अन्योन्याभावाभिधानं तत्त्वं न पृथगुक्तवान्
अभेदानुमाननिराकृतिः
युक्तिमल्लिका
अन्योन्याभावाभिधानं तत्त्वं न पृथगुक्तवान् ।
भावाभावेषु ताद्रूप्याद्भेदस्यासत्यवर्तनात् ।। ७९५ ।।
तस्मात्साधनवैकल्यमस्मिन्पक्षे दृढं विदाम् ।। ७९६ ।।
सुरोत्तमटीका
तमेव हेतुं विशिनष्टि ।। भावाभावेष्विति ।। ताद्रूप्यात् तद्रूपत्वात् । भावाभावाभिन्नत्वादित्यर्थः । असति शशविषाणादौ । अवर्तनात् । उक्तरीत्याऽभावादित्यर्थः । असति अन्योन्याभावस्य वर्तने हि सतोऽस्य तद्रूपायोगेन पृथग्गणना स्यात् । तत्र च उक्तरीत्याऽवर्तने अन्यत्र च तद्रूपत्वे किं पृथग्गणनयेति न पृथगुक्तवानिति भावः ।। प्रकृतमनुसरति ।। तस्मादिति ।। तस्मादसति भेदस्याविद्यमानत्वेन तद्भेदे भेदत्वस्य सुतरामविद्यमानत्वात् । अस्मिन्पक्षे आरोपितचन्द्राणामेव भेद इति पक्षे ।। ७९५,७९६ ।।
सत्यप्रमोदटीका
तस्मात् भेदस्य धर्मिस्वरूपत्वात् । आरोपितचन्द्रस्य च निःस्वरूपत्वेन तत्र धर्मिस्वरूपसापेक्षभेदस्यैवासत्त्वेन तत एव तत्र भेदत्व-हेतोरभावेन प्रागुक्तं साधनवैकल्यं दुष्परिहरमिति भावः ।। ७९५,७९६ ।।
युक्तिमल्लिका
किं चारोपितरूप्येषु रूप्यत्वं कस्य संमतम् ।
अत आरोपितो भेदो न भेदस्सर्ववादिनाम् ।। ७९७ ।।
सुरोत्तमटीका
प्रागुक्तं सुलभं पक्षं बहुचर्चायामसमर्थस्यापि मन्दस्योप-काराय सिंहावलोकनन्यायेन पुनस्स्मारयन्भेदत्वानुमानदूषणमुपसंहरति ।। किञ्चेति ।। व्याख्यातप्रायमेतत् । ततः एकत्र साधनवैकल्यात् । अपरत्र साध्यवैकल्यात्
।। ७९७ ।।
सत्यप्रमोदटीका
प्रागुक्तं भेदे विकल्पदूषणं स्मारयति किं चेति । आरोपितानारोपितरूप्ययोः रूप्यत्वसामान्यमिव आरोपितानारोपितभेदयो-र्भेदत्वसामान्यमप्रामाणिकमेव । तदुक्तं वादावल्यां ‘न हि जलनभोनलिनयो-र्नलिनत्वसामान्यमस्ती’ति ।। ७९७ ।।
युक्तिमल्लिका
अनारोपितभेदस्तु सत्य एवाखिलस्ततः ।
साध्यसाधनवैकल्यशल्यमुद्ध्रियते कथम् ।। ७९८ ।।
सत्यप्रमोदटीका
अनारोपितचन्द्रधर्मिको भेदो हेतूक्रियते स च सत्य इति न साधनवैकल्यमिति चेत् एवं तर्हि तत्र मिथ्यात्वं नास्तीति साध्य-वैकल्यम् । तथा चैकं सन्धित्सतः अपरं च्यवते इति न्याय इत्याह साध्येति
।। ७९८ ।।
युक्तिमल्लिका
अतस्तवैष दृष्टान्तो नाम्ना दृष्टान्त एव हि ।
यतो द्वेधाऽपि दृष्टोऽन्तस्सर्वैरस्य मनीषिभिः ।। ७९९ ।।
सुरोत्तमटीका
नाम्ना नाममात्रेण न त्वर्थतः । दृष्टोंऽतस्साध्यसाधनयो-रध्यवसायो यत्रेत्यस्यार्थस्यात्राभावात् । कथं तर्हि दृष्टान्तनामापीत्यत आह ।। यत इति ।। द्वेधा आरोपितानारोपितपक्षयोः अन्तो नाशः । अस्य त्वदभि-लषितार्थस्य । अनुकूलार्थाभावेऽपि प्रतिकूलमिममर्थमादाय दृष्टान्तनाममात्रं घटत इति भावः ।। ७९९ ।।
सत्यप्रमोदटीका
मिथ्याभेदपक्षीकारे प्रतिवादिन आश्रयासिद्धिः । सत्यस्य पक्षत्वे बाधः । मिथ्याभूतस्य हेतोः असिद्धिः । सत्यस्य विरुद्धता । मुक्तामुक्तयोर्भेदेऽनैकान्त्यम् । अप्रमाणगम्यत्वमुपाधिः । अभेदो मिथ्या अभेदत्वात् देहात्माभेदवत् इत्याभाससाम्यं इत्यादि सकलसाधनदोषाणां सद्भावादिति भावः । अतः मिथ्यात्वानुमानस्य दुष्टत्वात् । ‘न वयं अभेदं साधयामः । किं तु भेदं व्यासेधाम इति त्वदुपक्रमो दुराशामात्रम् ।। नाम्ना अन्तशब्दस्य त्वदभिलषितार्थनाश इत्यर्थमाश्रित्य ।। ७९९ ।।
युक्तिमल्लिका
आत्मत्वात्परमात्मेव यद्यात्मा यं मते तव ।
नारीत्वात्तर्हि भार्यैव ते माता स्यात्तथैव हि ।
अतस्त्वं मातृगमनीत्युपेक्ष्यः प्रतिवादिनाम् ।। ८०० ।।
सुरोत्तमटीका
अधुना विमता आत्मानः परमात्मनस्तत्वतो न भिद्यन्ते आत्मत्वात्परमात्मवदित्यनुमानं किञ्चिदनुवदन्नाभाससमानयोगक्षेमतया दूषयति । आत्मत्वादिति ।। अस्तु तर्हीदमप्यनुमानमित्यत आह ।। अत इति ।। ८०० ।।
सत्यप्रमोदटीका
विमताः आत्मानः परमात्मनः परमार्थतो न भिद्यन्ते आत्मत्वात् परमात्मवदित्यनुमानं अनेकाभाससाम्योक्त्याऽपहसति नारीत्वा-दित्यादिना ।। ८०० ।।
युक्तिमल्लिका
पशुत्वाद्गौश्शुनीते स्याद्वस्तुत्वादन्नमेव हि ।
अशुद्धं स्याद्घटोऽपि स्यात्पटो द्रव्यत्वतस्तव ।। ८०१ ।।
सुरोत्तमटीका
परानुमानस्यात्यप्रामाणिकत्वसूचनाय बह्वाभाससाम्य-माह ।। पशुत्वादित्यादिना ।। अथवा पूर्वानुमानेन परस्य मातृगमनाख्य-महापातकमुक्तं तेन लज्जावांश्चेत्परदेशमेव गच्छेत् । तथापि निर्लज्जतया गृहं न त्यजति चेत्क्षीरपानान्न भोजनजलपाना नामभावेन मरणं स्यादित्युत्तरानु-मानैराह ।। ८०१ ।।
युक्तिमल्लिका
आभासोपमहेतूनां तन्मुख्येयमुदाहृतिः ।
अतोनुमानतोऽप्यैक्यं न सिद्ध्येत्प्रतिवादिनाम् ।। ८०२ ।।
सुरोत्तमटीका
तत्तस्मात् । आभासपङ्क्तिपतितत्वात् । इयं त्वदनुमा । उदाहृतिरुदाहरणं निदर्शनमित्यर्थः । अतः उक्तविधयाऽनुमानानामाभासत्वात् ।। ८०२ ।।
सत्यप्रमोदटीका
मुख्येति । व्यवहारतोऽपि न भिद्यन्ते इत्यपि सुसाधत्वात् ।। ८०२ ।।
युक्तिमल्लिका
यतोऽनुमानतोऽप्यक्षागमान्वेव सा भवेत् ।। ८०३ ।।
सुरोत्तमटीका
उक्तानुक्तपरकीयसर्वानुमानसाधारणदूषणमाह ।। यत इति ।। अनुमा प्रमाणान्तरमनुसृत्यैव प्रमाणमित्यर्थः । ततस्तस्मात्कारणात् । साऽनुमा । त्वदभिलषितानुमानजातं च सर्वं द्वासुपर्णेत्यादि निरवकाश-श्रुत्यननुसारित्वान्नाहं सर्वज्ञ इत्यादि प्रत्यक्षाननुसारित्वाच्चानुमान पदयोग्यमपि न भवतीति भावः ।। ८०३ ।।
सत्यप्रमोदटीका
सकलप्रमाणविरुद्धार्थे प्रवर्तमानानां त्वदनुमानमिति तच्छब्दवाच्यत्वमेव दुर्घटमित्याह यत इति ।। ८०३ ।।
युक्तिमल्लिका
मानानामेव मिथ्यात्वादैक्ये मानं न ते मते ।
ममत्वैदम्पर्यमात्रे मिथ्यात्वात्तानि तत्र न ।। ८०४ ।।
सुरोत्तमटीका
उभयवादिसंप्रतिपत्त्याऽप्यैक्ये मानं नास्तीत्याह ।। मानानामेवेति ।। सर्वमिथ्यात्ववादिनस्तव मते ऐक्यवाक्यानां सर्वेषामपि सुतरां त्रिकालनास्तित्वापरपर्यायमिथ्यात्वात् मिथ्यात्वाङ्गीकारात् ऐक्ये मानं न । मम तु मते एदंपर्यमात्रमिथ्यात्वात् इदमैक्यं परं तात्पर्यविषयो यस्य तत् इदं परं तस्य भावः ऐदंपर्यं तात्पर्यमित्यर्थः । तन्मात्रमिथ्यात्वात् सर्वसत्यत्व-वादिनोऽपि मम मते एतावन्मात्रमिथ्यात्वस्य संमतत्वादित्यर्थः । तानि ऐक्य-वाक्यानि । तत्र ऐक्ये । न प्रमाणं न । एवञ्चोभयवादिसंप्रतिपत्त्या ऐक्ये प्रमाणाभावात् मातापितृरहितपुत्रगर्भवत् गर्भस्रावात्प्रागेव तवैक्याख्यशिशुः अभावमापेति भावः ।। ८०४ ।।
सत्यप्रमोदटीका
मानानामेवेति ‘नेह नानास्ति किञ्चन’ इति प्रपञ्चान्तर्गतमानानां ‘न वेदा न वर्णाश्रमाचारधर्मा’ इति मिथ्यात्वोपगमात् । न हि वन्ध्यासुतवचसा किमपि सिध्यतीति भावः । मया त्वभेदवाक्यानां सत्यत्वं प्रामाण्यं चाङ्गीकृत्य स्वरूपैक्ये तात्पर्यमात्रं निषिध्यते अविरुद्धार्थान्तरे तात्पर्यं व्यवस्थाप्यते इति न कोऽपि दोष इत्याह ममेति । तत्र न स्वरूपैक्ये न प्रमाणानि । सादृश्याद्यैक्ये तु प्रमाणान्येव ।। ८०४ ।।