सिद्धं उतानुमानेन आगमेन वेत्याशङ्क्यत्रितयमपि क्रमेण निराकरोति ।। किं चेति ।। स इत्यनेनाधुनिकत्वं द्योतयति ।। ५० ।।
सत्यप्रमोदटीका
वेदस्रष्टृत्वमपि मूलरूपेश्वरेणैवेति तार्किकमतम् । तथा च लीलाविग्रहसद्भावादशरीरत्वमसिद्धमिति शङ्का गर्भस्रावेणैव निरस्तेत्याह सृष्ट्यादाविति ।। ५० ।।
युक्तिमल्लिका
सन्दिग्धा कार्यताऽनादौ ततोऽपीशकृता न सा ।
गुणत्वमिव वाक्यत्वं नानित्यत्वप्रयोजकम् ।। ५१ ।।
सुरोत्तमटीका
अनादौ श्रुतिस्मृतिभ्यां वादिभिश्च अनादित्वेन वर्णिते । कार्यत्वं नाम अभूत्वाभावित्वम् । वेदस्य सृष्टेः पूर्वमभवनं आदिकाले भवनं च आधुनिकेन भवता द्रष्टुमशक्यमिति हेतोर्वादिविप्रतिपत्तेश्च कार्यत्वं सन्दिग्ध-मिति भावः । नापि वाक्यत्वमनित्यत्वसाधकमित्याह ।। गुणत्वमिति ।। अनित्यत्वमत्रोत्पत्तिविनाशवत्त्वं विवक्षितम् । यथागुणत्वं नानित्यत्वप्रयोजकं एवं वाक्यत्वमपि वेदानित्यत्वप्रयोजकं न भवतीति भावः ।। ५१ ।।
सत्यप्रमोदटीका
विमतं सकर्तृकं कार्यत्वादिति हेतुना सत्प्रतिपक्षं अप्रमितकर्तृकत्वानुमानं इति चेन्न । कार्यत्वसिद्धिः किं प्रत्यक्षतः उत वाक्यत्वानुमानात् अथ ऋचः सामानि जज्ञिरे इति श्रुत्या । नाद्यः सन्दिग्धा-सिद्धेरित्याह सन्दिग्धेति । आकाशगुणत्वाविशेषान्महत्त्वमिव वाक्यत्वं कार्यत्वे न प्रयोजकमिति द्वितीयं निराह गुणत्वमिवेति ।। ५१ ।।
युक्तिमल्लिका
सुष्टुतिं नित्यया वाचा चोदस्वेत्यृग्यतोऽब्रवीत् ।
प्रादुर्भावजनेस्तस्मादृचस्सामानि जज्ञिरे ।। ५२ ।।
सुरोत्तमटीका
नाप्यागमेनानित्यत्वसिद्धिरित्याह ।। सुष्टुतिमिति ।। तस्मै नूनमभिद्यवे वाचा विरूपनित्यया । वृष्णे चोदस्व सुष्टुतिमित्यृचमर्थतो गृह्णाति । हे विरूप विरूपाख्यऋषे अभिद्यवे अभितो द्योतनशीलाय वृष्णे भक्ताभीष्टवर्षित्रे तस्मै परमेश्वराय नित्यया नित्यभूतया वाचा वेदवाचा सुष्टुतिं शोभनां स्तुतिं चोदस्व प्रेरय कुर्विति । मन्त्रे यस्माद्वेदस्य नित्यत्वमुक्तं तस्मा-त्प्रादुर्भावजनेरेव ऋचस्सामानि जज्ञिर इत्युक्तिः नतूत्पत्तिविवक्षयेत्यर्थः ।।५२।।
सत्यप्रमोदटीका
न तृतीयः श्रुतेरन्यार्थपरत्वादित्याह सुष्टुतिमिति
।। ५२ ।।
युक्तिमल्लिका
ऋक्सामादेरभावे प्राग्यज्ञस्सोऽज्ञ कुतोऽभवत् ।
देवास्तेनायजन्तेति पूर्वां श्रुतिमनुस्मर ।। ५३ ।।
सुरोत्तमटीका
किं च ऋचस्सामानि जज्ञिर इति ऋगाद्युत्पत्तिः पश्चादुक्ता । तेन देवा अयजन्तेति देवानां यज्ञकरणं ततः प्रागुक्तम् । तथा च वेदस्य पश्चादुत्पत्तौ पूर्वं मन्त्राभावाद्यज्ञकरणं न स्यादित्याह ।। ऋक्सामादे-रिति ।। पूर्वं ऋचः सामानि जज्ञिर इति वाक्यात्पूर्वम् । तथा च मन्त्राभावे यज्ञासम्भवात् तदङ्गमन्त्रा अपि पूर्वं सन्तीति हेतो ऋचस्सामानि जज्ञिर इति वाक्यस्य वेदाविर्भाव एव त्वयाप्यर्थो वक्तव्य इति भावः ।। ५३ ।।
सत्यप्रमोदटीका
तदेव बाधकोक्त्योपपादयति ऋक्सामादेरिति ।। यज्ञानुष्ठानं प्रति वेदाः कारणम् । अत्र च वेदानां जनेः प्रागेव देवानां यज्ञानुष्ठानं वर्णितम् । यदि जनिरुत्पत्त्यर्थका स्यात् तर्हि कारणस्य कार्या-दनन्तरमुत्पत्तिरुक्ता भवेत् । न च तत्सम्भवति । अतः प्रादुर्भावार्थकत्व-मेवेति । किं च नित्यया वाचेति स्वयं वेदस्य नित्यत्वं वर्णयन्ती श्रुतिः जनेरुत्पत्त्यर्थकत्वं निरुणद्धीति भावः ।। ५३ ।।
युक्तिमल्लिका
आदिसर्गेऽप्युपाध्यायः पुत्रेऽध्येतरि केशवः ।
न कर्तोक्तप्रकारेण यज्ञभोक्तृत्वविघ्नवित् ।। ५४ ।।
सुरोत्तमटीका
तस्मादादिसर्गेऽपि पुत्रे ब्रह्मणि अध्येतरि सति केशव उपाध्याय एव नकर्तेत्यत्रैव हेत्वन्तरसूचनं उक्तप्रकारेण यज्ञभोक्तृत्व-विघ्नविदिति ।। वेदोत्पत्तेः प्राग्यज्ञस्योक्तत्वात्तत्समये वेदाभावे देवयज्ञभोक्तृत्वं मम न स्यादित्यत्रैवोक्तरीत्या देवा ननु जिघृक्षतीत्यादि न्यायेन सकल-यज्ञभोक्तृत्वं च न स्यादिति प्रागुक्तरीत्या च विघ्नविदित्यर्थः ।। ५४ ।।
सत्यप्रमोदटीका
कथं तर्हि ‘यो ब्रह्माणं विदधाति पूर्वं यो वेदांश्च प्रहिणोति तस्मै’ इति वचनमित्यतः उपाध्यायवत्पूर्वसिद्धवेदस्योपदेष्टृत्व-मात्रेणेत्याह आदिसर्गेऽपीति ।। तदुक्तं तर्कताण्डवे ‘ईश्वरोऽपि ह्यस्मन्मते महोपाध्याय एवे’ति । सकर्तृकत्वे बाधकान्तरं वक्ति न कर्तेति । न केवलं देवानां प्रागुक्तप्राथमिकयज्ञमात्रानुपपत्तिः किं नाम पौरुषेयेष्विवानाश्वासशङ्कया यज्ञमात्राननुष्ठाने यज्ञभुगिति विष्णुसहस्रनामोक्तयज्ञभोक्तृत्वमहिम्नो भङ्गप्रसङ्ग इत्याह यज्ञेति । तदुक्तं तर्कताण्डवे ‘एतदप्युक्तं गौरवदोषेणेति । बुद्धा-द्यागमतुल्यत्वेन विपरीतलक्षणया लाघवदोषेणेत्यर्थः’ सति ।। ५४ ।।
युक्तिमल्लिका
निद्राविद्रावणे यस्य छन्दांसि किल बन्दिनः ।
तं वेदं स कथं कुर्याद्दुर्गास्यात्प्राग्विनिर्गतम् ।। ५५ ।।
सुरोत्तमटीका
युक्त्यन्तरेणाप्यादिकाले वेदस्य सत्त्वं साधयति ।। निद्रेति ।। प्रलये खलु परमात्मनो योगनिद्रा तदुद्बोधनार्थं दुर्गा वेदैरस्तौषी-दिति पौराणिकी प्रसिद्धिः तदन्ते बोधयांचक्रुस्सम्राजमिव बन्दिन इत्यादौ । जडानां वेदानां बन्दित्वकथनं तदभिमानिदेवताभिप्रायेणेति ज्ञातव्यम् । अत एवाह ।। दुर्गा स्यादिति ।। प्राक्सृष्टिकर्तुर्नारायणस्य प्रबोधात्प्राक् ।। ५५ ।।
सत्यप्रमोदटीका
सृष्टेः प्रागेव विद्यमानत्वस्य प्रमितत्वान्न सृष्टिकर्मत्व-मित्याह निद्रेति ।। ५५ ।।
युक्तिमल्लिका
यस्यास्ति पुस्तकं हस्ते हयास्यस्य विधेर्गुरोः ।
स च वक्ताऽनादिनित्यसिद्धबुद्धिक्रमाक्रमम् ।
वर्णानां क्रमशून्यानामपि पश्येद्धि सर्वदा ।। ५६ ।।
सुरोत्तमटीका
इदानीं हयग्रीवेण स्वहस्ते पुस्तकधारणात्पुस्तकस्थैव विद्या मयोपदिश्यते न तु नूतनतया कृत्वेति हयास्यभावविरोधादपि वेदोत्पत्तिकथनमयुक्तमित्याह ।। यस्येति (पश्येति) ।। विधेर्गुरोरित्यनेन पुत्रेऽध्येतरीति सामान्येनोक्तं स्पष्टीकृतमिति ज्ञातव्यम् । देवस्यैष स्वभावोऽयमिति श्रुतेस्स्वबुद्धिस्वभावादेव वेदस्थवर्णपौर्वापर्यं घटयेन्न तु स्वसर्वज्ञत्वशक्त्या स्वातन्त्र्येण दृष्टमपि तं तमर्थमनेन वाक्येन वदामीत्याशया । अतो न रागादिदोषमूलत्वशङ्का । अर्थयाथार्थ्यं त्वपवादकदोषाभावे प्रामाण्यस्य स्वतस्त्वादेवेति ज्ञेयम् । ननु नित्यानां सर्वगतानां वर्णानां कथं पौर्वापर्यरूपः क्रम इत्यत आह ।। सचेति ।। वक्ता वेदानामिति शेषः । नित्यानामपीश्वर-बुद्धीनां तच्छक्तिविशेषात्क्रमोऽस्त्येव अतो बुद्धिक्रमादित्युक्तम् । क्रमशून्यानां स्वतः क्रमशून्यानाम् । पश्येत्क्रममिति सम्बन्धः ।। ५६ ।।
सत्यप्रमोदटीका
हस्ते पुस्तकधारित्वं हयग्रीवस्य पूर्वसिद्धसजातीयवर्ण-क्रमानुरोधेनैवोच्चारयितृत्वरूपे उपाध्यायत्वे लिङ्गमित्याह यस्यास्तीति । अत्र नित्येश्वरबुद्धौ क्रमस्तदचिन्त्यशक्त्या वर्णेषु बुद्ध्युपाधिकः । नित्यसर्वगतेषु कालिकदैशिकक्रमयोरयोगात् । तदिदमाह स च वक्तेत्यादिना ।। ५६ ।।
युक्तिमल्लिका
नित्येशबुद्ध्युपाधेस्तद्वर्णेष्वौपाधिकः क्रमः ।
मठाकाशघटाकाशक्रमवत्स्यादनादितः ।। ५७ ।।
सुरोत्तमटीका
नित्यानामप्यौपाधिकत्वे क्रमवत्त्वे च दृष्टान्तः मठाकाशघटाकाशक्रमवदिति ।। यथा नित्यस्यैवाकाशप्रदेशस्य मठावच्छिन्न-त्वेन मठाकाशत्वं मठान्तर्गतघटावच्छिन्नत्वेन मठाकाशादपि सूक्ष्मतर-घटाकाशत्वं पूर्वं घटाकाशावच्छेदकघटस्याभावान्मठाकाशादपि घटाकाशस्य पश्चाद्भाविताच तद्वदनादिष्वपि वर्णेषु अनादित्वं पौर्वापर्यलक्षणः क्रमश्च स्यादिति पिण्डितार्थः । घटमठादीनां तत्संयोगस्य चोत्पन्नत्वेऽपि तद-वच्छिन्नाकाशस्य देहावच्छिन्नात्मवदनुत्पत्तेरपरिहारादुपाधेरेव नित्यत्वे क्रमिकत्वे च किमु वक्तव्यमौपाधिकस्य नित्यत्वादिकमिति भावः ।। ५७ ।।
सत्यप्रमोदटीका
नित्यानामपि औपाधिकं क्रमं दृष्टान्तोक्त्या घटयति घटाकाशेति । मठाकाशः पूर्वः घटाकाशोऽपर इति तयोः पौर्वापर्यम् । तथा च आकाशस्य नित्यत्वेऽपि उपाध्यवच्छिन्नयोः तत्प्रदेशयोर्यथा क्रमः तथा नित्यानामपि वर्णानां औपाधिकः क्रमो घटते इति भावः ।। ५७ ।।
युक्तिमल्लिका
उपाधिनित्यतायां तु नित्यताप्यस्य शोभते ।
अनाद्यज्ञानतोऽनादि यथा संसारबन्धनम् ।
यथा वा प्रतिबिम्बात्मा जीवोनादिः श्रुतौ श्रुतः ।। ५८ ।।
सुरोत्तमटीका
नित्येशबुध्द्युपाधिकवर्णक्रमस्य नित्यत्वमेव युक्त-मित्याह ।। उपाधीति ।। तत्र दृष्टान्तः अनादीति ।। यथावेति दृष्टान्तान्तरम् । बिम्बस्येश्वरस्यानादिनित्यत्वात्तत्प्रतिबिम्बरूपो जीवो यथा अनादिः तद्वत्क्रमोऽपि स्वोपाधेरीश्वरबुद्धेर्नित्यत्वान्नित्य इति भावः ।। ५८ ।।
सत्यप्रमोदटीका
उपाधिनित्यतायां त्विति । तुशब्दः अनित्यतापक्षं व्यावर्तयति । नित्यता कूटस्थनित्यता । तथा च नित्येशबुद्ध्युपाधिकः क्रमः कूटस्थनित्यः । अनित्यजीवबुद्ध्युपाधिकस्तु न तथेत्याशयः ।। निमित्तस्या-नादित्वे नैमित्तकस्यापि तथात्वमित्यत्र दृष्टान्तावाह अनादीति ।। नात्र विवदितव्यं प्रमितत्वादित्याह श्रुताविति ।। ‘अनादिमायया सुप्तः’ ‘नित्यो नित्यानां’ इत्यादिकायाम् । श्रुत इति लिङ्गव्यत्ययेन बन्धनमित्यनेनाप्यन्वेति ।।
युक्तिमल्लिका
पूर्वं बुद्ध्या ग्रहणतः पूर्वत्वं वर्णगं हि तत् ।
पश्चाद्बुद्ध्या ग्रहणतः परत्वं तच्च वर्णगम् ।। ५९ ।।
पूर्वं बुद्ध्या पूर्वतैव काचिद्वर्णेस्त्युपाहिता ।
पश्चाद्बूद्ध्या परत्वं च वर्णेष्वस्ति न संशयः ।। ६० ।।
सुरोत्तमटीका
ननु नित्येषु सर्वगतेषु वर्णेषु अयं पूर्ववर्णः अयमुत्तरवर्ण इति कथं घटत इत्यत आह ।। पूर्वमिति ।।
तदेव विशदयति पूर्वं बुध्द्या पूर्वतैवेत्यादिना ।। ५९,६० ।।
सत्यप्रमोदटीका
देशकालनिमित्तत्वाभावेऽपि बुद्ध्युपाधिकं वर्णेषु क्रमं तत्स्वरूपविवरणेन स्फोरयति द्वाभ्यां पूर्वमित्यादिना ।। ५९,६० ।।
युक्तिमल्लिका
न चेन्नदीदीनशब्दौ भिन्नाभिन्नार्थकौ कथम् ।
कथं च स्यात्पूर्ववर्णात्पूर्व इत्यादिकं वचः ।। ६१ ।।
सुरोत्तमटीका
तदनङ्गीकारे बाधकमाह ।। नचेदिति ।। नदीशब्दे नकारस्य पूर्वत्वाभावे दीकारस्य परत्वाभावे दीनशब्दे तद्वैपरीत्यस्य चाभावे नदीदीनशब्दौ नदीदुःखितलक्षणभिन्नभिन्नार्थकौ कथं स्यातामित्यर्थः । अस्ति च भिन्नभिन्नार्थबोधः । तस्माद्वर्णेषूपाधिनिमित्तकं पौर्वापर्यं चास्तीति भावः । बाधकान्तरं चाह ।। कथं च स्यादिति ।। प्राचामिति शेषः ।। ६१ ।।
सत्यप्रमोदटीका
भवेदिदं सर्वं यदि वर्णेषु क्रमः प्रमितः स्यात् । तदेव कुत इति उत्तानदृशां चोद्यं प्रमाणोक्त्या परिहरति न चेदिति । अयमाशयः । पदं नाम तावत् वर्णसमुदाय एव । ‘विभक्त्यन्ता वर्णाः पदं’ इति पद्धत्युक्तेः । न तु घटादिवत्पदार्थान्तरम् । पदयोर्भिन्नभिन्नार्थकत्वं चानुभवसिद्धम् । नदीदीनादि-शब्देषु दर्शनात् । अर्थभेदश्च वर्णभेदनिमित्तको वा क्रमभेदनिमित्तको वा वाच्यः । प्रकारान्तराभावात् । नाद्यः प्रकारः । नदीदीनराजाजारादिपदेषु अभावात् । तयोः समानवर्णोपेतत्वात् । अतः क्रमभेदनिमित्तक एव आस्थेयः। तथा च प्रयोगः विमतः नदीदीनेत्यादिशब्दयोरर्थभेदः वर्णक्रमभेदनिमित्तकः वर्णभेदानिमित्तकत्वे सति सनिमित्तकत्वात् । विपक्षे कार्यस्य निर्निमित्तत्वापत्तिर्बाधिकेति ।। प्राचां व्यवहारोऽपि क्रमसद्भावे प्रमाणमित्याह कथं चेति ।। ६१ ।।
युक्तिमल्लिका
यथैकस्यामीशबुद्धौ पौर्वापर्यं विशेषतः ।
वर्णेषु तद्वत्स्वीकार्यं पौर्वापर्यं सदोपधेः ।। ६२ ।।
सुरोत्तमटीका
नित्येष्वपि पौर्वापर्यं विस्पष्टदृष्टान्तमुखेन पुनरप्युपपाद-यति ।। यथैकस्यामिति ।। नचेशबुद्धौ पौर्वापर्यं नास्तीति वाच्यम् । नित्येष्वे-वेश्वरज्ञानेच्छाप्रयत्नेषु पौर्वापर्यदर्शनाद्बुद्धीनामपि पौर्वापर्यस्य न्यायप्राप्तत्वात् । उपाधेरीश्वरबुद्धिलक्षणोपाधेरित्यर्थः ।। ६२ ।।
सत्यप्रमोदटीका
अनादिनित्यानामपि क्रमिकत्वं सविस्तरमनेकदृष्टान्तो-क्त्योपपादयति यथैकस्यामित्यादिना, ‘अतः क्रमिकयोश्चानादित्वं तत्त्वं रुणद्धि क’ इत्यन्तेन । अनादित्वक्रमिकत्वयोरेकत्र समावेशमसहमानः प्रष्टव्यः । किं सर्वत्रायं नियमः वर्णेष्वेव वेति । नाद्यः ईश्वरज्ञानेच्छायत्नेषु अनादिष्वपि क्रमिकतया सम्प्रतिपन्नेषु व्यभिचारात् । न द्वितीयो निर्निबन्धनत्वात् । तत्र विशेषबलाद्धटत इति चेदत्रापि बुद्ध्युपाधिवशादुपपद्यत एवेत्याह यथैकस्यामिति ।। ६२ ।।
युक्तिमल्लिका
त्वयाऽपि काले महति यामादीनामुपाधिजम् ।
पौर्वापर्यं कथं वार्यं कार्यं कुर्युर्यतोऽखिलम् ।। ६३ ।।
सुरोत्तमटीका
उदाहरणान्तरं चाह ।। त्वयापीति ।। महतीत्युप-लक्षणम् । नित्ये चेत्यपि ग्राह्यम् । कार्यं यामात्पूर्वं न भुञ्जीत यामयुग्मं न लंघयेदित्यादिकार्यमित्यर्थः । अर्थक्रियाकारित्वेनौपाधिकस्य न भ्रान्तिकल्पित-त्वमिति दर्शयितुमुदाहरणान्तरमिति ज्ञेयम् । अस्माभिः कालस्य नित्या-नित्यत्वाङ्गीकारात् त्वयेत्युक्तम् ।। ६३ ।।
सत्यप्रमोदटीका
उदाहरणान्तरमाह काले इति । अनादित्वोपपादनाय महतीति । महाकालेऽनादित्वं परस्यापि संमतमित्याह त्वयाऽपीति । तत्रौपाधिकं क्रमं शृृङ्गिग्राहकतया दर्शयति यामादीनामिति । न च तस्य मिथ्यात्वशङ्का सम्भाविनी अर्थक्रियाकारित्वादित्याह कार्यमिति ।। ६३ ।।
युक्तिमल्लिका
तवापि ताल्वोष्ठपुटमध्यस्थाकाश एव हि ।
वर्णोत्पत्तिस्ततः को वा पूर्वः कश्चापरो वद ।। ६४ ।।
सुरोत्तमटीका
अनित्यत्ववादिनाऽपि गत्यन्तराभावात् पूर्वकालो-त्पन्नत्वात्पूर्वत्वं अपरकालोत्पन्न(त्वम)त्वादपरत्वं यथा वर्णेषु कथ्यते तथा वर्णनित्यत्ववादेऽपि पूर्वकालव्यक्तत्वात्पूर्वत्वं अपरकालव्यक्तत्वाच्चापरत्वं भविष्यतीति प्रतिबन्द्या उत्तरं वक्ति ।। तवापीति ।। वर्णोत्पत्तिस्सर्ववर्णो-त्पत्तिः । यतस्ताल्वोष्ठपुटमध्यस्थाकाश एव सर्ववर्णोत्पत्तिः ततः स्थानैक्यात्
।। ६४ ।।
सत्यप्रमोदटीका
किञ्च वर्णानित्यवादिनामपि तत्पौर्वापर्यं तावत्सम्मत-मेव । तत्कथमिति वक्तव्यम् । न हि तत्तद्वर्णोत्पत्तिस्थानभेदनिमित्तेन पूर्वत्वमपरत्वं चेति वक्तुं शक्यम् । सर्वेषामपि वर्णानां ताल्वोष्ठपुटमध्यस्थे एकस्मिन्नेवाकाशप्रदेशे उत्पत्त्यङ्गीकारात् इत्याह तवापीति ।। ६४ ।।
युक्तिमल्लिका
न हि तत्राधरो वर्ण एक ऊर्ध्वश्च देशतः ।
पूर्वकालोत्पन्नतैव पूर्वता परता तथा ।
परकालोत्पन्नतैव वर्णे वाच्या न चापरा ।। ६५ ।।
सुरोत्तमटीका
नहि तत्राप्यूर्ध्वदेशोत्पन्नः पूर्वतनः अधरदेशोत्पन्नः पश्चात्तन इति वक्तुं शक्यत इत्याह ।। नहीति ।। तत्र ताल्वोष्ठपुट-मध्यस्थाकाशे । तथा च मद्रीतिरेव तवापि शरणमित्याह ।। पूर्वकालेति ।। तथा परकालोत्पन्नतैव परतेति सम्बन्धः ।। ६५ ।।
सत्यप्रमोदटीका
नापि तत्रैव प्रदेशेऽपि ऊर्ध्वाधरभागोत्पन्नत्व-निमित्तेन । अनङ्गीकारादसम्भवात् च । नह्येकभागोत्पन्नस्यापि वर्णस्य सर्वत्र पूर्वत्वमेवापरत्वमेव वेति नैयत्यमस्ति । य एव वर्णः एकस्मिन्पदे पूर्वः स एवापरस्मिन्पर इति वैपरीत्यदर्शनात् इत्याह न हीति ।। तथा च तेनापि उत्पत्तिकालयोः पौर्वापर्यनिबन्धने एव वर्णगतपौर्वापर्ये वक्तव्ये गत्यन्तरा-भावादित्याह पूर्वेति ।। ६५ ।।
युक्तिमल्लिका
एवं च पूर्वं व्यक्तत्वं पूर्वत्वं मे भविष्यति ।
परकालव्यक्ततायां परो वर्णो भविष्यति ।
अतस्समं समाधानं नित्यानित्यत्ववादिनोः ।। ६६ ।।
सुरोत्तमटीका
प्रतिबन्द्या लब्धमर्थमाह ।। एवं चेति ।। तथा च व्यक्तत्वमुत्पन्नत्वमित्येव भेदः अन्यदावयोस्समानमिति भावः ।। ६६ ।।
सत्यप्रमोदटीका
नित्यत्ववादेऽपि क्रमनिर्वाह एवं सुकर एव । इयांस्तु विशेषः । तेन उत्पत्तिक्रममपेक्ष्येत्युच्यते । मया तु व्यक्तिक्रममपेक्ष्येति । वर्णक्रमस्वरूपे एवाक्षेपस्तु निर्निबन्धन इत्याह एवं चेति ।। ६६ ।।
युक्तिमल्लिका
यथेशो नित्यया बुद्ध्या सकृत्सृष्टश्रुतेः क्रमम् ।
आकल्पान्तं तवेक्षेत तथेक्षेत सदा मम ।। ६७ ।।
सुरोत्तमटीका
नन्वादिसृष्टावपीश्वरबुद्धौ सहैव वैदिकसकलवर्णव्यक्तौ क्रमस्यैवायोगाद्भिन्नभिन्नकालेषु च व्यक्तौ क्रमस्य कृतकत्वमपरिहार्यं स्यादित्याशङ्कां प्रतिबन्द्या परिहरति ।। यथेश इति ।। सकृत्सृष्टश्रुतेस्सृष्टिकाले सकृत्सृष्टश्रुतेरित्यर्थः । आकल्पान्तम् । त्वन्मते कल्पान्ते वेदनाशा-त्कल्पावसानपर्यन्तं तमेव मध्ये मध्येऽनुत्पन्नमेव यथेक्षेत तथा मन्मतेऽपि सदा सर्वकाले अनादिकालमारभ्य स्वबुध्द्यभिव्यक्तं क्रममीक्षेतेति भावः । न च त्वन्मते आदिकालसृष्टं क्रमं विहाय मध्ये मध्ये क्रमसृष्टिरिति वाच्यम् । तथा कल्पने मानाभावात् गौरवाच्च ।। ६७ ।।
सत्यप्रमोदटीका
तवेति ।। वैदिकक्रमस्य सृष्टिमङ्गीकुर्वाणोऽपि ईश्वरेण कल्पादौ सकृदेव तत्सृष्टिमङ्गीकरोति । आकल्पान्तमन्येभ्य उपदिशन्नपि तेनैव पूर्वक्रमेणोपदिशति ईश्वरः इति च । तत्कुतो हेतोः । ईश्वरस्य सदा सर्वज्ञत्वेन पूर्वक्रमस्य विस्मरणाभावात्तत्त्यागे कारणाभावः, अन्यथा वृथैव मध्ये भिन्नक्रमाश्रयणे कल्पनागौरवप्रसङ्गादिति चेत् एवं तर्हि किं ईश्वरः कल्पान्तरीयं पूर्वं क्रमं व्यस्मार्षीत् येनैतत्कल्पादावपि तद्भिन्नक्रमानुसरणम् । तथाच पूर्वपूर्वकल्पक्रमानुसारेणैव उत्तरोत्तरत्रोपदेशोऽप्यङ्गीकार्य इत्यनादि-नित्यत्वमेव सेत्स्यतीति भावः ।। ६७ ।।
युक्तिमल्लिका
प्रमाणदृष्टघटना कार्या सैव यथामति ।
न शक्यते चेत्सर्वेशाचिन्त्यशक्त्यैव सेत्स्यति ।। ६८ ।।
सुरोत्तमटीका
नन्वेवं कुतः कल्प्येत इत्यत आह ।। प्रमाणेति ।। ६८ ।।
सत्यप्रमोदटीका
‘शाश्वता विष्णुबुद्धिगाः’ ‘सर्गे सर्गेऽमुनैवैत उद्गीर्यन्ते तथैव च’ इत्यादिप्रमाणसिद्धत्वाच्चैवमित्याह प्रमाणदृष्टेति ।। ईश्वरशक्त्यैव च घटना सुकरेति भावः । तदुक्तं सुधायां ‘यावत्प्रमाणसिद्धं तावतः सुघटस्य दुर्घटस्य वा घटनायां पटुरिति ब्रूमः’ इति । प्रमाणदृष्टस्यापि दुर्घटत्वेनापलापे बाधकं स्वयमेवाग्रे वक्ष्यति ‘न चेदीशप्लुतं त्याज्यं नारिकेलफले जलमि’ति ।।
युक्तिमल्लिका
नेदम्पूर्वा यदा बुद्धिराद्यानादिरधीशितुः ।
तत एव द्वितीयाऽपि नेदम्पूर्वा बलाद्भवेत् ।। ६९ ।।
सुरोत्तमटीका
यदुक्तं पूर्वं बुध्द्या ग्रहणतः पूर्वत्वमित्यादि तत्र पश्चा-द्बुद्धेरुत्पन्नत्वात्तदभिव्यक्तपाश्चात्यवर्णस्यापि उत्पन्नत्वं कथं नायास्यतीति वदन्तं प्रत्युक्तैव प्रतिबन्दी । तथापि सुहृद्भावेन विचारयन्तं प्रति वस्तुतत्वमप्याह ।। नेदं पूर्वेति ।। आद्या आदिवर्णविषयिका । तत एव ईशबुद्धित्वादेव नेदं पूर्वेति सम्बन्धः । द्वितीयाऽपि द्वितीयवर्णविषयिकाऽपि । तत एव पूर्ववर्णस्या-नादित्वादेवेत्यावृत्त्या योज्यम् । नेदं पूर्वा अनादिरिति यावत् ।। ६९ ।।
सत्यप्रमोदटीका
आद्यस्य वर्णस्यानादित्वमस्तु । द्वितीयस्य तु द्वितीय-त्वादेवोत्पत्तिरेवोचितेति चोद्यस्य समाधिमाह नेदमिति । वर्णक्रमोपाध्योः ईश्वरबुद्ध्योराद्यद्वितीयत्वं तावदस्ति । तत्र द्वितीयाया ईश्वरबुद्धेरनादित्वं कथमिति विचारणीयम् । ईश्वरबुद्धित्वादेवाद्यबुद्धिवत् द्वितीयाया अप्यनादित्व-मिति तत्र वक्तव्यम् । तर्हि ईश्वरबुद्धिविषयत्वादेव आद्यबुद्धिविषयवर्णवत् द्वितीयबुद्धिविषयस्याप्यनादित्वमेवेति सन्तोष्टव्यम् । द्वितीयाया बुद्धेरनादित्वे तद्विषयस्य द्वितीयवर्णस्य कथं नानादित्वमिति भावः ।। ६९ ।।
युक्तिमल्लिका
अनादेः पृष्ठलग्नस्याप्यनादित्वं हि युक्तिमत् ।
यावद्यावद्गजो गच्छेत्तावत्पुच्छं च गच्छति ।। ७० ।।
सुरोत्तमटीका
पूर्ववर्णविषयकबुद्धेरनादित्वेऽपि द्वितीयवर्णविषयकबुद्धेः कुतोऽनादिनित्यतेत्यतस्तदुपपादयति ।। अनादेरिति ।। यावदिति ।। पुच्छस्य गजशरीरसम्बन्धित्वादित्यर्थः ।। ७० ।।
सत्यप्रमोदटीका
ईश्वरबुद्धेरपि द्वितीयायाः कथमनादित्वमिति तत्राह अनादेरिति ।। इदमत्रानुमानमभिप्रेतम् । द्वितीयाबुद्धिः अनादिर्भवितुमर्हति । अनादेः आद्यायाः पृष्ठलग्नत्वात् इति । यस्य यावत्त्वं तत्पृष्ठलग्नस्यापि तावत्त्वं इति सामान्यव्याप्तौ गजपुच्छं लौकिकदृष्टान्तः । एवं तृतीयादिबुद्धीः तद्विषयवर्णाश्च पक्षीकृत्य प्रयोक्तव्यम् । तथा च सर्वेषां वर्णानामनादित्वं सेत्स्यति ।। ७० ।।
युक्तिमल्लिका
पूर्वेदं पूर्वताऽभावे तदव्यवहितोत्तरे ।
क्षण एव परं यत्स्यात्तस्येदम्पूर्वता कथम् ।
मत्स्यस्यानादितायां न किं कूर्मस्याप्यनादिता ।। ७१ ।।
सुरोत्तमटीका
अनादीश्वरबुद्धौ प्राग्व्यक्तैकवर्णस्यानादित्वसम्भवेऽपि पश्चाद्व्यक्तवर्णानां कथमनादित्वम् । अनादित्वपश्चात्तनत्वयोर्विरोधादित्यत आह ।। पूर्वेति ।। पूर्ववर्णस्येदंपूर्वताऽभावे तस्मात्पूर्ववर्णादव्यवहितोत्तरक्षण एव परं उत्तरं यद्वर्णादिकं स्यात् तस्येदंपूर्वता कथं न कथंचित् । इदमुक्तं भवति । पदमुच्चारयन्हि तत्पदस्थपूर्ववर्णादव्यवधानेनोत्तरं वर्णमुच्चारयेदेव अन्यथा सन्निध्यभावप्रसङ्गात् । एवं चानाद्येकवर्णपृष्टलम्बिनामनन्तानामपि वर्णानामनादित्वं बलादापततीति । तत्र दृष्टान्तान्तरमाह ।। मत्स्यस्येति ।। उभयोरपि भगवदवतारत्वाद्यथानादिता तद्वत्तद्बुद्धीनां तदभिव्यक्तोत्तरोत्तर-वर्णानामप्यनादित्वमिति भावः ।। ७१ ।।
सत्यप्रमोदटीका
अप्रयोजकत्वं विपक्षे बाधकोक्त्या परिहरति पूर्वेद-मिति । अनादिना पूर्वेण सम्बद्धस्य पाश्चात्त्यस्याप्यनादित्वमित्यत्र वैदिक-दृष्टान्तमप्याह कूर्मस्येति । अत्र कूर्मस्येत्युपलक्षणम् । सर्वेषां वराहादीना-मित्यपि ध्येयम् ।। ७१ ।।
युक्तिमल्लिका
अधोऽवधिविहीनेन विष्णोः पादेन सङ्गता ।
जङ्घाप्यधोवधेर्भङ्गं किं न कुर्याद्बृहत्तनोः ।
आद्यद्वितीयभावोऽपि तद्वत्स्यादप्यनादिषु ।। ७२ ।।
सुरोत्तमटीका
पूर्ववर्णस्यानादित्वे तत्सम्बद्धद्वितीयवर्णस्याप्यनादित्वं सम्यग्बुद्धावारोहाय स्पष्टदृष्टान्तान्तरमुखेन पुनरप्युपपादयति ।। अधोवधीति ।। अधोवधिः । अधरावधिः । एकभगवदवयवस्यावधिशून्यत्वे तत्सम्बद्धद्वितीया-वयवस्याप्यवधिशून्यत्वे हेतुं सूचयितुं बृहत्तनोरित्युक्तम् । विश्वरूपदेहे नान्तं न मध्यं न पुनस्तवादिमिति अनन्तबाहूदरवक्त्रनेत्रमिति च प्रत्येकमवयवा-नामनन्तत्वोक्तेरुभयोरप्यवधिशून्यत्वं युक्तियुक्तं प्रामाणिकं चेति भावः । यद्यपि सिसृक्षासञ्जिहीर्षादीनामिव एकव्यक्तिकाले अन्यव्यक्तेश्शक्त्यात्मना विद्य-मानत्वेनानादित्वं निर्वोढुं शक्यम् । तथाप्युक्तयुक्त्योभयोरपि व्यक्तौ चानादित्वलाभे किं तेनेतीदमेवोक्तम् । अनादित्वे वर्णानां कथं पौर्वापर्यमित्यत उक्तन्यायादेवेत्याह ।। आद्येति ।। तद्वद्भगवदवयववत्तदवतारवद्वा ।। ७२ ।।
सत्यप्रमोदटीका
अवधिशून्यस्य सम्बन्धिनोऽप्यवधिशून्यत्वं इति व्याप्तिः न केवलं कालावधिं सम्बध्नाति किं नाम देशतोऽवधिमपीत्याह अधोवधीति ।। ७२ ।।
युक्तिमल्लिका
अनादिर्बीजसन्तानस्तथैवाङ्कुरसन्ततिः ।
अतः क्रमिकयोश्चानादित्वं तत्त्वं रुणद्धि कः ।। ७३ ।।
सुरोत्तमटीका
अनादिषु पौर्वापर्यं लोकरीत्याऽप्युपपादयति ।। अनादिरिति ।। बीजसन्तानोऽप्यनादिः । अङ्कुरसन्ततिरपि तथैव अनादिरेव । तथाऽपि तयोर्यथा पौर्वापर्यम् अङ्कुरसन्ततेर्बीजसन्तत्युत्तरकालीनत्वात्तद्व-त्प्रकृतेऽपीति भावः । अनादित्वं तत्वं अनादित्वाख्यतत्वम् ।। ७३ ।।
सत्यप्रमोदटीका
क्रमिकयोरपि बीजाङ्कुरसन्तानयोरुभयोरप्यनादित्वव-द्वर्णेष्वप्युपपत्तिरित्याह अनादिरिति ।। ७३ ।।
युक्तिमल्लिका
अनादिवेदवादस्तन्मनोमोदाय धीमताम् ।
अचिन्त्यशक्तिं यो वक्ति प्रभोस्स्वार्थपरायणः ।। ७४ ।।
सुरोत्तमटीका
ईश्वराचिन्त्याघटितघटकशक्तिवशादप्यनादिषु वर्णेषु पौर्वापर्यं घटत इत्याह ।। अचिन्त्येति ।। यो वेदः प्रभोरचिन्त्यशक्तिं वक्ति । सवेदस्स्वार्थपरायणः । अनादिष्वपि स्ववर्णेषु पौर्वापर्याख्यस्वार्थपरायणः । अघटितैतद्घटनायैवेश्वरस्याचिन्त्यशक्तिं वक्तीति भावः ।। ७४ ।।
सत्यप्रमोदटीका
‘विचित्रशक्तिः पुरुषः पुराणः’ ‘सर्वैर्युक्ता शक्तिभि-र्देवता सा’ इति वेदः परमात्मनोऽचिन्त्यशक्तिं वक्ति । तत एव शक्ते-र्वशादनादित्वमपि वेदस्य सुघटमित्याह अनादीति । महतां स्तुतिः स्वस्यैव सुस्थितिं घटयतीति हृदयम् ।। ७४ ।।
युक्तिमल्लिका
तद्वेदपदराशिस्थवर्णमालास्वनादितः ।
पौर्वापर्यं केन वार्यमनादीशधियार्पितम् ।। ७५ ।।
सुरोत्तमटीका
तत्तस्मात् ईश्वराघटितघटकशक्तिवशात् ।। ७५ ।।
सत्यप्रमोदटीका
अनादीशधिया निर्दोषेश्वरज्ञानेन । अर्पितं उल्लिखितं प्रमाणदृष्टत्वात्क्रमानादित्वं दुर्वारमिति भावः । एवं साक्षादनन्तक्रमविशिष्ट-वेदमेव ईश्वरः स्वबुद्ध्योल्लिखतीत्येकः पक्षः प्रदर्शितः । समूहालम्बन-प्रकारेणोल्लिखतीति पक्षान्तरमग्रे ‘एवं पौर्वापर्यवन्त’ इति (७५) श्लोकेनाग्रे वक्ष्यतीति विभावनीयम् ।। ७५ ।।
युक्तिमल्लिका
वर्णानामप्यनादित्वं बुद्धेश्चानादिता यदा ।
कथं तदा बुद्धिसिद्धपौर्वापर्यस्य सादिता ।
नहीदम्पूर्वतां बुद्धेरनादेर्बुद्धिमान्वदेत् ।। ७६ ।।
सुरोत्तमटीका
बुद्धेर्वर्णव्यञ्जकेश्वरबुद्धेः बुद्धिसिद्धपौर्वापर्यस्य नित्येश-बुद्धिसिद्धवैदिकवर्णमालापौर्वापर्यस्येत्यर्थः । तदर्थमेव बुद्धेर्नित्यतामुपपादयति ।। नहीति ।। ७६ ।।
सत्यप्रमोदटीका
ईश्वरबुद्ध्युपाधिकक्रमस्य कूटस्थनित्यतां स्फोरयति वर्णानामिति ।। ७६ ।।
युक्तिमल्लिका
ज्ञानसाध्या हरेरिच्छा यदाऽनादिर्निगद्यते ।
ज्ञानज्ञेयत्वरूपस्य सादितास्य कथं वद ।। ७७ ।।
सुरोत्तमटीका
अनादेरप्यनाद्यन्तरव्यङ्ग्यत्वं नित्यत्वं च रीत्यन्तरेणोप-पादयति ।। ज्ञानेति ।। ज्ञानज्ञेयत्वरूपस्य ज्ञानज्ञेयत्वेन निरूपितस्येत्यर्थः । ज्ञानसाध्याज्ञानव्यङ्ग्या । अनाद्योरपि भगवज्ज्ञानेच्छयोर्व्यञ्जकव्यङ्ग्यत्ववत् अनादेरपि वर्णक्रमस्य व्यङ्ग्यत्वं ईश्वरबुद्धेर्व्यञ्जकत्वं च युज्यत इत्याकूतम् । ज्ञानज्ञेयत्वरूपस्य ईश्वरबुद्धेर्ज्ञानत्वेन पूर्वत्वे नेश्वरबुद्धिविषयत्वनिमित्तकं पूर्वत्वं परत्वेनेश्वरबुद्धिविषयत्वनिमित्तकं परत्वमिति वर्णपौर्वापर्यस्य ज्ञेयत्वनिमित्त-कत्वेन ज्ञानज्ञेयत्वरूपस्येत्यर्थः । अस्य वर्णगतपौर्वापर्यस्य । ज्ञानोत्तर-कालीनाया भगवदिच्छाया अनादित्वे ज्ञानसमसमयवर्तिवैदिकवर्णपौर्वापर्यस्या-नादित्वं किं वाच्यमिति भावः ।। ७७ ।।
सत्यप्रमोदटीका
प्रयोजकमीश्वरज्ञानं पूर्वम् । तत्प्रयोज्या तदिच्छाऽपरा । एवमप्युभयोरनादित्वमक्षतम् । व्यञ्जकमीश्वरज्ञानम् । व्यङ्ग्यः क्रमः । एवं समसमयवर्तिनोरेतयोरुभयोरनादित्वं किमु वाच्यमिति भावेनाह ज्ञानेति ।। ७७ ।।
युक्तिमल्लिका
अगत्या पञ्चरात्रादौ प्रमाणाभावतो हरिः ।
न व्यक्तीकुरुते बुद्धिं शक्तामपि स कार्यवित् ।। ७८ ।।
सुरोत्तमटीका
एवं चेत्पञ्चरात्रादिक्रमस्यानादीश्वरबुध्द्युपाधिकत्वेना-नुत्पन्नत्वं स्यादित्यत आह ।। अगत्येति ।। प्रमाणाभावतः नित्यत्वे प्रमाणा-भावतः अनित्यत्वे प्रमाणसद्भावाच्चेत्यपि द्रष्टव्यम् । नव्यक्तीकुरुते पञ्चरात्रादिक्रमो यथा नित्यो भवति तथा स्वबुद्धिं तत्र शक्तामपि न व्यक्तां कुरुते । यदाच सृष्टिकाले व्यक्तां करोति तदा तस्योत्पत्तिरेव । कार्यविदित्यनेन वेदनित्यत्वेनैव धर्माधर्मव्यवस्थादिसर्वकार्यसिद्धेरेतन्नित्यत्वकरणं व्यर्थमिति सूचयति ।। ७८ ।।
सत्यप्रमोदटीका
सर्वज्ञेश्वरबुद्धौ कल्पादौ पूर्वकल्पीयवेदक्रमोऽपि गोचरः पञ्चरात्रादिस्मृतिक्रमोऽपि । स एव चोभयोरप्युपदेशकः । एवं स्थिते स वेदानां वक्तैव पञ्चरात्रादीनां तु कर्ता इत्यत्र विशेषे किं कारणमत्राह अगत्येति ।। ‘श्रुतिर्वाव नित्या अनित्या वाव स्मृतयः’ इति श्रुतेर्नित्यत्वे स्मृतीनामनित्यत्वे च प्रमाणमस्ति । अतः अगत्या स्मृतिनित्यत्वे च प्रमाणाभावात् प्रत्युत तदनित्यत्व एव प्रमाणसद्भावाच्च, पञ्चरात्रादौ, तदुपदेशकाले, बुद्धिं पूर्वकल्पक्रमविषयिणीं न व्यक्तीकुरुते तत्क्रमानुसारेणैव न स्मृतीरुपदिशतीति यावत् । वेदांस्तु तत्क्रमेणैव । कुत एवमित्यत आह कार्यविदिति । प्रमाणानुसारेणैव तत्तत्कार्यं कार्यमिति ज्ञानवान्यतः । तेन युज्यते कर्ता वक्तेति विभागेन व्यवहार इति भावः ।। ७८ ।।
युक्तिमल्लिका
अतस्तत्कृतशास्त्रस्य सादित्वेऽस्त्यतिसङ्कटम् ।
अनादित्वे (च नाया)त्वनायास इति मन्यामहे वयम् ।। ७९ ।।
सुरोत्तमटीका
अत ईश्वरबुद्धेरनादिनित्यत्वात् । सादित्वे ईश्वर-बुद्ध्युपाधिकपञ्चरात्रादिक्रमस्योत्पन्नत्वे अतिसङ्कटं सर्वज्ञेश्वरबुद्धेस्तद्विषयत्वे व्यक्त्यभावकथनरूपम् ।। ७९ ।।
सत्यप्रमोदटीका
सादित्वे तत्कृतत्वे । अतिसङ्कटम् व्यत्यासेनोपदेश-कथनद्वारा कृतत्वोपपादनक्लेशः । वेदानामनादित्वे निरूपणीये तु अनायासः नैवैवंरूपः क्लेशप्रसङ्गः ।। ७९ ।।
युक्तिमल्लिका
ईशेनोच्चारितं तच्च ब्रह्मादीनां परम्परा ।
अनुभूतं स्मरेन्नित्यं न करोति स्वयं पुनः ।। ८० ।।
उच्चारयन्त्युपाध्यायास्स्मृत्वा स्मृत्वा तदेव हि ।
तदेवं प्रचरेद्वेदः कर्तारोऽस्य न कुत्रचित् ।। ८१ ।।
सुरोत्तमटीका
मीमांसकमतवदेकजातीयक्रमवत्त्वेन न नित्यत्वं किं तु क्रमस्वरूपस्यैव नित्यत्वेन वेदनित्यत्वमिति भावेनाह ।। ईशेनेति ।। तत् अनादिक्रमविशिष्टवेदवाक्यम् । ब्रह्मादीनामीश्वरादध्येतॄणाम् । अध्ययनसमये स्वस्वमनसि अनुभूतं स्मरेत् ।।
एतदेवानुभावयति ।। उच्चारयन्तीति ।। तदेव उपाध्यायोक्तक्रमविशिष्ट-वाक्यमेव । वर्णक्रमात्मकवेदस्य कथंचित्कृतकत्वे नित्यत्वस्य भाक्तत्वापत्त्या अनादिनित्या सा तच्चेत्युक्तब्रह्मसाम्यायोगात् आदिवक्ता नारायणोऽपि भगवानपि द्रष्टैव नतु स्रष्टा । पुराणादीनां तु नित्यत्वे प्रमाणाभावात् स्रष्टैवेति विवेकः ।। ८०,८१ ।।
सत्यप्रमोदटीका
अनुभूतं स्मरेत् । प्राक्तनमेवेदमधीमहे अध्यापया-मश्चेति प्रतिपद्यते ।। ८०,८१ ।।
युक्तिमल्लिका
निमित्तबुद्धेरज्ञानेऽप्यस्य ज्ञानं च शोभते ।
तिरोहितजपापुष्पसन्निधानोत्थरक्तिमा ।
स्फटिकादौ न किं सर्वैस्स्फुटमेवानुभूयते ।। ८२ ।।
सुरोत्तमटीका
ननु वैदिकक्रमस्येशबुध्द्युपाधिकत्वे उपाधिभूततदज्ञाने एतदज्ञानमपि स्यादित्यत आह ।। निमित्तेति ।। अस्येश्वरबुध्द्युपाधिक-क्रमस्येत्यर्थः ।। ८२ ।।
सत्यप्रमोदटीका
क्रमस्य बुद्ध्यपाधिकत्वे तज्ज्ञानानुपपत्तिरूपबाधक-माशङ्क्य निराह निमित्तेति । उपाधीत्यर्थः । यत्र औपाधिकज्ञानं तत्रोपाधि-ज्ञानं इति नियमः । अत्र व्यापकं ईश्वरबुद्धिज्ञानं अस्मदादीनां नास्ति । अतो व्याप्यं क्रमज्ञानं न सम्भवतीत्यतो नायमस्ति नियमः । स्फटिकादौ व्याप्तिभङ्गस्य सर्वानुभवसिद्धत्वादित्याह स्फटिकादाविति ।। ८२ ।।
युक्तिमल्लिका
न चेत्काव्यस्य कर्तारस्सर्वेऽपि स्युर्गृहे गृहे ।। ८३ ।।
सुरोत्तमटीका
उपाधेरज्ञाने औपाधिकज्ञानं कुत्र दृष्टमित्यत आह ।। तिरोहितेति ।। तिरोहितमित्यनेन जपाकुसुमाज्ञानं सूचयति । मीमांसकरीत्या तैस्तैरध्यापकैः क्रमस्य कृतत्वे बाधकमाह ।। नचेदिति ।। माघकारवत् तत्काव्यम् अन्येऽपि काव्यपाठकाः कुर्वन्तीति चेत् तेऽपि माघकारास्स्युरिति भावः । एकेन कृतं दृष्ट्वा कर्ता न कर्तेति चेन्न कुलालपुत्रस्य कुम्भकारत्वा-भावप्रसङ्गात् । एवमध्यापकानां सर्वेषामपि वेदक्रमकारकत्वे तेषामपि वेदकारकत्वप्रथा स्यात् । नच सास्ति । तस्मादाद्याध्यापको नारायणो वा अवान्तराध्यापका उपाध्याया वा न वेदकारका इति भावः ।। ८३ ।।
सत्यप्रमोदटीका
तदुच्चारणमात्रेण तत्कर्तृत्वोक्तौ अतिप्रसङ्गमाह न चेदिति ।। ८३ ।।
युक्तिमल्लिका
द्विकर्तृकत्वात्काव्यस्याप्यस्तीश्वरमतौ स्थितिः ।
यावत्प्रचारं पश्चात्स बुद्धिं तत्र व्यनक्ति न ।
तदुत्पन्नमनित्यं च पौरुषेयं वचोऽखिलम् ।। ८४ ।।
सुरोत्तमटीका
ननु माघकाव्यस्य माघकृद्बुद्धिनिमित्तकत्वे एतद्बुद्धे-रीश्वरबुद्धिवन्नित्यत्वाभावात्त्रिक्षणावस्थायित्वेन तदुपाधिककाव्यस्याप्याशुतर-विनाशित्वं स्यादित्यत आह ।। द्विकर्तृकत्वादिति ।। घटादिवद्द्विकर्तृकत्वा-दित्यर्थः । यावत्प्रचारमीश्वरमतौ स्थितिरिति सम्बन्धः । तत्र तत्प्रचारविषये । वचोऽखिलं काव्यादिकम् ।। ८४ ।।
सत्यप्रमोदटीका
उत्पत्तिमतामपि पौरुषेयवचसां नाशाभावं हेतूक्त्या व्यनक्ति द्विकर्तृकत्वादिति । अनेकबुद्ध्युपाधिकक्रमवद्वर्णोपेतत्वादित्यर्थः । अयमाशयः । वाक्यस्य नाशो नाम विवक्षितवर्णविषयकक्रमोपाधिभूत-सर्वबुद्ध्युपरम एव न तु मुद्गरप्रहारादिना घटादेरिवापरः । तत्रेतरेषामिवेश्वर-बुद्धिरप्युपाधिरेव । तस्य सदा सर्वज्ञत्वेन तद्बुद्धेर्नैव कदाऽप्युपरमः । अतः पुरुषप्रणीतानां काव्यादीनामपि नैव विनाश इति । तदिदमुक्तं अस्तीश्वरमतौ स्थितिरिति । कथं तर्हि कस्यचित्काव्यस्य प्रचार इदानीं नष्ट इति व्यवहार इत्यत आह पश्चादिति । बुद्धेर्व्यक्तीकरणाभावनिमित्तक एव नाशव्यवहारो न तूपरमनिमित्तकः । व्यवहारमात्रं न तु वस्तुतो विनाश इति तत्वम् ।। ८४ ।।
युक्तिमल्लिका
पुराणाद्या त्वनित्या वाग्यदुत्पत्तेरनन्तरम् ।
व्यक्तैव तत्र तद्बुद्धिर्यतो मानानुसारतः ।। ८५ ।।
सुरोत्तमटीका
अनित्या । नाशशून्यत्वेऽप्युत्पत्तिमात्रवत्त्वेनानित्या । एतद्विशेषद्योतनाय तुशब्दः । यत् यस्मात्तत्रोत्पन्नमविशिष्टपुराणभारत-पञ्चरात्रादिभगवत्कृतग्रन्थप्रचारविषये । तद्बुद्धिरीश्वरबुद्धिः । मानानुसारतः पुराणानि तदर्थानि सर्गे सर्गेऽन्यथैवतु । क्रियन्तेऽतस्त्वनित्यानीत्यादि-मानानुसारात् ।। ८५ ।।
सत्यप्रमोदटीका
पुराणाद्येष्वपीयमेव स्थितिरित्याह पुराणेति । तदुक्तं तत्वनिर्णये ‘पुराणादीनामप्यन्यथारचनमेवानित्यत्वमि’ति । एवकारेण नाशो व्यावर्त्यते । मानेति । ‘अनित्या वाव स्मृतयः’ इति श्रुतिः । ‘पुराणानि तदर्थानि सर्गे सर्गेऽन्यथैव तु । क्रियन्तेऽतस्त्वनित्यानि’ इति स्मृतिः । इत्यादिमानेत्यर्थः ।। ८५ ।।
युक्तिमल्लिका
स्वतन्त्रेच्छोऽपि भगवान्मानेऽसौ मानवान्किल ।
उक्तव्यवस्था तत्सुस्था कर्ता वक्ता ततः पृथक् ।। ८६ ।।
सुरोत्तमटीका
ननु स्वतन्त्रस्य किमर्थं मानानुसरणमित्यत आह ।। स्वतन्त्रेच्छोऽपीति ।। माने प्रमाणे । कर्ता प्रागविद्यमानस्य ग्रन्थस्योत्पादकः । वक्ता विद्यमानस्य ग्रन्थस्यैवोच्चारयिता । अत एव पुराणादेः कर्ता । वेदस्य वक्तेति विभज्यप्रसिद्धिः ।। ८६ ।।
सत्यप्रमोदटीका
स्वतन्त्रस्यापि मानानुसारेणैव प्रवृत्तिः सत्यसङ्कल्पत इति न पर्यनुयोगमर्हति । ‘सत्यसङ्कल्पतो विष्णुर्नान्यथा तु करिष्यति’ इति भगवत्पादोक्तेः । तदिदमाह स्वतन्त्रेति ।। ८६ ।।
युक्तिमल्लिका
तदेवेदं वाक्यमिति प्रत्यभिज्ञां प्रमाणयन् ।
आचार्योऽपीममेवार्थमभिप्रैति न संशयः ।। ८७ ।।
सुरोत्तमटीका
नन्वेवं वेदक्रमनित्यत्वं मूलशास्त्रे कुत्रापि नोक्तमित्यत आह ।। तदेवेदमिति ।। तदेवेदं वाक्यमिति प्रत्यभिज्ञां प्रमाणयदाचार्यवाक्या-त्सिद्धमिति भावः । उपलक्षणं चैतत् । ‘‘नित्या वेदाः पुराणाद्याः कालः प्रकृतिरेव च । नित्यानित्यं त्रिधा प्रोक्तमनित्यं द्विविधं मतमिति’’ तत्व-सङ्ख्याने वेदस्य नित्यत्वकथनात् । तट्टीकायां च अत्र नित्यत्वं नाम कूटस्थ-तयाऽऽद्यन्तशून्यत्वम् । तच्च वेदानां नित्या वेदास्समस्ताश्चेत्यादि प्रमाण-सिद्धमिति नित्यत्वस्य विवृतत्वात् वेदक्रमस्याकृतकत्वसिद्धेः । अत्र वेदपदस्य वेद एवार्थः । नतु केवलो वर्णः । अन्यथा उदाहृतप्रमाणस्य वैयधिकरण्य-प्रसङ्गात् तत्वसङ्ख्यानाय प्रवृत्तेन वेदाख्यतत्वस्यापरिगणनप्रसङ्गाच्च न कुचो-द्यावकाशः । न च वर्णपदादीनामनित्यत्वं वक्तुं युक्तम् । सर्वज्ञत्वादीश्वरस्य तद्बुद्धौ सर्वदा प्रतीयमानत्वादिति विष्णुतत्वनिर्णये तट्टीकायां च । नन्वीश्वरबुद्धौ सर्वदा प्रतीयमानत्वं नाम ईश्वरेण सर्वदा वर्तमानतयाऽनुभूय-मानत्वं विवक्षितम् । तस्यैवोक्तार्थसाधकत्वादिति वर्तमानत्वविशेषण-दानेनानुभूयमानत्वकथनेन च वेदस्यानाद्यन्तकाले ईश्वरबुद्धौ वर्तमानतयाऽनु-भूयमानत्वकथनान्न मध्ये मध्ये सृष्टिरिति सिद्ध्यति । पूर्वकल्प एव ये स्थिताः एत एव सर्गे सर्गेऽमुनोद्गीर्यन्त इत्युक्तप्रत्यभिज्ञाविरोधस्स्यादित्यर्थ इति टीकागतवाक्यान्तरेण च पूर्वकल्पस्थितानामेव वेदानां सर्गे सर्गे उद्गिरणाभि-धानात् न सर्गादावुत्पादः प्रागभावाभावात् । उपलक्षणं चैतत् । जन्मवाक्य-गतिकथनविरोधाच्चेत्यपि द्रष्टव्यमिति वाक्यान्तरेण जन्माभावस्य स्पष्टमुक्त-त्वाच्च । अतः पुराणकृता विष्णुबुद्धिगा इतीश्वरेण सर्वदा वर्तमानतयाऽनु-भूयमानत्वमुक्तमिति वाक्येनातो वेदास्सर्वदेश्वरेण वर्तमानतयाऽनुभूयंत इति सिद्ध्यतीति वाक्यान्तराच्चोक्तार्थसिद्धिः । गायत्र्या वेदविशेषत्वेन नित्यत्वात् । नित्यस्य च तदधीनत्वायोगात् । न च नित्यस्य तदधीनत्वायोगः ।
स्वभावजीवकर्माणि द्रव्यं कालः श्रुतिःक्रिया ।
यत्प्रसादादिमे संति न सन्ति यदुपेक्षयेति
नित्यानामपि भगवदधीनत्वस्य श्रौतत्वादिति गायत्र्यधिकरणवाक्येन वेदा-नुत्पादस्सिध्यति । तत्र यथाश्रुतीनामनादित्वात्कारणदोषाभावस्तथा समया-नामपि । स्वरूपानादित्वं प्रवाहानादित्वमिति तु वैषम्यमात्रमित्यादि सुधा-वाक्यैश्च स्पष्टं श्रुतीनां स्वरूपानादित्वमुक्तमिति द्रष्टव्यम् । उक्तनिरवकाश बहुतरवाक्यविरोधात्क्रमस्य कृतकत्वेऽपीत्यादि क्वाचित्कटीकाकारवचनं मीमांसकरीतिमनुसृत्यवा अभ्युपगमवादेन वा प्रवृत्तमिति ज्ञातव्यम् ।। ८७ ।।
सत्यप्रमोदटीका
उक्तं सर्वं मूलारूढं करोति तदेवेति ।। अत्र तत्वसङ्ख्यानटीकाया विष्णुतत्वनिर्णयटीकायाश्च पातनिकविरोधपरिहारः तैस्तैष्टिप्पण्याचार्यैः बहुधा कृतः । विस्तरस्तत्तद्ग्रन्थेष्वेव द्रष्टव्यः । सङ्क्षेपस्तु नित्यत्वं द्विविधम् । अत्र श्लोके सावधारणप्रत्यभिज्ञयोक्तं कूटस्थत्वम् । अपरं ‘क्रमस्य कृतकत्वेऽपि’ इति तत्वनिर्णयटीकोक्तं नियतैकप्रकारत्वम् । तदुक्तं ‘नियतैकप्रकारत्वं नित्यत्वं तच्च नेति न’ (श्लो.१०९) इति ।। ८७ ।।
युक्तिमल्लिका
तस्मादनादिसिद्धान्तशुद्धबुद्धिमतां सताम् ।
प्रमाणे सत्यनादित्वं विनोदेनैव सिद्ध्यति ।। ८८ ।।
सुरोत्तमटीका
अनादिसिद्धान्तो व्याससिद्धान्तः ।। ८८ ।।
सत्यप्रमोदटीका
सतां प्रमाणसिद्धसम्प्रत्यायिनाम् । तदुक्तं कथा-लक्षणटीकायां ‘अदुष्टमनसः सन्तः । ते च प्रमाणसिद्धसम्प्रत्यायिनः’ इत्यादि
।। ८८ ।।
युक्तिमल्लिका
प्रमाणे सति शक्त्येत्थं घटयेन्नित्यतां हरिः ।
यत्रकुत्रापि तां शक्तिं चित्रशक्तिर्युनक्ति न ।
गिर्युद्धरणशक्तिं स किं प्रयुंक्ते तृणोद्धृतौ ।। ८९ ।।
सुरोत्तमटीका
नन्वेवं घटादिनित्यतामपि स्वशक्त्या घटयेत्किं नेत्याह ।। यत्र कुत्रेति ।। ८९ ।।
सत्यप्रमोदटीका
प्रमितस्य घटनायामेवेश्वराचिन्त्यशक्तेरुपयोग इति प्रागुक्तं स्मारयति प्रमाणे सतीति ।। ८९ ।।
युक्तिमल्लिका
किं चान्त्यवर्णस्योत्पादे प्राङ्नष्टैर्वर्णराशिभिः ।
बुद्ध्यारूढैः पदत्वं स्यात्प्राक्सृष्टिस्तद्वृथैव ते ।। ९० ।।
वर्णानित्यत्ववादोपि वर्णनित्यत्ववादिनाम् ।
प्रक्रियां स्वक्रियासिद्ध्यै सत्करोतीति मे मतिः ।। ९१ ।।
सुरोत्तमटीका
किंच वर्णानित्यत्ववादिनाऽपि बुद्धिस्थवर्णैरेव क्रमो वाच्यः । तथा च क्रमसिद्ध्यर्थं वर्णानां बुद्धिस्थत्वमेव शरणम् । न तदा तदा सृष्टत्वमित्याह ।। किञ्चेति ।। तथा बुद्ध्यारूढैः पदैर्वाक्यत्वं च स्यादिति द्रष्टव्यम् । तथा च त्वद्वत्पूर्वापरबुद्धिविषयत्वेनैव नित्यत्वपक्षेऽपि क्रमोक्ति-स्सुशकेति भावः ।। ९० ।।
सत्यप्रमोदटीका
वर्णानित्यत्ववादिनाऽपि पदभावनिर्वाहाय तेषां बुद्धिस्थत्वमेवाश्रयणीयम् । नित्यत्वेऽपि तत एव निर्वाहोपपत्तौ कृतमनित्य-त्वाङ्गीकारदुर्व्यसनेनेत्याह किं चेति द्वाभ्याम् ।। ९०, ९१ ।।
युक्तिमल्लिका
त्रिक्षणस्थायिवर्णात्मवेदेष्वाकल्पवर्तिता ।
त्वयापीश्वरबुद्ध्यैवमङ्गीकार्या मयैव न ।। ९२ ।।
सुरोत्तमटीका
त्रिक्षणस्थायीत्यनेन तावत्कालस्थायित्वं वर्णानां नास्तीति सूचयति ।। एवं मद्वत् ।। ९२ ।।
सत्यप्रमोदटीका
एवं वेदानामीश्वरेण सृष्टत्वाङ्गीकारिणाऽपि तेषामा-कल्पवर्तित्वनिर्वाहायेश्वरबुद्धिविषयत्वमेव शरणीकरणीयम् । ‘शाश्वता विष्णु-बुद्धिगाः’ इति प्रमाणानुसारेण तेनैव हेतुनाऽनादिनित्यत्वमेव सेत्स्यति । अतो दुराग्रहमूलमेव तत्सृष्टिकल्पनमित्याह द्वाभ्यां त्रिक्षणावस्थायीति ।।९२,९३।।
युक्तिमल्लिका
तवेश्वरोपि सर्गादौ सृजेद्वेदं न सर्वदा ।
पश्चात्स्वबुद्धिविषयैर्वर्णैस्सोपि पदावलिम् ।
वैदिकीमनुसन्धत्ते त्वत्पक्षे सर्वदा मम ।। ९३ ।।
सुरोत्तमटीका
तदेव विशदयति ।। तवेति ।। पश्चात्सृष्ठ्यनन्तरम् । सर्वदा ममेत्यस्यायं भावः । यथा तव सकृत्सृष्टं वेदक्रमं कल्पावसानपर्यन्तं मध्ये मध्ये पुनरसृजन्नेवानुसन्दधातीश्वरस्तथाभिव्यक्तमेव क्रमं सर्वदानुसन्धत्ते न तु कदाऽपि सृजतीति ।। ९३ ।।
युक्तिमल्लिका
एवं पौर्वापर्यवन्त एते वर्णा इतीश्वरः ।
अनादिनित्यया बुद्ध्या सदोल्लिखति वैदिकीम् ।। ९४ ।।
सुरोत्तमटीका
अनादिष्वपि वर्णेषु विशिष्टक्रमविषयीकरणप्रकारं शृृङ्ग-ग्राहकतया दर्शयति ।। एवमिति ।। एते वर्णाः व्याप्त्या अकारादिवर्णाः । एवं पौर्वापर्यवन्तः । अग्निमी इत्यादि पौर्वापर्यवन्तः ।। ९४ ।।
सत्यप्रमोदटीका
ईश्वरबुद्ध्या क्रमोल्लेखे पूर्वोक्तप्रकारापेक्षया प्रकारान्तर- माह एवमिति । युगपत्सहस्रदीपविषयकसमूहालम्बनज्ञाने क्रमविशिष्टत्वेनैव इमे दीपा इति यथोल्लेख एवं वैदिकानन्तवर्णेप्वपि इमे वर्णा इति क्रमविशिष्ट-त्वेनैवेश्वरबुद्धिरुल्लिखति वर्णानिति भावः ।। ९४ ।।
युक्तिमल्लिका
अनन्तपदमर्यादां घटयेद्योतिदुर्घटम् ।
अनादिनित्यतैवं वा न कुचोद्येन बाध्यते ।। ९५ ।।
सुरोत्तमटीका
तदेव विशदयति ।। अनन्तपदमर्यादामिति ।। उल्लिख-तीति पूर्वेण सम्बन्धः । विभक्त्यन्तवर्णानामेव पदत्वात् वर्णेष्वेवोक्तपदावली-त्वोल्लेखनं युक्तिमदिति भावः । सकृदेव स्वबुध्द्याऽनन्तपदमर्यादोल्लेखनं कथं घटत इत्यत आह ।। घटयेदिति ।। अतिदुर्घटम् । यशोदाङ्कगतशिशुत्वं तदैवोदरनिविष्टब्रह्माण्डत्वं च । एवं वेत्यनेन साक्षादनन्तक्रमविशिष्टवेदमेव तद्वेदपदराशिस्थवर्णमालास्वित्युक्तप्रकारेण स्वबुद्ध्योल्लिखतीति वा इदानीमुक्त-समूहालम्बनप्रकारेण वा उल्लिखतीति पक्षद्वयमपि सङ्गृह्णाति । कुचोद्येन अनादिव्याप्तवर्णेषु कथं क्रम इति कुचोद्येनेत्यर्थः ।। ९५ ।।
सत्यप्रमोदटीका
अतिदुर्धटस्याप्यस्य प्रकारान्तरस्य घटना ईश्वरा-चिन्त्यशक्त्या सुघटेत्याह अनन्तेति ।। ९५ ।।
युक्तिमल्लिका
उच्चारयन्त्युपाध्यायास्तेऽपि स्वाध्यापकानुगाः ।। ९६ ।।
पुराणकृच्च वेदानां व्यासकृन्न तु कारकः ।
यो वेदव्यासनाम्नैव विख्यातो मुनिमण्डले ।। ९७ ।।
सुरोत्तमटीका
पूर्वं धर्माद्यसिद्धिप्रसङ्गेन वेदस्य पौरुषेयत्वं नेत्युक्तम् । अधुना कर्तुः पुरुषस्य प्रसिद्ध्यभावेनापि तस्यापौरुषेयत्वमिति वक्तुं तदुपयुक्त-प्रमेयचर्चां करोति ।। उच्चारयन्तीति ।।
पुराणकृद्वेदव्यासः व्यासकृद्विस्तारकृत् । विस्तारकरणं नाम बहुषु शिष्येषु शाखाभेदेनोपदेशकरणम् ।। ९६, ९७ ।।
सत्यप्रमोदटीका
‘अपौरुषेयत्वं च स्वत एव सिद्धं वेदकर्तुरप्रसिद्धेः’ इति तत्त्वनिर्णयोक्तिमनुरुन्धान आह उच्चारयन्तीति ।। कर्तारः किं अधुनातना अध्यापका उत ईश्वरावतारो व्यासः । नाद्य इत्याह तेऽपीति । पूर्वतनमेवेद-मित्यनुसन्दधानाः कथं कर्तारो भवेयुः । न द्वितीयः विभागकर्तृत्वार्थक-व्यासनाम्ना तस्याकर्तृत्वसिद्धेरिति ।। ९६, ९७ ।।
युक्तिमल्लिका
गूढकर्तृकवाक्यं च ध्रुवं कर्तृप्रसिद्धिमत् ।
अभूत्वाभाविकार्यत्वादपूर्वगृहकृपवत् ।। ९८ ।।
सुरोत्तमटीका
कर्तृप्रसिद्ध्यभावेनाकर्तृकत्वे गूढकर्तृकवाक्ये व्यभिचार इत्यत आह ।। गूढकर्तृकवाक्यं चेति ।। अभूत्वाभावीत्यनेन कार्यत्वमेव विवृतमिति ज्ञातव्यम् । नचासिद्धो हेतुः । वेदवदनादिकालसिद्धत्वस्या-ननुभवात् । कर्तुर्विशिष्यप्रसिद्ध्यभावेऽपि वाक्यस्य कादाचित्कत्वे विवादा-भावात् ।। ९८ ।।
सत्यप्रमोदटीका
एवं, वेदः अपौरुषेयः अप्रमितकर्तृकत्वात् गगन-वदिति तत्त्वनिर्णयोक्तानुमाने पूर्वश्लोकेन सम्भावितसर्वकर्तृनिरासेन स्वरूपा-सिद्धिं परिहृत्य, गूढकर्तृकवाक्ये व्यभिचारशङ्कां हेत्वभावोक्त्याऽत्र परिहरति गूढेति । इदमनुमानमत्राभिप्रेतम् । गूढकर्तृकं वाक्यं, सकर्तृकं कार्यत्वात् अपूर्वगृहकूपवत् । न चासिद्धिः । विमतं कार्यं परम्पराऽभावात् रघुवंश-काव्यवत् । परम्परा च प्राक्तनमेवेदमधीमहे अध्यापयामश्चेति प्रतिपत्तिविषय-त्वम् । तथा च कार्यत्वानुमानेन कर्तुः प्रमितेः, अप्रमितकर्तृकत्वहेतोरभावेन न गूढकर्तृके व्यभिचार इति भावः ।। ९८ ।।
युक्तिमल्लिका
अनादित्वं हि गमयेद्यत्राध्येतृपरम्परा ।
अभूत्वाभाविनी सा न ततः कर्त्रनुमाऽपि न ।
अतोऽकर्तैव कोऽनन्तवाक्कर्तारं निगूहयेत् ।। ९९ ।।
सुरोत्तमटीका
वेदेतु न तथा कर्त्रनुमानमित्याह ।। अनादित्वमिति ।। यत्र श्रुतौ । सा अभूत्वाभाविनी न । नित्येति यावत् । ततः नित्यत्वात् । अतः कर्त्रनुमानस्याप्यभावात् । गूहितः कर्ता भविष्यतीत्यत आह ।। क इति
।। ९९ ।।
सत्यप्रमोदटीका
वेदे तु निरूपितपरम्पराया एव सद्भावेन कार्यत्वमेव नानुमातुं शक्यं दूरे तेन हेतुना कर्त्रनुमानमित्याह अनादित्वमिति । अप्रमितोऽपि कश्चन गूढः कर्ता वेदस्य किं न स्यादिति शङ्क्यते इत्यतोऽ-सम्भावनापराहतेर्नैवं शङ्कोदेतुमर्हतीत्याह अनन्तेति ।। ९९ ।।
युक्तिमल्लिका
कर्तृप्रसिद्ध्यभावेन तद्वेदोयमकर्तृकः ।। १०० ।।
सुरोत्तमटीका
उपसंहरति ।। कर्तृप्रसिद्ध्यभावेनेति ।। उपाध्याय-परम्परायाः वेदव्यासस्येश्वरस्य च कर्तृत्वप्रसिद्ध्यभावस्य चोक्तत्वात् कर्तृ-प्रसिद्ध्यभावेनेत्यर्थः ।। १०० ।।
सत्यप्रमोदटीका
अनुमानं निगमयति कर्त्रिति । तत् तस्मात् व्याप्ति-पक्षधर्मतयोः सुदृढत्वात् ।। १०० ।।
युक्तिमल्लिका
कन्याकुमारी कन्यात्वं यथा भर्तुरभावतः ।
लेभे श्रुतिकुमारीयं तथा कर्तुरभावतः ।
अकृतत्वं ध्रुवं लेभे या नित्येतिश्रुतौ श्रुता ।। १०१ ।।
सुरोत्तमटीका
तत्र दृष्टान्तमाह ।। कन्येति ।। यथा कन्याकुमारी भर्तुरभावतः कन्यात्वं लेभे तथेयं श्रुतिकुमारीति सम्बन्धः । या श्रुतिः ‘‘श्रुतिर्वावनित्या अनित्यावाव स्मृतयः । वाचा विरूप नित्यया । यावद्ब्रह्म-विष्ठितं तावती वाक् । विज्ञेयं परमं ब्रह्म ज्ञापिका परमा श्रुतिः । अनादि-नित्या सा तच्च विना तां न स गम्यत’’ इत्यादिश्रुतौ नित्या श्रुतेति सम्बन्धः । यावद्ब्रह्म विष्ठितं तावती वागित्यत्राप्यव्यवहितोत्तरकश्छन्दसामिति वाक्येन वेदस्यैव प्रस्तावितत्वात् पूर्वोक्ता वागपि सैवेति ज्ञातव्यम् । वक्ष्यमाणकर्तृप्रसिद्ध्यभावाख्यहेतोः प्रामाणिकत्वद्योतनायेदमुक्तम् ।। १०१ ।।
सत्यप्रमोदटीका
न केवलं कर्ता न प्रमित इत्येव, किं तु नित्यत्वमेव विशिष्य प्रमितमित्यपीत्याह या नित्येति ।। १०१ ।।
युक्तिमल्लिका
पिपीलिकालिपिश्चापि तैरज्ञैर्भ्रमतः कृता ।
बाधे व्यभिचरेदर्थं नत्वनादिरियं श्रुतिः ।। १०२ ।।
सुरोत्तमटीका
ननु वेदस्य बुद्धिपूर्वकरचनाभावेन पिपीलिकालिपि-वदप्रामाण्यं स्यादित्यत आह ।। पिपीलिकेति ।। अज्ञैस्तैः पिपीलिका समूहैः कृता पिपीलिकालिपिरपि बाधे सत्यर्थं व्यभिचरेत् । तदभावे प्रमाणमेवेति भावः ।। १०२ ।।
सत्यप्रमोदटीका
यदि वेदः अपौरुषेयः स्यात् बुद्धिपूर्वको न स्यादिति यावत् तर्हि अप्रमाणं स्यात् पिपीलिकालिपिवदिति तर्कपराहतं अपौरुषेयत्व-साधकमनुमानमिति चेन्न व्याप्तिविकलत्वात्तर्काभासोऽयं इत्याह पिपीलिका-लिपिश्चेति ।। अर्थबाध एवाप्रामाण्यं प्रयोजयति । यत्र बाधो नास्ति तत्र लिपिरपि प्रमाणमेवेति । तदुक्तं ‘पिपीलिकालिपिश्चापि प्रमाणमविरोधतः’ इति ।। १०२ ।।
युक्तिमल्लिका
किञ्च स्वव्याप्तवर्णानां लिपिस्साह्यनुमापिका ।
वाक्यं तैः कुरुते तज्ज्ञस्ततः पुंवाक्यमेव तत् ।। १०३ ।।
लिपिकारकदोषेण दुर्लिप्या दुष्टवर्णधीः ।
तेनायोग्यार्थकं वाक्यं ततश्चामानता क्वचित् ।। १०४ ।।
सुरोत्तमटीका
पिपीलिकालिपेरप्यन्ततः पुंवाक्यत्वेनैव बोधकता । न तु केवलं लिपित्वेन । पुंवाक्यं च अर्थाबाधे प्रमाणम् । अर्थबाधे त्वप्रमाणं च लोके दृष्टमित्यपौरुषेयवाक्याप्रामाण्ये नायं दृष्टान्त इति भावेनाह ।। किञ्चेति ।। तत्तद्वर्णेषु सङ्केतितस्तत्तद्रेखाविशेष एव लिपिर्नाम । तथा च तादृशरेखाविशेषं दृष्ट्वा तद्व्याप्तो वर्णोऽनुमीयते । एवं रेखान्तरेण वर्णान्तरम् । लिप्यनुमितैश्च वर्णैः पदं वाक्यं च तज्ज्ञो लिपिज्ञः कुरुते । ततो लिप्यनुमितवर्णसमूहैः रचितं तद्वाक्यं पुंवाक्यम् । तथा च तद्वाक्यत्वेनैव प्रमाणं न तु लिपित्वेनैवेति भावः ।।
तस्य च वाक्यस्य क्वचिदप्रामाण्ये कारणमाह ।। लिपिकारकेति ।। क्वचि-ल्लिपिकारकस्य पिपीलिकादेर्दोषेण अज्ञानभ्रमादिना जातया दुर्लिप्या दुष्टवर्णधीर्भवति । तेन दुर्लिप्यनुमितवर्णसमूहेनायोग्यार्थकं वाक्यं भवति । ततश्चायोग्यार्थकवाक्यत्वात्क्वचिदमानता भवतीत्यर्थः । वेदेतु न तथा लिपिकारकदोषोऽस्ति । किंतु अनादिकालमारभ्योपाध्यायपरम्परया नियता-ध्ययनमेव । तस्य कुतोऽप्रामाण्यमिति भावः ।। १०३,१०४ ।।
सत्यप्रमोदटीका
अनुमापिका स्मारिका । तदुक्तं सुधायां नविलक्षणाधि करणे ‘तस्मात्पुरुषलिपिरपि पदमिव पदार्थस्य वर्णानां स्मरणहेतुरेष्टव्ये’ति । न्यायामृते च ‘रेखास्मारितवर्णस्यैवार्थबोधकत्वात्’ इति ।। १०३,१०४ ।।
युक्तिमल्लिका
अनादितस्तु यद्वाक्यं शृृणोत्येवाखिलो जनः ।
स्वयं पुनर्न कुरुते श्रावकाश्च सुरर्षयः ।। १०५ ।।
सुरोत्तमटीका
रीत्यन्तरेण वेदस्यापौरुषेयत्वं प्रामाण्यं च साधयति ।। अनादित इत्यादिना ।। श्रावकाः श्रोतारः । स्मृत्यादिकर्तॄणां वसिष्ठादि-ऋषीणां ब्रह्मादिदेवानां श्रोतृत्वे सृष्ट्यादौ योगनिद्रां कुर्वतो विष्णोरपि श्रोतृत्वे कः कर्ता स्यादिति भावः ।। १०५ ।।
सत्यप्रमोदटीका
श्रुतिशब्दोऽप्यपौरुषेयत्वं गमयतीत्याह अनादित-स्त्विति ।। तदुक्तं तत्त्वनिर्णये ‘अतः श्रुतित्वमेतासां श्रुता एवाखिलैर्जनैः’ इति । तट्टीकायां च ‘अस्विलैः’ श्रुता एव न तु केनापि कृता इति श्रुति-शब्दवाच्यत्वेन लभ्यते’ इति ।। १०५ ।।
युक्तिमल्लिका
यस्य स्वराश्च नियताः क्रमाश्च नियतास्सदा ।
फलं च दृश्यते यस्य तद्धि मानं महत्तरम् ।। १०६ ।।
सुरोत्तमटीका
फलं च दृश्यते जपादिनेति शेषः ।। १०६ ।।
सत्यप्रमोदटीका
फलमिति ।। न अत्र फलदर्शनेन लिङ्गेन प्रामाण्यानु-माने तात्पर्यम् । प्रामाण्यस्य परतस्त्वापत्तेः । किं तु क्वचित्फलादर्शनेना-प्रामाण्यशङ्का न कार्येत्येव । तदुक्तं ‘दृश्यते तु’ इति सूत्रभाष्यटीकायां ‘न फलादर्शनेन श्रुत्यादेरप्रामाण्यं वक्तव्यम्’ इति ।। १०६ ।।
युक्तिमल्लिका
दोषाभावादमानत्वशङ्काऽस्यां किङ्कृता वद ।। १०७ ।।
सुरोत्तमटीका
दोषाभावात् वाक्याप्रामाण्यनिमित्ताबोधकत्वविपरीत-बोधकत्वादिरूपदोषाभावात् । तदभावोऽप्यनादित्वेन पुंदोषाभावादिति ज्ञातव्यम् । अस्यां श्रुतौ ।। १०७ ।।
सत्यप्रमोदटीका
पूर्वोक्तं एव विशदयति दोषाभावादिति ।। १०७ ।।
युक्तिमल्लिका
स्वोक्ताश्वासाय यां व्यासस्सूत्रे सूत्रे जगौ हरिः ।
तां श्रुतिं कोऽपरः कुर्यान्मानं वा किं ततोऽधिकम् ।। १०८ ।।
सुरोत्तमटीका
सूत्रे सूत्रे श्रुतत्वाच्च श्रुतेश्चेत्यादिसूत्रे । अपरः व्यासात्
।। १०८ ।।
सत्यप्रमोदटीका
सूत्र इति ।। ‘आह हि’ ‘तथा हि दर्शयति’ इत्यादिनेति बोध्यम् ।। १०८ ।।
युक्तिमल्लिका
अनाद्युपाध्यायपारम्पर्येणैव निरीशितुः ।
नियतैकप्रकारत्वं नित्यत्वं तच्च नेति न ।। १०९ ।।
सुरोत्तमटीका
जयतीर्थीये क्वचित्क्वचित्तार्किकं प्रति मीमांसकोक्त-नियतैकप्रकारकत्वरूपस्य वा एकजातीयक्रमवत्त्वरूपस्य वा नित्यत्वस्य प्रौढिवादेनोक्तत्वात्तदप्याह ।। अनादीति ।। निरीशितुर्मीमांसकस्य । नियतैक-प्रकारत्वं एकजातीयक्रमवत्त्वस्याप्युपलक्षणम् ।। १०९ ।।
सत्यप्रमोदटीका
मीमांसको जीवबुद्ध्युपाधिकं एकमेव क्रमं ततश्चैकमेव नित्यत्वं नियतैकप्रकारकत्वलक्षणमङ्गीकरोति । निरीश्वरत्वात्तस्य । तेन ‘क्रमस्य कृतकत्वेऽपि इति वि.त.नि.टीकोक्तिः सङ्गच्छते । वयं तु नित्येश्वर-बुद्ध्युपाधिकमपि क्रमं ततश्च कूटस्थनित्यत्वमपीति ‘नित्या वेदाः’ इति तत्वसङ्ख्यानं, वेदशब्दस्य वर्णोपलक्षणपरा तट्टीका चोपपद्येते इति द्वाभ्यामाह अनादीत्यादिना ।। १०९,११० ।।
युक्तिमल्लिका
सोऽनाथानां यतः पन्थास्तस्माद गतिका गतिः ।
सनाथास्तु वयं द्वेधाप्यनादित्वं प्रचक्ष्महे ।। ११० ।।
सुरोत्तमटीका
अनाथानामीश्वरानङ्गीकारेण जगन्नाथरहितानामित्यर्थः । अगतिकानामिति ध्वनिः । सर्वदा क्रमनिर्वाहकनित्येश्वरबुद्धिरूपगति-रहितत्वादगतिका । सनाथास्सेश्वरवादिनो वयन्तु सभाग्या इति ध्वनिः । द्वेधाऽपि मीमांसकोक्तरीत्या स्वरूपेण च ।। ११० ।।
युक्तिमल्लिका
एवं च विमतो वेदो मानमित्यनुमीयते ।
अवद्याऽमूलवाक्यत्वादाप्तवाक्यवदेव हि ।
अवद्याऽमूलता चास्य नित्यत्वाद्गगनादिवत् ।। १११ ।।
सुरोत्तमटीका
उक्तार्थे अनुमानमाह ।। एवं चेति ।। हेतोरसिद्धिं परिहरति ।। अवद्येति ।। १११ ।।
सत्यप्रमोदटीका
तत्वनिर्णयटीकोक्तमार्गेण प्रामाण्यं साधयति । एवं चेत्यादिना ।। अत्र शब्ददोषाः पुरुषदोषाधीना इत्येतदादावुपस्कर्तव्यम् । मानमिति । नाप्रमाणमित्यर्थः । अवद्येति । पुरुषदोषप्रयुक्तदोषाभावात् इत्यर्थः। न चासिद्धिः । नित्यत्वात् पुरुषाप्रणीतत्वादित्यर्थः । नित्यत्वं च अप्रमितकर्तृकत्वात् । विपक्षे बाधकसूचनाय धर्मेति । तदेव व्यनक्ति अन्यथेति ।। १११-११३ ।।
युक्तिमल्लिका
कर्तृप्रमितिशून्यत्वान्नित्यत्वं चास्य सिद्ध्यति ।
तद्वदेव ततो वेदस्सिद्धो धर्मानुशासनम् ।। ११२ ।।
सुरोत्तमटीका
द्वितीयहेत्वसिद्धिं परिहरति ।। कर्तृप्रमितीति ।। तार्किकरीत्या कर्तृभ्रान्तिसद्भावाद्धेतोरसिद्धिरित्यतः प्रमितीत्युक्तम् । तद्वत् गगनवत् । ततः प्रमाणत्वात् ।। ११२ ।।
युक्तिमल्लिका
अन्यथा धर्मसिद्धिर्नेत्यस्ति तर्कोऽतिकर्कशः ।। ११३ ।।
सुरोत्तमटीका
अनुकूलतर्कमाह ।। अन्यथेति ।। यथा चैतत्तथोक्तं प्राक् ।। ११३ ।।
युक्तिमल्लिका
कारीर्या वीक्ष्यते वृष्टिः पुत्रेष्ट्या पुत्रजन्म च ।
कृषाविवाङ्गवैकल्यात्क्वचिच्च विकलं फलम् ।। ११४ ।।
सुरोत्तमटीका
ननु वेदोऽप्रमाणं अनृतत्वाद्व्याहतत्वादित्यादेः यथा संप्रतिपन्नमित्यनुमानेन सत्प्रतिपक्षं भवदनुमानमिति चेत् तत्राह ।। कारीर्येति ।। क्वचिच्च विकलं फलं फलवैकल्यमिति यावत् ।। ११४ ।।
सत्यप्रमोदटीका
एवं अप्रामाण्याभावे निश्चिते परोक्ताः अनृतत्वादयो युक्तयो निश्चितासिद्धा एव भवन्तीत्याह कारीर्येति । फलवैकल्यस्याङ्गवैकल्ये-नैवोपपादनीयत्वादित्यर्थः । तदुक्तं तत्वनिर्णयटीकायां ‘अनृतत्वादयः प्राग-प्रामाण्याभावनिश्चयात्सन्दिग्धासिद्धाः । निश्चिते तु अप्रामाण्याभावे निश्चिता-सिद्धा एव भवन्ति’ इति ।। ११४ ।।
युक्तिमल्लिका
अनृतत्वादयो दोषास्सन्दिग्धासिद्धमूर्तयः ।
नामानत्वं ततोमुष्य साधयेयुः परोदिताः ।। ११५ ।।
सुरोत्तमटीका
तथाचानृतत्वादयः सन्दिग्धासिद्धाः अमुष्य वेदस्य अमानत्वं न साधयेयुरिति सम्बन्धः ।। ११५ ।।
सत्यप्रमोदटीका
सन्दिग्धेति । प्रागप्रामाण्याभावनिश्चयादित्यर्थः
।। ११५ ।।
युक्तिमल्लिका
कलौ युगे कलहिनां षण्णां षण्मार्गवर्तिनाम् ।
तद्बलं द्वापराचार्यव्यासवाचां च यद्बलम् ।। ११६ ।।
सुरोत्तमटीका
ततस्सर्वैरप्यपेक्षणीयत्वाद्वेदस्य प्रामाण्यमङ्गीकार्य-मित्याह ।। कलाविति ।। तद्वेदवाक्यम् । बलमिव बलम् । यद्वेदवाक्यम् । द्वापराचार्येण व्यासेन स्वोक्तार्थे तत्र तत्र संमतिकथनात् । द्वापराचार्येत्यनेन कलियुगादपि प्रधानयुगे सकलमुनीनां संमतत्वेन यो वेद आद्रियते सकथं निकृष्टयुगवर्तिभिर्जनैर्दूष्यते । स्वकलहशान्तये उपायान्तराभावात् स्वाज्ञान-विजृम्भितमेव तद्दूषणमिति ध्वनितम् ।। ११६ ।।
सत्यप्रमोदटीका
व्यासादीनामाप्तत्वं तद्वचसां च प्रामाण्यं चान्ततो वेदवाक्येनैवावसेयमित्याह तद्बलमिति ।। ११६ ।।
युक्तिमल्लिका
अष्टादशपुराणानां कर्ता सत्यवतीसुतः ।
तदुक्तौ कस्य न श्रद्धा यदुच्छिष्टं जगत्त्रयम् ।। ११७ ।।
सुरोत्तमटीका
अतीतानागतज्ञानिना सकलमुनिमान्येन महापण्डितेन व्यासेन वेदस्य नित्यत्वेनोक्तत्वात् नित्यत्वमङ्गीकार्यमित्याह ।। अष्टादशेति ।। यस्य व्यासस्य उच्छिष्टम् उच्छिष्टोज्जीवि । तद्वदननिस्सृतकवित्वच्छायाप-हारीत्यर्थः ।। ११७ ।।
सत्यप्रमोदटीका
अष्टादशपुराणानामित्युपलक्षणम् । सूत्रभारतादीनां च कर्ता निर्माता उपदेष्टा च । तदुक्तौ ‘वेदशास्त्रात्परं नास्ति’ ‘ज्ञापिका परमा श्रुतिः’ इत्यादौ । यदुच्छिष्टं यदुपजीव्यैव प्रवृत्तम् । जगत्त्रयम् मन्वादि-स्मृतिजातम् । अनेन बादरायणस्य ‘गुरुर्गुरूणां प्रभव’ इत्यनुव्याख्यानोक्तं परमाप्तत्वं वर्णितं ध्येयम् ।। ११७ ।।
युक्तिमल्लिका
वेदो न मानमिति तु द्वौ चत्वारोऽस्य मानताम् ।
मन्वते तद्बहोरेव तन्वतेऽनुग्रहं बुधाः ।। ११८ ।।
सुरोत्तमटीका
वेदप्रामाण्यवादिनां बहुत्वात् । द्वैधे बहूनां वचनमिति न्यायेन बहुभिरङ्गीकृतवेदप्रामाण्यमेव मान्यमित्याह ।। वेद इति ।। द्वौ चार्वाकबौद्धौ तदन्ये चत्वारः । मीमांसकसाङ्ख्यतार्किकवेदान्तिनः । तत्तस्मात्कारणात् बुधाः बहोरेवानुग्रहं तन्वते । बहुभिः परिगृहीतमेवानु-गृह्णन्ति । अन्यथा सप्तपञ्चत्र्यात्मकसभ्येषु सभ्यानामेव मिथः कलहे चतुर्भि-स्त्रिभिर्द्वाभ्यां चोक्तानुसारेण जयपराजयव्यवस्था न स्यादिति भावः ।।११८।।
सत्यप्रमोदटीका
१) ‘बहुदर्शनाचार्याङ्गीकृतप्रामाण्यकत्वात् २) बहुविस्तरत्वात् ३) बहुयुगानुवर्तित्वात् ४) बहुतरधर्मसञ्चारकालीन-पुरुषाभ्युपगतप्रामाण्यकत्वात् इत्येवं बहुधा बहुत्वनिमित्तकप्राबल्यमपि वेदस्यास्ति इत्याह क्रमेण चतुर्भिः श्लोकैः वेद इत्यादिना ।। ११८-१२१ ।।
युक्तिमल्लिका
छन्दांस्यनन्तानि किल ग्रन्थस्तैस्तैः कृतोऽल्पकः ।
कोन्धोरन्धोनुसन्धत्ते सिन्धोरग्रे पराक्रमम् ।। ११९ ।।
सुरोत्तमटीका
सर्वशास्त्रेभ्यो वेदस्य बहुत्वान्नाप्रामाण्यमित्याह ।। छन्दांसीति ।। तैस्तैस्तत्तदाचार्यैः । किं तत इत्यत आह ।। कोऽन्धोरिति ।। अपारस्य सिन्धोरग्रे अल्पस्यान्धोः कूपस्य पराक्रमं कोंऽधोनुसन्धत्त इति सम्बन्धः । तथा चाल्पं तत्तदाचार्यवचनं पुरस्कृत्य अनन्तवेदधिक्कारो न युक्त इति भावः ।। ११९ ।।
युक्तिमल्लिका
कलौ किल षडाचार्या वेदस्तु त्रियुगोत्सवः ।
राजसूयाश्वमेधाद्या यन्मूलाश्चक्रवर्तिनाम् ।। १२० ।।
सुरोत्तमटीका
बहुयुगानुवर्तित्वादपि वेदस्य प्रामाण्यमित्याह ।। कलाविति ।। षड्दर्शनाचार्यवचांसि कलावेवोल्लसन्ति । वेदस्तु तत्पूर्व-द्वापरत्रेताकृतयुगोल्लासीति भावः । त्रियुगोत्सवत्वमुपपादयति ।। राजसूयेति ।। यन्मूलाः वेदमूलाः । राजसूयाश्वमेधादीन्कृतयुगादिष्वेव कुर्वन्तीति प्रसिद्धम्
।। १२० ।।
युक्तिमल्लिका
द्विपात्रिपाच्चतुष्पाच्च तत्र धर्मोऽत्र चैकपात् ।
धर्मानुशासनं तद्वा वादिवाग्वा विचार्यताम् ।। १२१ ।।
सुरोत्तमटीका
बहुतरधर्मसञ्चरितत्वाच्च वेद एवहि धर्मानुशासनम् । ततश्च तस्यैव प्रामाण्यमित्याह ।। द्विपादिति ।। तत्र द्वापरादियुगेषु । अत्र कलियुगे । तद्वेत्यनेन बहुधर्मप्रवृत्तिकालीनत्वं वेदस्य ध्वनयति ।। १२१ ।।
युक्तिमल्लिका
धर्मप्रवृत्तिकालीनं वाक्यं न किल धर्मवाक् ।
कलावधर्मकलिले धर्मशास्त्रकृतः किल ।। १२२ ।।
सुरोत्तमटीका
तदेवोपपादयति ।। धर्मेति ।। तथा च जिनादिवाक्यं न धर्मशास्त्रमिति भावः ।। १२२ ।।
सत्यप्रमोदटीका
अवैदिकैः कलौ धर्मशास्त्ररचनं, जात्यन्धैः आलोक-शास्त्रनिर्माणमिवापहसनीयमित्याह धर्मेति ।। १२२ ।।
युक्तिमल्लिका
अद्यापि मध्यस्थगिरा पूर्वशासनतोऽपि वा ।
नृणां कलहशान्तिस्स्यात्तादृग्वेदस्तु कस्य न ।। १२३ ।।
सुरोत्तमटीका
विप्रतिपन्नार्थनिर्णायकत्वादपि वेदस्य प्रामाण्यमिति सदृष्टान्तमाह ।। अद्यापीति ।। तादृङ्मध्यस्थगीरूपः पूर्वशासनरूपश्चेत्यर्थः
।। १२३ ।।
सत्यप्रमोदटीका
‘अशेषसंशयच्छेत्ता निस्संशय उदारधीः ।
एकश्चेत् प्राश्निको ज्ञेयः सर्वदोषविवर्जितः’ ।।
इति कथालक्षणोक्तप्राश्निकलक्षणसम्पन्नत्वेन कुसमयिनां विप्रतिपत्तिनिरास-पूर्वकं तत्वावधारणाय, वयोऽधिकविष्णुभक्तमध्यस्थवचनमिव, वेदवाक्य-मेवादरणीयमित्याह अद्यापीति ।। १२३ ।।
युक्तिमल्लिका
छन्दस्ययस्मयादीनित्याद्यैश्शब्दानुशास्तिकृत् ।
अमानयद्धि यन्मार्गं मानं कस्य न सा श्रुतिः ।। १२४ ।।
सुरोत्तमटीका
पाणिन्यादिव्याकरणाचार्यैरपि पुरस्कृतत्वाच्च वेदस्य प्रामाण्यमित्याह ।। छन्दसीति ।। आद्यैरित्यनेन अयस्मयादीनि छन्दसि । बहुलं छन्दस्यामाङ्योगेऽपि । छन्दस्युभयथा । षष्ठीयुक्तश्छन्दसि वेत्यादि सूत्राणि सङ्गृह्णाति ।। यन्मार्गं वेदमार्गम् ।। १२४ ।।
सत्यप्रमोदटीका
अलौकिकोऽपि वैदिकप्रयोगः सर्वत्र साधुरेव मन्तव्यः इति व्याकरणाचार्यैः समर्थितत्वाच्च वेदः प्रमाणमित्याह छन्दसीति
।। १२४, १२५ ।।
युक्तिमल्लिका
तस्माद्वेदार्थकुशलो वेद धर्मं कलावपि ।
न वेद यो वेदमार्गं न स वेद शुभाशुभे ।। १२५ ।।
सुरोत्तमटीका
तस्माद्धर्मानुशास्तिरूपत्वात् ।। १२५ ।।
युक्तिमल्लिका
वैदिकैः किल गायत्रीमन्त्राद्यैर्मन्त्रितेषवः ।
अस्त्रीभवन्ति स्म राज्ञां कस्तच्छास्त्रं न मानयेत् ।। १२६ ।।
सुरोत्तमटीका
वैदिकमन्त्रप्रयोगैः फलदर्शनादपि वेदस्य प्रामाण्य-मित्याह ।। वैदिकैरिति ।। १२६ ।।
सत्यप्रमोदटीका
फलोपलम्भरूपविजातीयसंवादेनापि वेदे अप्रामाण्य-शङ्कानिरासः सुलभः इत्याह वैदिकैरिति ।। १२६ ।।
युक्तिमल्लिका
यत्स्वाध्यायैः किलाद्यापि व्याध्याद्यैर्नास्त्युपद्रवः ।
धर्मस्य वेदनादेव स वेदो नात्र संशयः ।। १२७ ।।
सुरोत्तमटीका
वेदस्वाध्यायेनाभीष्टफलसिद्धिदर्शनाच्च वेदः प्रमाण-मित्याह ।। यत्स्वाध्यायैरिति ।। यस्य वेदस्य स्वाध्यायैर्जपैरित्यर्थः । अद्यापि इदानीमपि । विश्वनाथदेवालये तथा दर्शनात् । वेदशब्दार्थवत्त्वादपि वेदस्य प्रामाण्यमित्याह ।। धर्मस्येति ।। १२७ ।।
सत्यप्रमोदटीका
व्याध्यादिनिवृत्तिरूपं यद्दृष्टफलं तज्जनकादृष्टो-त्पादकाऽऽनुपूर्ञ्युपेतत्वाच्च वेदो माननीय इत्याह यदिति । ‘वेदास्ते नित्यविन्नत्वात्’ ‘वेदाह्येवैनं वेदयन्ति’ इत्यादिप्रमाणैर्वेदशब्दस्यान्वर्थता-ख्यापनाच्च तत्प्रामाण्यमित्याह वेदनादिति ।। १२७ ।।
युक्तिमल्लिका
स्वबन्धुषु कृतः स्नेहस्स्याद्धि रागादिदोषतः ।
पान्थेषु तु कृतः स्नेहो धर्मं श्रुत्वैव तन्मुखात् ।। १२८ ।।
सुरोत्तमटीका
दुराग्रहागृहीतत्वादपि वेदस्य प्रामाण्यमिति वक्तुं तदुप-युक्तं किञ्चित्प्रमेयमाह ।। स्वबन्धुष्विति ।। तन्मुखात्पान्थमुखात् स धर्मं वक्तीति तं पूजयन्तीति भावः ।। १२८ ।।
युक्तिमल्लिका
तथा स्वस्वकृते शास्त्रे सर्वस्य स्याद्दुराग्रहः ।
सर्वैरकृतशास्त्रेऽस्मिन्धर्मसिद्ध्यै परं रतिः ।। १२९ ।।
सुरोत्तमटीका
यदर्थमिदमुक्तं तदाह ।। तथेति ।। सर्वैः सर्वदर्शना-चार्यैः । धर्मसिध्द्यै परं रतिरित्यनेन दुराग्रहागृहीतत्वं द्योतयति ।। १२९ ।।
युक्तिमल्लिका
सुवित्तस्यैव चोरोऽस्ति दुर्वित्तस्य न तस्करः ।
अमानं चेत्स्वतोजीर्णं कुतो वेदमचूचुरत् ।। १३० ।।
सुरोत्तमटीका
दैत्यैर्वेदस्यापहृतत्वादपि वेदस्य प्रामाण्यमित्याह ।। सुवित्तस्येति ।। यथालोके सुवित्तस्य रत्नादेरेव चोरोऽस्ति । दुर्वित्तस्य घटकपालशकलादेः तथा च वेदस्यामानत्वे दुर्वित्तत्वेन स्वत एव जीर्णत्वात् न तस्करः स्यात् । श्रूयन्ते च तस्करास्तम आदिदैत्याः । तस्माद्वेदः महा-प्रमाणीभूतवागाख्यसुवित्तमिति भावः ।। १३० ।।
सत्यप्रमोदटीका
धर्मविद्वेषिणां दैत्यानां द्वेषविषयत्वात् देवमान्येयं वेदसम्पदित्याह सुवित्तस्येति ।। १२८-१३० ।।
युक्तिमल्लिका
हयग्रीवमुखोद्गीर्णा सा वाणी धर्मशासनम् ।
अतस्तदुदितो धर्मो ह्यधर्मस्तद्विपर्ययः ।। १३१ ।।
सुरोत्तमटीका
वेदापौरुषेयत्ववादमुपसंहरति ।। हयग्रीवेति ।। तदुदितो वेदोदितः । तद्विपर्ययस्तन्निषिद्ध इति यावत् ।। १३१ ।।
सत्यप्रमोदटीका
हयग्रीवमुखोद्गीर्णेति ।। हेतुगर्भं विशेषणम् । उद्गीर्णमात्रं उपदिष्टमात्रं न तु कृतम् । अतः अपौरुषेयत्वेन निर्दोषत्वात् ।। धर्म इति चार्वाकमतनिरासोपक्षेपार्थम् ।। १३१ ।।
इति वेदापौरुषेयत्वप्रकरणम् ।।