नाप्यैक्यवाक्यबलतो विरोधिगुणविप्लवः
गुणानां पारमार्थिकत्वोपपादनम्
युक्तिमल्लिका
नाप्यैक्यवाक्यबलतो विरोधिगुणविप्लवः ।। ६२५ ।।
सुरोत्तमटीका
इदानीं तत्त्वमस्याद्यैक्यवाक्यबलादपि न गुणमिथ्यात्व-मित्याह ।। नापीति ।। ६२५,६२६ ।।
सत्यप्रमोदटीका
‘कथं नित्यगुणस्यास्य स्यादैक्यं गुणहानतः’ इत्यनु-व्याख्यानानुरोधेन विरोध्याकारपरित्यागो नानित्यत्वमिति समर्थितम् । ‘न च मिथ्यागुणत्वं स्यादि’ति तदुक्तमाह नापीति । विप्लवः बाधः ।। ६२५ ।।
युक्तिमल्लिका
विरोधिगुणसंत्यागे स्यादैक्यं वाक्यगोचरम् ।
अविरुद्धो हि वाक्यार्थो योग्यता यदपेक्षिता ।। ६२६ ।।
सत्यप्रमोदटीका
सन्त्यागे बाधे । गोचरशब्दो यौगिको व्याख्येयः । तेन नपुंसकलिङ्गोपपत्तिः । योग्यता प्रमाणविरोधाभावः । अपेक्षिता वाक्य-लक्षणे योग्यतायाः प्रविष्टत्वात् ।। ६२६ ।।
युक्तिमल्लिका
यदि वाक्योदिताद्वैतादेव तद्गुणमोचनम् ।
तदान्योन्याश्रयो दोषो वाक्यमर्थान्तरे नयेत् ।। ६२७ ।।
सुरोत्तमटीका
वाक्यं तत्त्वमस्यादिवाक्यम् । अर्थान्तरे सादृश्यादिरूपे ।। ६२७ ।।
सत्यप्रमोदटीका
ऐक्यसिद्धौ गुणमिथ्यात्वसिद्धिः । तत्सिद्धौ च तत्सिद्धिरिति अन्योन्याश्रयः । अर्थान्तरे अतदिति पदच्छेदाश्रयणेन भेदरूपार्थान्तरे ।। ६२७ ।।
युक्तिमल्लिका
किञ्चैकतोक्तिर्नायुक्ता सादृश्यस्यैक्यसम्भवात् ।
सत्यनित्यगुणत्यागस्सर्वथा नोपपद्यते ।। ६२८ ।।
सुरोत्तमटीका
सावकाशत्वादपि ऐक्यवाक्यं न निरवकाशसगुण-श्रुत्युक्तगुणबाधकमित्याह ।। किं चेति ।। सत्यनित्येत्यनेन सगुणश्रुतेर्निरव-काशत्वं द्योतयति ।। ६२८ ।।
सत्यप्रमोदटीका
अस्तु वैक्यं वाक्यार्थः । तावताऽपि न गुणमिथ्या-त्वम् । सादृश्यैक्यस्य सम्भवादित्याह किं चेति ।। सत्यत्वान्न गुणानां मिथ्यात्वं, नित्यत्वान्न विनाश इति विवेकः ।। सर्वथा प्रकारद्वयेनापि ।। ६२८ ।।
युक्तिमल्लिका
अतः कस्य बलात्कस्य त्याग इत्येव चिन्त्यताम् ।
न चेच्छून्योक्तिबलतः सत्यं ब्रह्मैव सन्त्यज ।। ६२९ ।।
सुरोत्तमटीका
विपक्षे बाधकमाह ।। नचेदिति ।। ६२९ ।।
सत्यप्रमोदटीका
चिन्त्यताम् सावकाशत्वनिरवकाशत्वादिलक्षण-बलाबलविमर्शः क्रियताम् ।। न चेत् भेदप्रमाणानां निरवकाशतां न्यक्कृत्त्यैक्य-मर्थ आश्रीयते चेत् ।। शून्योक्तीति । असदेवेदमग्र आसीदित्यादिरूपेत्यर्थः ।। ६२९ ।।
युक्तिमल्लिका
व्यावहारिकता सत्ता नित्यत्वं चिरकालता ।
गुणेषु यदि तर्हि स्याद्ब्रह्मण्यपि तथैव ते ।। ६३० ।।
सुरोत्तमटीका
गुणेषु सत्यत्वं व्यावहारिकत्वं नित्यत्वं च चिरकालीनत्व मस्त्विति शङ्कां परिहरति ।। व्यावहारिकतेति ।। ६३० ।।
सत्यप्रमोदटीका
सत्यनित्यगुणोक्तिः सावकाशेति शङ्कते यदीति । व्यावहारिकता ब्रह्मप्रमाऽन्येनाबाध्यता । चिरकालता दीर्घभ्रान्तिविषयता । परिहरति तर्हीति । लौकिकीं प्रतीतिमुल्लङ्घ्य स्वसमयमात्रपरिकल्पितार्थाश्रयणे इत्यर्थः ।। ६३० ।।
युक्तिमल्लिका
सन्दिग्धश्रुतिपङ्कस्थनैर्गुण्यस्तम्भलम्बिनः ।
कथं सत्यतया श्रौतधर्मास्स्युर्व्यावहारिकाः ।। ६३१ ।।
सुरोत्तमटीका
ब्रह्मणि स्पष्टशून्यत्वश्रुतिबलात्स्यादपि तथा इह तु बाधकनिर्गुणश्रुतेरद्यापि सन्दिग्धत्वात् न सा कल्पना युक्तेत्याह । सन्दिग्धेति ।। सन्दिग्धेत्युपलक्षणम् । अनिर्गुण इति वैपरीत्यस्यैवोक्तत्वा-दित्यपि द्रष्टव्यम् ।। ६३१ ।।
सत्यप्रमोदटीका
तथैव ते इति प्रतिबन्दीग्रहणमङ्गीकारवादेनैव । वस्तु-तस्तु असदित्यस्य शून्यमित्यर्थः रूढः । सत्यनित्यपदयोस्तु त्वदुक्तार्थौ शब्दवृत्तिबाह्यौ । एवं निर्गुणश्रुतिरपि अनिर्गुण इति पदच्छेदायावकाशं ददती शङ्कानिमग्नाऽस्थिरा सती पङ्कस्थस्तम्भ इवेतरेषां गुणमिथ्यात्वादीनामालम्बनं कुत एव भवेत् । येनैक्यसिद्धिरिति भावः ।। ६३१ ।।
युक्तिमल्लिका
तदाप्यबाधे सत्यास्स्युर्बाधे तु श्रुत्यमानता ।
अतोऽभ्यर्थ्यस्स एवार्थो यत्र वाग्द्वन्द्वमानता ।। ६३२ ।।
सुरोत्तमटीका
दूषणान्तरं चाह ।। तदापीति ।। तदा व्यावहारिक-सत्यतायाम् । अतः श्रुतेः प्रामाण्यस्यावश्यकत्वात् । स एव त्रिगुणविवर्जित-त्वादिरेव ।। ६३२ ।।
सत्यप्रमोदटीका
किञ्च व्यावहारिकी सत्ता नाम यद्यबाधस्तर्हि गुणाः सह्या एव स्युरिति तन्मिथ्यात्बप्रतिपादनं व्याहतम् । अथ बाधस्तर्हि गुणश्रुतीनामतत्वावेदकताऽऽपत्त्याऽप्रामाण्यमित्याह तदाऽपीति । व्यावहारिक-सत्तोपगमेऽपीत्यर्थः । स एवार्थः अनिर्गुण इति पदच्छेदेन लभ्यः सत्य नित्यगुणवत्त्वरूपोऽर्थः ।। ६३२ ।।