अस्त्यस्तितोक्तौ नास्तीति प्रतिवागतिवादिनि
पुरुषसूक्तप्रतिपाद्यो विष्णुरेवेति समर्थनम्
युक्तिमल्लिका
अस्त्यस्तितोक्तौ नास्तीति प्रतिवागतिवादिनि ।
सहस्रशीर्षा श्रौतो यो नैकशीर्षाऽप्यसौ किल ।। ४५२ ।।
सुरोत्तमटीका
इदानीं पुरुषसूक्तार्थं वक्तुं तत्प्रसक्त्यर्थं काञ्चननीतिं वदन् प्रतिवादिनमपहसति ।। अस्तीति ।। अस्तितोक्तौ अस्तीति कस्यचित् विशिष्टस्योक्तौ सत्याम् । अतिवादिनि बहुभाषिणि यत्किञ्चिज्जल्पति खले-नास्तीति प्रतिवाक् अस्तीत्यस्य प्रतिवाक् अस्ति । यत्किञ्चिदबद्धं प्रति वदत्येवेत्यर्थः । तत्कुत्र दृष्टमित्यत उक्तं सहस्रशीर्षेत्यादि ।। यः परमात्मा सहस्रशीर्षा श्रौतः सहस्रशीर्षेति श्रुतिप्रतिपादित इत्यर्थः । असावेकशीर्षापि न किल । अस्याः दुर्नीतेः सहस्रशीर्ष्णो हरेर्निराकारतावाद्येव निदर्शनमिति भावः ।। ४५२ ।।
सत्यप्रमोदटीका
पुरुषसूक्तप्रतिपाद्यत्वाच्च विष्णुरेव परं ब्रह्मेति प्रतिपादयितुं सौरभशेषः । तत्र सूक्तेऽस्मिन् निरवयवस्य प्रतिपादनं ये मन्यन्ते तेषां मुखराणां प्रजल्पमपहसति अस्तीति । ‘सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी इति लक्षणं मायावादिनां ब्रह्मणो निराकरणं प्रजल्पतां बुद्धौ समन्वेति । तैः खलु सहस्रशीर्षा इत्यादिश्रुतिसिद्धं ब्रह्म निराकारतया प्रतिपाद्यते इत्याह सहस्रेति । तत्ववादिभिः अस्तितोक्तौ ब्रह्मणोऽनेक-करचरणादिसद्भावोक्तौ सत्यां अतिवादिनि प्रमाणमतिक्रम्य तदुक्तवैपरीत्येन निराकारतावादिनि मायिनि नास्तीतिप्रतिवाक् सावयवत्वं नास्ति इति प्रतिवचनं अस्ति इति वाक्ययोजना
।। ४५२ ।।
युक्तिमल्लिका
छली सूर्याच्छादनाय करं कोऽपि प्रसारयेत् ।
सप्रकारं हि यं विद्वान्मुच्येत स किलाल्पकः ।। ४५३ ।।
सुरोत्तमटीका
पुरुषसूक्तस्य विराट्पुरुष इति हरेरन्यः कश्चित्पुरुषः प्रतिपाद्य इति वदन्तमपि दुर्नीतिविषयं प्रतिपादयति ।। छलीति ।। कोऽपि छली सूर्योनास्तीत्युक्त्वा स्वोक्तनिर्वाहाय सूर्याच्छादनाय करं प्रसारयेत् । तत्कुत्र दृष्टमित्यत उक्तम् ।। सप्रकारमित्यादि ।। सप्रकारं सहस्रशीर्षत्वादि-विशेषण सहितं यं पुरुषं विद्वान् मुच्येत मुक्तिं प्राप्नुयात् । ‘‘तमेवं विद्वानमृत इह भवती’’ति याजुषपुरुषसूक्ते श्रवणात् । एवमित्यनेन पूर्वोक्तविशेषणानां परामर्शात् स प्रकारमित्युक्तम् । अमुक्तिदातापुरुषः अल्पकः किल विष्णो-रन्यः कश्चन नीचपुरुषः किल । एवं वादी सूर्याच्छादनाय करप्रसारणकर्तुः समः । मोक्षदायकस्य महापुरुषस्य स्ववाचा तुच्छीकरणादिति भावः ।।४५३।।
सत्यप्रमोदटीका
याजुषपुरुषसूक्ते ‘तमेवं विद्वानमृत इह भवति’ इति श्रूयते । तत्र एवं इत्यनेन तत्सूत्रोक्तप्रकारेणेत्यर्थो लभ्यते । तथा च मोक्षहेतु-ज्ञानविषयः सूक्तोक्तो विष्णुरेवेति निश्चयो भवति । स्थितेऽप्येवं कुवादिनः विराट्पुरुषः अल्पक एव तत्सूक्तप्रतिपाद्य इति सङ्गिरन्ते । तेषां दुर्नीतिं दूषयति छलीति । प्रमाणप्रमितार्थापह्नवदुस्साहसी । सूर्यवत्स्पष्टप्रतिभासस्य सूक्तप्रतिपाद्यमहापुरुषरूपार्थस्य आच्छादनाय अपलापेच्छया । करं अल्पपुरुष एव तत्प्रतिपाद्य इति स्ववाक्यम् । प्रसारयति प्रयुंक्ते इत्यर्थः ।। ४५३ ।।
युक्तिमल्लिका
अतः पुरुषसूक्तस्य विराट्पुरुषसूक्तताम् ।
वदन्तो वादिनः पूर्वोत्तरज्ञानविवर्जिताः ।। ४५४ ।।
सुरोत्तमटीका
तदेव विवेचयति ।। अत इति ।। विराट्पुरुषसूक्ततां विराट् पुरुषप्रतिपादकसूक्तताम् । तमेवं विद्वानित्युत्तरवाक्यापरिज्ञानाद्वा ऋग्वेदपुरुषसूक्तसमाख्ययोक्त यजुर्वेदपुरुषसूक्ताज्ञानाद्वा पूर्वोत्तरज्ञानविवर्जिता इत्यर्थः ।। ४५४ ।।
सत्यप्रमोदटीका
तेषां छलत्वं व्यनक्ति अत इति । पूर्वोत्तरज्ञान-विवर्जिताः पूर्वं पुरुषसूक्तम् । उत्तरं तमेवं विद्वानिति वाक्यम् । तज्ज्ञान-विवर्जिताः । यद्वा यजुर्वेदपुरुषसूक्तसमाख्याबलेन ऋग्वेदीयतत्सूक्तेऽपि महापुरुष एव प्रतिपाद्य इति ज्ञानविवर्जिताः।।४५४ ।।
युक्तिमल्लिका
सहस्रशीर्षं देवं विश्वाक्षं विश्वशम्भुवम् ।
विश्वं नारायणं देवमक्षरं परमं पदम् ।। ४५५ ।।
सुरोत्तमटीका
प्रकारान्तरेणापि पूर्वोत्तरज्ञानविवर्जिता इत्याह ।। सहस्रशीर्षमिति ।। यतः यस्मात् इति याजुषोपनिषत् नारायणस्यैव सहस्र-शीर्षत्वं जगौ । सहस्रशीर्षं देवमित्यादिविशेषणान्युक्त्वा नारायणमिति नारायणस्यैव स्पष्टं विशेष्यतया निर्देशात् । तत स्सन्दिग्धवाक्यस्य निर्णायक-वाक्यानुसारेण व्याख्यातव्यत्वात् ।। ४५५ ।।
सत्यप्रमोदटीका
याजुषोपनिषदि सुस्पष्टं नारायणपदेनैव विशेष्यं निर्दिश्य सहस्रशीर्षत्वादिविशेषणाभिधानात् पुरुषसूक्तेऽपि तद्विशेषणसमाख्यया नारायण एव विशेष्य इत्याह द्वाभ्यां सहस्रेति ।। ४५५, ४५६ ।।
युक्तिमल्लिका
इति नारायणस्यैव याजुषोपनिषज्जगौ ।
यतस्सहस्रशीर्षत्वं ततः पुंसूक्तगोऽप्यसौ ।। ४५६ ।।
सुरोत्तमटीका
पुंसूक्तगः पुरुषसूक्तप्रतिपाद्यः ।। ४५६ ।।
युक्तिमल्लिका
अग्निर्मुखन्त इत्याद्यैः पद्यैर्यं कृष्णमम्बुनि ।
अक्रूरोऽस्तौत्स एवार्थात्पुंसूक्तार्थो हि धीमताम् ।। ४५७ ।।
सुरोत्तमटीका
प्रकारान्तरेणापि पूर्वोत्तरज्ञानशून्या इत्याह ।। अग्निर्मुखं त इति ।। अग्निर्मुखन्त इत्याद्यैरित्यनेन अग्निर्मुखन्तेऽवनिरंघ्रिरीक्षणं सूर्यो नभो नाभिरथोदिशः श्रुतिरित्यादिपद्यं सङ्गृह्णाति । स एव कृष्ण एव अर्थात् अर्थैक्याद्धीमतां मते पुंसूक्तार्थो हि । परुषुसूक्तसमाख्यारूपतयाकृष्णप्रतिपादक भागवतवाक्यापरिज्ञानात् पूर्वोत्तरज्ञानशून्या इत्यर्थः । ‘‘मुखादिन्द्रश्चाग्निश्च । पद्य्भां भूमिः । चक्षोस्सूर्यः । नाभ्या आसीदन्तरिक्षम् । दिशः श्रोत्रा-दि’’त्यादि पुरुषसूक्तसमाख्यारूपत्वादग्निर्मुखमित्यादिवाक्यस्य कार्यकारण-योरैक्यव्यपदेश इति न्यायेन मुखादग्निरित्यादिरेवार्थो ग्राह्यः । स्मृत्या पुरुष-सूक्तस्य कृष्णप्रतिपादकत्वनिर्णयाच्छ्रुत्या च स्मृतेर्विभक्तिव्यत्यासनिर्णयाच्छ्रुति स्मृत्योः परस्परोपकारितयाति सख्यात्तदुक्तमियं नोल्लङ्घयति । एतदुक्तं च सापि नोल्लङ्घयतीति भावः ।। ४५७ ।।
सत्यप्रमोदटीका
अक्रूरेण यमुनायां अन्तर्जले श्रीकृष्णमवलोक्य अग्न्यादिदेवताजन्महेतुमुखाद्यवयववत्वेन श्रीकृष्णस्य स्तुतिः कृता । तत्समाख्ययाऽपि पुंसूक्तप्रतिपाद्यः कृष्ण एवेति सिध्यतीत्याह अग्निरिति ।। अत्र अग्निर्मुखं इत्यैक्यव्यपदेशः ‘यस्माद्यज्जायते चाङ्गाल्लोकवेदादिकं हरेः । तन्नामवाच्यमङ्गं तद्यथा ब्रह्मादिकं मुखं’ इति वैश्वानरभाष्योदाहृत-प्रमाणानुसारेण कार्यकारणभावपरो व्याख्येयः ।। ४५७ ।।
युक्तिमल्लिका
तत्र गत्वा जगन्नाथं देवदेवं वृषाकपिम् ।
पुरुषं पुरुषसूक्तेन उपतस्थे समाहितः ।। ४५८ ।।
इति भागवते विष्णौ पुरुषाख्यामुदीरयन् ।
यतः पुरुषसूक्तं च तत्सूक्तं स्पष्टमुक्तवान् ।
अतोऽप्यकुशलास्ते वै वेदार्थकथनोद्यताः ।। ४५९ ।।
सुरोत्तमटीका
प्रकारान्तरेण परेषामकौशलं प्रदर्शयति ।। तत्रेति ।। विष्णौ पुरुषाख्यां निरवकाशपुरुषाभिधाम् उदीरयन्शुकः पुरुषं वृषाकपिमिति पुरुषसूक्तं तत्सूक्तं विष्णुसूक्तं यतः स्पष्टमुक्तवान् पुरुषसूक्तेन वृषाकपिमिति स्पष्टमुक्तवान् । ‘‘उपान्मन्त्रकरण’’ इति सूत्रान्मन्त्रकरणे विवक्षिते उपादित्युपसर्गादात्मनेपदविधानात् उपतस्थ इत्युक्त्या पुरुषसूक्तस्य विष्णु-मन्त्रत्वस्यापि कथनात् स्पष्टमित्युक्तम् । न ह्यन्यमन्त्रेऽन्यस्य प्रतिपादनं युक्तम् । अतः उक्तविवेकशून्यत्वात् ।। ४५८,४५९ ।।
सत्यप्रमोदटीका
चतुर्मुखः क्षीरसागरं गत्वा पुरुषसूक्तेन पुरुषं विष्णु-मुपतस्थे इति भागवते वर्ण्यते । तत्र उपतस्थे इति उपस्थानोक्त्या पुरुष-सूक्तस्य विष्णुमन्त्रत्वं तत एव विष्णोः तत्सूक्तप्रतिपाद्यत्वं चावसीयते । न हि अन्यमन्त्रेण अन्योपस्थानं सम्भवतीत्याह तत्रेति । ते पुरुषसूक्तं न विष्णुपरं इति ब्रुवाणाः ।। ४५८, ४५९ ।।
युक्तिमल्लिका
साक्षान्मोक्षाङ्गतोक्तेस्सा मूर्तिरप्राकृतैव हि ।
न हि प्राकृतविज्ञानादप्राकृतपदं भवेत् ।। ४६० ।।
सुरोत्तमटीका
पुरुषसूक्तार्थकथनस्य प्रकृतोपयोगं दर्शयति ।। साक्षा-दिति ।। हि यस्मात्प्राकृतविज्ञानादप्राकृतपदं मुक्तिर्न भवेत् । तस्मात्साक्षा-न्मोक्षाङ्गतोक्तेः एवं विद्वानिति सहस्रशीर्षत्वादिप्रकाराणामपि मोक्षोपयोगि-ज्ञानविषयत्वोक्तेरित्यर्थः । सा मूर्तिस्सहस्रशीर्षाद्याकारमूर्तिः ।। ४६० ।।
सत्यप्रमोदटीका
साक्षान्मोक्षः अमृत इह भवतीत्यत्रोक्तः परममोक्षः । यद्वा मोक्षं प्रति साक्षादङ्गत्वोक्तेः इति योजना । अधिकारिनिष्ठोपायेष्विति भावः । प्रसादस्तु भगवन्निष्ठः । सा पुरुषसूक्तोक्ता सहस्रशीर्षत्वाद्यवयवोपेता मूर्तिः अप्राकृता अप्राकृतमोक्षाख्यपदप्राप्त्युपायज्ञानविषयत्वात् व्यतिरेकेण संसारिदेहवत् इति प्रयोगो विवक्षितः । विपक्षे हेतूच्छित्तिं बाधकमाह न हीति
।। ४६० ।।
युक्तिमल्लिका
सहस्राक्षिशिरःपादैर्यतोऽत्यन्तविलक्षणः ।
पुरुषः पूर्ववाक्येन विश्वव्याप्तश्च कीर्त्यते ।। ४६१ ।।
सुरोत्तमटीका
पुरुष एवेदं सर्वमित्यस्यैक्यार्थत्वे बाधकं वदन्निदर्शन-पूर्वकं स्वाभिमतार्थमाह ।। सहस्राक्षीत्यादिना ।। सहस्राण्यक्षीणि शिरांसि-पादाश्च तैः । समासान्तविधेरनित्यत्वात् वैलक्षण्यस्य स्फुटीकरणाय चैकवद्भावो नास्ति । यतः यस्मात् । अत्यन्तविलक्षणः ‘‘अनन्तबाहूदरवक्त्रनेत्र’’ इति स्मृतिसमाख्यया सहस्रपदस्यानन्तार्थकत्वात् तस्य जडे वा चेतने वा क्वाप्य-सम्भवादत्यन्तविलक्षणः पुरुष इत्युक्तम् । पूर्ववाक्येन ‘‘सहस्रशीर्षा पुरुष’’ इति पूर्ववाक्येन । विश्वव्याप्तश्च ‘‘सभूमिं विश्वतो वृत्वाऽत्यतिष्ठदि’’ति वाक्येन कीर्त्यते ।। ४६१ ।।
सत्यप्रमोदटीका
इदानीं ‘पुरुष एवेदं सर्वं’ इति वाक्यस्यैक्यपरत्वाभावं उपक्रमादिभिर्निर्धार्य स्वातन्त्र्यैक्यपरत्वं समर्थयते सहस्राक्षीत्यादिना । अत्यन्तविलक्षणः जडजीवेभ्यः । जडे शिरआद्यभावात् जीवे अनन्तशिर-आद्यभावाच्चेति भावः । विश्वव्याप्तः इति ‘स भूमिं विश्वतो वृत्वा’ इति पूर्ववाक्येन कथ्यते ।। ४६१ ।।
युक्तिमल्लिका
उतामृतत्वस्येशानो यदन्नेनातिरोहति ।
एतावानस्य महिमा ततो ज्यायांश्च पूरुषः ।
इत्युत्तरत्र चेशत्वपूर्वोऽस्य महिमोच्यते ।। ४६२ ।।
सुरोत्तमटीका
उत्तरत्र च उत्तरवाक्ये । अस्य पुरुषस्य । ईशत्वपूर्वः मुक्तेशत्वसंसार्यतिक्रान्तत्वज्यायस्त्वपूर्व इत्यर्थः । महिमोच्यत इति सम्बन्धः । अनेनापि पूर्ववदत्यन्तविलक्षणः पुरुषोऽभूदिति भावः ।। ४६२ ।।
सत्यप्रमोदटीका
ईशत्वपूर्वः मुक्तेशत्वसंसार्यतिक्रान्तत्वसर्वोत्तमत्वपूर्वः ।। ४६२ ।।
युक्तिमल्लिका
अतः पुरुष एवेदं सर्वमित्यपि नैक्यवाक् ।
उपक्रमोपसंहारौ यद्वाक्यार्थनियामकौ ।। ४६३ ।।
सुरोत्तमटीका
अतः पूर्वोत्तरवाक्ययोः स्पष्टबहुविरुद्धधर्मकथनेनात्यन्त-वैलक्षण्यस्यैवोक्तत्वात् ऐक्यवाक् न । तन्मध्ये पतितमिदमपि वाक्यमैक्य-प्रतिपादकं नेत्यर्थः । तत्र हेतुमाह ।। उपक्रमेति ।। यत् यस्मात् । उपक्रमोप- संहारानुगुण्येनैव मध्यगतवाक्यार्थस्यापि निर्णेयत्वादिति भावः ।। ४६३ ।।
सत्यप्रमोदटीका
अतः उपक्रमोपसंहारयोः सोपपत्तिकं सर्ववैलक्षण्य-स्यैव वर्णनात् । नैक्यवाक् स्वरूपैक्यवाक् न भवति किन्तु–
‘स्वातन्त्र्ये च विशिष्टत्वे स्थानमत्यैक्ययोरपि ।
सादृश्ये चैक्यवाक् सम्यक् सावकाशा यथेष्टतः’
इति भगवत्पादोक्तिमनुरुध्य स्वातन्त्र्याद्यैक्यपरा ।। ४६३ ।।
युक्तिमल्लिका
यदधीना यस्य सत्ता तत्तदित्येव भण्यते ।
राजैव राष्ट्रमित्यादिप्रयोगस्तन्निदर्शनम् ।। ४६४ ।।
सुरोत्तमटीका
तर्हि वाक्यस्य कोऽर्थ इत्यत आह ।। यदधीनेति ।। तन्निदर्शनं यदधीनेत्याद्युक्तन्यायस्य दृष्टान्तः ।। ४६४ ।।
सत्यप्रमोदटीका
तत्र लोकन्यायं निदर्शनं चाह यदिति ।। ४६४, ४६५ ।।
युक्तिमल्लिका
अतः पुरुष एवेति पुंसस्स्वातन्त्र्यवागियम् ।। ४६५ ।।
सुरोत्तमटीका
अतः नियम्यनियामकयोरैक्यव्यपदेशस्य दृष्टत्वात् पुंसः पुरुषस्य स्वातन्त्र्यवाक् स्वातन्त्र्याख्यमहिमप्रतिपादकवाक्।। ४६५ ।।
युक्तिमल्लिका
पूर्वोत्तरोक्तसुगुणरत्नमाला महामणिम् ।
मध्ये बिभर्ति न पुनः काचं वाचामगोचरम् ।। ४६६ ।।
सुरोत्तमटीका
पूर्वोत्तरानुगुण्येन मध्येऽपि वाक्यार्थकल्पना कर्तव्येत्यत्र लोकदृष्टान्तमाह ।। पूर्वोत्तरोक्तेति ।। सुगुणरत्नमाला शोभनगुणाख्यरत्नमाला । गुणबाहुल्यान्मालेत्युक्तम् । मध्येऽपि महामणिं नायकरत्नं सकलगुणेषु स्वातन्त्र्याख्यगुणस्य श्रेष्ठत्वात् स्वातन्त्र्ये हि निर्दुःखानन्दादिकं सम्भवत्यन्यथा नेत्यतो महामणिमित्युक्तम् । काचं नैच्यापादकत्वेन काचोपममैक्यम् । वाचामगोचरमित्यनेन परमते तस्यैक्यस्य वागविषयत्वं स्मारयति ।। ४६६ ।।
सत्यप्रमोदटीका
महामणिं स्वातन्त्र्याख्यश्रेष्ठगुणं मध्ये ‘पुरुष एवेदं सर्वं’ इति वाक्ये । गुणेषु तारतम्याभावेऽपि स्वातन्त्र्यस्य सर्वगुणानां दोषा-भावानां च उपपादकत्वात् श्रेष्ठत्वं वैविक्षिकम् । उपपादनं च सर्वधर्मो-पपत्तेश्चेति नये स्पष्टम् । काचं ऐक्यं गुणविरोधेन नैच्यापादकम् । वाचाम-गोचरं एकधाऽनुद्रष्टव्यमिति श्रुत्या ऐक्यस्य ब्रह्मस्वरूपमात्रत्वाङ्गीकारात् ब्रह्मणश्चावाच्यत्वोपगमात् ।। ४६६ ।।
युक्तिमल्लिका
यत्स्वप्रकाशात्मरूपमैक्यं ते वाक्यदूरगम् ।। ४६७ ।।
सुरोत्तमटीका
तदेवोपपादयति ।। यदिति ।। ते मते । स्वप्रकाशात्म-रूपमिति हेतुगर्भं विशेषणम् । स्वप्रकाशत्वेन ब्रह्मणः शास्त्रावेद्यत्वं वदता तदभिन्नैक्यस्यापि तथात्वस्यावश्यं वक्तव्यत्वादिति हेतोस्सूचनात् । अखण्डार्थ-वादाख्ययुक्तेरप्युपलक्षणमेतत् । अतोऽपि नास्य वाक्यस्यैक्यमर्थ इति भावः ।। ४६७ ।।
सत्यप्रमोदटीका
तदेवाह यदिति स्वप्रकाशेति इतरावेद्येत्यर्थः । किं चैक्यं संसर्गः । अखण्डार्थवादे वाचां तदविषयत्वेनेत्यपि बोध्यम् ।।४६७ ।।
युक्तिमल्लिका
विरुद्धधर्मास्त इमे साक्षान्मोक्षाङ्गताबलात् ।
अनिवर्त्याश्च सत्याश्च कदैक्यावसरो वद ।। ४६८ ।।
सुरोत्तमटीका
ननु विरुद्धधर्माणां मिथ्यात्वान्नैक्यबाधकत्वमिति शङ्कां वेदाप्रामाण्यप्रसङ्गेन दूषितामपि दोषान्तरेण दूषयति ।। विरुद्धधर्मा इति ।। साक्षान्मोक्षांगताबलात् तमिति पुरुषस्य एवमिति तद्धर्माणां च वेदनस्य सहैव मोक्षहेतुत्वकथनादित्यर्थः । अनिवर्त्याः ब्रह्मवदनिवर्त्याः सत्याश्च ।। ४६८ ।।
सत्यप्रमोदटीका
मोक्षाङ्गताबलात् यत्र मोक्षाङ्गत्वं तत्रानिवर्त्यत्वं सत्यत्वं च यथा ब्रह्मणीति व्याप्तिबलात् ।। ४६८ ।।
युक्तिमल्लिका
एवं विद्वानिति ज्ञानं श्रूयते सप्रकारकम् ।
निष्प्रकारकधीवेद्यं तेऽद्वैतं नात्र शोभते ।। ४६९ ।।
सुरोत्तमटीका
ऐक्यार्थकत्वे दूषणान्तरमाह ।। एवं विद्वानिति ।। निष्प्रकारकचरमवृत्तिवेद्यत्वेनाङ्गीकृतं तवैक्यम् । अत्र सप्रकारक ज्ञानविषय-धर्मबोधके वाक्ये ।। ४६९ ।।
सत्यप्रमोदटीका
अखण्डब्रह्मस्वरूपत्वेन त्वदङ्गीकृतं ऐक्यं ‘एवं विद्वान्’ इति सप्रकारकज्ञानजनकशास्त्रवेद्यं नेत्याह एवमिति ।। ४६९ ।।
युक्तिमल्लिका
एतावानस्यमहिमा ततो ज्यायांश्च पूरुषः ।
इति पूर्वोक्तमहिमा ज्यायस्त्वे हेतुरुच्यते ।। ४७० ।।
अतः पूर्वोदितोऽप्यर्थस्सर्वोऽपि महिमा भवेत् ।
न चेद्विरुद्धो हेतुस्स्यादनुवादोऽप्यनन्वितः ।। ४७१ ।।
सुरोत्तमटीका
एक्यार्थकत्वाभावे युक्त्यन्तरं चाह ।। एतावानिति ।। यतोऽस्य पुरुषस्य महिमा एतावान्पूर्वोक्तप्रकारेण बहुसंख्याक इत्यर्थः । ततः कारणात् पुरुषः ज्यायान् सर्वोत्तम इति पूर्वोक्तमहिमाज्यायस्त्वे यतो हेतु-रुच्यते । अतः पूर्वोदितः पूर्ववाक्यैरुदितः सर्वोऽप्यर्थः महिमा महिमरूपः । न चेत् मध्ये ऐक्यमुक्त्वा महिमरूपता नोच्यते चेत् । हेतुः एतावानस्य महिमेत्युक्तो हेतुर्विरुद्धस्स्यात् । त्वयोच्यमानैक्याख्यज्यायानित्युक्तसर्वोत्तम-त्वाख्यसाध्यविपर्ययव्याप्तत्वादिति भावः । अनुवादोऽप्यनन्वितः । एतावा-नित्यनेनैक्यस्याप्यनुवादे तस्य महिमघातकत्वेन पुनर्महिमेति पदमग्निना सिञ्चेदितिवदर्थत एवानन्वितं स्यादित्यर्थः ।। ४७०,४७१ ।।
सत्यप्रमोदटीका
एतावानिति परामर्शः पूर्वोक्तस्य महिमत्वमाह । ऐक्यं च न महिमेति कथं तत्पूर्ववाक्यार्थः स्यादित्याह एतावानिति । ऐक्यस्य अत्रोक्तज्यायस्त्वे हेतुत्वाभावाच्च न तत् वाक्यार्थ इत्याह इतीति । विरुद्धः ऐक्यस्य ज्यायस्त्वाभावेनैव व्याप्तत्वादिति भावः । अनन्वितः ऐक्य-स्योक्तत्वे तस्य महिमत्वाभावादिति भावः ।। ४७०,४७१ ।।
युक्तिमल्लिका
सोऽमृतस्याभयस्येशो मर्त्यमन्नं यदत्यगात् ।
इति स्मृत्यनुसारेण मर्त्यामृतपदोक्तयोः ।। ४७२ ।।
मुक्तामुक्तचितोरीशो ह्युत्तरार्धे स कथ्यते ।
अतो जडपदार्थस्यापीशत्वं वक्ति पूर्ववाक् ।। ४७३ ।।
सुरोत्तमटीका
पुरुष एवेदं सर्वमित्यस्य स्वोक्तार्थे नियामकान्तरं च दर्शयति ।। सोऽमृतस्येति ।। स्मृत्यनुसारेण भागवतवाक्यानुसारेण मर्त्यामृत-पदोक्तयोर्मर्त्यमन्नं यदत्यगादित्यन्नपदस्य मर्त्यार्थकथनात् अमृतत्वस्येत्य-स्यामृतस्येत्यर्थकथनात् मुक्तामुक्तचितोरित्युक्तम् । उत्तरार्धे उतामृतत्वस्ये-त्युत्तरवाक्यार्धे । स पुरुषः । अतः चेतनाचेतनयोर्मध्ये चेतनेशानत्वकथनात् । पुरुष एवेदं सर्वमिति पूर्ववागपि जडपदार्थस्यापीशत्वं वक्तीति योजना । जडाजडात्मजगतोर्जडेशत्वं पूर्वमुक्त्वा अजडेशत्वं पश्चाद्वक्तुमुचितं नान्यदिति भावः ।। ४७२,४७३ ।।
सत्यप्रमोदटीका
सोऽमृतस्याभयस्येति भागवतश्लोकः उतामृतत्वस्ये-शानः यदन्नेनातिरोहति इति सूक्तखण्डव्याख्यानरूपः । तेन सूक्तस्थान्नशब्दः मर्त्यभूतसंसारिजीवपरो व्याख्यातः । तथा चैतेन सूक्तभागेन परमात्मनो मुक्तामुक्तनियामकत्वमुक्त्वा जडनियामकत्वं ‘पुरुष एवेदं सर्वं’ इति पूर्व-वाक्येन वचनं सन्दर्भोचितमित्याह मुक्तामुक्तेति । तथाचासङ्कुचितसर्वोत्तमत्व-महिमसिद्धिरिति भावः ।। ४७३ ।।
युक्तिमल्लिका
दृश्यमानमिदं सर्वं प्रायशो जडमेव हि ।
न चेदतिविरुद्धोक्तिरियं स्यात्सर्ववादिनाम् ।
मुक्तामुक्तचितोरीशः कथं सर्वजडात्मकः ।। ४७४ ।।
सुरोत्तमटीका
पूर्ववाक्ये जडत्वज्ञापकं किमित्यत आह ।। दृश्यमान-मिति ।। इदं परिदृश्यमानं इदंपदस्य परिदृश्यमानार्थकत्वाद्दृश्यमानमित्युक्तम् । तादृशं च सर्वं प्रायशो जडमेव हि । अतस्तन्नियामकतया तदीशत्वमेवा-त्रोच्यत इति भावः । एवमनङ्गीकारे बाधकमाह ।। न चेदिति ।। कथमित्यत आह ।। मुक्तामुक्तचितोरिति ।। सर्वजडात्मकः पुरुष एवेदं सर्वमिति वाक्यस्यैक्यार्थकत्वे जडैक्यप्राप्तेस्सर्वजडात्मक इत्युक्तम् । एवं च मुक्तामुक्त-चितोरीशः जडाभिन्नश्चेत्येतत्सर्ववादिमतविरुद्धमिति भावः ।। ४७४ ।।
सत्यप्रमोदटीका
इदम्पदम् । दृश्यमानवाचि स्वरसतो जडमेव वक्ति । परजीवान् परमात्मानं च द्रष्टुं योगिनः प्रभवन्तीति प्रायश इत्युक्तम् । एवं इदंशब्दस्य जडपरत्वे स्थिते त्वदुक्तरीत्या ऐक्यपरतयाऽर्थकथनं अतिविरुद्धं आपद्यते इत्याह न चेदिति । स्वातन्त्र्यैक्यं नाङ्गीक्रियते चेत् इत्यर्थः ।।४७४।।
युक्तिमल्लिका
देहोऽप्यात्मा न चेत्सर्वं दृश्यमानमिदं जडम् ।
कथं पुरुष एव स्यादेवेत्यत्यन्तदुर्घटम् ।। ४७५ ।।
सुरोत्तमटीका
तदेव दर्शयति ।। देहोऽपीति ।। देहोऽप्यात्मा न चेत् । देहोऽपीत्यपिपदेनातिसमीपस्थतया अहमिति व्यवह्रियमाणतया च सम्भावितै-क्योऽपीति सूचयति । इदं घटपटादिकं पुरुष एव कथं स्यात् । चार्वाकातिरिक्त सर्ववादिभिरपि देहात्मविवेकस्याङ्गीकारादिति भावः ।। एवेति ।। पुरुष एवेत्यत्रोक्तमेवेति पदं अत्यन्तदुर्घटम् । यदा सर्वं पुरुष इत्यपि न वक्तुं शक्यते तदा पुरुष एवेति सुतरां वक्तुं न शक्यत इत्यर्थः । अनेन पदेनात्यन्ताभेदकथनात् भेदाभेदाङ्गीकारेणापि नात्र निर्वाहः शक्य इति भावः ।। ४७५ ।।
सत्यप्रमोदटीका
यदा जडैकदेशदेहैक्यमपि आत्मनो दुर्घटं मम देह इति प्रमाबाधितत्वात् । तदा किमु वाच्यं सर्वजडैक्यस्यात्यन्तदुर्घटत्वमित्याह देह इति ।। ४७५ ।।
युक्तिमल्लिका
विशिष्टैक्यं हि तस्यार्थो यज्जीवेऽपि न युज्यते ।। ४७६ ।।
सुरोत्तमटीका
भावान्तरं चाह ।। विशिष्टैक्यमिति ।। तस्यैवकारस्य विशिष्टैक्यं यावन्ति विशेषणानि सहस्रशीर्षत्वादीनि तावद्विशेषणविशिष्ट-मैक्यम् । चिन्मात्रैक्ये हि पुरुष एवेति न वक्तुमुचितम् । किन्तु पुरुषस्यैकदेश इत्येव वक्तव्यम् । पुरुष एवेत्युक्ते यथा पुरुषोऽस्ति तथैवेत्यर्थस्य प्रतीय-मानत्वात् । एवपदमहिम्ना विशिष्टैक्यमेवायाति । न तु चिन्मात्रैक्यमिति भावः । यद्विशिष्टैक्यं जीवेऽपि न युज्यते तत्कथं जडे स्यात् । अत एव प्रागत्यन्तदुर्घटमित्युक्तम् ।। ४७६ ।।
सत्यप्रमोदटीका
पुरुष एवेदं इत्यत्र एवकारो भागत्यागलक्षणां प्रति-रुन्धानः कृत्स्नेन विशिष्टेन पुरुषेणैवैक्यं विदधाति । विशिष्टैक्यं च त्वया जीवेनापि परस्य नाङ्गीकृतम् । दूरे जडेनेति भावः । येन तदेतद्वाक्यार्थः स्यादित्याह विशिष्टेति ।। ४७६ ।।
युक्तिमल्लिका
नष्टानुत्पन्नजडतो भूतभव्यपदोदितात् ।
ऐक्यं त्वनादिनित्यस्य पुरुषस्येति को वदेत् ।। ४७७ ।।
सुरोत्तमटीका
ऐक्यार्थकत्वे बाधकान्तरं चाह ।। नष्टानुत्पन्नेति ।। यद्भूतं यच्च भव्यमिति भूतभव्यपदोदितात् । भूतपदस्यातीतार्थकत्वाद्भव्यपदस्य भविष्यदर्थकत्वात् नष्टानुत्पन्नजडत इत्युक्तम् । एवं च भूतभव्यपदबलादपि जडमेवात्र प्रतिपाद्यमिति सूचयति । अनादिनित्यस्य प्रागभावप्रध्वंसविधुरस्य ।। ४७७ ।।
सत्यप्रमोदटीका
यत् भूतं भव्यं इति पदोदितं नष्टानुत्पन्नजडवस्तुजातं तेनैक्यं न अनादिनित्यस्य व्याहतेरित्याह नष्टेति ।। ४७७ ।।
युक्तिमल्लिका
भावाभावविरोधश्च नास्ति किं सर्वसंमतः ।
घटोऽपि विद्यमानोऽयं न हि नष्टघटात्मकः ।। ४७८ ।।
सुरोत्तमटीका
भावाभावविरोधश्च नास्ति किमित्यनेनाभावप्रतियोगिनो जडस्य भावरूपस्य पुरुषस्यैक्येभावाभावविरोधोऽपि दत्तजलांजलिस्स्यादिति सूचयति । विरोधमेव दर्शयति ।। घटोऽपीति ।। घटेऽप्यसम्भावितमिदं कथं परमात्मन्युच्यत इति भावः ।। ४७८ ।।
सत्यप्रमोदटीका
व्याघातमेव निदर्शनोक्तिपूर्वकं उपपादयति भावा-भावेति । प्रागभावप्रध्वंसप्रतियोगित्वं तत्प्रतियोगित्वाभावः इत्येतयोः कथ-मेकत्रावस्थानमिति भावः ।। घटोऽपीत्यत्रापिपदेन किमु वाच्यं अनादिनित्यस्य सादिविनाशजडैक्यं न सम्भवतीति इत्येवं विरोधातिशयं स्फोरयति ।। ४७८ ।।
युक्तिमल्लिका
पूर्वोक्तमर्थं सर्वं च तच्छ्ब्दोऽयं परामृशेत् ।
कथं विरुद्धयोरेकफलसाधनता वद ।। ४७९ ।।
सुरोत्तमटीका
ऐक्यार्थत्वेऽन्यदपि बाधकमाह ।। पूर्वोक्तमिति ।। तच्छब्दः तमेवं विद्वानित्यत्र श्रुतः तमिति पूर्वपरामर्शीतच्छब्दः । पूर्वोक्तं सहस्रशीर्षेत्यादि पूर्ववाक्योक्तं सर्वं परामृशेदिति सम्बन्धः । सर्वमित्यनेन तन्मध्यपतितं पुरुष एवेदं सर्वमिति वाक्योक्तमर्थमपि सङ्गृह्णाति । विरुद्धयोः इतरवाक्यानां भगवन्महिमप्रतिपादकत्वेन भेदपरत्वात् अस्य च वाक्य-स्यैक्यार्थत्वाङ्गीकारे परस्परविरुद्धयोरित्यर्थः । महिमप्रतिपादकवाक्यानां बहुत्वेऽपि जातावेकवचनमङ्गीकृत्येदं द्विवचनमिति द्रष्टव्यम् । विद्वानित्यत्रोक्त ज्ञानद्वाराऽमृतो भवतीत्युक्तमोक्षाख्यैकफलसाधनता । भेदज्ञानस्यैक्यज्ञानस्य च मिथो विरुद्धत्वेनैकफलसाधनत्वायोगात् । नहि ग्रामात्परावृत्यागमनेन तमेव ग्रामं प्रत्याभिमुख्य गमनेन चैकग्रामप्राप्तिरस्ति । न च जलपानात् वह्नि-ज्वालापानाच्च तृषापरिहाराख्यैकफलप्राप्तिर्दृष्टा । अतस्सर्ववाक्यानामपि भेदपरता यथा भवति तथैव योजनिका कर्तव्या । न तु मध्ये एकवाक्यस्यैक्य- परतापीति भावः ।। ४७९ ।।
सत्यप्रमोदटीका
बाधकान्तरं चाह पूर्वोक्तमिति । तच्छब्दः तमेवं विद्वानित्यत्र श्रुतः । पूर्वं च ईशान इति निरवकाशपदेन भेद उक्तः । यदि पुनः पुरुष एवेदं इत्यस्य त्वद्रीत्या अभेदः अर्थः स्यात् तर्हि तच्छब्दः पूर्वोक्तसर्वपरामर्शित्वात् भेदं अभेदं उभयं परामृशतीत्यापतति । न च तथा सम्भवति । यतः ‘अमृत इह भवति’ इति एकमेव मोक्षरूपं फलं तज्ज्ञानस्य कथ्यते । विरुद्धयोर्भेदाभेदज्ञानयोरेकफलसाधनत्वस्यालौकिकत्वात् । विष-पीयूषयोः दहनतुहिनयोर्विरुद्धकार्यकारित्वस्यैव दर्शनादित्याह कथमिति ।। ४७९ ।।
युक्तिमल्लिका
अनपेक्षितसन्त्यागः स्वापेक्षितपरिग्रहः ।
कथं स्यात्सूक्तसूत्रेऽस्मिन्दृढबद्धार्थसन्मणौ ।। ४८० ।।
सुरोत्तमटीका
नन्वितरवाक्यार्थमपरामृश्य स्वापेक्षितैक्यवाक्यार्थमेवायं तच्छब्दः परामृशतीति मन्दाशङ्कां साहित्यमुद्रया परिहरति ।। अनपेक्षितेति ।। सूक्तसूत्रे एकार्थप्रतिपादकत्वात् एकसूक्तात्मके पुरुषसूक्ताख्यतन्तौ अपौरुषेय-त्वेनान्यथीकर्तुमशक्यतया दृढं बद्धो योऽर्थः स एव सन्मणिः तस्मिन् । अनपेक्षितसन्त्यागः स्वस्यानपेक्षितानामितरवाक्यार्थानां सन्त्यागः स्वापेक्षित-परिग्रहः स्वापेक्षितस्यैक्यवाक्यार्थमात्रस्य परिग्रहश्च कथं स्यादिति योजना । अपौरुषेयवाक्यतया एकांशेऽप्यप्रामाण्यासम्भवेन कस्यचिद्भागस्य व्यावहारिकार्थ- परतापरित्यागः कस्यचिदङ्गीकारश्च न वक्तुमुचितः । परामर्शस्य पक्षपाता-भावादिति भावः ।। ४८० ।।
सत्यप्रमोदटीका
ननु तच्छब्देन ऐक्यमात्रस्य परामर्शोऽङ्गीक्रियते । भेदस्तु श्रुत्युक्तोऽपि व्यावहारिक इति न तत्परामर्श इति वैयात्येन ब्रुवाणं पराचष्टे अनपेक्षितेति । दृढबद्धार्थसन्मणौ दृढं निरवकाशतया बद्धाः प्रति-पादिताः अर्थाः ज्यायस्त्वादयः ते एव सन्मणयः यस्मिन् तादृशे सूक्ते अनपेक्षितसन्त्यागः त्वदनभितत्वमात्रेण भेदस्य व्यावहारिकत्वकल्पनेन सन्त्यागः तच्छब्देनापरामर्शः । न हीदं पुरुषसूक्तं दुरुक्तं येन त्वदुक्तं स्वप्रतिपादितार्थस्य मिथ्यात्वं सहेतेति भावः ।। ४८० ।।
युक्तिमल्लिका
स्वेच्छानुसारिव्याख्या चेन्मीमांसा किन्निबन्धना ।
सूत्रच्छेदं विना मध्यमणेर्नैव हि सङ्ग्रहः ।। ४८१ ।।
सुरोत्तमटीका
युक्त्यन्तरं चाह ।। स्वेच्छेति ।। स्वेच्छानुसारिणी व्याख्या स्वेच्चानुसारिव्याख्या । वेदोक्तोऽप्यर्थः कश्चिन्मिथ्या कश्चित्सत्य इति व्याख्येति यावत् । मीमांसावाक्यानां परस्परविरोधे सति उभयोरपि वाक्ययोर-विरुद्धार्थकथनेन प्रामाण्यरक्षणरूपा । किं निबन्धना व्यर्थेत्यर्थः । अनपेक्षित-वाक्यानां मिथ्याभूतार्थकत्वेनाप्रामाण्यं वक्तुं शक्यं चेत् किमर्थमियं मीमांसेति भावः । प्रागुक्तसाहित्यमुद्रया लब्धमर्थमाह ।। सूत्रच्छेदमिति ।। मध्यमणे र्मालामध्यस्थितरत्नस्य सङ्ग्रहः मालातः पृथकृत्य स्वीकारः । एवं सूत्रस्या-प्रामाण्याख्यच्छेदं विना पूर्वोत्तरवाक्योक्तमहिम्नां परित्यागेन मध्यवाक्योक्तैक्य-परामर्शोऽप्यशक्य इति भावः
।। ४८१ ।।
सत्यप्रमोदटीका
स्वेच्छानुसारिव्याख्या स्वसमयमात्रानुरोधेन विरोधि-वाक्यानां अतत्वावेदकत्वलक्षणाप्रामाण्योक्तिरूपा । मीमांसा सर्वेषां वेद-वाक्यानां प्रामाण्यपरिरक्षणाय अन्यतरस्य सम्भवदर्थान्तरदर्शनेन विरोधं परिहृत्य शास्त्रस्य एकवाक्यतासमर्थनरूपा । सूत्रच्छेदं भगवतः कल्याणगुण-मणिग्रथितमालायाः आधारभूतैकसूत्रात्मकस्य सूक्तस्य छेदं अप्रामाण्यं विना । त्वदभिमतैक्यवाक्यस्य पूर्वोत्तरवाक्ययोरतत्वावेदकत्वकल्पनां विनेति यावत् । मध्यमणेः मध्यवाक्योक्तस्य ऐक्यस्य नैव हि सङ्ग्रहः तच्छब्दपरामर्श-विषयताऽसिद्धिः । विरोधादेवेति भावः ।। ४८१ ।।
युक्तिमल्लिका
छिन्ने सूत्रे त्वनालम्बः परामर्शोऽप्ययं पतेत् ।
अतो ज्ञानैकसाध्योऽर्थो न स्यात्ते स्यात्तमोऽन्ततः ।। ४८२ ।।
सुरोत्तमटीका
अस्तु तर्हि सूत्राप्रामाण्यमित्यत आह ।। छिन्न इति ।। सूत्रे सूक्ताख्यसूत्रे छिन्ने अप्रामाण्येन विनाशिते अनालम्बः तमेवं विद्वानिति सूक्तमध्यपतितपरामर्शवाक्यस्याप्यप्रामाण्यप्रसङ्गेन मूलीभूतस्वप्रतिपादकप्रमाण-शून्य इत्यर्थः । पतेत् गच्छेत् । सूक्तस्याप्रामाण्ये परामर्शवाक्यस्याप्यप्रामाण्य-प्रसङ्गेन भवदभिलषितैक्यपरामर्शोऽपि न स्यात् । उपलक्षणं चैतत् । अप्रमाणवाक्यमध्यपतित भवदभिमतैक्य वाक्यस्याप्यप्रामाण्यापरिहारेणैक्यमपि न सिद्ध्येदिति भावः । अस्तु परामर्शपतनं का नो हानिरित्यत आह ।। अत इति ।। अतः तमेवं विद्वानिति परामर्शवाक्यस्याप्रामाण्येन नाशितत्वात् ते तव, ज्ञानैकसाध्योऽर्थः मोक्षः न स्यात् । ज्ञानेन मोक्षं प्राप्स्यामीति हि तवाशयः तन्न स्यात् । मोक्षस्य ज्ञानसाध्यत्वे प्रमाणाभावात् । ततश्चान्ततस्ते इत्थं वेदाप्रामाण्यवादिनस्तव तम एव स्यादित्यर्थः ।। ४८२ ।।
सत्यप्रमोदटीका
छिन्ने सूत्रे तत्सिद्धये पूर्वोत्तरवाक्ययोरप्रामाण्याङ्गीकारे सति सूक्तोक्तत्वाविशेषात् ऐक्यवाक्यस्याप्यप्रामाण्यापत्तौ अनालम्बः पूर्वोक्तार्थानां सर्वेषां मिथ्यात्वेन विषयशून्यः । अयं परामर्शः तमेवं इतिरूपः। पतेत् बाधितः स्यात् । किं ततः । इदं ततः । वेदाप्रामाण्यवादिनस्तव तदर्थ-ज्ञानैकसाध्यो मोक्षरूपपुरुषार्थो न स्यात् । प्रत्युत ‘तत्प्रमाणस्य निन्दा च’ इति परिगणितपरतत्त्वद्वेषशीलस्य अन्ततः तम एव स्यात् ।। ४८२ ।।
युक्तिमल्लिका
तस्मान्मीमांसकैरार्यैरुक्त एवार्थ इष्यते ।
अन्यो ह्यनर्थः श्रोतुर्वा वक्तुर्वा न मनोहरः ।। ४८३ ।।
सुरोत्तमटीका
तस्मात्परोदीरितार्थस्य बहुधा विरुद्धत्वात् । उक्तोऽर्थः सर्वस्य भगवदधीनत्वरूपार्थः । अन्यः सर्वस्य ब्रह्मात्मकत्वरूपः । अनर्थः श्रुत्यप्रामाण्याद्यनर्थसंपादकः ।। ४८३ ।।
सत्यप्रमोदटीका
मीमांसकैः भगवत्पादैः आर्यैः श्रीमदाचार्यैः उक्तः अर्थः स्वातन्त्र्यैक्यादिरूपः । अन्यः अर्थः स्वरूपैक्यरूपः । न मनोहरः तमःफलकत्वादित्यर्थः ।। ४८३ ।।
युक्तिमल्लिका
व्यत्यासश्च विभक्तीनां वेदव्यासस्य संमतः ।
अन्नेनेति तृतीयां यो द्वितीयार्थेऽन्वशिक्षत ।। ४८४ ।।
सुरोत्तमटीका
पुरुष एवेदं सर्वमिति वाक्यस्य प्रकारान्तरेणाप्यर्थं वक्तुं पीठिकामारचयति ।। व्यत्यास इति ।। यः व्यासः यदन्नेनातिरोहतीत्यत्र विद्यमानान्नेनेति तृतीयां द्वितीयाविभक्त्यर्थे मर्त्यमन्नं यदत्यगादिति भागवत-वाक्येनैतद्वाक्यव्याख्यानरूपेण अन्वशिक्षत तस्य व्यासस्येति सम्बन्धः । विभक्तीनां व्यत्यासः एकविभक्तौ विभक्त्यन्तरमित्यर्थः । अन्नेनेति तृतीयाया अन्नमिति द्वितीयाविभक्त्यर्थत्वकथनेनार्थानुपपत्तौ वेदे विभक्तिव्यत्यासोऽपि व्यासस्य सम्मत इति भावः । व्यासस्येत्युपलक्षणम् । सुपां सुलुगित्यादि वचनात्पाणिन्यादीनामपीति द्रष्टव्यम् ।। ४८४ ।।
सत्यप्रमोदटीका
व्यत्यासः आपातार्थे बाधिते विभक्तिविपरिणामेन योग्यार्थोक्तिः । अत्रैव सूक्ते तत्संमतिं निदर्शयति अन्नेनेति ‘यदन्नेनातिरोहति’ इति अतिरोहणार्थातिक्रमस्य कर्माकांक्षस्य करणार्थकान्नपदोत्तरतृतीययाऽ-न्वयानुपपत्तेः तत्सूक्तव्याख्यानरूपे भागवते द्वितीयस्कन्धे विभक्तिविपरिणामेन द्वितीयाविभक्तिमाश्रित्य ‘अन्नं यदत्यगात्’ इत्येव तदर्थो व्याख्यातः । सुपां सुलुगित्यादिसूत्रप्रणेतुः पाणिनेरपि न्यायोऽयं संमत इत्यप्याशयः ।। ४८४ ।।
युक्तिमल्लिका
अतः पुरुष एवेति प्रथमा पञ्चमी यदा ।
सदा सर्वनिमित्तत्वमहिमा पुंसि वर्ण्यते ।। ४८५ ।।
सुरोत्तमटीका
पीठिकारचनया लब्धमर्थमाह ।। अत इति ।। अतः वेदे विभक्तिव्यत्यासस्यापि प्रामाणिकत्वात् । पञ्चमी पुरुषादिति निमित्त-पञ्चमीविभक्त्यर्थभूता ।। ४८५ ।।
सत्यप्रमोदटीका
विभक्तिव्यत्ययेन लब्धं भगवतो महिमाऽतिशय-रूपमर्थं अनेकधाऽऽह अत इति । सर्वनिमित्तत्वमहिमा तस्माद्विराजायत प्राणाद्वायुरजायत इत्येव अत्रैव सूक्त उक्तः इत्यर्थः ।। ४८५ ।।
युक्तिमल्लिका
यदा तु सप्तमी सर्वाधारत्वं वर्णयेत्तदा ।। ४८६ ।।
सुरोत्तमटीका
सप्तमी पुरुषे इत्याधारसप्तमीविभक्त्यर्थभूता ।। ४८६ ।।
सत्यप्रमोदटीका
सप्तमी इयं च पुरुषे एवेति पदच्छेदेनापि लभ्यत इति तुशब्देनाह ।। ४८६ ।।
युक्तिमल्लिका
सूक्तस्यैकार्थता चैवं सत्येव स्यान्न चान्यथा ।
यतस्सर्वजगत्कर्ता पुरुषस्सोऽत्र कीर्त्यते ।। ४८७ ।।
सुरोत्तमटीका
आपातप्रतीतपरकीयार्थे बाधकान्तरं च सूचयन्नुक्तरीत्या विभक्तिव्यत्यासेनार्थकथनमेव न्याय्यमित्याह ।। सूक्तस्येति ।। एवं सत्येव विभक्तिव्यत्यासेनार्थकथने सत्येव एकार्थता पूर्वोत्तराविरुद्धैकप्रकारार्थता । पूर्वोत्तरवाक्योक्तमहिमवत् अस्मिन्नपि वाक्ये सर्वकर्तृत्वसर्वाधारत्वादिमहिम-लाभादित्यर्थः । अन्यथा विभक्तिव्यत्यासं विनाऽऽपातप्रतीतार्थकथने । तथा च परकीयार्थे वाक्यभेदोऽपि दोष इति भावः । एकार्थतामेव लेशतो दर्शयति ।। यत इति ।। अत्र पुरुष एवेदं सर्वमिति वाक्ये ।। ४८७ ।।
सत्यप्रमोदटीका
एकार्थता विष्णोः सर्वोत्कर्षरूपैकार्थप्रतिपादकत्वम् ।। ४८७ ।।
युक्तिमल्लिका
अपि भिक्षाऽटनं कृत्वा ज्ञातीन् रक्षितुमर्हति ।
यदियं भारती भीमसेनदर्शितपद्धतिः ।। ४८८ ।।
सुरोत्तमटीका
किञ्च पुरुष इति प्रथमायास्सप्तम्यर्थतामङ्गीकृत्यार्थ कथनमेवात्रोचितमिति साहित्यमुद्रयाह ।। अपीति ।। भिक्षाटनं कारकान्तरा-द्विभक्त्यन्तरम् । अन्यत्र तु प्रसिद्ध एवार्थः । ज्ञातीन् वाक्यतया स्वसमान-जातीयपूर्वोत्तरवाक्यानि । ऐक्यार्थकथने पूर्वोत्तरवाक्यानां महिमप्रतिपादकानां अप्रामाण्याख्यनाशप्रसङ्गात् विभक्त्यन्तराश्रयणे तु सर्वेषामेकवाक्यतया प्रामाण्यप्रतिघातेन रक्षणादिति भावः । यद्यस्मात् । इयं पुरुषसूक्ताख्या-श्रुतिर्भारती ‘‘ब्राह्मी तु भारती भाषे’’त्यनुशासनात् भारतीपदवाच्या । अन्यत्र तु भरतकुलोत्पन्नभारतीपदवाच्यभीमसेनपत्नी द्रौपदी । भीमसेनदर्शितपद्धतिः भीमसेनेन दर्शिता पद्धतिर्यस्यास्सा । भीमसेनमार्गमनुसृत्य वर्तमानेत्यर्थः । भीमसेनो हि एकचक्रानगरे भिक्षाटनं कृत्वा धर्मराजादीन्स्वज्ञातीनरक्षत् । इयमपि भारतीपदवाच्यत्वाद्भारत्यभिमन्यमानत्वाच्च स्वपतिवत्कारकान्तरा-द्विभक्त्यन्तरगवेषणं कृत्वाऽपि स्वपूर्वोत्तरवाक्यरक्षणमेव कर्तुमर्हतीति भावः ।। ४८८ ।।
सत्यप्रमोदटीका
भिक्षाटनं विभक्त्यन्तरार्थाश्रयणम् । ज्ञातीन् पूर्वोत्तर-वाक्यानि रक्षितुं परापादिताप्रामाण्यादपोह्य तत्प्रामाण्यं स्थापयितुम् । भारती श्रुतिः । भीमसेनः भाष्यकारः तदपरावतारः । तेन दर्शितपद्धतिः तदुक्तदिशा अर्थवर्णनपरा । तदुक्तं वैश्वानरनयभाष्ये ‘पुरुषविधमपि चैनमधीयते’ इति सूत्रखण्डव्याख्यानावसरे ‘यथैव पौरुषं सूक्तं नित्यं विष्णुपरायणमि’त्यादि-ब्राह्मपुराणवचनोदाहरणेन तथा ‘यथा हि पौरुषं सूक्तं विष्णोरेवाभिधायक-मि’त्यादिबृहत्संहितावाक्योदाहरणेन च विष्णोः सर्वोत्तमत्वे तात्पर्यमस्य सूक्तस्य ।। ४८८ ।।
युक्तिमल्लिका
न चेत्कथमभेदार्था यतो वाक्यम्भिनत्ति सा ।
सम्भवत्येकवाक्यत्वे वाक्यभेदो हि दूषणम् ।। ४८९ ।।
सुरोत्तमटीका
अभेदार्थत्वे दोषान्तरं चाह ।। न चेदिति ।। यतः यस्मात्सा अभेदार्थत्वेन परेणाभिमन्यमाना वाक् । वाक्यं पूर्वोत्तरवाक्यं भिनत्ति भिन्नार्थकं करोति । पूर्वोत्तरवाक्येषु भेदकथनात् अत्र चाभेदकथनात् कथम-भेदार्था । अभेदार्था हि वाक् सर्वत्र भेदं निवारयेत् । इयं तु वाक्यभेदमेव साधयन्ती कथमभेदार्थेति विरोधाख्य एको दोषः । सकलवाक्यसाधारणं दूषणान्तरं चाह ।। सम्भवतीति ।। ४८९ ।।
सत्यप्रमोदटीका
अन्यथा वाक्यभेदो दोष इत्याह न चेदिति । तत्प्रकारश्च पूर्वमुक्त इत्याशयः । स्वयं इयं श्रुतिः वाक्यभेदं कुर्न्वती चेत्कथमभेदं साधयेदिति च ध्वनिः ।। ४८९ ।।
युक्तिमल्लिका
जडात्मैक्यप्रसङ्गेन मुख्यार्थस्तु तवापि न ।
याञ्चायां तु प्रवृत्तेन सदन्नं किं न याच्यते ।। ४९० ।।
सुरोत्तमटीका
पुनरपि दोषान्तरमाह ।। जडात्मेति ।। मुख्यार्थः असंकुचितत्वेन सर्वपदमुख्यार्थः जडाजडसकलपदमुख्यार्थः । याञ्चायां मुख्य-वृत्त्यसम्भवेनामुख्यवृत्तेराश्रयणे । सदन्नं पूर्वोत्तरवाक्याविघातकत्वेन सुपां सुलुगित्यनुशिष्टत्वेन च विभक्त्यन्तराश्रयणरूपसदन्नम् । परेण क्रियमाणयाञ्चा तु पूर्वोत्तरवाक्यविघातकत्वेनाननुशिष्टत्वेन च कदन्नयाच्ञेति भावः ।।४९०।।
सत्यप्रमोदटीका
तवापि न । जडस्य मिथ्यात्वेन तदैक्ये ब्रह्मणोऽपि मिथ्यात्वापत्तेः । याञ्चायां सर्वशब्दस्य सङ्कोचेन जडमात्रार्थाश्रयणेन तथा पुरुषः इत्यस्य पुरुषे आरोपितमित्यर्थाश्रयणेन न अमुख्यार्थाश्रयणे । सदन्नं पुरुषाधीनत्वरूपम् । किं न याच्यते । अमुख्यवृत्त्या किं नाश्रीयते । इदं चाभ्युपेत्योक्तम् । वस्तुतो मद्रीत्या मुख्यवृत्त्या सुपां सुलुगित्यनुशासनबलेन निमित्तत्वाधारत्वाद्यर्थसम्भवस्योक्तत्वात् इति विभावनीयम् ।। ४९० ।।
युक्तिमल्लिका
किं च पौरुषसूक्तेऽस्मिन्सर्वस्य पुरुषात्मता ।
यद्यर्थस्तर्हि कार्यार्थं व्यर्थं तेन तदर्थनम् ।। ४९१ ।।
सुरोत्तमटीका
अपि च पुरुष एवेदं सर्वमिति वाक्यस्य सकलचेतनानां पुरुषनामकनारायणाभिन्नार्थकत्वे ब्रह्मादिभिश्श्वेतद्वीपं गत्वाऽनेन सूक्तेन विष्णोरुपासनं कृतमिति या पौराणिकी प्रक्रिया साप्यनुपपन्नेत्याह ।। किञ्चेति ।। तेन पुरुषसूक्तेन । तदर्थनं तस्य विष्णोरर्थनमुपासनं व्यर्थं विरुद्धार्थकं विगतार्थकं च । ब्रह्मादीनां स्वेषामपि पुरुषरूपत्वे भेदसापेक्षोपास्योपासक-भावायोगात् । स्वैरपि भूभारच्छेदस्य कर्तुं शक्यत्वेनान्यप्रार्थने वैयर्थ्याच्चेति भावः ।। ४९१ ।।
सत्यप्रमोदटीका
अस्य सूक्तस्य जीवेश्वरैक्यपरत्वेऽतिप्रसङ्गमाह किं चेति । सर्वस्य जीवजातस्य । पुरुषात्मता विष्ण्वभिन्नता । कार्यार्थं भूभारायितदैत्यसंहारार्थम् । तेन चतुर्मुखेन । तदर्थनं विष्णुप्रार्थनम् । व्यर्थं निरर्थकम् । चतुर्मुखादीनां भूदेव्याश्चापि विष्णुत्वेन स्वयं तैरेव भूभारहरण-सम्भवेन तदर्थमन्यप्रार्थनस्य निरर्थकत्वात् । अपार्थकं च । उपास्योपासक-भावस्य भेदसापेक्षत्वेनाभेदे तदयोगादेव ।। ४९१ ।।
युक्तिमल्लिका
का भूः कुतो भरस्तस्याः कस्स्वयं कश्च पूरुषः ।
एतावदपि सूक्तार्थं ध्याता धाता न वेत्ति किं ।। ४९२ ।।
सुरोत्तमटीका
एतदेव दर्शयति ।। का भूरिति ।। भूः धरादेवी । स्वयं ब्रह्म ध्याता पुरुषसूक्तार्थध्यानकर्ता । धाता ब्रह्मा । सूक्तार्थभूतं एतावत् का भूः कुतो भरः कस्स्वयं कश्च पुरुष इत्येतावत्प्रमेयं न वेत्ति किमिति सम्बन्धः ।। ४९२ ।।
सत्यप्रमोदटीका
वैयर्थ्यमेव विशदयति का भूरिति । भूदेवी अपि पुरुष एवेति प्राप्तम् । कुतो भरः दैत्यानामपि पुरुषत्वेन पुरुषेभ्य एव भर इति निष्पन्नम् । कः स्वयं चतुमुखोऽपि पुरुषाभिन्न एवेत्यायातम् । कश्च पुरुषः । पुरुषसूक्तोक्तोऽपि विष्णुः पूर्वोक्तेभ्यः अभिन्न एव । ध्याता मन्त्रेणोपस्थाता ।। ४९२ ।।
युक्तिमल्लिका
पुरुषात्पुरुषस्यैव भये पुरुषपूजनम् ।
पुरुषः कुरुते कस्मात्तस्मादस्मन्मतं स्मर ।। ४९३ ।।
सुरोत्तमटीका
कुतो न वेत्तीत्यत आह ।। पुरुषादिति ।। पुरुषाद्दैत्य-रूपनारायणात्पुरुषस्यैव धरारूपनारायणस्यैव पुरुषः ब्रह्मरूपनारायणः पुरुष-पूजनं विष्णुरूपनारायणपूजनं कस्मात्कारणात्कुरुते न कुर्यादेव । सर्वस्य चेतनवर्गस्य नारायणरूपत्वे कथं भुवो भारः कथं च दैत्यानां भूभारहेतुत्वं कथं च विष्णोः पूज्यत्वं ब्रह्मणश्च पूजकत्वम् । न हि स्वस्यैव स्वस्माद्भारे सति स्वयमेव स्वपूजनं करोतीति कोपि प्रेक्षावान्मन्यत इति भावः । तस्मात्परोदीरितार्थस्यातिविरुद्धत्वात् ।। ४९३ ।।
सत्यप्रमोदटीका
यदि नाम जानीयात् नर्हि उपस्थानेन आत्मानं अपहास्यं न विदधीत । कृतवांश्चोपस्थानम् । तेन सः पुरुषस्वरूपज्ञानहीन इत्यायातम् । न च तथा वक्तुं शक्यम् । ‘वेदाहमेतं पुरुषं महान्तमि’ति तद्वचनविरोधात् । अतो नैक्यार्थकत्वं युक्तमित्याह पुरुषादिति ।। ४९३ ।।
युक्तिमल्लिका
व्यावहारिकभेदाच्चेत्तर्हि कार्यानुरोधिनः ।
तस्यानुकूलमेवार्थं वक्ति सूक्तं न वैरिणम् ।। ४९४ ।।
सुरोत्तमटीका
व्यावहारिकभेदस्य विद्यमानत्वादियं सर्वाऽपि व्यवस्था घटत इति परहृदयमुद्घाट्यदूषयति ।। व्यावहारिक भेदादिति ।। कार्यानु-रोधिनः उक्तव्यवस्थाघटकस्य तस्य भेदस्य । अनुकूलं सप्तमीविभक्त्याश्रयणेन भेदानुकूलमाधाराधेयभावरूपमर्थमेव वक्ति । वैरिणमुक्तव्यवहारविरोधिनं सर्वचेतनाभेदम् । न हि धनिनः प्रार्थनार्थं गतो दरिद्रः अहमेव धनीति ब्रूते ।। ४९४ ।।
सत्यप्रमोदटीका
व्यावहारिकभेदसद्भावेन उपासनादिव्यवहारो घटते इत्याशङ्क्य निराह व्यावहारिकेति । कार्यानुरोधिनः अर्थक्रियानिर्वाहकस्य तस्य भेदस्य अनुकूलं सर्वनियामकस्रष्टृत्वादिरूपम् । न वैरिणं व्यवहारविरोधिनम् ऐक्यं न वक्तीति योज्यम् ।। ४९४ ।।
युक्तिमल्लिका
अन्ततः परमार्थश्च स एव स्याद्धि कार्यकृत् ।
सर्वैक्यं सर्वकार्याणां भञ्जकं कस्य रञ्जकम् ।। ४९५ ।।
सुरोत्तमटीका
नन्वस्तु तर्हि भेद एवास्मिन्वाक्ये प्रतिपाद्योऽर्थः । तस्य परमार्थता कथमित्यत आह ।। अन्तत इति ।। कार्यकृत् अपेक्षितसकलार्थ-क्रियाकारी । स एव उक्तभेद एव परमार्थः अबाध्यार्थः । भञ्जकं विरोधि । कस्य कार्यस्य रञ्जकं न कस्यापि । अर्थक्रियानुपयोगीत्यर्थः । श्रुत्युक्तस्यास्यैव भेदस्यार्थक्रियाकारित्वात् अन्वयेन ब्रह्मवत् व्यतिरेकेण शुक्तिरूप्यवच्च पारमार्थिकत्वमपि सिद्ध्येत् । अर्थक्रियानुपयोगिनस्त्वदभिलषितैक्यस्य च शुक्तिरूप्यवन्मिथ्यात्वं च सिद्ध्येत् । अबाध्यत्वयोग्यस्य बाध्यतां वदन् बाध्यत्वयोग्यस्य चाबाध्यतां च वदन् (बावांश्च) व्याहतभाषी भवेदिति भावः।। ४९५ ।।
सत्यप्रमोदटीका
व्यवहारनिर्वाहकता चेद्भेदस्याङ्गीकृता तस्य परमार्थत्वं प्राप्तमेवेत्याह अन्ततः इति नेतोन्यदधिकं परमार्थत्वं नामास्तीति भावः । ऐक्यं च सर्वव्यवहारभञ्जकत्वादपरमार्थमिति चैवं सिद्ध्यतीत्याह सर्वेति । तदुक्तं वादावल्यां ‘यदि भेददर्शनं न स्यात्तहि सकलव्यवहारविधुरः परः प्रसज्येते’ति ।। ४९५ ।।
युक्तिमल्लिका
बोध्यत्वं बोधकत्वं च साध्यसाधकतां तथा ।
गुरुं शिष्यं च यद्धन्ति तन्न हन्ति हि कः पुमान् ।। ४९६ ।।
सुरोत्तमटीका
किञ्च तत्वज्ञानोपयोगिनो गुरुशिष्यभावस्य शास्त्रतत्वयो-र्बोध्यबोधकभावस्य च फलत्वोपयोगिनोर्मुमुक्षुमोक्षयोस्साध्यसाधकभावस्य सर्वापेक्षितवर्णाश्रमविभेदस्य शून्यब्रह्मविभेदस्य च घातकमैक्यमेव प्रेक्षावद्भि-रुपेक्ष्यमित्याह ।। बोध्यत्वमित्यादिना ।। बोध्यत्वं प्रतिपाद्यत्वं बोधकत्वं प्रतिपादकत्वम् । साध्यो मोक्षस्साधको मुमुक्षुः । यत् ऐक्यं हन्ति तदिति सम्बन्धः ।। ४९६ ।।
सत्यप्रमोदटीका
ऐक्यस्य सकलव्यवहारविलयहेतुत्वं व्यञ्चयंस्तद्भावना-परित्यागं विधत्ते बोध्यत्वमिति ।। तत् ऐक्यम् । पुमान् बुभूषुः
।। ४९६ ।।
युक्तिमल्लिका
वर्णाश्रमविभेदस्य शून्याशून्यव्यवस्थितेः ।
साधकः परमार्थोऽर्थो बाधकोऽर्थस्तु बाध्यते ।। ४९७ ।।
सुरोत्तमटीका
अशून्यं ब्रह्म । ततः किमित्यत आह ।। साधक इति ।। साधकस्सकलार्थक्रियाकारीभेदः । बाधकस्सकलव्यवहारविरोध्यभेदः । साधक इत्युपलक्षणम् । विद्यया ह्यविद्यानिवृत्तिस्साध्या । साध्यसाधनभावश्च भेदघटित इति मुक्तिकालीन इत्यपि द्रष्टव्यम् ।। ४९७ ।।
सत्यप्रमोदटीका
स्रष्टृसृज्यभावरूपभेदाभावे मुखाद्बाह्मणः बाह्वोः क्षत्रियः इत्येवं व्यवस्थया वर्णसृष्टिः, आश्रमसृष्टिश्च न सिध्यति । एवं ब्रह्मणि भेदकानां सत्त्वादीनां धर्माणामभावेन तस्य शून्याद्भिन्नत्वं सिद्ध्यति । ततः सर्वार्थक्रियाकारी भेदः एव वाक्यार्थोऽङ्गीकारार्हः । बाधकः उक्तरीत्या व्यवस्थाधातकः । अर्थः ऐक्यरूपः । बाध्यते तिरस्क्रियते ।। ४९७ ।।
युक्तिमल्लिका
यदि सर्वैक्यमर्थो न वाक्यं स्यात्तर्ह्यनर्थकम् ।
गौणार्थानुसृतौ विष्णोस्स्वातन्त्र्याख्यगुणं वदेत् ।। ४९८ ।।
सुरोत्तमटीका
दोषान्तरं चाह ।। यदीति ।। अर्थः पुरुष एवेदं सर्वमिति वाक्यार्थः । अनर्थकं मुख्यार्थविधुरम् । गौणार्थानुसृतौ मुख्यार्थमभेदं विहाय पुरुषव्यतिरेकेणासत्त्वमित्याद्यमुख्यार्थानुसरणे । अमुख्यत्वाविशेषात् राजा राष्ट्रमितिवत्पुरुषाधीनं सर्वमित्यर्थस्यैव पूर्वोत्तराविरुद्धत्वेन वक्तुं शक्य-त्वात् विष्णोस्स्वातन्त्र्याख्यगुणं वदेदिति योजना ।। ४९८ ।।
सत्यप्रमोदटीका
उक्तव्यवस्थापरिरक्षणाय सर्वैक्यरूपमुख्यार्थपरित्यागे च बाधकमाह यदीति । अनर्थकं अमुख्यार्थपरम् । पुरुषव्यतिरेकेण जडरूपं सर्वं नासीदिति पदद्वयलक्षणापत्तेः । अमुख्यार्थस्यैवाश्रयणीयत्वे सति अस्मदुक्तं, सर्वं पुरुषाधीनसत्ताकं इति राजा राष्ट्रमिति वत् स्वातन्त्र्याख्य-पुरुषगुणप्रतिपादकत्वाश्रयणमेव समुचितमित्याह गौणेति ।। ४९८ ।।
युक्तिमल्लिका
सङ्कोचेऽप्यल्पजडतः स्यादैक्यं न तु जीवतः ।
इदम्पदार्थो हि जडो यत्ते जीवोऽनिदम्पदः ।। ४९९ ।।
सुरोत्तमटीका
ननु सर्वशब्दस्य संकोचं कृत्वा चैतन्यैक्यमेवोच्यते । अतो नामुख्यार्थतेत्यत आह ।। संकोचेऽपीति ।। गर्हावाचिनाऽपिपदेन संकोचस्यैव दोषत्वं सूचयति । अस्मिन्पक्षेऽभेदाख्यमुख्यार्थलाभेऽपि सर्वपदस्य सङ्कोचेनामुख्यार्थतापरिहारात् । दोषान्तरं च स्पष्टमाह ।। अल्पजडत इति ।। तत्र हेतुमाह ।। इदंपदार्थ इति ।। यद्यस्मात् ते मते जडः जड एवेदं पदार्थः । जीवः अनिदंपदः अनिदमितिपदं यस्येत्यनिदंपदः । तस्मादल्पजडत इति पूर्वेणान्वयः। सर्वपदसंकोचेऽपीदंपदमहिम्ना परिदृश्यमानाल्पजडत एवैक्यं स्यात् । न तु त्वदभिलषितजीवैक्यमिति भावः ।। ४९९ ।।
सत्यप्रमोदटीका
सर्वपदस्य सङ्कोचेऽपि न त्वदभिमतजीवब्रह्मैक्य-सिद्धिः। इदं पदसमभिव्याहारबलेन सर्वपदस्याल्पे जडे एव सङ्कोचस्य न्याय्य-त्वात् । जडे एव दृश्यमानत्वार्थकेदम्पदसम्भवस्य प्रागुक्तत्वादित्याह सङ्को-चेऽपीति । जीवः अदृश्यमानत्वात् अनिदम्पदः इदम्पदवाच्यो न ।। ४९९ ।।
युक्तिमल्लिका
तत्पूर्वस्वोत्तरार्थघ्नं स्वोपस्थात्रर्थघातकम् ।
अयुक्तं च जडाद्यैक्यमुक्तं चेत्सूक्ततैव न ।। ५०० ।।
सुरोत्तमटीका
उक्तमर्थमुपसंहरति ।। तदिति ।। तत्तस्मात् । पूर्वोक्त-प्रकारात् । पूर्वस्वोत्तरार्थघ्नं स्वस्मात्पूर्वोक्तसहस्रशीर्षत्वाद्यर्थानां मुक्तेशत्वा-द्युत्तरार्थानां च नाशकम् । स्वोपस्थात्रर्थघातकं स्वेनोपस्थानं कुर्वन्त-स्स्वोपस्थातारो ब्रह्माद्याः । तेषामर्थस्य प्रयोजनस्य घातकम् । जडाद्यैक्यमिदं-पदमहिम्ना प्राप्तजडाद्यैक्यम् । सुष्ठूक्तं वचनं हि सूक्तम् । तस्य भावस्सूक्तता । ऐक्यार्थकथने सूक्तस्य दुरुक्ततैव स्यादिति भावः ।। ५०० ।।
सत्यप्रमोदटीका
जडैक्यपरत्वपक्षखण्डनं प्रागुक्तदोषान्स्मारयन् उप-संहरति तदिति । उपस्थातुः चतुर्मुखस्य । अर्थस्य प्रयोजनस्य घातकम् । यद्येवमपि इदं सूक्तं ऐक्यं वदेत्तर्हि तस्य सूक्ततैव न स्यात् किं तु दुरुक्ततैव प्राप्नोति । दुरुक्तत्वं च वेददूषकत्वत्समयस्यैवोचितं नत्वेवापौरुषेयसूक्तस्येति भावः ।। ५०० ।।
युक्तिमल्लिका
विशिष्टचिद्धि बाहुल्यात्सर्वं स्यान्न तदैक्यवत् ।
चिन्मात्रमबहुत्वात्ते न सर्वाख्यं यदैक्यवत् ।। ५०१ ।।
सुरोत्तमटीका
इदंपदमनादृत्य सर्वपदसङ्कोचेन जीववाचित्वाङ्गीकारेऽपि दूषणमाह ।। विशिष्टेति ।। हि यस्मात् । विशिष्टचिदन्तःकरणाद्युपाधि-विशिष्टचित् । बाहुल्याद्बहुसङ्ख्याकत्वात् । सर्वं सर्वपदार्थः । जडात्सर्वपदस्य संकोचेऽपि बहुष्वेव सर्वपदप्रयोगः कर्तव्यः । नत्वेकस्मिन् । तच्च विशिष्ट-चैतन्यात्मकजीववाचित्व एव घटत इति भावः । तद्विशिष्टचैतन्यं ऐक्यवन्न । विशिष्टचैतन्यैक्यस्य परेणानङ्गीकारात् । यदविशिष्टचैतन्यमैक्यवत्तच्चिन्मात्रं अबहुत्वादेकत्वाद्भेदकोपाध्यभावे भेदानङ्गीकारादिति भावः । सर्वाख्यं सर्वपद-प्रतिपाद्यं सर्वपदार्थ इति यावत् । यत्र सर्वपदस्य सम्भवस्तत्रैक्यासम्भवः । यत्र चैक्यस्य सम्भवस्तत्र सर्वपदासम्भवः । ततश्चैकं सन्धित्सतोऽपरं प्रच्यवत इति न्यायाख्यपङ्के पतितोऽसीति भावः।। ५०१ ।।
सत्यप्रमोदटीका
अस्तु वा जीवपरं सर्वपदम् । तथाऽपि न ऐक्यवार्ताया अत्र प्रत्याशा । तथाहि जीवपदेन विशिष्टमभिमतं चिन्मात्रं वा । नाद्यः । तस्य बहुसङ्ख्याकत्वेन सर्वपदोक्तबाहुल्यस्य कथञ्चिदुपपत्तावपि पुरुषाख्यब्रह्मणैक्यं न युज्यते । त्वयैवानङ्गीकारात् । प्रत्युत ‘कथमेकत्व-मनयोर्घटते विपरीतयोरि’ति त्वद्भाष्यकारेण विशिष्टैक्यपक्षस्य दूषितत्वात् । न द्वितीयः । तस्य कथञ्चिदैक्यसम्भवेऽपि एकत्वेन सर्वपदोक्तबाहुल्यानुपपत्तेः । तथा च उभयथाऽपि ऐक्यायोग एवेत्याह विशिष्टेति । यत्सर्वं, न तदैक्यवत्, यदैक्यवत् न तत्सर्वाख्यं इति योजना ।। ५०१ ।।
युक्तिमल्लिका
अथवैक्यपरं वाक्यमेतदस्तु न मे भयम् ।
तन्मुख्यार्थं च युक्तं च यथा स्यात्तां कथां शृणु ।। ५०२ ।।
सुरोत्तमटीका
स्वमते पक्षान्तरं चाह ।। अथवेति ।। एतद्वाक्य-मैक्यपरमस्त्विति सम्बन्धः । तदैक्यपरं पुरुष एवेदं सर्वमिति वाक्यम् । तां कथां भगवत्येव भेदशङ्कामापाद्य तन्निरासपरतया कथ्यमानां कथाम् ।।५०२।।
सत्यप्रमोदटीका
ऐक्यपरत्वेऽपि पूर्वप्रसक्तानामन्तर्यामिरूपाणां व्याप्त-रूपेणैक्यपरत्वमस्तु तथा च मुख्यार्थस्यैवोपपत्तिरित्याह अथेत्यादि नवभिः
।। ५०२ ।।
युक्तिमल्लिका
असङ्ख्यदेहिदेहेषु सोऽत्यतिष्ठद्दशाङ्गुलम् ।
इति पूर्वश्रुतौ पुंसो रूपबाहुल्यमीरितम् ।। ५०३ ।।
सुरोत्तमटीका
पूर्वश्रुतौ अत्यतिष्ठद्दशांगुलमिति श्रुतौ । सः सहस्रशीर्ष-त्वादिना पूर्वोक्तः पुरुषः । असंख्यदेहिदेहेष्विति केचित्स्वदेहान्तर्हृदयावकाशे प्रादेशमात्रं पुरुषं वसन्तमिति श्रुतिसमाख्ययोपात्तम् । अत्यतिष्ठत् जीवा-दतिशयितत्वेनातिष्ठदिति पुंसो रूपबाहुल्यं रूपानन्त्यमीरितमिति सम्बन्धः । तेन तेषां भगवद्रूपाणामानंत्यात् स्थानभेदप्रसक्तिरिति भावः ।। ५०३ ।।
सत्यप्रमोदटीका
स्वगतभेदनिषेधाय पूर्वं भेदप्रसक्तिं स्थानभेदनिमित्ता-माह असङ्ख्येति ।। ५०३ ।।
युक्तिमल्लिका
प्रादेशमात्रतोक्त्यैषां प्रोक्ता मध्यममानता ।
तत्तदङ्गुलिमानानां प्रोक्ता चाल्पाल्पमानता ।। ५०४ ।।
सुरोत्तमटीका
प्रकारान्तरेण भेदप्रसक्तिं दर्शयति ।। प्रादेशेति ।। एषां रूपाणां मध्यममानता मध्यमप्रमाणता प्रोक्ता । इतोऽपि व्याप्तरूपाद्भेद-प्रसक्तिरिति भावः । प्रकारान्तरेणापि भेदप्रसक्तिमाह ।। तत्तदिति ।। तेषां देवानां तेषां मनुष्यादीनां चांगुलिभिर्मानं प्रमाणं येषां तानि तेषां भगव-द्रूपाणामल्पाल्पमानता देवांगुलीनां स्थूलत्वान्मनुष्याङ्गुलीनामल्पत्वात् तत्त-दङ्गुलिभिर्दशाङ्गुलत्वाच्चाल्पाल्पप्रमाणता प्रोक्तेति योजना । ततोऽपि रूपाणां परस्परं भेदप्राप्तिरिति भावः ।। ५०४ ।।
सत्यप्रमोदटीका
परिमाणभेदनिमित्तां च तामाह प्रादेशमात्रत इति ।। ५०४ ।।
युक्तिमल्लिका
स्थानभेदेन रूपानन्त्याच्चात्यल्पप्रमाणतः ।
पूर्वोक्तव्याप्तपुरुषाद्रूपाणां भेदशङ्किनी ।। ५०५ ।।
सुरोत्तमटीका
उक्तं संगृह्याह ।। स्थानभेदेनेति ।। पूर्वोक्तव्याप्तपुरुषात् सहस्रशीर्षेति सभूमिं विश्वतो वृत्त्वेति पूर्वोक्तव्याप्तपुरुषादित्यर्थः । रूपाणां देहान्तर्यामिरूपाणां भेदशङ्किनी श्रुतिः । उपलक्षणं चैतत् । मिथो भेदशङ्कि-नीत्यपि द्रष्टव्यम् । इदं पूर्वश्रुतौ प्रस्तावितम् । सर्वमित्यस्य विवरणं रूपकदंबकमिति । एषां भगवद्रूपाणाम् ।। ५०५,५०६ ।।
सत्यप्रमोदटीका
तथा च प्रकारद्वयेन भेदप्रसक्तिरविकलेत्याह स्थानेति ।। ५०५ ।।
युक्तिमल्लिका
श्रुतिः पुरुष एवेदं सर्वं रूपकदम्बकम् ।
इत्यभिन्नत्वमाहैषां प्राक्स्वोक्तव्याप्तपूरुषात् ।। ५०६ ।।
सत्यप्रमोदटीका
इदं सर्वं इत्यनुवादः रूपकदम्बकं इति तदर्थः । तथा चैकवचनोपपत्तिः ।। ५०६ ।।
युक्तिमल्लिका
भेदाभेदादिशङ्काया वारणायावधारणम् ।
आविर्भावात्तिरोभावाद्भूतं भव्यं भवच्च तत् ।। ५०७ ।।
सुरोत्तमटीका
अवधारणं पुरुष एवेत्यवधारणम् । भेदाभेदादिशङ्कायाः अंशांशिभावेन प्राप्तभेदाभेदशङ्कायाः । आदिपदेनांशिरूपादंशरूपाणा-मल्पशक्तित्वादिशङ्कायाश्च वारणाय प्रयुक्तमित्यर्थः ।। ५०७ ।।
सत्यप्रमोदटीका
एवकारव्यवच्छेद्यं दर्शयति भेदाभेदेति ।। ५०७ ।।
युक्तिमल्लिका
भूतभव्यभवद्देहे यद्रूपं परमात्मनः ।। ५०८ ।।
सुरोत्तमटीका
उक्तभगवद्रूपाणां भूतत्वं वर्तमानत्वं भव्यत्वं चोप-पादयति ।। आविर्भावादिति ।। भूतभव्यभवद्देहे । जात्येकवचनमिदम् । अतीतवर्तमानानागतदेहेष्वित्यर्थः । परमात्मनो यद्रूपम् । यानि रूपाणीत्यर्थः । तद्रूपम् । वर्तमानरूपेष्वाविर्भावात् । भविष्यद्रूपेष्वतीतरूपेषु चेदानीं तिरो-भावादिति विवेकः । यद्यपि श्रुतौ भूतभव्ययोरेव ग्रहणम् । तथाप्येतच्छ्रुति-व्याख्यानरूपे सर्वं पुरुष एवेदं भूतं भव्यं भवच्च यदिति भागवतवाक्ये भवदिति वर्तमानस्यापि ग्रहणात् तस्याप्युपपादनमिति द्रष्टव्यम्
।। ५०८ ।।
सत्यप्रमोदटीका
नन्वेवं भूतं भव्यं इत्यनुपपत्तिः । भगवद्रूपाणा-मनादिनित्यत्वादित्यतः जन्ममरणाभावेऽपि आविर्भावतिरोभावविवक्षया तदुपपत्तिर्भवेदेत्याह आविर्भावेति ।। ५०८ ।।
युक्तिमल्लिका
विशेषशक्त्या सर्वं च निर्वोढुं शक्यते किल ।
पूर्वोत्तराविरुद्धोऽर्थश्श्रुतेरेवं भवेन्मम ।। ५०९ ।।
सुरोत्तमटीका
सर्वं भेदाभावेऽपि तिरोहितत्वाविर्भूतत्वाल्पपरिमाण-त्वैकत्वानेकत्वावयवावयविभावादिकं समस्तम् । एवमिदानीमुक्तप्रकारेण । पूर्वोत्तराविरुद्धः पूर्वत्रोत्तरत्र चोक्तार्थाविरुद्ध इत्यर्थः । उपलक्षणं चैतत् । पूर्वोत्तरोक्तभगवद्रूपेषु प्राप्तभेदशङ्कानिरासकत्वेन तत्संगतश्चेत्यपि द्रष्टव्यम् ।। ५०९ ।।
सत्यप्रमोदटीका
सर्वं आविर्भावतिरोभावौ अल्पानल्पपरिमाणत्वे इत्यादि समस्तम् । किल स्थानभेदाधिकरणभाष्योक्तप्रमाणैरेत्प्रसिद्धम् । यथोक्तं तत्त्वप्रदीपे ‘अभेदमपि तद्ब्रह्म बहुरूपं विशेषतः इति प्रत्यये’ इति । एवं व्याख्याने, न केवलं मुख्यार्थलाभः किं तु पूर्वोत्तरानुगुण्यं चेत्याह पूर्वोत्तरेति ।। ५०९ ।।
युक्तिमल्लिका
पूर्वोत्तरविरुद्धार्थस्स्वतश्च व्याहतस्तव ।। ५१० ।।
सुरोत्तमटीका
इदमनिदंपदार्थाभेदरूपत्वात्स्वतश्च व्याहत इत्यर्थः ।। ५१० ।।
सत्यप्रमोदटीका
व्याहतः इदमनिदम्पदार्थाभेदरूपत्वात् ।। ५१० ।।
युक्तिमल्लिका
स्थानस्थानित्वकथनाज्ज्यायस्त्वेशत्वकीर्तनात् ।
जडार्थस्यापि सर्वत्वात्कथमैक्यार्थता वद ।। ५११ ।।
सुरोत्तमटीका
तदेव विशदयति ।। स्थानेति ।। सभूमिं विश्वतो वृत्वेति अत्यतिष्ठद्दशाङ्गुलमिति च भूम्यादीनां स्थानत्वकथनात् ब्रह्मणश्च स्थानित्व-कथनादित्यर्थः । अनेनैक्यार्थे पूर्वविरोधो दर्शितः । ज्यायस्त्वेशत्वकीर्तना-दित्यनेनोत्तरविरोधः । जडार्थस्यापि सर्वत्वादित्यनेन स्वविरोधश्च दर्शितः । उपलक्षणं चैतद्व्याख्यानं व्याख्यानान्तरस्य । सहस्रशीर्षेति पूर्ववाक्ये सहस्रं शीर्षाणि यस्येत्यादिना बहुव्रीहिसमासाश्रयणाद्भगवदवयवानां भगवतश्च प्राप्तभेद-शङ्काया उत्तरत्र च मुखं किमस्येति वाक्येऽस्येति षष्ठ्यर्थतया प्राप्तभगवदवयव-भेदशङ्कायाश्च निरासार्थमिदमुक्तवक्ष्यमाणकरचरणादिकं सर्वं पुरुष एवेति भगवदवयवानां भगवतश्चात्यन्ताभेदपरमिदं वाक्यम् । अवयवावयविभावेन प्राप्तभेदाभेदशङ्कानिरासार्थमेवकारश्चेत्यपि श्रुतेरर्थो द्रष्टव्यः । अवयवानामपि भूतभविष्यत्त्वादिकं कदाचित्सहस्रशीर्षत्वादिनाविर्भावात्कदाचित्तस्यैव तिरो-भावाच्च पूर्ववदेव योजनीयम् । अस्मिन्नेव सूक्ते प्रस्तुतभगवद्रूपादिपरत्वादिदं-शब्दोऽस्माकमेव शोभते । परस्य तु परिदृश्यमानप्रमाणान्तरप्राप्तबहिरङ्ग-जगत्परत्वान्न तथा शोभते । अतोऽपीदमेव व्याख्यानमादरणीयम् ।। ५११ ।।
सत्यप्रमोदटीका
पूर्वविरोधे परार्थे प्रतिज्ञातं अभिनीय दर्शयति स्थानेति । उत्तरविरोधं दर्शयति ज्यायस्त्वेति । व्याहतेः स्थलमाह जडेति
।। ५११ ।।
युक्तिमल्लिका
भेदसौरभसर्वस्वे स्यादस्यार्थस्य विस्तृतिः ।
शुद्ध्युद्धारे तदुद्धारस्त्वन्योन्यमतिमिश्रणात् ।। ५१२ ।।
सुरोत्तमटीका
अभेदखण्डनस्य भेदसौरभ एव कर्तव्यत्वात् अस्य च शुद्धिसौरभत्वादुपरम्यत इत्याह ।। भेदसौरभेति ।। अस्यार्थस्याभेदखण्डन-रूपस्यार्थस्य । तर्ह्येतावदपि कुतोऽत्र चर्चितमित्यत आह ।। शुध्द्युद्धार इति ।। शुद्ध्युद्धारे शुद्धिसौरभे तदुद्धारस्तस्य भेदस्योद्धारस्समर्थनम् । अतिमिश्रणाद्भगवद्गुणानामेकीभूतत्वात् ।। ५१२ ।।
सत्यप्रमोदटीका
भेदस्य शुद्धिसौरभेऽपि संक्षेपेण समर्थनं सङ्गत-मेवेत्याह भेदेति । तदुक्तं भगवत्पादै; ‘विद्यापृथक्त्वात्तु संक्षेपेणात्र सूचितं’ इति । अत्रापि विस्तरेण सङ्कीर्तन एव सौरभाणां सङ्कीर्णताशङ्काऽवकाश इति भावः ।। संक्षेपेणापि वाऽत्र वर्णने हेतुमाह अतिमिश्रणात् इति ।। गुणानां अभेदादित्यर्थः । भेदस्यान्तरङ्गत्वात् फलाध्याये साधनस्येवात्र कथनं नानुपपन्नमिति हृदयम् ।। ५१२ ।।
युक्तिमल्लिका
अतो विचारवातोऽयं सौरभे सौरभान्तरम् ।
संयोजयति त(द्गन्ध)द्ग्रन्थस्सोऽयं जनमनोहरः ।। ५१३ ।।
सुरोत्तमटीका
अतो भगवद्गुणानामन्योन्यमप्येकीभूतत्वात् । विचारवातः विचाराख्यवायुः । सौरभेऽन्यसौरभे । सौरभान्तरं सौरभान्तरप्रमेयं क्वचित्क्वचि-त्प्रसङ्गात्स्पृशतीति भावः । सौरभसंयोजनं वायोरेव धर्म इत्यतो विचारवात इत्युक्तम् । तत्तस्मान्मिश्रणात्
।। ५१३ ।।
सत्यप्रमोदटीका
अतो गुणानामैक्यात् । वातः गन्धान्तरे गन्धस्य संयोजनहेतुः वायुः । संयोजनफलमाह जनमनोहर इति ।। ५१३ ।।
युक्तिमल्लिका
तथाऽपि तत्तदर्थस्य तत्र तत्र विशेषतः ।
विचारणात्सौरभाणां सर्वस्वं भाति पञ्चधा ।। ५१४ ।।
सुरोत्तमटीका
तर्हि सौरभभेदः किं निमित्त इत्यत आह ।। तथापीति ।। ५१४ ।।
सत्यप्रमोदटीका
सौरभभेदे निमित्तमाह तथापीति ।। ‘वैशेष्यात्तु तद्वाद’ इति सूत्रोक्तन्यायेनेति भावः ।। ५१४ ।।
युक्तिमल्लिका
अग्रतो जातपुरुषं रुद्रं पशुपतिं पुरा ।
देवास्सर्वेऽपि यजनयोग्यत्वाद्यज्ञनामकम् ।
प्रौक्षन्बर्हिषि यूपे तमबध्नन्पुरुषं पशुम् ।। ५१५ ।।
सुरोत्तमटीका
सामान्यत उपरितनसूक्तभागस्याप्यर्थं वक्तुं तं यज्ञं बर्हिषि प्रौक्षन्निति वाक्यस्य सूक्तप्रतिपाद्यमहापुरुषार्थतां निवारयितुं तावदर्थ-माह ।। अग्रतो जातेति ।। अग्रतो जातपुरुषमिति पुरुषं जातमग्रत इत्यस्यार्थकथनम् । अग्रतः इन्द्रादिभ्योऽग्रतः । न तु सर्वेषामग्रतः । आदि-पुरुषजातविराट्पुरुषजातत्वकथनादस्य पुरुषस्य । ननु तमिति आदिपुरुषस्यैव कुतो न परामर्श इति चेन्न । सन्निहिताधिपुरुषपरित्यागेन व्यवहितमहापुरुष-परामर्शे कारणाभावात् । स क इत्यत आह ।। रुद्रमिति ।। महापुरुष-पुत्रविराट्पुरुषजातत्वकथनात् । शम्भोः पितामहो ब्रह्मापिता शक्राद्यधीश्वर इति वासुदेवसहस्रनामसमाख्यया यस्याद्य आसीद्गुणविग्रहो महान्विज्ञानधिष्ण्यो भगवानजः किल । यत्सम्भवोऽहमिति भागवतोक्तरुद्रवाक्यसमाख्यया च रुद्रस्यैवात्रप्राप्तेः । युक्त्यन्तरं च सूचयति ।। पशुपतिमिति ।। पशूनां पतिरिति हि पशुपतिशब्दार्थः। स चादिकालीनदेवयज्ञे प्राथमिकपशुत्व एव सम्भवति नान्यथाऽतोऽप्ययं रुद्र एव । तर्ह्यस्य पुरुषपशोर्यज्ञनाम कथमित्यत आह ।। यजनेति ।। इज्यतेऽनेनेति व्युत्पत्त्या यज्ञ इत्यर्थः । प्रौक्षन्प्रोक्षणं कृतवन्तः । यूपे तमित्यादिना अबध्नन्पुरुषं पशुमित्यस्य वाक्यस्य दूरस्थस्यापि संगतत्वादर्थकथनम् । तत्र स्पष्टं पुरुषं पशुमिति पुरुषस्य पशुत्वकथनात् अत्रापि पुरुषपशुरेव गृह्यते । नत्वादिपुरुषः ।। ५१५ ।।
सत्यप्रमोदटीका
‘अबध्नन् पुरुषं पशुं’ इति सूक्तशेषे निर्दिष्टः पुरुषस्तु न सहस्रशीर्षत्वादिमहिमा विष्णुः किं तु रुद्र एव । तस्य पशुत्वबद्धत्व-प्रोक्षणकर्मत्वादीनां कथनात् । ईशानत्वज्यायस्त्वादिधर्मोपेते विष्णौ तेषाम-सम्भवात् । पशुपतौ रुद्रे तत्सम्भवादित्याह चतुर्भिः अग्रत इत्यादिना । अग्रतः इन्द्रादिभ्यः पूर्वम् । ‘तस्माद्विराजायत विराजोऽधिपूरुषः’ इत्यत्रैव तस्य विराट्पुरुषपुत्रत्वकथनात् । ‘अहं ब्रह्मा आद्य ईशः प्रजानां तस्मा-ज्जातस्त्वं च मत्तः प्रसूतः’ इति भारते ब्रह्मणा रुद्रं प्रतिवचनात् । पशुपतिं प्राथमिकपशुम् । तस्मिन्यज्ञशब्दं सङ्गमयति यजनयोग्यत्वादिति । करणे व्युत्पत्त्या इत्यर्थः ।। ५१५ ।।
युक्तिमल्लिका
देवाः पुरुषमेधेन तेन यज्ञेन सर्वशः ।
अयजन्यज्ञपुरुषं पूज्यत्वाद्यज्ञनामकम् ।। ५१६ ।।
सुरोत्तमटीका
यज्ञेन यज्ञमित्यस्यार्थमाह ।। देवा इति ।। तेन पुरुष-मेधेन यज्ञेन पुरुषमेधाख्ययज्ञेनेत्यर्थः । यज्ञमित्यस्यार्थः ।। यज्ञपुरुषमिति ।। इदमुक्तं भवति । रुद्राख्यपुरुषपशुं बर्हिषि प्रोक्ष्य यूपे बध्वा तेन पशुना यज्ञनामकं महापुरुषमयजन्तेति । इज्यत इति व्युत्पत्त्या यज्ञाख्यकर्मणा पूज्यत्वाद्यज्ञनामकमित्यर्थः ।। ५१६ ।।
सत्यप्रमोदटीका
‘यज्ञेन यज्ञमयजन्त देवाः’ इत्यस्यार्थमाह देवाः इति । पुरुषमेधेनेति यज्ञस्याख्या । यज्ञमित्यस्यार्थः यज्ञपुरुषमिति । कर्मव्युत्पत्त्या यज्ञनाम तस्मिन्निर्वक्ति इज्यत्वात् पूज्यत्वाद्यज्ञनामकमिति ।। ५१६ ।।
युक्तिमल्लिका
तमित्युक्तिर्हविःपुंसो यो बध्यो वक्ष्यते पशुः ।
स हि प्रोक्ष्यस्तेन तस्मादित्यादिश्चात्र पुंस्तुतिः ।। ५१७ ।।
सुरोत्तमटीका
अबध्नन्पुरुषं पशुमित्यत्र यः पशुः बन्धनयोग्यत्वात् बध्यो वक्ष्यते । तस्यैव हविः पुंसः यज्ञहवीरूपपुंसः तमित्यनेनोक्ति परामर्शः । हि यस्मात् स एव प्रोक्ष्यः । बन्धनप्रोक्षणयोरेकाधिकरणत्वनियमात् । इयमपि तमित्यत्रोक्तपुरुषस्य पशुपुरुषत्वे युक्तिः । तेन तेन देवा अयजन्तेति वाक्यं तस्मात् तस्माद्यज्ञात्सर्वहुत इत्यादि ग्रन्थश्च अत्र सूक्ते पुंस्तुतिः महापुरुषस्य स्तुतिः ।। ५१७ ।।
सत्यप्रमोदटीका
‘तं यज्ञं बर्हिषि प्रौक्षन्’ इत्यत्र तच्छब्देन ‘अबध्न-न्पुरुषं पशुम्’ इति अग्रे वक्ष्यमाणपुरुषपशोरेव परामर्शः । प्रोक्षणबन्ध-नयोरेकाधिकरणत्वनियमादित्याह तमिति ।। हविःपुंसः । कर्मधारयः हवी-रूपपुंस इत्यर्थः । तेन इत्यनेन तेन देवा अयजन्तेति वाक्यं, तस्मात् इत्यनेन तस्माद्यज्ञादित्यादिकं च सङ्गृह्यते ।। अत्र उभयत्र पुंस्तुतिः महापुरुषस्तुतिः न तु पशुपुरुषस्य तत्रार्थतया प्रसक्तिः ।। ५१७ ।।
युक्तिमल्लिका
ज्यायस्त्वं महिमा व्याप्तिरमृतत्वेशतादिकम् ।
न हि बध्यपशोर्देवस्रष्ट्रङ्गत्वं तदिज्यता ।। ५१८ ।।
सुरोत्तमटीका
नन्वेकप्रकरणपठितवाक्यानां कुतो विभज्यार्थकथनमित्यत आह ।। ज्यायस्त्वमिति ।। अमृतत्वस्येशता अमृतत्वेशता । एतदादिकं पूर्ववाक्योक्तं प्रमेयम् । तथोत्तरवाक्योक्तं देवस्रष्ट्रंगत्वं देवानामिन्द्राग्न्यादीनां स्रष्टॄण्यङ्गानि यस्य सः तस्य भावस्तत्त्वम् । तदिज्यता तैर्देवैः कृता इज्या यस्य सः तदिज्यस्तस्य भावस्तदिज्यता । सा च बध्यपशोर्नहि । अतः पूर्ववाक्योक्तोऽपि महापुरुष एव । उत्तरवाक्योक्तोऽपि स एव । तमिति मध्यवाक्ये यज्ञपशुरिति विभज्य कथनमिति भावः
।। ५१८ ।।
सत्यप्रमोदटीका
कुत एवं विभज्यार्थाश्रयणं एकस्मिन्नेव प्रकरणे पठितस्य पुरुषपदस्येत्यतो योग्यतावशादित्याह ज्यायस्त्वमित्यादिना । न हीति । बध्यपशौ सर्वथाऽसम्भाव्यमानानि ज्यायस्त्वादीनि महापुरुष एव योग्यतया सम्बध्यन्ते इति भावः । यथा ‘अन्नात्पुरुषः’ इति ‘स वा एव पुरुषोन्नरसमयः’ इति एकत्र पठितयोरपि पुरुषशब्दयोः उत्तरस्य सारवाचि-रसशब्देन विशेषणात्परमात्मपरत्वमङ्गीक्रियते तथेति भावः । देवानां स्रष्टॄण्यङ्गानि यस्य सः तस्य भावः इति विग्रहः ।। ५१८ ।।
युक्तिमल्लिका
ओन सर्वथाशून्यं निर्दुःखं मोक्षमेव हि ।
नाकाभिधं प्रापुरन्ते नाकिप्राप्यस्स एव हि ।
नाकोऽन्यस्य तु नाकस्य सिद्धत्वात्पूर्वमप्यलम् ।। ५१९ ।।
सुरोत्तमटीका
तेह नाकमित्यत्रोक्तनाकपदस्य स्वर्गपरतां निवारयितुं योगलब्धार्थमाह ।। ओनेति ।। कं सुखं तद्विरुद्धमेकं दुःखं तेन सर्वथा शून्यम् । नञ्द्वयार्थकथनम् ।। सर्वथेति ।। तस्यैव स्पष्टीकरणम् ।। निर्दुःख-मिति ।। अत एव नाकाभिधं मोक्षमन्ते प्रापुरिति सम्बन्धः । नाकपदार्थ-पर्यालोचनायामत्रोक्तनाको मोक्ष एव भवेदिति भावः ।। युक्त्यन्तरं चाह ।। नाकिप्राप्य इति ।। हि यस्मात्समोक्षाख्यो नाक एव नाकिप्राप्यः । तस्माच्च नाकाभिधमिति पूर्वेणान्वयः । नाकस्य प्राक्सिद्धतां द्योतयितुं देवेत्यनुक्त्वा नाकीत्युक्तम् । नाकीत्यत्र सूचितां युक्तिं स्पष्टमाह ।। अन्यस्येति ।। पूर्वमप्यलं सम्यक्सिद्धत्वादिति सम्बन्धः । न हि प्राक्सिद्धस्यैव कर्मसाध्यतापि युक्तेति भावः ।। ५१९ ।।
सत्यप्रमोदटीका
‘ते ह नाकं महिमानः सचन्त’ इत्यत्र नाकशब्दः मोक्षपरः न प्रसिद्धस्वर्गपरः इति द्वाभ्यां साधयति ओनेत्यादिना । ओन कशब्दवाच्यसुखविरुद्धेन दुःखेन सर्वथा शून्यं न विद्यते अकं दुःखं यस्मिन्निति व्युत्पत्त्येति भावः । नाकाभिधं योगवृत्त्या नाकशब्दाभिधेयम् । पूर्वमेव प्राप्तप्रसिद्धनाकाख्यस्वर्गैर्देवैः प्राप्यत्वकथनाच्चात्र अयं नाकशब्दो रूढिमपहाय योगेन मोक्षपर एव वाच्य इत्याह अन्ते इति । न हि प्राप्तस्य स्वर्गस्य पुनः प्राप्तिर्युज्यते इति भावः ।। ५१९ ।।
युक्तिमल्लिका
पूर्वं मुक्ता यत्र सन्ति देवाः किल सहस्रशः ।
तैस्सहैव स्थितिर्मोक्षे देवानां नापरत्र हि ।। ५२० ।।
सुरोत्तमटीका
युक्त्यन्तरं चाह ।। पूर्वमिति ।। पूर्वमुक्ता इति पूर्वे इत्यस्यार्थकथनम् । इदानीं पदस्थदेवेभ्यः पूर्वदेवानां पूर्वत्वं मुक्तत्वमादायैव पर्यवस्यति । नह्येतेषां पूर्वे ते संसारिण इति वक्तुं युक्तमिति भावः । देवा इति च विशेष्यग्रहणेन साध्याः साध्यनामका इति तद्विशेषणमपि गृहीतप्रायं द्रष्टव्यम् । तैः पूर्वैस्साध्यदेवैस्सह देवानामितरदेवानां स्थितिर्मोक्ष एव नापरत्र स्वर्गे हीति योजना । पूर्वेषां देवानामिदानींतनदेवानां च स्वर्गे सहवासा-योगादिति भावः ।। ५२० ।।
सत्यप्रमोदटीका
इतश्चैवमित्याह पूर्वमिति । अयं भावः । अत्र हि पदस्थानां देवानां पूर्वं तत्पदस्थैरेव देवैः सहैव स्थितिः ‘यत्र पूर्वे साध्याः सन्ति देवाः’ इत्युच्यते । न चैतत्प्रसिद्धस्वर्गे सम्भवति । पूर्वेषां इदानींतनानां च देवानां स्वर्गे सहावस्थानायोगात् । अतोऽप्ययं नाकशब्दो मोक्षपर एवेति ।। ५२० ।।
युक्तिमल्लिका
यं धाताऽप्याह वेदाहं महान्तं पुरुषं त्विति ।
आदित्यवर्णस्स किल तमसः पार एव हि ।
सदा तिष्ठति तेनासौ नित्यमुक्तः परः प्रभुः ।। ५२१ ।।
सुरोत्तमटीका
विष्णोरेव पुरुषसूक्तप्रतिपाद्यत्वे पुनरपि युक्तीर्वदंस्तस्यैव परब्रह्मत्वमपि तत एव लब्धमित्याह ।। यं धातेत्यादिना ।। धाता पुरस्ता-द्यमुदाजहारेति उत्तरवाक्यपर्यालोचनया वेदाहमिति पूर्ववाक्यस्यापि धात-ृवाक्यत्वं सिद्धमित्याशयेनोक्तं यं धाताप्याहेति । सः ब्रह्मवेद्यः पुरुषः आदित्यवर्णस्संस्तमसः पार एव तिष्ठति हि । किलेत्यनेनास्यार्थस्य श्रुत्यन्तर-प्रसिद्धतामपि सूचयति । अनेन आदित्यवर्णं तमसस्तु पार इति श्रुतिर्व्याख्याता वेदितव्या । अधिकरणत्वोक्त्या तिष्ठतीत्यपि सिद्धम् । तेन तमःपदवाच्य-प्रकृतिपारस्थितत्वकथनेनासौ परः प्रभुर्नित्यमुक्तः । पारेऽवस्थानस्य तुशब्देन विशेषणात्कदाचित्पारगेभ्यो मुक्तेभ्योऽपि विशिष्यपारगत्वरूपनित्यमुक्तत्व सिद्धिरिति भावः ।। ५२१ ।।
सत्यप्रमोदटीका
मुकुन्दस्यैव परब्रह्मत्वे युक्त्यन्तराणि कथयति यं धातेत्यादिना । ब्रह्मणा सर्वोत्तमत्वेन ज्ञातत्वं ‘वेदाहमि’त्यनेन वर्णितम् । ‘आदित्यवर्णं तमसः परस्तादि’त्यनेन अप्राकृतरूपं ततश्च नित्यमुक्तत्वं द्योत्यते ।। ५२१ ।।
युक्तिमल्लिका
यस्स्वावयवतो देवानिन्द्राग्निप्राणपूर्वकान् ।
असृजत्सर्ववेदांश्च प्रोक्तवान्स्वहृदि स्थितान् ।। ५२२ ।।
सुरोत्तमटीका
प्रकारान्तरेणापि विष्णोर्नित्यमुक्ततां परब्रह्मतां च साधयति ।। य इति ।। यः परमपुरुषः स्वावयवतः स्वमुखाद्यवयवेभ्यः । अनेन मुखादिन्द्रश्चाग्निश्चेत्यादिवाक्यार्थ उक्तो भवति । स्वहृदि स्थितान्सर्व-वेदांश्च प्रोक्तवानित्यनेन ऋचस्सामानि जज्ञिर इत्यादेरर्थ उक्तो भवति । हृदिस्थितानित्यनेन वेदानां प्रलयेऽप्यविलुप्तत्वं सूचयति ।। ५२२ ।।
सत्यप्रमोदटीका
स्वावयवत इति । ‘मुखादिन्द्रश्चाग्निश्चे’त्यादिना देवस्रष्टृत्वम् । सर्ववेदानिति ‘ऋचः सामानि जज्ञिरे’ इत्यादिना वेदोपदेष्टृत्वम् । स्वहृदि स्थितान् न तु बुद्धिपूर्वकं प्रणीतान् । तेन वेदानामपौरुषेयत्वलाभः ।। ५२२ ।।
युक्तिमल्लिका
यो गुरुस्सर्वदेवानां पिता च प्रभुरेव च ।
चराचरजगत्कर्ता देवाराध्यपदाम्बुजः ।। ५२३ ।।
देवानामपि कैवल्यदाता धातुश्च यो महान् ।
नित्यमुक्तश्च भगवान्परं ब्रह्म स एव हि ।। ४२४ ।।
सुरोत्तमटीका
उक्तवाक्यतात्पर्यलब्धमर्थमाह ।। यो गुरुरित्यादिना ।। चराचरजगत्कर्तेत्यनेन तस्मादश्वा अजायन्तेत्यादेर्नाभ्या आसीदन्तरिक्षमित्या-देश्चार्थ उक्तो भवति । देवाराध्यपदाम्बुजः देवानामपि कैवल्यदातेत्यनेन यज्ञेन यज्ञमयजन्तेत्यृचस्तात्पर्यार्थकथनम् । धातुश्च यो महानित्यनेन वेदाहमिति वाक्येऽहमिति वदतो ब्रह्मण एव सन्निधानात् महत्त्वावधित्वलाभ इति सूचयति । स एव एवं पूर्वोक्त एव । तस्माद्विराजायतेत्यादिना ब्रह्मादि-सकलजगतस्सृष्टिकथनात्परमपुरुषस्य तदकथनात् पुनर्भवाख्यसंसारशून्यत्वेन नित्यमुक्तत्वलाभः । जन्माद्यस्य यत इति सूत्रोक्तपरब्रह्मलक्षणस्य जग-ज्जन्मादिकर्तृत्वस्यैतत्सूक्तप्रतिपाद्यपरमपुरुषेऽपि श्रवणात् अस्यैव परब्रह्मत्व-सिद्धिः । एवं ब्रह्मगुरुत्वादिविशेषणानामपि संसारिषु ब्रह्मादिष्वघटितानां जगद्व्यापारवर्जमिति सूत्रार्थपर्यालोचनया मुक्तेष्वपि तेष्वघटितानां परमपुरुषेऽ-स्मिन्कथनादस्यैव नित्यमुक्तत्वपरब्रह्मत्वयोस्सिद्धिरिति द्रष्टव्यम् ।।५२३,५२४ ।।
सत्यप्रमोदटीका
यो गुरुरिति पूर्वोक्तार्थानां तात्पर्यतोऽनुवादः । चराचरजगत्कर्तेति ‘तस्मादश्वा अजायन्ते’त्यादेस्तात्पर्यम् । देवाराध्यपदाम्बुज इति देवानामपि कैवल्यदातेति च ‘यज्ञेन यज्ञमयजन्त’ ‘ते ह नाकं महिमानः सचन्त’ इत्यादितात्पर्यम् । धातुश्च यो महानिति ।। अहं एनं मदपेक्षया महान्तं वेद इति धातुर्वचनतात्पर्येक्तिः । स एवेति परब्रह्मणो जगज्जन्मादिकर्तृत्वलक्षणस्य तस्मिन्नेव कथनात् पुरुषसूक्तोक्तो महापुरुष एव ‘तमेवं विद्वानि’त्यत्रोक्तं मोक्षप्रदायकं परं ब्रह्म । एवशब्देन पराभिमत-स्याल्पस्य विराट्पुरुषस्य पुंसूक्तप्रतिपाद्यत्वव्यवच्छेदः ।। ५२३, ५२४ ।।
युक्तिमल्लिका
श्रीश्च लक्ष्मीश्च यत्पत्न््नयौ सूक्तान्ते तस्य कीर्तिते ।
अतः पुरुषसूक्तोक्तस्साक्षान्नारायणः प्रभुः ।
स्पष्टं भागवते चोक्ता पुंसूक्ते विष्णुसूक्तता ।। ५२५ ।।
सुरोत्तमटीका
विष्णोरेव पुरुषसूक्तप्रतिपाद्यत्वेऽन्तरङ्गमतिप्रबलं युक्त्यन्तरमाह ।। श्रीश्चेति ।। यद्यस्मात् । तस्य पुरुषसूक्तप्रतिपाद्यमहापुरुषस्य सूक्तान्ते यजुर्वेदिनां पुरुषसूक्तान्ते श्रीश्चते लक्ष्मीश्च पत्न््नयाविति वाक्ये । भागवते तत्र गत्वा जगन्नाथमिति प्रागुक्तवाक्ये ।। ५२५ ।।
सत्यप्रमोदटीका
अतिप्रबलामन्तरङ्गां युक्तिमाह श्रीरिति । श्रीलक्ष्मी-पतित्वलिङ्गस्य निरवकाशत्वं च प्राणाधिकरणभाष्येण ‘अत एव श्रीश्च ते लक्ष्मीश्च पत्न््नयौ अहोरात्रे पार्श्वे इत्यादितल्लिङ्गादेव’ इत्यत्र सिद्धमिति भावः । पुरुषसूक्तव्याख्यानरूपभागवतद्वितीयस्कन्धभागेनापि अत्रत्यो विष्णुरेवेति सिद्धमित्याह स्पष्टमिति ।। ५२५ ।।
युक्तिमल्लिका
तस्मादजायत विराडिति यः पुंसुतो विराट् ।
सहस्रशीर्षाऽपि पुमानसावेव किलाद्भुतम् ।। ५२६ ।।
सुरोत्तमटीका
पुरुषसूक्तस्य विराट्पुरुषो देवतेति वदतां दूषणमाह ।। तस्मादिति ।। पुंसुतः सहस्रशीर्षाख्यपुरुषसुतः यो विराट् असावेव सहस्र-शीर्षाऽपि किल । सूक्तदेवतात्वे तस्यैव सहस्रशीर्षपुरुषत्वस्याप्यापातात् । तच्च स्वस्यैव जनकत्वं जन्यत्वं चेति विरुद्धमिति सूचनायाद्भुतमित्युक्तम् ।। ५२६,५२७ ।।
सत्यप्रमोदटीका
पुरुषाज्जातत्वेन श्रूयमाणो विराडेव पुरुषसूक्तप्रतिपाद्यः पुरुष इति परव्याख्यामपहसति तस्मादिति । स्वस्यैव स्वजनकत्वाङ्गीकारः आत्माश्रयपराहतः अद्भुतः इत्याह अद्भुतमिति ।। ५२६ ।।
युक्तिमल्लिका
इत्थं सूक्तोक्तमहिमा यस्य सर्वेश्वरस्य हि ।
परं ब्रह्म स एवैको नारायण इति स्थितम् ।। ५२७ ।।
सत्यप्रमोदटीका
उपसंहरति इत्थमिति । यद्यपि वैश्वानरनये भाष्यो-दाहृतेन स्पष्टेन ‘सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपादि’त्येव ह्येवाचिन्त्यः परः परमो हरिरादिरनादिरनन्तोऽनन्तशीर्षोऽनन्ताक्षोऽनन्तबाहुरनन्तगुणोऽनन्त रूपः इति चतुर्वेदशिखाप्रमाणेनैव हरिरेव पुरुषसूक्तप्रतिपाद्यो न विराट्पुरुषो न वा निर्गुण इति सिध्द्यति तथापि न्यायेन तस्यैवोपपादनार्थं अयं प्रयत्नो ग्रन्थकारस्येति ज्ञातव्यम् ।। ५२७ ।।
युक्तिमल्लिका
तमुक्तविधया विद्वान्मुक्तस्स्यान्नान्यथा किल ।
अतो मुमुक्षुभिर्ज्ञेयमिदं ब्रह्म न चापरम् ।। ५२८ ।।
सुरोत्तमटीका
तमुक्तविधयेत्यनेन तमेवं विद्वानित्यस्यार्थ उक्तः । अन्यथा न किलेत्यनेन नान्यःपन्था इत्यादेरर्थो द्रष्टव्यः । अतः मुक्ति-दायकत्वात् ।। ५२८ ।।
सत्यप्रमोदटीका
‘तमेवं विद्वान्’ इत्यस्यार्थः तमुक्तविधया जानन्निति । ‘नान्यः पन्था’ इत्यस्यार्थः नान्यथा किलेति । इदं ब्रह्म पुरुषसूक्तोक्तः मुकुन्द एव ।। ५२८ ।।
युक्तिमल्लिका
मुक्तावनुपयोग्यन्यद्ब्रह्म यद्यस्ति तत्तव ।
तमो जिगमिषोर्मुक्तियोग्यानामिदमेव नः ।। ५२९ ।।
सुरोत्तमटीका
मुक्तावनुपयोग्यन्यन्निर्गुणं ब्रह्म यद्यस्ति तत्तवैव । यद्य-स्तीत्यनेन तस्याश्रौतत्वेनाप्रामाणिकत्वं सूचयति । मुक्तावनुपयोगीत्यनेन विष्णोरन्यस्य शिवादेस्तैस्तैर्वादिभिर्ब्रह्मतयाऽभिमन्यमानस्यापि नान्यः पन्था इति मोक्षोपयोगित्वनिषेधात् अब्रह्मतैवेति सूचयति । अयनाय नेति निषेधा-त्तमो जिगिमिषोरित्युक्तम् । इदं मोक्षदायकत्वेनोक्तं विष्ण्वाख्यं ब्रह्म ।।५२९।।
सत्यप्रमोदटीका
मुक्तावनुपयोगि प्रत्युत तथा भावनया तमःसिद्धि-निदानम् । तदुक्तं सुमध्वविजये ‘यदि चेदृगुपास्यतेऽस्य रूपं तिमिरत्वेन विभाति पारिशेष्यात् । फलमप्यथ मुक्तिरीदृशी स्यादि’ति । यद्ब्रह्म निर्गुणम् । यदि तव अस्ति एवमपि दुराग्रहात्त्वमङ्गीकरोषि चेदित्यर्थः । तमो जिगमिषोः आसन्नतमोगमनस्य । तव तवैव तथा स्वीकारोऽस्तु । नः अस्माकं मुक्ति-योग्यानां पुनः इदं एव मुकुन्दाभिधमेव ब्रह्मतया अङ्गीकारार्हं इति भावः । तदुक्तं भागवते ‘अन्यतमो मुकुन्दात्को नाम लोके भगवत्पदार्थः’ इति
।। ५२९ ।।
युक्तिमल्लिका
साकारसगुणश्रीशसेवै(वः)काऽमृतपद्धतिः ।
नान्यस्य सेवा मोक्षस्य पन्था इत्याह हि श्रुतिः ।। ५३० ।।
सुरोत्तमटीका
उक्तमेव विवेचयति ।। साकारेति ।। एवमिति पूर्वोक्त-सकलप्रकारपरामर्शात्सहस्रशीर्षत्वाद्याकारस्य ज्यायस्त्वादिगुणानां च साक्षान् मोक्षाङ्गत्वश्रवणात् ब्रह्मवत्पारमार्थ्यं तदभिन्नत्वं निष्प्रकारकज्ञानान्मोक्षो नेति च सिद्धमिति सूचयितुं साकारेत्याद्युक्तम् । अन्यस्य निर्गुणस्य शिवादेश्च ।। ५३० ।।
सत्यप्रमोदटीका
तमेवं विद्वानिति श्रुत्यर्थं निर्धारयति । एवं साकार-सगुणत्वेन तं श्रीशं नारायणं विद्वान् श्रवणादिरूपसेवया आराध्य तदपरोक्ष-ज्ञानवान् अमृत इह भवति इत्यस्य तात्पर्यं सेवैका अमृतपद्धतिरि’ति । जिज्ञासैव ज्ञानजन्यप्रसादद्वारा मोक्षसाधनमिति भावः । नान्यः पन्था अयनाय विद्यते इत्यस्यार्थः नान्यस्य सेवा मोक्षस्य पन्था इति ।। ५३० ।।
युक्तिमल्लिका
अतो मुकुन्दादितरद्ब्रह्म वेदविनिन्दितम् ।
मोक्षेऽन्तरङ्गहेतुत्वान्मुख्यं ब्रह्म स एव हि ।। ५३१ ।।
सुरोत्तमटीका
अतः विष्णोरन्यस्य मोक्षानुपयोगित्वकथनात् । स एव मुकुन्द एवहि ।। ५३१ ।।
सत्यप्रमोदटीका
सौरभोक्तं परमप्रमेयं तात्पर्यतोऽनूद्य उपसंहरति अत इति । अतो मुकुन्दादिति सामानाधिकरण्यम् । पुरुषसूक्तेन, अत एव तद्व्याख्येयसर्ववेदैः, प्राधान्येन प्रतिपाद्य इति सौरभोक्तयुक्तिभिरुपपादितात् मुकुन्दादित्यर्थः । इतरत् मुकुन्दधर्मिकभेदप्रतियोगि निर्विशेषं अत एव असत् । निःस्वरूपे तस्मिन्भेदधर्मित्वस्यायोगादिति ध्येयम् । इतरदित्यावर्तते । तथा च इतरद्ब्रह्मेत्यस्य इतरैर्मायावादिभिर्ब्रह्मत्वेन सङ्केतितमात्रं इत्यर्थः । सर्वथा अवाच्यत्वेनाङ्गीकृते तस्मिन् कयाऽपि वृत्त्या ब्रह्मशब्दबोध्यत्वासम्भवात् । वेदविनिन्दितं ‘असन्नेव स भवति असद्ब्रह्मेति वेद चेदि’ति तज्ज्ञानस्य दुःखहेतुत्वेन विनिन्दितमित्यर्थः । निःस्वरूपस्य अर्थक्रियाविधुरस्य दुःख-हेतुत्वायोगात् । तज्ज्ञानस्यैव तद्धेतुत्वमिति हृदयम् । तथा वेदविनिन्दितं पञ्चमवेदेन भारतेन । ‘वैगुण्यमेव पश्यन्ति न गुणानि नियुञ्जते । तेषां तमःशरीराणां तम एव परायणम्’ इति निर्गुणस्य ब्रह्मत्वभावनायाः तमःसाधनत्वोक्त्या विनिन्दितम् । यद्वा ब्रह्म निर्विशेषब्रह्मभावरूपत्वं मोक्षस्य । वेदविनिन्दितं ‘यत्र त्वस्य सर्वमात्मैवाभूत्’ इति वेदेन विनिन्दितं तर्कमुखेन तस्यापुमर्थत्वसमर्थनेन तिरस्कृतम् । यद्वा अत इति हेत्वर्थकः । तस्य परमतेऽज्ञानासम्भवस्य उपपादितत्वादित्यर्थः । इतरत् ब्रह्म अविद्याशबलं ब्रह्म । वेदविनिन्दितं ‘अन्धन्तमः प्रविशन्ति येऽविद्यामुपासते’ इति वेदेन निराकृतम् । यद्वा अतः परमात्मनो नित्यमुक्तत्वेन जीवस्य नित्यबद्धत्वेन तयोर्वैलक्षण्यस्य ‘योऽविद्ययाऽन्धः स तु नित्यबद्धः विद्यामयो यः स तु नित्यमुक्त’ इति प्रमाणोदाहरणेन समर्थितत्वात् । इतरत् ब्रह्म इतरस्य रुद्रादेर्जीवस्य ब्रह्मत्वम् इति यावत् । वेदविनिन्दितम् ‘तमेवैकं जानथात्मान-मन्या वाचो विमुञ्चथे’ति वेदेन दूषितमित्यर्थः । यद्वा अतः मुकुन्दात् पुरुषसूक्ते मुक्तामुक्तनियामकतया वर्णितात् महापुरुषात् इतरत् ब्रह्म विराट्-पुरुषाख्यम् मायावादिभिः कथ्यमानम् । वेदविनिन्दितं ‘तस्माद्विराजायत’ इति जन्मोक्त्या ‘ततो ज्यायांश्च पुरुषः’ इति तदपेक्षया महापुरुषस्य ज्यायस्त्योक्तिबलात्, तस्य महापुरुषादवमोक्त्या च विनिन्दितम् । यद्वा इतरत् भूः, दैत्याः चतुर्मुखः इत्यादिकं सर्वं ब्रह्मेत्येतत् विनिन्दितं तथा सति ‘पुरुषात्पुरुषस्यैव भये पुरुषपूजनम् । पुरुषः कुरुते कस्मादि’ति असङ्गति-प्रदर्शनेन विनिन्दितम् । यद्वा पुरुष एवेदं सर्वं इत्यस्य आपातार्थं परिगृह्य मायिभिः कथ्यमानं सर्वस्य ब्रह्माभिन्नत्वं जडस्यापि ब्रह्मत्वापत्त्या, विशिष्टानां जीवानां ऐक्यस्य प्रमाणविरुद्धत्वेन, चिता चित एवाभेदस्य सिद्धत्वेन शास्त्र-वैयर्थ्यापत्त्या, भेदप्रमाणानां अतत्वावेदकत्वाश्रयणेन विरोधपरिहारे मीमांसाया उन्मूलनप्रसङ्गादित्यादिदोषेण विनिन्दितम् ।
इतरेषां ब्रह्मत्वस्य वेदविनिन्दितत्वोक्त्या परिशेषाल्लब्धं परमप्रमेयं निरूप-यन्नुपसंहरति मोक्ष इति । हिर्हेत्वर्थः । ‘तदेव ब्रह्म परमं कवीनां’
‘आत्मब्रह्मादयः शब्दास्तमृते विष्णुमव्ययम् ।
न सम्भवन्ति यस्मात्तैर्नैवाप्ता गुणपूर्णता’
इत्यादिभाष्योदाहृतप्रमाणप्रसिद्धिद्योतको वा । स एव मुकुन्द एव । तथा च, मुकुन्द एव, मुख्यं ब्रह्म मोक्षेऽन्तरङ्गहेतुत्वात् व्यतिरेकेण जीववत् इति प्रयोगः वर्णितः । मोक्षप्रदात्रर्थकमुकुन्दशब्दग्रहणं हेतोः पक्षधर्मतास्फुटी-करणाय । साध्ये मुख्येति स्वरूपकथनम् । निरुपपदब्रह्मशब्देनापि मुख्यत्व-लाभात् । हेतौ अन्तरङ्गपदं साक्षादित्यर्थकम् । तेन न ज्ञाने व्यभिचारः। तस्य प्रसादद्वारैव मोक्षहेतुत्वात् । तदुक्तं ‘ज्ञानजन्यप्रसादादेव भुच्यते’ इति । यद्वा अन्तरङ्गपदस्य स्वातन्त्र्येणेत्यर्थः । तेन लक्ष्म्यां वायौ च न व्यभिचारः । तयोस्तदनुज्ञयैव मोक्षहेतुत्वात् । इदानीं साक्षादित्यर्थो नापेक्षितः । ज्ञान-स्वभावस्यापि भगवदधीनत्वादेव । अनेनानुमानेन ब्रह्मशब्दार्थगुणपूर्णत्वरूप-प्रधानलक्षणस्य मोक्षहेतुत्वरूपसम्भावकयुक्तिरभिहिता ध्येया । सा च
‘सृष्टिस्थितिश्च संहारो नियतिर्ज्ञानमावृतिः ।
बन्धमोक्षौ च पुरुषाद्यस्मात्स हरिरेकराडि’ति
भाष्योदाहृतप्रमाणेन सिद्धा । जन्माद्यष्टके मोक्षहेतुत्वमात्रस्य हेतूकरणेन अष्टानां हेतुत्वानां प्रत्येकं भगवल्लक्षणतां ज्ञापयति ।
तदनेन सौरभेण ‘गम्यं वन्दे मुकुन्दाभिधममलमलं ब्रह्म वेदान्तवेद्यमि’ति टीका विवृता ध्येया । ‘उतामृतत्वस्येशान’ इत्यादिग्रन्थसन्दर्भेण गम्यत्वस्य विवरणम् । ‘तव ब्रह्मत्वविद्याख्यदोषेण कलिलं सदा’ इत्यादिना अमलत्वस्य विवृतिः । ‘सहस्रशीर्षा श्रौतो यः’ इत्यादिना पुरुषसूक्तवेद्यत्वसमर्थनेन तद्व्याख्यानभूतसर्ववेदान्तवेद्यत्वस्य स्पष्टनं इत्यादि तत्र तत्र ज्ञेयम् ।। ५३१ ।।
युक्तिमल्लिका
वादिराजाख्ययतिना साधिता युक्तिमल्लिका ।
शुद्धिसौरभसर्वस्वमद्धा विष्णोर्न्यवेदयत् ।। ५३२ ।।
श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमद्वादिराजपूज्यचरणविरचितायां
युक्तिमल्लिकायां शुद्धिसौरभं सम्पूर्णम् ।।
सुरोत्तमटीका
अद्धा अञ्जसा । शिष्टं पूर्ववदेव योजनीयम् ।।
इति श्रीमत्कविकुलतिलकश्रीमद्वादिराजतीर्थचरणारविन्दचंचरीक सुरोत्तमभिक्षुविरचितायां युक्तिमल्लिकाटीकायां भावविलासिन्यां द्वितीयं शुद्धिसौरभसर्वस्वं संपूर्णम् ।। २ ।।
सत्यप्रमोदटीका
साधिता प्रसन्नीकृता । युक्तिमल्लिका तदभिमानिनी भारती । शुद्धिसौरभसर्वस्वं शुद्धेः पारतन्त्र्याद्यशेषदोषराहित्यलक्षणायाः सौरभं तत्प्रतिपादकप्रमाणोदाहरणात्मकैतत्परिच्छेदप्रतिपाद्यसर्वप्रमेयजातं तच्च तत् सर्वस्वं ‘निर्दोषशेषसद्गुणमि’ति भगवत्पादोक्तनिर्दोषत्वाख्यं सर्वं स्वरूपलक्षण-जातम् । निर्दोषत्वञ्च श्रीनिवासतीर्थपरिष्कृतरीत्या दोषारोपपूर्वकप्रतीति-विषयाभाववत्त्वं स्वसंसृष्टदोषात्यन्ताभाववत्त्वं वेत्यवधेयम् । सिद्धान्ते प्रामाणिकप्रतियोगिकात्यत्यन्ताभावानुपगमात् । विस्तरस्तु अस्मत्कृते ‘भगवतो निर्दोषत्वलक्षणम्’ इति ग्रन्थे द्रष्टव्यः । अद्धा अञ्जसा स्वप्राणनाथ-मातरिश्वद्वारा । विष्णोः चरणयोरिति शेषः । न्यवेदयत् समर्पयाम्बभूव इदमेव निवेदनस्याञ्जस्यं यत्पतिद्वारा तदनुष्ठानमिति हृदयम् ।। शिष्टं पूर्वसौरभपद्यवदेव योज्यम् ।। ५३२ ।।
यत्कारुण्यबलादेव लब्धजन्मा कृतिर्मम ।।
श्रीशे समर्पयत्वेनां सदभिज्ञगुरूत्तमः ।।
इति श्रीमत्सत्याभिज्ञतीर्थश्रीचरणचरणाराधक श्रीमत्सत्यप्रमोदतीर्थकृता शुद्धिसौरभविवृतिः समाप्ता ।।
।। श्रीरामवेदव्यासार्पणमस्तु ।।