किञ्च सार्वज्ञमज्ञानसापेक्षमिति यद्वचः
सर्वज्ञत्वंनाज्ञानाक्षेपकम्
युक्तिमल्लिका
किञ्च सार्वज्ञमज्ञानसापेक्षमिति यद्वचः ।
मूकोऽहमितिवत्तच्च विरुद्धमिति मे मतिः ।। १३६ ।।
सुरोत्तमटीका
पूर्वं सार्वज्ञ्येनाज्ञानाक्षेपमङ्गीकृत्य परिहार उक्तः । अधुनाऽक्षेप्याक्षेपकयोरज्ञानसार्वज्ञरूपयोः परस्परविरोधेन व्याहतिरित्याह ।। किं चेति ।। विरुद्धं व्याहतम् ।। १३६ ।।
सत्यप्रमोदटीका
स्वक्रियाविरोधश्च परस्येत्याह किञ्चेति ।। स्वक्रिया ब्रह्मणोऽज्ञानाश्रयत्वबोधनाय श्रुत्युदाहरणरूपा, तज्ज्ञाप्यः अर्थः ब्रह्मणः श्रुत्या बोध्यबोधकभावलक्षणसङ्गरूपः, तद्विरुद्धः अर्थः ब्रह्मणः सर्वथा सङ्गा-भावरूपः, तत्प्रतिपादकं वाक्यं श्रुतेरपार्थवर्णनपरं तत्प्रयोक्तृत्वादिति भावः । तत्र दृष्टान्तो मूकोऽहमितिवदिति । तच्चेत्यत्र चशब्देन स्ववचनविरोधं समुच्चिनोति । सर्वज्ञं ब्रह्म अज्ञानाश्रयश्चेति वाक्ये, ‘मे माता वन्ध्या’ इत्यत्रेव पदयोरेव मिथो विरोध इति ।। १३६ ।।
युक्तिमल्लिका
मायां व्युदस्य चिच्छक्त्या कैवल्ये स्थित आत्मनि ।
इति भागवतोक्त्या यच्चिदप्यज्ञाननाशिनी ।
स्वरूपज्ञानमप्यज्ञानस्य वैरि न संशयः ।। १३७ ।।
सुरोत्तमटीका
स्वरूपज्ञानस्याज्ञानस्यचाविरोधात्कथं व्याहतिरित्यत आह ।। मायामिति ।। यद्यस्मात् । व्युदस्य निरस्य । चिदपि स्वरूपभूत-ज्ञानमपि । तत्तस्मात् ।। १३७ ।।
सत्यप्रमोदटीका
ननु सर्वज्ञं ब्रह्म माया शबलम् । न तदज्ञानाश्रयः । किं नाम शुद्धचिदेव । यथोक्तं ‘आश्रयत्वविषयत्वभागिनी निर्विशेषचितिरेव केवला’ इति । एवं स्वरूपज्ञानं न अज्ञानं विरुणद्धि किं नाम मानसज्ञान-मेव । अतो नोक्तो दोष इत्यत आह मायामिति । अत्र स्मृतौ चिच्छक्तेरेव अज्ञाननिरासकत्वं उच्यते । तच्छून्यस्य कैवल्ये स्थितस्य तुरीयस्य शुद्धस्यैव तुरीयं तत्सर्वदृक् सदा’ इति श्रुत्या सर्वज्ञत्वं वर्ण्यते । अतः शुद्धचित एवाज्ञानाश्रयत्वमिति, सर्वज्ञं शबलमिति च, प्रक्रियाद्वयमपि श्रुतिस्मृति-विरोधेनापहस्तितं वेदितव्यम् । यत् यस्मात् । अपिर्वृत्तिज्ञानं ममुच्चिनोति । वैरि । नाशकम् । अङ्गीकर्तव्यत्वं साध्यम् । तेन न साध्याविशिष्टता । तथा च स्वरूपज्ञानं, अज्ञाननाशकत्वेन अङ्गीकर्तव्यं, तथा स्मृत्युक्तत्वात्, इति प्रयोगो ध्येयः ।। १३७ ।।
युक्तिमल्लिका
सुखज्ञाने सति तदा तदज्ञानं च कोऽन्वभूत् ।
सत्यज्ञानेऽनवच्छिन्नसुखं वा कोऽन्वभूद्भवे ।। १३८ ।।
सुरोत्तमटीका
अनुभवविरुद्धं च स्वरूपज्ञानस्याज्ञानाविरोधित्वमित्याह ।। सुखज्ञान इति ।। तदा सुखज्ञानदशायां तदज्ञानं सुखं न जानामीति सुखा-ज्ञानम् । सुखज्ञानं हि साक्षी तच्च स्वरूपज्ञानं तस्य चाज्ञानाविरोधित्वे सुखज्ञानदशायामेव सुखं न जानामीत्यनुभवोऽपि स्यादिति भावः । अज्ञाने सति भवे संसारे अनवच्छिन्नसुखं वा कोऽन्वभूत् अनुभूतवान् । न कोऽपीत्यर्थः । सुखज्ञानस्याज्ञानाविरोधित्वे तदप्यनुभूयेतेति भावः ।। १३८ ।।
सत्यप्रमोदटीका
प्रदीपस्यान्धकारनिवर्तकत्वमिव, स्वरूपज्ञानस्याज्ञान-निवर्तकत्वं स्वभाव इत्येतदनुभावयति सुखेति । सुखं आन्तरत्वात्साक्षिवेद्यमेव । तच्चेत्साक्षिज्ञानं स्वरूपात्मकं अज्ञानसमकालीनं समानविषयकाज्ञानाविरोधीति यावत् । तदा सुखानुभवकाल एव । कः अन्वभूत् इति पदच्छेदः । न चेष्टा-पत्तिः । तथा सति सुखं न जानामि इति अनुव्यवसीयेत इति भावः । एवं अज्ञानं यदि स्वरूपज्ञानाविरोधि तर्हि भवे संसारदशायां अनवच्छिन्नमोक्ष-सुखाज्ञानकाले एवेति यावत् तथाविधसुखानुभवः स्यात् । न च सोऽस्ति । तथा च चितोऽज्ञानस्य चाविरोधोऽनानुभविक इति स्थितिः ।। १३८ ।।
युक्तिमल्लिका
यद्भातं न तदज्ञातमिति यत्तत्वदीपने ।
स्वयमप्याह सार्वज्ञाज्ञत्वे तद्दूरदूरगे ।। १३९ ।।
सुरोत्तमटीका
तत्तस्मात् । दूरदूरगे अत्यन्तदूरस्थे परस्परविरुद्धे । अतो न व्याहतेः परिहार इति भावः ।। १३९ ।।
सत्यप्रमोदटीका
भातं स्वरूपज्ञानविषयः । ‘तमेव भान्तं’ इति श्रुतौ परेण भानशब्दस्य स्वरूपज्ञानपरतयैव व्याख्यानात् । तत्वदीपनं मायावादि-ग्रन्थविशेषः । तत् तस्मात् अनुभवविरोधात् स्ववचनविरोधाच्च । दूरदूरगे वीप्सायां द्विर्वचनं; परस्परपरिहारेणैव वर्तमाने ।। १३९ ।।
युक्तिमल्लिका
अज्ञताऽखिलसंवेत्तुर्घटते न कुतश्चन ।
इत्युक्तमत एवार्यैः कार्यधुर्यैर्महात्मभिः ।। १४० ।।
सुरोत्तमटीका
अत एव सार्वज्ञासार्वज्ञयोः परस्परविरुद्धत्वादेव । कार्यं परनिराकरणाख्यं तत्र धुर्यैर्धुरंधरैराचार्यैरुपाधिखण्डने अज्ञताऽखिलसंवेत्तुर्घटते न कुतश्चनेत्युक्तमिति ।। १४० ।।
सत्यप्रमोदटीका
कुतश्चन स्वभावतः उपाधितो वा । आर्यैः मध्वाचार्यैः ‘मध्वार्याणां गुरुं भजे’ इत्यच्युतप्रेक्षतीर्थवर्णनात् ।
‘कर्तव्यमाचरन्कार्यं अकर्तव्यमनाचरन् ।।
तिष्ठति प्रकृताचारे स वा आर्य इति स्मृतः’
इति स्मृतेः शुद्धभागवतधर्मनिरतैः । कार्यधुर्यैः ‘सर्वज्ञमन्यमनवेक्ष्य स कार्यवीर्यं’ इति सुमध्वविजयोक्तेः दुर्भाष्यसन्तमसनिरसने एकैकसमर्थैः । महात्मभिः जीवोत्तमैः ।। १४० ।।
युक्तिमल्लिका
ज्ञाने सत्येव चाज्ञानं यदीदं तर्हि किं नञा ।
नामि्न विप्रतिपत्तिस्ते जानतां ज्ञानमेव तत् ।। १४१ ।।
सुरोत्तमटीका
इदानीमज्ञानं स्वरूपज्ञानाविरोधि चेत्तर्हि नञर्थस्या-भावेन अस्य अकारवाच्यस्य परमात्मनो विद्येति व्युत्पत्त्या ब्रह्मण्यविद्या नाम विद्यैवाभूदित्याह ।। ज्ञाने सतीति ।। नञा किं न किमपि । भावरूपाज्ञान-वादिना त्वयाऽज्ञानपदान्तर्गतनञः विरोधो ह्यर्थो वक्तव्यः । स च ब्रह्मज्ञानेन सह नास्ति चेन्नञो वैयर्थ्यमिति भावः । नामि्न सा विद्यैवेत्यस्माभिः कथ्यमानविद्यानामि्न । जानतामक्षरार्थज्ञानवताम् । तद्ब्रह्मण्यभिलप्यमानं ते तव अज्ञानं ज्ञानमेव अस्य ब्रह्मणो ज्ञानमिति व्युत्पत्तिसूचनाय जानतामित्युक्तम् ।। १४१ ।।
सत्यप्रमोदटीका
स्वरूपज्ञानस्य भावरूपाज्ञानस्य च विरोधाभावे अज्ञानशब्दनिष्पत्तिरेव तव दुर्घटेत्याह ज्ञान इति स्वरूपज्ञान इत्यर्थः । अज्ञानं भावरूपम् । इदं त्वदभिमतम् । किं नञेति । अयं भावः अज्ञानेत्यस्य ज्ञानविरुद्धं ज्ञानभिन्नं ज्ञानाभावो वाऽर्थो वाच्यः । अन्त्यौ तव नेष्टौ । अतः आद्य एवास्थेयः । तस्याप्यनभ्युपगमे इदमुपतिष्ठते किं नञेति । नैरर्थक्येन सर्वथाऽप्रयोग एव नञ आपद्यते । तथा च तवाज्ञानमूलक एव तत्राज्ञानशब्दप्रयोगः इति । यदि तर्हि अज्ञानपदे नञोऽप्रवेशः कीदृशी तत्पदस्य मम मते वृत्तिः सम्भाविनी इत्यत आह ज्ञानमेवेति । अकारस्य विष्णुः अतिशय इति चार्थद्वयमादाय विष्णोर्विषये अतिशयेन ज्ञानमित्येवार्थः समाश्रयितुमुचित इत्याह विजानतामिति मत इति शेषः । तथा च परविषयकज्ञाने सत्येव स्वविषयेऽप्यशेषज्ञानवान् ईश्वर इति फलितम् । एवमीदृशज्ञानवान् । अखिलसंवेत्ता इति चानर्थान्तरमिति आवयोः नाममात्रे विप्रतिपत्तिः पर्यवसितेत्याह नाम्नीति ।। १४१ ।।
युक्तिमल्लिका
यदि तन्मानसं ज्ञानं रुणद्धि तव निष्कले ।
न ब्रह्मणि मनोऽप्यस्ति तस्याज्ञानं तु केन तत् ।। १४२ ।।
सुरोत्तमटीका
तदज्ञानं तर्हि निष्कले एकादशेन्द्रियपञ्चभूतात्मक-षोडशकलारहिते ब्रह्मणि मनोऽपि नास्तीति योजना । तस्य ब्रह्मणः तदज्ञानं केन निमित्तेनाज्ञानं न केनापि । ज्ञातृमानसवृत्त्या विरोधस्तु ज्ञातृनिष्ठाज्ञानस्यैव न ब्रह्मनिष्ठाज्ञानस्य वैयधिकरण्यात् । स्वरूपज्ञानं प्रत्यविरोधित्वात् मानस-ज्ञानस्य च ब्रह्मण्यभावात् न द्वेधाऽपि तस्याज्ञानत्वमिति भावः ।। १४२ ।।
सत्यप्रमोदटीका
आह । नञो विरोध एवार्थः । स च मानसज्ञानेनैव न स्वरूपज्ञप्त्या अतो न कोऽपि दोष इति । तत्र प्रष्टव्यं कस्य मानस-ज्ञानेनेति । न तावज्जीवस्येति युक्तं । त्वन्मते ब्रह्माश्रिताज्ञानस्य जीवगत-मानसज्ञानविरोधित्वासम्भवात् । समानाधिकरणयोरेव ज्ञानाज्ञानयोर्विरोध-नियमात् । नापि ब्रह्मणः । तस्य मानसज्ञानस्यैवाभावात् । तत्र हेतुः मनोऽपि नास्ति इति । अपिरेवार्थः । मनःकरणकं हि मानसम् । कारणाभावे च कार्यं दुर्घटम् । कुतस्तस्य मनो नेत्यत आह निष्कल इति । मनसः षोडश-कालान्तर्भूतस्य ‘निष्कलं निष्क्रियं शान्तमि’ति कलाविकलत्वेन प्रमिते तस्मिन्ननवकाशादिति भावः ।। १४२ ।।
युक्तिमल्लिका
अज्ञानकल्प्यं सर्वं ते मनआदिजगत्त्रयम् ।
प्राक्सृष्टेर्न तदज्ञानं नाज्ञो भ्रान्तोऽपि वा परः ।। १४३ ।।
सुरोत्तमटीका
ते मते सर्वं मन आदिजगत्रयमिति सम्बन्धः । प्राक् सृष्टेः सृष्टेः प्राक् । तद्ब्रह्मणि त्वयाऽङ्गीक्रियमाणं अज्ञानं न ज्ञानविरोधीति व्युत्पत्त्या नाज्ञानं तत्तस्मात्परः परमात्मा अज्ञोपि न भ्रान्तोऽपि न । अज्ञाननिमित्तकभ्रान्तिमानपि न । अतस्तेन ब्रह्मणा स्रक्ष्यमाणं जगन्नाज्ञान-कल्पितमिति भावः ।। १४३ ।।
सत्यप्रमोदटीका
न केवलं श्रुत्या, किं तु त्वत्प्रक्रिययाऽपि ब्रह्मणि मानसज्ञानाभावः सिध्यतीत्याह अज्ञानेति । कल्प्यं कार्यं । ते तव मते । सति अज्ञाने तदुपादानकमानसज्ञानसिद्धिः । सति च मानसज्ञाने तन्नाश्या-ज्ञानसिद्धिरित्यन्योन्याश्रयान्न द्वयमपि सिध्यतीति भावः । किं च ब्रह्माश्रिता-ज्ञानस्य वृत्तिनाश्यत्वं सृष्टेः प्रागुत तदूर्ध्वं वा । नाद्यः दत्तोत्तरत्वादित्याह प्रागिति । अस्तु वा कथञ्चित्स्थितिकाले व्यधिकरणयोरपि विरोधोपगमेन जीवगतमानसज्ञानविरोधित्वेन ब्रह्मणि त्वदभिमताज्ञानोपपत्तिः । प्राक् सृष्टेस्तु मनआदिजगत्रयस्यैवाभावेन मानसज्ञानरूपविरोधिन एवाभावात् न ब्रह्मण्य-ज्ञानोपपत्तिरित्याह अज्ञानमिति । तत् वृत्तिनाश्यत्वेन त्वदभिमतम् । भ्रान्त इति अज्ञानकार्यत्वाद्भ्रान्तेरित्याशयः ।। १४३ ।।
युक्तिमल्लिका
सृज्यजीवस्य मनसो वृत्त्या नाश्यत्वतो यदि ।
तदज्ञानं तव मतं युक्तिर्नाङ्गीकरोति तत् ।। १४४ ।।
सुरोत्तमटीका
यदि सृज्यजीवस्य स्रक्ष्यमाणजीवस्य मनोवृत्त्या भावि-जीवनिष्ठान्तःकरणवृत्त्येत्यर्थः । तदज्ञानत्वाभिमतम् । युक्तिस्तदुक्तरीत्या कथ्यमानमज्ञानत्वं युक्तिर्नाङ्गीकरोतीति सम्बन्धः ।। १४४ ।।
सत्यप्रमोदटीका
द्वितीयं निराह सृज्येति स्रक्ष्यमाणेत्यर्थः । तत् वृत्ति-नाश्यत्वलक्षणं त्वदभितज्ञानशब्दप्रवृत्तिनिमित्तं अज्ञानत्वम् । न अङ्गीकरो-तीत्युपलक्षणं प्रतिक्षिपतीत्यपि ग्राह्यम् ।। १४४ ।।
युक्तिमल्लिका
अन्यज्ञानेनान्यनिष्ठस्याज्ञानस्यानिवर्तनात् ।
किं देवदत्तज्ञानेन यज्ञदत्ताज्ञता गता ।। १४५ ।।
सुरोत्तमटीका
तामेव युक्तिं दर्शयति ।। अन्यज्ञानेनेति ।। तत्र दृष्टान्तमाह ।। किं देवदत्तेति ।। ऐक्येन जीवब्रह्मणोरैक्येन । तत्समाधानम् अन्यनिष्ठाज्ञानत्वसमाधानं परिहार इति यावत् । तव मते दत्तोत्तरं देवदत्त-ज्ञानेन यज्ञदत्ताज्ञानस्यानिवर्तनाख्ययुक्त्या दत्तोत्तरमित्यर्थः । ऐक्यस्योभयथापि साम्यादिति भावः ।। १४५ ।।
सत्यप्रमोदटीका
तदेवाह अन्येति ब्रह्माज्ञानं न जीववृत्त्या निवर्त्यं तदसमानाधिकरणत्वात् इति विवक्षिते प्रयोगे सामान्यव्याप्तिमुक्त्वा दृष्टान्तमाह किं इति देवदत्तज्ञानानिवर्त्ययज्ञदत्ताज्ञानवत् इति भावः । ज्ञानस्य अज्ञान-निवर्तकत्वे समानाधिकरणत्वं तन्त्रमिति न्यायो व्युत्पादितो ध्येयः ।। १४५ ।।
युक्तिमल्लिका
ऐक्येन तत्समाधानमपि दत्तोत्तरं तव ।
ऐक्ये सति तदज्ञानं तत्सिद्धौ च तदेकता ।। १४६ ।।
सुरोत्तमटीका
दोषान्तरं चाह ।। ऐक्य इति ।। ऐक्ये जीवब्रह्मणोरैक्ये तत् ब्रह्माद्याश्रितं अज्ञानं स्यात् । जीवज्ञानविनाश्यत्वाख्यनिमित्तसम्भवात् । तत्सिद्धौ ब्रह्मण्यज्ञानसिद्धौ तदेकता तेन ब्रह्मणा सहैकता । जीवस्येति शेषः
।। १४६ ।।
सत्यप्रमोदटीका
नन्वसिद्धो हेतुः । ऐक्येन जीववृत्तेरेव ब्रह्मवृत्तित्वेन वृत्त्यज्ञानयोः समानाधिकरणत्वादिति चेत्स्यादप्येवं यदि ऐक्यमेव सिद्धं स्यात् । तदेव नास्तीत्याह दत्तेति । त्वन्मते जीवब्रह्मणोरिव देवदत्तयज्ञदत्त-योरपि ऐक्यसाम्येन पूर्वोक्तोऽतिप्रसङ्गो दुष्परिहर इत्याह तवेति मम इति शेषः । अन्योन्याश्रयं दोषान्तरं चाह ऐक्य इति जीवब्रह्मणोरैक्ये सति जीववृत्तेरेव ब्रह्मवृत्तित्वेन स्रक्ष्यमाणजीववृत्तिनाश्यत्वेन ब्रह्माश्रिताज्ञानसिद्धिः । तत्सिद्धौ च ब्रह्मण एवाज्ञानोपाधिसम्बन्धेन जीवभावप्राप्तिरिति तदैक्यसिद्धि-रिति । अतः व्यधिकरणत्वात् ऐक्येन समाधानासम्भवाच्च । नञर्थ इति तथा च ज्ञानमज्ञानस्यैव निवर्तकमिति त्वन्मतहानिरिति भावः ।। १४६,१४७ ।।
युक्तिमल्लिका
स्वाज्ञानादेव तद्ब्रह्म जीवतामेति चेद्धि सा ।
अतोऽन्योन्याश्रयाच्चात्र नञर्थो नाश्यता न ते ।। १४७ ।।
सुरोत्तमटीका
सा एकता । अतः उक्तयुक्तेः ते मते नाश्यता नञर्थो नेति योजना ।। १४७ ।।
युक्तिमल्लिका
कथमावरणे सत्येवान्यस्याप्यपरोक्षधीः ।
ज्ञानोत्पत्तिविरोध्येव यस्मादावरणं विदुः ।। १४८ ।।
सुरोत्तमटीका
पूर्वं वैयधिकरण्याज्जीवनिष्ठमनोवृत्त्या ब्रह्मनिष्ठाज्ञाननाशो नेत्युक्तम् । इदानीमज्ञानावृते ब्रह्मणि जीवस्यापरोक्षवृत्तिरेव नोत्पत्तुमर्ह-तीत्याह ।। कथमिति ।। अन्यस्यापि जीवस्यापि । अपरोक्षधीः मानसा-परोक्षधीः । तत्र हेतुमाह ।। ज्ञानोत्पत्तीति ।। विदुरित्यनेनान्धकारे ज्ञानोत्पत्ति विरोधित्वेनैवावरणत्वदर्शनादिति सूचयति ।। १४८ ।।
सत्यप्रमोदटीका
व्यधिकरणाया जीववृत्तेर्नाज्ञाननाशकत्वं युक्त-मित्युक्तम् । इदानी अज्ञानाख्यावरणसद्भावदशायां वृत्तिरेव नोत्पत्तुमर्हति दूरे तयाऽज्ञाननिवृत्तिवार्तेत्याह कथमिति । एवेत्यनेनोत्तेजकाभावो ध्वनितः । अन्यस्यापि जीवस्यापि । उपाधितो भिन्नस्यापि स्वभावत ऐक्यमापन्नस्येत्यर्थः। तेन व्यधिकरणस्य कथं प्रतिबन्धकत्वमिति चोद्यानवकाशः । अन्यथा प्रतिबन्धकलक्षणव्याघात इत्याह ज्ञानेति । विरोधि इति द्वितीया । एवं आवरणमित्यपि । यद्वा आवरणमित्यनन्तरं इतीति पूरणीयम् । विदुः लक्षणज्ञा इति शेषः । कार्यानुत्पादव्याप्यत्वं, कारणनिष्ठकार्यानुकूलशक्ति-विघटकत्वं वा प्रतिबन्धकत्वं इति ज्ञानिप्रसिद्धिरनेनोक्ता ध्येया ।। १४८ ।।
युक्तिमल्लिका
तदुत्पत्त्यविरोधे तन्नाश्यताशाऽपि किङ्कृता ।
बन्धस्यैव कुतो नाशस्तर्हि न स्याच्छ्रुतेर्बलात् ।। १४९ ।।
सुरोत्तमटीका
तस्य मानसज्ञानस्य उत्पत्तिं प्रत्यज्ञानस्याविरोधे तन्नाश्यताशा तेन ज्ञानेनाज्ञानस्य नाश्यत्वाशा किं कृता । अज्ञानस्य नाशात्प्रागेव ज्ञानेन सहोक्तविरोधे सति ज्ञाननाश्यता स्यात् । तदभावे तु कथं तन्नाश्यतेत्यर्थः । यदि च ज्ञाननाश्यत्वमेव ज्ञानेन सह विरोधो नान्य इति वदेत् तदोत्तरमाह ।। बन्धस्यैवेति ।। तर्हि पूर्वमविरुद्धस्यैवाज्ञानस्य ज्ञानेन नाशे बन्धस्यैव नाशः साक्षाज्ज्ञानेन नाशः कुतो न स्यात्स्यादेव । पूर्वं यया कयाचन विधया विरोधरहितेन ज्ञानेन नाश्यत्वमात्रस्याज्ञानवद्बन्धेऽपि सुवच-त्वात् । न केवलं साम्यं अस्मत्पक्षे आधिक्यं चेत्याह ।। श्रुतेर्बलादिति ।। दृष्ट्वैव तं मुच्यत इति दर्शनादेव बन्धनिवृत्तिश्रवणादिति भावः ।। १४९ ।।
सत्यप्रमोदटीका
उक्तलक्षणानङ्गीकारे परस्यानिष्टं प्रसञ्जयति तदिति । तदुत्पत्तिसहिष्णुत्वे सर्वथा तदविरोधापत्त्या वृत्तिनाश्यत्वमप्यज्ञानस्य दुर्घट-मेवेति भावः । ज्ञाननाश्यत्वं च तवाशासितमित्याह आशेति । अपिशब्देन दूरे तत्सिद्धिरिति सूचयति । केन कृतेति विग्रहः । तर्हि विरोधस्याप्रयोजकी-करणे । एवशब्देनाज्ञाननाशद्वारकत्वं बन्धनाशस्य तदभिमतं व्यवच्छिनत्ति । एतत्पक्षे श्रुतिसंमतिरप्यस्तीत्याह श्रुतेरिति । तरति शोकमित्यादेः इत्याशयः । बलादित्यनेन श्रुतीनां निरवकाशतामाह ।। १४९ ।।
युक्तिमल्लिका
अज्ञानमेव ज्ञानेन नाश्यं बन्धस्तु नेति वाक् ।
तदा स्याद्यदि नाशाच्च प्राक्तयोस्स्याद्विरुद्धता ।। १५० ।।
सुरोत्तमटीका
श्रुतस्याप्यस्य नाश्यनाशकभावस्यापहारः परस्याभिमतः। स च नाश्यनाशकभावातिरिक्तविरोधे सत्येव स्यान्नापरथेत्याह ।। अज्ञान-मिति ।। तयोर्ज्ञानाज्ञानयोः । ज्ञाननाश्यत्वमेवहि तवाप्यज्ञानत्वं नाम । तच्च ज्ञानविनाश्ये बन्धेऽपि वक्तुं शक्यत इति नाज्ञानत्वेनापि विशेषः । अतो ज्ञानोत्पत्तिप्रतिबन्धकत्वरूपविरोधेनैव प्राग्विरोधो वक्तव्यः । तदभावे श्रौती बन्धस्यैव ज्ञाननाश्यता युक्तेति भावः ।। १५० ।।
सत्यप्रमोदटीका
ननु ‘दृष्ट्वैव तं मुच्यते’ इति श्रुतौ एवकारः अयोग-व्यवच्छेदपरत्वेनाप्युपपन्न इति श्रुतिः सावकाशा । ज्ञानेनाज्ञाननाशः तेन तदुपादानबन्धनाश इत्यप्यर्थस्य सम्भवादिति चेन्न । स्यादेवं श्रुतेरन्यार्थकल्पना यदि ज्ञानाज्ञानयोरितः प्राक् विरोधः प्रमितः स्यात् । नैतदस्ति । तथा हि । विरोधः अज्ञानस्य ज्ञाननाश्यत्वमेव वा ज्ञानोत्पत्तिप्रतिबन्धकत्वं वा । नाद्यः बन्धेऽपि सम्भवात् । न द्वितीयः वृत्तेरेवानुत्पत्तौ तन्नाश्यत्वोक्तेरसम्भव-स्योक्तत्वात् । अतः श्रुतिबलाद्बन्धस्यैव ज्ञाननाश्यत्वं अङ्गीकार्यमिति सुस्थम्
।। १५० ।।
युक्तिमल्लिका
मनसो ह्यचिदंशस्ते घटप्रायो न नाशकः ।
चिदंशस्य बलान्नाशे कथं ब्रह्मचिति स्थितिः ।
अतो ब्रह्माश्रिताज्ञाने नञः कार्यं न विद्यते ।। १५१ ।।
सुरोत्तमटीका
ब्रह्मणि परेण परिकल्प्यमानाज्ञानस्य प्रागुक्तन्यायेनापि मानसज्ञाननाश्यतां निराकरोति ।। मनस इति ।। मानसज्ञानमज्ञाननाशकमिति वदताऽपि चिदंशस्य बलादेव नाशो वक्तव्यः । न तु घटप्रायाचिदंशबलात् । तथा चाज्ञाननिर्हरणसमर्थायां ब्रह्मचिति मानसवृत्तिनाश्यत्वेनोच्यमानाज्ञानस्य स्थितिरेव कथं न कथञ्चिदित्यर्थः । प्रतियोगिसत्त्वस्यैवासम्भवात् ज्ञाननाश्य-त्वेन न तस्याज्ञानत्वमिति भावः । उपसंहरति ।। अत इति ।। प्राक्सूचितं भगवति प्रयुज्यमानाविद्याशब्दार्थं स्पष्टमाह ।। अस्येति ।। अस्य अकार-वाच्यस्य । तत्पदेनाविद्यापदेन । तदधीना भगवदधीना रमा विद्यारूपा रमा अकारवाच्यस्य परमात्मनः अधीना विद्येति व्युत्पत्त्या तत्पदेनोच्यते तदभि-मन्यमाना जडा प्रकृतिश्च तत्पदेनोच्यत इति पूर्वेण सम्बन्धः । अभिमन्य-मानेति तत्र हेतुसूचनम् । अभिमानिवाचकपदस्याभिमन्यमाने प्रयोगादित्यर्थः । जडेत्यनेन विद्याया अयोग्या अविद्येति निमित्तान्तरं च सूचितम् । ताभिस्तिसृभिरविद्याभिः । अनेन भवो निरोधः स्थितिरप्यविद्ययेत्यादि-वाक्यानामर्थत्रयमुक्तं भवति ।। १५१,१५२ ।।
सत्यप्रमोदटीका
मनसः चिदचित्संवलनात्मकस्य त्वदभिमतवृत्ति-प्रतिफलितचैतन्यस्य । ‘स्वच्छेन्तःकरणेऽशनिप्रसृमरे’ इत्यादिना त्वदुक्त-प्रक्रियानुरोधादिति भावः । घटप्राय इति । इदं च ‘न चेद्धटादितुल्य-स्ये’त्यादिना (श्लो.११८) प्राग्व्युत्पादितमनुसन्धेयम् । अतः परिशेषा-च्चिदंशेनैव अज्ञाननाशो वक्तव्यः । अस्त्विति चेत्तत्राह कथमिति अन्धकार-विरोधिनि प्रकाशेऽन्धकारस्थितिरिव अज्ञानविरोधिन्यां ब्रह्मचिति नाज्ञान-स्थितिः सम्भाविनीति भावः । उपसंहरति अत इति । चिदाश्रितत्वोपगमेन चिता विरोधस्य, निष्कले ब्रह्मणि मनस एवाभावेन ब्रह्ममनोवृत्त्या विरोधस्य, व्यधिकरणत्वात्, आवरणे सति वृत्त्युत्पत्तेरेवायोगाच्च जीवमनोवृत्त्या विरोधस्य चेति त्रधाऽपि विरोधस्य दुर्वचत्वादिति भावः। कार्यं विरोधार्थकत्वम् ।।१५१।।
युक्तिमल्लिका
अस्य विद्येति विद्यैव तत्पदेनोच्यते हरौ ।
तदधीना रमा चाभिमन्यमानाऽथवा जडा ।
ताभिस्स्पृष्टमिदं विश्वं भ्रान्त्युत्थं केन कथ्यताम् ।। १५२ ।।
सत्यप्रमोदटीका
‘जानतां ज्ञानमेव तदि’ति प्रागुक्तं विग्रहप्रदर्शनेन विशदयति अस्येति ‘अकारो विष्णुरुद्दिष्ट’ इत्यभिधानसिद्धस्य विष्णोरिति भावः । षष्ठ्या अधीनत्वार्थमाश्रित्याह रमेति । विद्या ईश्वरैकाधीनयथार्थ-ज्ञानरूपा । जडप्रकृतौ अविद्याशब्दं व्युत्पादयति अभिमन्यमानेति विष्ण्वधीन-विद्याशब्दितरमाऽभिमन्यमानेत्यर्थः । अभिमान्यभिमन्यमानयोरैक्यव्यपदेशः ‘तथौ प्राणात्मकौ प्रोक्तौ’ इति भाष्योदाहृतप्रमाणसिद्धः । ताभिः ईश्वरेण स्वतन्त्रेण, तन्मात्राधीनया रमया निमित्तया, प्रकृत्या उपादानेन चेति तिसृभिरविद्याभिः । इदं प्रमितम् । सृष्टमिति हेतुगर्भं विशेषणम् । तेन विमतं न भ्रान्तिकल्पितं सृष्टत्वात् व्यतिरेकेण शुक्तिरूप्यवत् इति प्रयोगः सूचितः । न चासिद्धिः ‘भवो निरोधः स्थितिरप्यविद्यया’ इति प्रमाणतः सिद्धेः । विपक्षे हेतूच्छित्तिः । भ्रान्त्युत्थं भ्रमविषयः । केनेत्याक्षेपे । ईश्वरस्य सत्य-जगत्सृष्टिसमर्थत्वेन, निमित्तोपादानकारणानां च सत्यत्वेनेति भावः।। १५२ ।।
युक्तिमल्लिका
यन्मिथ्यात्वं परो वक्ति स्वाज्ञानस्य तथैव तत् ।
यस्मात्तदस्मदीशाने नाभूदस्ति भविष्यति ।। १५३ ।।
सुरोत्तमटीका
स्वाज्ञानस्य ब्रह्मणि स्वेन परिकल्प्यमानाज्ञानस्य मिथ्यात्वं परो वक्तीति यत् तत्तथैव तदेकं प्रमेयमस्माकमप्यनुकूलमेवेत्यर्थः । कथमित्यत आह ।। यस्मादिति ।। तत् अज्ञानं अस्मदीशाने नारायणे नासीत् नाप्यस्ति न भविष्यति च । अतस्त्रैकालिकनिषेधप्रतियोगित्वाद्ब्रह्मण्यज्ञानं शशशृृङ्गप्रायमिति भावः ।। १५३ ।।
सत्यप्रमोदटीका
यत् मिथ्यात्वं इति पदच्छेदः । वक्ति अविद्या-तत्कार्ययोरन्यतरत्वं मिथ्यात्वं इति तल्लक्षणकथनेन । स्वाज्ञानस्य मायावादिना कल्प्यमानस्य ब्रह्माश्रिताज्ञानस्य । तथैव यथार्थमेव । अस्मदीशाने ‘यः सर्वज्ञः सर्ववित्’ ‘सर्वज्ञं सर्वकर्तारं नारायणमनामयं’ इत्यादिश्रुतिस्मृतिभिः सदा सर्वज्ञत्वेन प्रमिते नारायणे । नाभूदित्यादिना त्रैकालिकनिषेधप्रतियोगित्व लक्षणं मिथ्यात्वमुक्तम् ।। १५३ ।।
युक्तिमल्लिका
निरनिष्टो हि सोऽसङ्गो निरवद्यः परः प्रभुः ।
अनीदृग्जीवता तस्य नाज्ञानेन न कर्मणा ।। १५४ ।।
सुरोत्तमटीका
अज्ञाननिराकरणन्यायेनैव औतमपि निरस्तमित्याह ।। निरनिष्ट इति ।। अनीदृग्जीवता साऽनिष्टसावद्यससङ्गजीवता । तस्य ब्रह्मणः । अज्ञानेन । अज्ञानवशाज्जीवभावो न । निरवद्यत्वश्रुत्या भगवत्यज्ञानाख्यदोषस्य दूरतो निरस्तत्वात् । कर्मणा कर्मवशादपि न । असङ्गश्रुत्या कर्मलेपाभावस्य कथनादिति भावः ।। १५४ ।।
सत्यप्रमोदटीका
एवं सर्वज्ञे परमात्मनि अज्ञानासम्भवव्युत्पादनेन तस्य चिन्तासन्तापादिसकलदोषातिदूरत्वं ‘निरनिष्टो निरवद्यः’ ‘असङ्गो ह्ययं पुरुषः’ इत्यादिश्रुतिसिद्धं सिद्धं, अज्ञानमूलत्वात्सर्वदोषाणामित्याह निरनिष्ट इति । ‘नित्यातादृशचिच्चेत्ययन्तेष्टो नो रमापतिः’ इति भगवत्पादोक्तदिशा जीवभेदोऽप्यनेन सिद्ध इत्याह अनीदृगिति ।। उपाधिसम्बन्धेनाप्यस्य जीवभावं प्रत्याख्याति नेत्यादिना । अज्ञानस्य निरस्तत्वात् कर्मलेपाभावस्या-सङ्गश्रुतिसिद्धत्वाच्चेति भावः । तदुक्तं वादावल्यां ‘असङ्गश्रुतिस्तु परमेश्वरस्य पापादिसम्बन्धाभाववादिनी’ इति ।। १५४ ।।
युक्तिमल्लिका
अज्ञानासम्भवादेव नाध्यासोऽप्यखिलेश्वरे ।
लेपायोग्ये नभोदेशे न पङ्को नापि तन्मलम् ।। १५५ ।।
सुरोत्तमटीका
अज्ञानासम्भवादेव ब्रह्मणि जगदध्यासोऽपि नेत्येतदनूद्य दृष्टान्तेनोपपादयति ।। अज्ञानासम्भवादेवेति ।। १५५ ।।
सत्यप्रमोदटीका
अज्ञानस्याध्यासं प्रति निमित्तत्वात्तदभावे तदभावोऽपि सुलभ इत्याह अज्ञानेति । अखिलेश्वरे इत्यनेन दोषनिरसनं न योगसामर्थ्यात् किन्तु स्वरूपशक्तेरेवेति ध्वनयति । प्रसक्तस्य लेपस्य न निराकृतिः किं तु लेपायोग्ये तत्प्रसक्तिरेव नेति भावः । तत्रैवानुरूपमर्थान्तरं न्यस्यति लेपेति । यथोक्तं गीतायां ‘यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते । सर्वत्रावस्थितो देहे तथाऽऽत्मा नोपलिप्यते’ इति ।। १५५ ।।
युक्तिमल्लिका
तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ।
इति गीतावचनतो यस्सर्वज्ञ इति श्रुतेः ।। १५६ ।।
सुरोत्तमटीका
भगवत्यज्ञानासम्भवायोदीरितश्रुतिस्मृतिविरोधेन जीवा-ज्ञानसाधकप्रत्यक्षविरोधेन च परेण ब्रह्मण्यज्ञानसाधनायोदीरितानुमानान्यपि बाधितविषयाणीत्याह ।। तान्यहमिति ।। त्वत्प्रत्यक्षं जीवस्य तव प्रत्यक्षम् । अनुमाया अज्ञानसाधकानुमायाः आगमः अज्ञानसाधकत्वेनाभिमत आगमः प्रत्यक्षादिविरोधे सत्यागमस्यान्यार्थकथनं यजमानः प्रस्तर इत्यादौ सर्वजन-संप्रतिपन्नमिति भावः ।। १५६,१५७ ।।
सत्यप्रमोदटीका
तानीत्यादिना कृष्णस्य सर्वज्ञत्वं, ‘न त्वं वेत्थ’ इति अर्जुनोपलक्षितसर्वजीवानां अज्ञत्वं अवगम्यते । एवं ‘यः सर्वज्ञ’ इति श्रुते-र्ब्रह्मणः सर्वज्ञत्वम् च । ‘आत्मानमन्यं च स वेद विद्वानपिप्पलादो न तु पिप्पलादः’ इत्यादीन्यपि प्रमाणान्यत्र भवन्ति । अतो नाज्ञानस्य ब्रह्माश्रितत्वमित्याह तानीति ।। १५६ ।।
युक्तिमल्लिका
अहमज्ञ इति प्रोक्तं त्वत्प्रत्यक्षं न मत्प्रभोः ।
अनुमायाश्च बाधोऽभूदागमोऽन्यार्थमागमत् ।। १५७ ।।
सत्यप्रमोदटीका
प्रोक्तं त्वत्प्रत्यक्षं अज्ञानसाधनाय त्वदुदाहृतं प्रत्यक्षम् । प्रभोः स्वेन धाम्नाऽज्ञानादिदोषनिरसनसमर्थस्य । ‘अहमज्ञ’ इति प्रत्यक्षविषयोऽहमर्थो जीव एवेति भावः । ‘अहमित्येव यो वेद्यः स जीव इति कीर्तितः’ इति तत्वनिर्णयोदाहृतश्रुतेः । अनुमायाः स्वदेशगतवस्त्वन्तरपूर्वकं इत्याद्यज्ञानसाधकाभिमतायाः । आगमः ‘मायिनं तु महेश्वरं’ इत्यादिः । अन्यार्थं पूर्वार्धप्रकृतप्रकृतिनियामकत्वादिरूपम् । ऐन्द्रियकार्थविषये प्रत्यक्ष-स्यागमापेक्षया प्राबल्यं तत्त्वमसिवाक्ये तत्त्वं पदयोर्लक्षणां व्याचक्षाणस्य परस्यापि संमतमेव । तथा हि तद्वाक्यं
‘कथमेकत्वमनयोर्घटते विपरीतयोः ।
प्रत्यक्षेण विरोधोऽयमुभयोरुपलभ्यते’ इति ।
एवं ‘कामोऽस्मि’ इत्यस्य कामनियामकोऽस्मि इति व्याख्यानावसरे तत्र तत्र ।। १५७ ।।