ततो वैकुण्ठमगमद्भास्वरं तमसः परम्

वैकुण्ठादिप्राप्तिरेव परममुक्तिः

युक्तिमल्लिका

ततो वैकुण्ठमगमद्भास्वरं तमसः परम् ।

यत्र नारायणस्साक्षान्न्यासिनां परमा गतिः ।। १५१ ।।

शान्तानां न्यस्तदण्डानां यतो नावर्तते यतिः ।

इति भागवते वैकुण्ठाख्या भगवतः पुरी ।। १५२ ।।

सुरोत्तमटीका

 वैकुण्ठप्राप्त्यतिरिक्तमोक्षाभावं सयुक्तिकप्रमाणवचनेनोप-पादयति ।। तत इति ।। इतिशब्दात्पूर्वं विद्यमानं सर्वं भागवतवाक्यम् ।। १५१,१५२ ।।

सत्यप्रमोदटीका

 अर्चिरादिमार्गेण प्राप्यो विष्णुलोकोऽपरमुक्तिरिति औतिनः । तदुक्तं चन्द्रिकायां ‘त्वन्मतेऽर्चिरादेरुपासकगतित्वेन ब्रह्म-विद्गतित्वाभावादि’ति । तदेतत्स्मृतिवाक्यैर्दूषयन् वैकुण्ठलोकप्राप्तेरितरा परम-मुक्तिर्नास्तीति प्रमेयं स्मृतिभिः श्रुतिभिश्च सविस्तरं समर्थयते तत इति पूर्वैः । पुरी परमोच्यते इति सम्बन्धः । तमसः परं इत्यस्यार्थः अज्ञानाद्बहिर्भूता इति । अङ्गीकृतश्च परेण तमः शब्दस्याज्ञानार्थकत्वं ‘नासदासीदि’ति श्रुतिमुदाहृत्य अज्ञानस्यानिर्वचनीयत्वसिद्धये तम आसीदिति वाक्यशेषमुदाहरता । न ह्यविद्याऽस्तमयादपरो मोक्षस्तेनेष्यत इति भावः ।। १५१–१५३ ।।

युक्तिमल्लिका

तमश्शब्दोदिताज्ञानाद्बहिर्भूताऽतिभास्वरा ।

पुनरावृत्तितश्शून्या गतिश्च परमोच्यते ।

इतोऽतिरिक्तः परमो मोक्षः कस्स्याद्विवेकिनाम् ।। १५३ ।।

सुरोत्तमटीका

 तमसः परमित्यस्यार्थमाह ।। तम इति ।। यतो नावर्तत इत्यस्य फलितार्थमाह ।। पुनरिति ।। परमा गतिरिति सम्बन्धः । इतः अज्ञाननिवृत्तिस्थलात् । अपुनरावृत्तिस्थलादिति यावत् ।। १५३ ।।

युक्तिमल्लिका

मर्त्यो मृत्युव्यालभीतो लोकान्सर्वांश्च निर्भयान् ।

नाद्राक्षीत्किल पादाब्जं प्राप्य विष्णोर्यदृच्छया ।

स्वस्थश्शेते मृत्युरस्मादपैतीत्याह देवकी ।। १५४ ।।

इतोऽपि कृष्णचरणप्राप्तिरेवामृतं सताम् ।

जीवन्मुक्तौ च यन्मृत्युस्ततो मुक्तिरियं परा ।। १५५ ।।

सुरोत्तमटीका

 मर्त्यो मृत्युव्यालभीतः पलायंल्लोकान्सर्वान्निर्भयान्नाध्य-गच्छत् । त्वत्पादाब्जं प्राप्य यदृच्छयान्ते स्वस्थश्शेते मृत्युरस्मादपैतीति भागवतस्थदेवकीवाक्यमर्थतः पठन् मृत्युविदूरस्थानत्वाद्वैकुण्ठस्यैव परम-मोक्षत्वमित्याह ।। मर्त्य इति ।। व्यालः वनसर्पः । सर्वान् सत्यकैलास-स्वर्गादीन् । निर्भयान् मृत्युभयरहितान् । त्वत्पादाब्जं वैकुण्ठपुरीस्थस्य तव पादाब्जम् । अन्ते सर्वलोकपलायनावसाने । शेते रमणीयशय्यायां मुक्त-स्स्वर्नार्या सह शेते । अस्मात् वैकुण्ठपुरे त्वच्चरणसमीपस्थमुक्तात् । इतः एतद्वचनबलात् । जीवन्मुक्तौ स्थितशुकवामदेवादीनामित्यर्थः । यद्यस्मात् । मृत्युर्मरणम् । ततः मरणराहित्येन जीवन्मुक्तितोऽप्यतिशयितत्वात् ।। १५४,१५५ ।।

सत्यप्रमोदटीका

 ‘मर्त्यो मृत्युव्यालभीतः पलायन् लोकान्सर्वान्निर्भया-न्नाध्यगच्छत् ।। त्वत्पादाब्जं प्राप्य यदृच्छयान्ते स्वस्थः शेते मृत्युरस्मादपैति’ इति भागवते देवकीवाक्यमर्थतः सङ्गृह्णाति मर्त्य इति । परेति पुनरावृत्ति-राहित्यस्यैव परममुक्तिस्वलक्षणत्वादिति भावः ।। १५४,१५५ ।।

युक्तिमल्लिका

आब्रह्मभवनाल्लोकाः पुनरावर्तिनोऽर्जुन ।

मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ।। १५६ ।।

इति गीतोदितां वाणीमनुस्मर न विस्मर ।

जीवन्मुक्तौ तु यज्जन्म ततो मुक्तिरियं परा ।। १५७ ।।

सुरोत्तमटीका

 गीतावाक्येऽपि कृष्णसमीपप्राप्तेरेव पुनर्जन्माख्यसंसार-दूरीकरणसामर्थ्योक्तेस्सैव परममुक्तिरित्याह ।। आब्रह्मेति ।। यद्यप्यनन्तासन-श्वेतद्वीपयोः पुनरावृत्तियुक्तत्वशङ्कानिरासाय मुक्तानामप्यावासत्वेनाप्यङ्गी-कृतान्तरिक्षस्वर्गादिलोकानां च पुनरावृत्त्यैव युक्तजनभरितत्वशङ्कानिरासाय च भगवत्पादैरेव पूर्वार्धस्य मेरुस्थितब्रह्मसदनादर्वाक्तनलोकानां पुनरावृत्त्यैव युक्तजनभरितत्वमेवार्थ उक्तः । तथापि वक्तुः कृष्णस्य व्याख्यातुराचार्यस्य च प्राकृतमेरुस्थब्रह्मभवनसाम्येन सत्यलोकस्य कैमुत्येन तदर्वाक्तनलोकानां च जन्मादियोग्यप्रकृतिबद्धजनयुक्तताऽप्यभिमता । अन्यथा मामुपेत्येति स्वलोक-गमनस्यैव विशिष्य पुनर्भवविदूरत्वकथनविरोधात् । तथापि मुक्तामुक्तजन-स्थानतया तेषामपि लोकानामेकांशेन स्वलोकसाम्यमागतमिति चेन्न । मामुपेत्येति वदतः कृष्णस्य तल्लोकस्थमुक्तानां जन्मवैधुर्येऽपि श्वेतद्वीपस्थस्व-प्राप्त्येकनिमित्तत्वस्य तेष्वपि लोकेषु स्थितस्वमूर्तिविशेषप्राप्तिनिमित्तत्वस्य चाभिप्रेतत्वेन तल्लोकमहिमत्वाभावे तात्पर्यात् । अतो न प्रकृतानुपयोगः । एतद्वाक्योक्तमुक्तेरपि जीवन्मोक्षादतिशयमाह ।। जीवदिति ।। यद्यस्मात् । प्राक् मरणाभावेनातिशय उक्तः । इदानीं जननाभावेनातो न पौनरुक्त्यम् ।। १५६,१५७ ।।

सत्यप्रमोदटीका

 ननु अन्तरिक्षस्वर्गादिष्वपि मुक्ताः सन्ति इति स्थितिः । ‘केचिदत्रैव मुच्यन्ते’ इत्यादिवचनादिति चेत्सत्यम् । तथाऽपि अत्र मामुपेत्येत्यस्य श्वेतद्वीपस्थवासुदेवं प्राप्येति तथा तत्तल्लोकस्थस्वमूर्तिविशेषं प्राप्येति चार्थस्य विवक्षितत्वात् न कोऽपि क्षुद्रोपद्रव इति मन्तव्यम् । विस्तरः सत्तत्त्वरत्नमालायाम् ।। १५६,१५७ ।।

युक्तिमल्लिका

सा च विष्णोस्समीपाप्तिस्तदङ्घ्रिप्राप्तिरेव वा ।

तल्लोकेषु स्थितिर्वाऽभूत्तेनैक्यं त्वष्टमो रसः ।। १५८ ।।

अस्पष्टवचनस्यार्थं स्पष्टोक्तेरनुसारतः ।

प्राहुस्सर्वे यतः पूर्वे तन्मा कुर्वेकताभ्रमम् ।। १५९ ।।

सत्यप्रमोदटीका

 एवं परममुक्तावपि सायुज्यादिभेदसद्भावेऽपि तवैक्य-वार्ता गुहानिहितेत्याह सा चेति ।। १५८,१५९ ।।

युक्तिमल्लिका

अनन्तासनवैकुण्ठश्वेतद्वीपाभिधास्त्रयः ।

ज्योतिष्मन्तो यत्र लोकास्तत्र माममृतं कृधि ।। १६० ।।

इति श्रुतौ यतो विष्णोर्लोकेष्वमृततोदिता ।

ततस्तल्लोकगमनं महामोक्षो भवेद् ध्रुवम् ।। १६१ ।।

सुरोत्तमटीका

 इदानीं श्रुतिभिरपि वैकुण्ठपुर्यादिभगवत्पुरत्रयस्यैव परममोक्षत्वं साधयति ।। ज्योतिष्मन्त इत्यादिना ।। यत्र प्रदेशे । ज्योति-ष्मन्तः सूर्याग्न्यादिप्रकाशं विनापि अजस्रं प्रकाशवन्तः लोकास्सन्ति । तत्र तत्प्रदेशस्थलोकेषु माममृतं कृधिकुरु । इति श्रुतौ एवमर्थकश्रुतौ । अमृतता मरणरहितता ।। १६०,१६१ ।।

सत्यप्रमोदटीका

 ज्योतिष्मन्तः ‘त्रिपादस्यामृतं दिवि’ इति वाक्ये दिवि इत्यस्य तथा व्याख्यानात् । ‘न तद्भासयते सूर्यो न शशाङ्को न पावकः । यद्गत्वा न निवर्तन्ते तद्धाम परमं मम’ इति गीतायां लोकानां परमत्वोक्त्याऽपि सिद्धमर्थमाह महामोक्ष इति ।। १६०,१६१ ।।

युक्तिमल्लिका

यतोऽत्रैव श्रुतिस्स्पष्टं विष्णोर्लोके महीयते ।

इत्याह तदिमे लोकास्तस्यैव स्युर्न संशयः ।। १६२ ।।

सुरोत्तमटीका

 अत्रैव अस्मिन्सूक्त एव । श्रुतिः यत्र तत्परमं पदं विष्णोर्लोके महीयत इति श्रुतिः । तत्तस्मात् अत्रैव वाक्यान्तरे स्पष्टं विष्णुलोकत्वश्रवणात् । इमे ज्योतिष्मन्त इति वाक्योक्ताः । अत्र सामान्योक्तावपि एतत्प्रकरणस्थविशिष्योक्तिबलात् अत्रापि विष्णुलोकत्व-निर्णयः । बहुवचनाल्लोकानां त्रित्वं च गम्यत इति भावः

।। १६२ ।।

सत्यप्रमोदटीका

 इमे त्रयः । अतः लोकशब्दः समुदायैकवचन इति भावः ।। १६२ ।।

युक्तिमल्लिका

उक्तस्मृतेश्च संमत्या लोकोऽयं वैष्णवो भवेत् ।

अतस्सलोकतां मोक्षो सालोक्यं च श्रुतिर्जगौ ।। १६३ ।।

सुरोत्तमटीका

 उक्तस्मृतेः ततो वैकुण्ठमिति स्मृतेः । अतः लोकस्यैव मोक्षस्थानत्वात् । श्रुतिः गच्छेद्ब्रह्मसलोकतामित्यादि श्रुतिः । मुक्तिस्थानस्य लोकत्वाभावे मोक्षस्य सालोक्यमिति व्यवहारो न स्यादिति भावः ।। १६३ ।।

सत्यप्रमोदटीका

 गच्छेद्ब्रह्मसलोकतामिति श्रुतौ सालोक्यमोक्षस्य विवरणाद्विष्णुलोकप्राप्तिरेव परममोक्ष इत्यवसीयते । न हि निर्विशेषब्रह्मभावे पराभिमते लोकशब्दव्यवहारोऽस्तीति भावः ।। १६३ ।।

युक्तिमल्लिका

आब्रह्मभुवनाल्लोकाः पुनरावर्त्तिनोऽर्जुन ।

इत्युक्तेस्स च लोकोऽयं विष्णोर्लोको न संशयः ।। १६४ ।।

सुरोत्तमटीका

 स च सलोकतामित्यादिश्रुत्युक्तलोकः । ब्रह्मभवन-पर्यन्तलोकानां पुनरावृत्त्युक्तेः सालोक्यमोक्षघटकलोको विष्णुलोक एव भवेदिति भावः । उपलक्षणं चैतत् । विष्णोर्लोके महीयत इति स्पष्टश्रुति-समाख्यया चेत्यपि द्रष्टव्यम्।। १६४ ।।

सत्यप्रमोदटीका

 परिशेषाच्च अस्य विष्णुलोकत्वसिद्धिरित्याह आब्रह्मेति ।। १६४ ।।

युक्तिमल्लिका

सर्वलोकक्षये यस्तु मोक्षोऽसौ नेक्ष्यते क्वचित् ।। १६५ ।।

सुरोत्तमटीका

 विष्णोर्लोकस्य मोक्षस्थानत्वे युक्त्यन्तरं चाह ।। सर्वेति ।। सर्वलोकक्षये सर्वलोकानां क्षयो यस्मिन्प्रतिपाद्यते स सर्वलोकक्षयः । क्षय इत्युपलक्षणम् । जन्मापि ग्राह्यम् । सर्वलोकानां क्षयजन्म-प्रतिपादकवाक्यमित्यर्थः । तस्मिन् स्थानं मदीयं सह विश्वमेतत्क्रीडावसाने द्विपरार्धसंज्ञे । भ्रूभङ्गमात्रेण हि सन्दिधक्षोः कालात्मनः पश्यति को भविष्यदित्यादिप्रलयवाचकवाक्ये भूर्लोकः कल्पितः पद्य्भां भुवर्लोकश्च नाभितः । हृदा स्वर्लोक उरसा महर्लोको महात्मनः । ‘‘ग्रीवायां जनलोकश्च तपोलोकश्च नेत्रयोः । मूर्धभिस्सत्यलोकश्च ब्राह्मो लोकस्सनातन’’ इत्यादि-जन्मवाचकवाक्ये च यः वैकुण्ठलोकः नेक्ष्यते न श्रूयते । असौ वैकुण्ठलोकः मोक्ष एव मुच्यते अत्रेति व्युत्पत्त्या मुक्तिस्थानमेवेत्यर्थः । वैकुण्ठादधो विद्यमानस्वलोकमारभ्य तस्मादधोविद्यमानलोकानामेव क्षयकथनाज्जन्मकथनाच्च वैकुण्ठलोकस्योभयकोटावप्यप्रवेशितत्वेन जन्मक्षयरहितलोकत्वमर्थाल्लभ्यते । अतस्तस्यैव मुक्तिस्थानत्वमिति भावः ।। १६५ ।।

सत्यप्रमोदटीका

 यस्तु मोक्षः निर्विशेषलक्षणशून्यभावापत्तिरूपः । निर्विशेषत्वाच्छून्यवच्छून्य इति परेण भाषितत्वात् । असौ क्वचित् कुत्रापि श्रुतौ नेक्ष्यते नोपलभ्यते । अतः अप्रामाणिक एवेति भावः । यद्वा सर्व-लोकक्षये लोकानां प्रलये नाशप्रतिपादनावसरे असौ विष्णुलोकः न ईक्ष्यते कुत्रापि न श्रूयते । अतः अयं विष्णोर्लोको मोक्ष इति पूर्वेणान्वयः ।।१६५।।

युक्तिमल्लिका

पवमानोऽत्र यत्प्रार्थ्यो वायोश्च तदनुज्ञया ।

तल्लोकप्रापकत्वं तत्सिद्धं गुरुशिरोमणेः ।। १६६ ।।

सुरोत्तमटीका

 अत्र नानानमित्यादिवर्गत्रयात्मकसूक्ते । तदनुज्ञया हर्यनुज्ञया । तल्लोकप्रापकत्वं विष्णुलोकप्रापकत्वम् । तत्तस्मात् मोक्षं प्रापयेति प्रार्थितत्वात् ।। १६६ ।।

सत्यप्रमोदटीका

 न केवलं ‘विष्णुर्हि दाता मोक्षस्य वायुश्च तदनुज्ञया’ इति वचनेन किन्तु मुमुक्षुणा मोक्षदानार्थं अत्र सूक्ते प्रार्थितत्वान्यथाऽनुपपत्त्या च श्रीमध्वस्य मोक्षप्रदातृत्वं सिध्यतीत्याह पवमान इति ।। १६६ ।।

युक्तिमल्लिका

अन्ते ज्ञानाद्ब्रह्मलोकमभिसंपद्यते किल ।

आवर्तते न स पुनः पुनरावर्तते न सः ।

द्विरुक्त्येत्थं निरणयत्पुनरावृत्तिशून्यताम् ।। १६७ ।।

सुरोत्तमटीका

 अधुना ‘‘अरश्च हि वैण्यश्चार्णवौ ब्रह्मलोके तदश्वत्थ-स्सोमसदनस्तदपराजिता पूर्ब्रह्मणः प्रभुविमितमिति सखल्वेवं वर्तयन्यावदायुषं ब्रह्मलोकमभिसंपद्यते न च पुनरावर्तते न च पुनरावर्तत इति च ब्रह्मलोक-समाख्यया एकार्थप्रतिपादकं छन्दोगोपनिषदष्टमप्रपाठकभागद्वयस्थवाक्यं मनसि निधाय वैकुण्ठपुर्या एव परममुक्तिस्थानत्वं वर्णयति ।। अन्त इति ।। सख-ल्वेवमिति वाक्यस्यार्थकथनमिदम् । निरणयत् ब्रह्मलोकपदोक्तवैकुण्ठलोकस्य पुनरावृत्तिशून्यतां निश्चितवती ।। १६७ ।।

सत्यप्रमोदटीका

विष्णोर्वैकुण्ठलोकप्राप्तिरेव परममोक्ष इत्येतच्छन्दोगोप- निषत्समाख्ययाऽपि साधयति अन्ते इत्यादिना अरश्च ह वै ण्यश्चार्णवौ ब्रह्मलोके तदश्वत्थस्सोमसदनस्तदपराजिता पूर्ब्रह्मणः प्रभुविमितमिति, स खल्वेवं वर्तयन्यावदायुषं ब्रह्मलोकमभिसम्पद्यते न च पुनरावर्तते न च पुनरा-वर्तते इति च वाक्ये उक्तार्थे समाख्यात्वेन व्याख्याति अन्ते इति । स खल्वेवं वर्तयन्यावदायुषं इत्यर्थः । द्विरुक्त्या अभ्यासरूपलिङ्गेन ।। १६७ ।।

युक्तिमल्लिका

लोकोऽयं ब्रह्मणो विष्णोरपराजितपूः किल ।

कुयुक्त्या मृत्युना दोषैः पराजिग्ये यतो न सा ।। १६८ ।।

सुरोत्तमटीका

 सत्यलोकस्थितस्य चतुर्मुखब्रह्मणः द्विपरार्धावसाने प्रलयश्रवणेन पुनरावृत्तिशून्यत्वायोगात् परब्रह्माख्यविष्णोर्लोक एवायं ब्रह्म-लोक इति भावेनोक्तम् ।। लोकोऽयमिति ।। श्रुतेरंशान्तरस्थपदयोरर्थमाह ।। कुयुक्त्येति ।। ततः सा मृत्युरस्मादपैतीति न यत्र मायेति च स्मृत्युक्ता वैकुण्ठपुरी अपराजितपूरिति सम्बन्धः ।। १६८ ।।

सत्यप्रमोदटीका

 ब्रह्मेत्यस्य परं ब्रह्मेत्यर्थ इत्याह विष्णोरिति । कुयुक्त्या विमतो न परममोक्षः असदुपासनेन प्राप्तत्वादित्येवंरूपया मायि-प्रयुक्तया । नेति । अपरमुक्तावसम्भाव्यमानसुबहुलक्षणकथनेन कुयुक्ते-राभासीकरणात् ।। १६८ ।।

युक्तिमल्लिका

सत्त्वचित्त्वविभुत्वाद्यैस्सत्प्रभोस्संमिता किल ।

हिरण्मय्याः पुरस्तस्याः परं ब्रह्म प्रभुः किल ।। १६९ ।।

सुरोत्तमटीका

 प्रभुणा नारायणेन विशेषेण मितमुपमितमिति प्रभु-विमितमिति पदस्यार्थकथनम् ।। सत्त्वचित्त्वाद्यैरिति ।। सत्त्वं जनन-मरणबन्धादिदोषरहितत्वम् । विशिष्योपमा चेतनत्वं विना न घटत इति चित्त्वमपि गृहीतम् । अनेन वैकुण्ठस्य लक्ष्म्यात्मकत्वमपि सूचितम् । व्याप्तत्वादिबहुगुणैर्हरिसमाया अपि तस्यास्स्वामी हरिरेवेति सूचनाय प्रभुपदमिति भावेनोक्तम् ।। हिरण्मय्या इति ।। पुरःपुर्याः ।। १६९ ।।

सत्यप्रमोदटीका

 तान्येव प्रतिज्ञातपरममुक्तिलक्षणान्याह सत्त्वेत्यादिना । सत्त्वं निर्दोषत्वलक्षणं साधुत्वम् । ‘सद्भावे साधुभावे’ चेत्यभिधानात् । चित्त्वं प्रभुविमितमिति विशेषणबलाल्लब्धार्थः । प्रभुणा विष्णुना विशेषेण चित्त्वादिधर्मैरुपमितमित्यर्थः । लक्ष्म्यात्मकमित्यर्थः । लक्ष्म्याः समासमत्त्वेन यथायोग्यं साम्यं विवक्षितम् । तत्स्फोरणायैव विष्णोः लक्ष्मीविभुत्वोक्तिः ।। १६९–१७० ।।

युक्तिमल्लिका

इति च्छन्दोगोपनिषज्जगौ यत्तज्जगत्प्रभोः ।

वैकुण्ठाख्यैव नगरी सा पुरीति मतिर्मम ।। १७० ।।

सुरोत्तमटीका

 यद्यस्मात् । तत्तस्मात् उक्तस्मृत्या अपराजितपुरत्वस्य यतो नावर्तते यतिरिति स्मृत्या पुनरावृत्तिराहित्यस्य च वैकुण्ठ एव सम्भवात् ।। १७० ।।

युक्तिमल्लिका

यत्राश्वत्थोऽमृतस्यन्दी यत्रारण्यौ सुधार्णवौ ।

साऽश्वत्थप्रियदुग्धाब्धिशायिनः पूर्न संशयः ।। १७१ ।।

सुरोत्तमटीका

 निमित्तान्तरं चाह ।। अश्वत्थ इति ।। अरण्यौ अरश्च ण्यश्चारण्यौ । अरसंज्ञ एकः । ण्यसंज्ञश्चापर इत्यर्थः । ‘‘रुष दाह’’ इति धातोर्डप्रत्यये कृते रपदोदितदुःखविरुद्धसुखरूपत्वात् ऋगताविति धातोः पचाद्यचि ऋवर्णस्थाने गुणे च कृते ज्ञानरूपत्वाच्चारपदवाच्य एकः णपदोक्त-सुखरूपत्वात् यपदोक्तमानरूपत्वाच्चण्यपदवाच्योऽपरः । उभावपि ज्ञानसुख-रूपतया तत्पदवाच्याविति भावः । सा अश्वत्थसुधा समुद्राश्रयीभूता ।।१७१।।

सत्यप्रमोदटीका

 श्रुतौ अश्वत्थेतिपदेन अश्वत्थप्रियत्वस्य सोम-सवनमितिपदेन सुधास्यन्दिदुग्धाब्धिशायित्वस्य च इत्येवं विष्णुधर्मप्रत्यभि-ज्ञानाच्चास्य तत्पुरत्वसिद्धिरित्याह यत्रेति ।। ‘ॐ गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गं च ॐ’ इति सूत्रभाष्ये ‘तस्यैव हि तल्लक्षणत्वेनोच्यते’ इति सुधार्णवद्वयाश्रयलोकवत्त्वस्य स्मृतिसमाख्यया विष्णुलक्षणत्वस्य समर्थित-त्वादिति भावः । निर्वचनेन अरण्यशब्दयोर्ज्ञानसुखरूपार्थकत्वलाभादिति भावः ।। १७१ ।।

युक्तिमल्लिका

किञ्च श्रुतिर्यतस्स्पष्टममृतेनावृतां पुरीम् ।

आह तेनापि मुक्तस्य पुरी सेयं न संशयः ।। १७२ ।।

सुरोत्तमटीका

 ‘‘यो वैतां ब्रह्मणो वेद अमृतेनावृतां पुरीमि’’ति श्रुत्यर्थपर्यालोचनयापि मुक्तानामावासभूता पुर्येव । सा च पूर्वोत्तरपर्यालोचनया वैकुण्ठनगरीत्याह ।। किञ्चेति ।। १७२ ।।

युक्तिमल्लिका

जात्येकवचनं चेदमावृतामिति कीर्तनात् ।

अतोऽमृतैः पूर्णपुरी नारायणपुरी ध्रुवम् ।। १७३ ।।

सुरोत्तमटीका

 इदं अमृतेनेति पदम् । पूर्णत्वापरपर्यायावृतत्वस्य बहुमुक्तजनसापेक्षत्वादिति भावः ।। १७३ ।।

सत्यप्रमोदटीका

 अमृतेन मुक्तवर्गेणावृतं व्याप्तं इति श्रुतौ कीर्तनाच्चैव- मित्याह किञ्चेति । ‘यो वैतां ब्रह्मणो वेद अमृतेनावृतां पुरीं’ इति श्रुतावित्यर्थः । इदम् अमृतेनेदं परम् । आवृतां पूर्णाम् । मुक्तैः पूर्णाम् । ततश्च ‘अरश्च ह वै ण्यश्च’ इति पूर्वोदाहृतश्रुत्युक्तो ब्रह्मलोको विष्णोः परब्रह्मणो लोक एव न कार्यब्रह्मणः संसारिण इति दर्शयति अत इति

।। १७२,१७३ ।।

युक्तिमल्लिका

देवानां पूरयोध्येति यदयोध्याभिधां पुरः ।

प्रादात्तस्याः श्रुतिः पूर्वं तद्विष्णोरेव सा पुरी ।। १७४ ।।

सुरोत्तमटीका

 एतच्छ्रुत्युक्तामृतपुर्या विष्णुपुरीत्वे ज्ञापकद्वयमाह ।। देवानामिति ।। देवानां मुक्तदेवानां पुरःपुर्याः । तस्याः ‘‘यो वै तामि’’ति श्रुत्युक्तायाः । पूर्वं योवैतामिति वाक्यात्पूर्वभागे ।। १७४ ।।

सत्यप्रमोदटीका

 श्रुतिः ‘यो वैतां’ इति श्रुतिः । पूर्वं पूर्वभागे । देवानां मुक्तदेवानां, ‘यत्र पूर्वे साध्याः सन्ति देवाः’ इति श्रुतिसिद्धानाम्

।। १७४,१७५ ।।

युक्तिमल्लिका

नानाजनपदाकीर्णं वैकुण्ठं तद्धरेः पदम् ।

तन्मध्ये नगरी दिव्या साऽयोध्येति प्रकीर्तिता ।

इति पाद्मस्य वचनाद्यदयोध्या हरेः पुरी ।। १७५ ।।

सुरोत्तमटीका

 अयोध्याभिधा च वैकुण्ठनगर्या एवेत्यत्र प्रमाणमाह ।। नानेति ।। सा वैकुण्ठमध्यनगरी । यद्यस्मात् तस्मादयोध्यापदस्य वैकुण्ठान्तःपुरवाचकत्वात् । तत्पदसमभिव्याहृता अमृतेनावृता पुरी नारायण-पुरीति पूर्वेणान्वयः ।। १७५ ।।

युक्तिमल्लिका

विभ्राजमानां हरिणीमिति सैव श्रुतिः पुनः ।

हरिणीमाह तेनापि हरेरेव पुरी भवेत् ।। १७६ ।।

सुरोत्तमटीका

 सैव योवैतामिति वाक्यवती श्रुतिः । यजुश्शाखैक-देशरूपा । विभ्राजमानां हरिणीं यशसा संपरीवृतामिति श्रुतिः । हरिणीं हरेरियमिति व्युत्पत्त्या हरिणीशब्दवाच्या । तेन हरिणीशाब्देन ।। १७६ ।।

सत्यप्रमोदटीका

 सैव श्रुतिः ‘यो वै तामि’ति श्रुतिः । ‘हरेरियं’ इति निर्वचनलब्धां हरिणीम् ।। १७६ ।।

युक्तिमल्लिका

पुरीं हिरण्मयीं ब्रह्म विवेशेति यतः श्रुतिः ।

ब्रह्मणोऽन्ते प्रवेशार्हामाह तेनापि सा पुरी ।। १७७ ।।

सुरोत्तमटीका

 अन्ते द्विपरार्धावसानकाले । तेन मुक्तब्रह्मप्रवेश-योग्यत्वेन ।। १७७ ।।

सत्यप्रमोदटीका

 ब्रह्म मुक्तः चतुर्मुखः कार्यब्रह्म ।। १७७ ।।

युक्तिमल्लिका

विष्णोरेव पुरी ब्रह्मनाम्नस्तस्यैव पूस्त्वतः ।

क्वचिद्ब्रह्मपुरीत्युक्ता सैव ब्रह्मा विशेद्धि याम् ।। १७८ ।।

सुरोत्तमटीका

 अधुना छन्दोगोपनिषत्प्रोक्तब्रह्मपूश्शब्दार्थमाह ।। विष्णोरिति ।। क्वचित् योवैतामित्यत्र ब्रह्मणः पुरीमित्युक्ता । तत्रत्यब्रह्मपुरी-शब्दस्यात्र व्याख्याने निमित्तं सूचयति ।। ब्रह्मा विशेद्धि यामिति ।। अत्र ब्रह्मप्रवेशयोग्यत्वकथनात्तत्रापि ब्रह्मपुरी विष्णुपुर्येव भवेत् । न हि पूर्वमपि सत्यलोकाख्यब्रह्मपुरे स्थितस्य सत्यलोकाख्यब्रह्मपुरीप्रवेश एव फलम् । अथवा ब्रह्मणः प्रवेशयोग्यत्वात् वैकुण्ठपुर्येव ब्रह्मपुरीति वैकुण्ठ एव गजप्रवेशयोग्य-शालायां गजशालाशब्दवत् ब्रह्मपुरीशब्दप्रयोगस्य निमित्तान्तर सूचनार्थमत्र व्याख्यानम् ।। १७८ ।।

सत्यप्रमोदटीका

 ब्रह्मपुरीशब्दस्य छन्दोगोपनिषदुक्तनिर्वचनेनापि विष्णुपुरीत्वं सिध्यतीत्याह विष्णोरिति । ब्रह्मनाम्नः आत्मब्रह्मादयः शब्दास्तमृते विष्णुमव्ययम् । न सम्भवन्ति इत्युक्तेः । ब्रह्म ब्रह्मपुरीं विशे-दित्युक्तौ प्रथमब्रह्मशब्दस्य बाधकवशात् कार्यब्रह्मपरत्वमेव । ‘ब्रह्मैव सन् ब्रह्माप्नोति’ इत्यत्रेवेति भावः ।। १७८ ।।

युक्तिमल्लिका

ये तु लोकान्तरप्राप्तिमोक्षं नाचक्षतेऽबुधाः ।

तेषां वृथार्चिराद्यध्वनोर्ध्वोर्ध्वगमनं भवेत् ।। १७९ ।।

सुरोत्तमटीका

 ऊर्ध्वोर्ध्वलोकगमनरूपार्चिरादिमार्गपर्यालोचनयापि वैकुण्ठपुर्येव मुक्तिपुरीत्याह ।। येत्विति ।। १७९ ।।

सत्यप्रमोदटीका

 अबुधाः मिथ्योपासनासाध्य इति अन्यथाज्ञानिनः । वृथा ब्रह्मविद्गतिरूपनिर्विशेषब्रह्मभावापत्तिरूपत्वाभावात् अपुरुषार्थः ।।१७९।।

युक्तिमल्लिका

ब्रह्मज्ञानेन सर्वस्य नाशे ब्रह्माभवत्स्वयम् ।

क्व गच्छेदपरिच्छिन्नो मार्गः कस्यापवर्गदः ।। १८० ।।

सुरोत्तमटीका

 अभवत् यत्र तिष्ठति तत्रैवाभवदित्यर्थः ।। १८० ।।

सत्यप्रमोदटीका

 नाशे बाधे । स्वयमिति ‘स्वेन रूपेणाभिनिष्पद्यत’ इत्यस्य ‘केवलेनैवैवात्मनाविर्भवति न तु धर्मान्तरेणे’ति परेण व्याख्याना-न्निर्विशेषभावस्यैव मोक्षत्वकथनादिति भावः । इदं च व्याख्यानं स्वव्याहतम् । ‘मुक्तानां परमा गतिः’ इति नामव्याख्याने विष्णुरेव प्रकृष्टा गन्तव्या देवता इति भाषितत्वादिति मन्तव्यम् ।। १८० ।।

युक्तिमल्लिका

अतो वैकुण्ठादिलोकप्राप्तिर्मुक्तिर्विवेकिनाम् ।

अन्या तु मुक्तिराम्नायन्यायच्छेदाय केवलम् ।। १८१ ।।

सुरोत्तमटीका

 अतः अर्चिरादिलोकारोहस्य मोक्षमार्गत्वकथनात् ।। १८१ ।।

सत्यप्रमोदटीका

 आम्नायन्यायेति । उपक्रमादिन्यायैः विष्णोर्लोक-प्राप्तिरेव मोक्ष इत्यत्राम्नायानां तात्पर्यावधारणादिति भावः।।१८१ ।।

युक्तिमल्लिका

खगेन्द्रध्वजपादाब्जयुगमूलनिषेवणम् ।

यतो भागवते स्पष्टमपवर्गाख्यमीरितम् ।। १८२ ।।

अतो वैकुण्ठलोकस्थमुकुन्दपदसन्निधौ ।

स्थितिरेव मुमुक्षूणां मोक्षो व्यासानुशासनात् ।। १८३ ।।

सुरोत्तमटीका

 अधुना ‘‘स वै महाभागवतः परीक्षिद्येनापवर्गाख्य-मदभ्रबुद्धिः । ज्ञानेन वैयासकिशब्दितेन भेजे खगेन्द्रध्वजपादमूलमि’’ति मोक्षप्रतिपादकभागवतवाक्यपर्यालोचनयापि वैकुण्ठस्थनारायणचरणारविन्द-समीपप्राप्तिरेव मुक्तिरित्याह ।। खगेन्द्रेति ।। स्वमातुर्गर्भे स्वरक्षणाय पर्यावर्तमानं कृष्णं परितः ईक्षत इति परीक्षित् । उत्पत्तिसमय एवापरोक्ष-ज्ञानितया जीवन्मुक्त इति भावः । इदं च विशेषणम् अस्य फलतया कथ्यमाना मुक्तिः परममुक्तिरिति सूचनार्थम् । विष्णुभक्तस्यैव ब्रह्मज्ञानेऽधि-कार इति सूचनाय महाभागवत इति विशेषणम् । तस्य च श्रोतृत्वसंपत्ति-सूचनायादभ्रबुद्धिरित्युक्तम् । वैयासकिशब्दितेन व्यासपुत्रशुकनिरूपितेन । ज्ञानोपदेष्टृगुरोरपि विष्णुरूपव्यासपुत्रत्वेन वैष्णवत्वसूचनाय वक्तृप्रसक्तिसूचनाय च वैयासकिपदम् । ज्ञानं च वैष्णवपुराणेन तदुपबृंहितवेदेन चोत्पन्नं विष्णोस्सर्वोत्तमत्वविषयमेव भवेदिति सूचनाय येनेत्युक्तम् । शुकमुखाद्भागवत श्रवणजनितेनेत्यर्थः। हरिचरणारविन्दप्राप्त्यतिरिक्तमोक्षाभावसूचनाय तस्या एव मोक्षत्वसूचनाय च अपवर्गाख्यमिति फलविशेषणम् । उपचारेणात्रापवर्ग-शब्दप्रवृत्तिरिति शङ्कानिरासाय आख्येत्युक्तम् । ‘‘आख्याह्वे अभिधानं च नामधेयं च नाम चे’’ति लिङ्गानुशासनात् ‘‘ख्या प्रकथन’’ इति धातु-व्याख्यानाच्चायमेव मुख्यापवर्ग इति भावः । मुक्तिदशायामपि हरेस्साकारत्वं पक्ष्यादिजीवानां च मुक्तौ विद्यमानत्वं तत्तारतम्यं मुक्तावपि चेतनातिरिक्त-शुद्धजडसद्भावं सेव्यसेवकभावेन तत्रापि मुक्तपरमात्मनोर्भेदं च सूचयितुं ‘‘खगेन्द्रध्वजपादमूलं भेज’’ इति चोक्तम् । अन्यथा पदे इत्यवक्ष्यत् । भेज इत्यतीतोक्तिस्तु ‘‘एष्यत्तु निश्चितं यत्स्यादतीतत्वेन भण्यत’’ इति न्यायात् । इदं चैतादृशज्ञानस्य फलसंशयनिरासार्थम् । अतीतकल्पेऽपि मुक्तपरीक्षि-त्सङ्ग्रहार्थं वा भेज इत्युक्तम् । येनेत्यस्य तदहं तेऽभिधास्यामीत्यनेनान्वयः ।। १८२,१८३ ।।

सत्यप्रमोदटीका

 भागवते ‘स वै महाभागवतः परीक्षिद्येनाप-वर्गाख्यमदभ्रबुद्धिः । ज्ञानेन वैयासकिशब्दितेन भेजे खगेन्द्रध्वजपादमूलम् ।’ इति श्लोके ।।

अयं श्लोकः भागवतस्य प्रामाण्यं तेन च मुक्तिस्वरूपतत्साधनानि निर्धार-यति । तत्प्रकारं दर्शयति नवभिः अत इत्यादिना । स्थितिरेव इति एवकारेण शून्यभावो मोक्ष इति माध्यमिकमतं, निर्विशेषब्रह्मभाव इति मायिमतम् सततोर्ध्वगतिरिति जैनमतं च निरस्तं ध्येयम् । एवं ‘रथो ध्वजः’ इत्यादि सुखविहारसाधनोक्त्या सुखध्वंसो मोक्ष इति तार्किकमतमपहस्तितं ध्येयम् । एवं मुक्तखगानां तदिन्द्रस्य गरुडस्य च सद्भावकथनेन मोक्षे तदभावं वर्णयताम्, एवं पादमूलेऽवस्थितिरेव न तु तत्समानानन्द इति कीर्तनेन आनन्द साम्यं वदतां रामानुजीयानां च मतं पराकृतं इत्याद्यूह्यम् ।। १८२,१८३ ।।

युक्तिमल्लिका

अतीतकल्पमुक्तं चाप्येषा वागेव यद्वदेत् ।

पुराणस्य सदेदृक्त्वात्तेन भेज इतीरितम् ।। १८४ ।।

सुरोत्तमटीका

 इममेवार्थं विस्तरेण प्रदर्शयति ।। अतीतेत्यादिना ।। यद्यपि शौनकादीन् प्रति कथा कथनाय चिरकालातीतपरीक्षित्कथाकथनोद्य-तस्य सूतस्य तदीय वाक्यानुवादकस्य व्यासस्य च भेज इत्येव प्रयोग उचितः । तथाप्यपवर्गात्मकस्य वैकुण्ठान्तःपुरस्थहरिचरणसमीपगमनस्य ब्रह्मणः परान्तकाल एव सम्भवात् शङ्कासमाधानं चेति द्रष्टव्यम् । अतीतकल्पमुक्तं अतीतब्रह्मकल्पे मुक्तम् । यत् यस्मात् । ननु तदानीन्तनभागवतज्ञानस्य मुक्तिदायकत्वे इदानींतनभागवतज्ञानस्य किमागतमित्यत उक्तम् । पुराणस्य सदेदृक्त्वादिति । ईदृक्त्वात् पदपौर्वापर्यव्यत्यासमात्रेऽपि शब्दतोऽर्थतश्चैक-प्रकारकत्वात् । एवं च तदानींतनभागवतज्ञानस्य फलदायकत्वोक्तौ अस्यापि तदुक्तं स्यादिति भावेन तदुदाहरणमिति भावः ।। १८४ ।।

सत्यप्रमोदटीका

 एषा वागेवेति । ‘पुराणानि तदर्थानि सर्गे’ इत्युक्तेः । भेजे अतीतकल्पे विद्यमानः परीक्षित् इत्युपस्कारेण योज्यम् । ‘अतीतानागतानां समानरूपत्वात्प्राप्तपदानां मुक्त्याऽऽवृत्तावप्यविरोधः’ इति भाष्यवचनात् ।। १८४ ।।

युक्तिमल्लिका

आगामिनोऽपि निर्णीत्यै वागेवं वर्तते किल ।

अपवर्गाख्यमित्युक्तेरग्रेऽन्योऽर्थो न शोभते ।। १८५ ।।

सुरोत्तमटीका

 अन्योऽर्थः जीवन्मुक्तित्वकथनम् ।। १८५ ।।

सत्यप्रमोदटीका

 एतत्कल्पीयपरिक्षितः कर्तृत्वेन ग्रहणेऽपि ‘एष्यत्तु निश्चितं यत्तदतीतत्वेन भण्यते’ इति न्यायसूचनादतीतत्वोक्त्यविरोध इत्याह आगामिनोऽपीति । परान्तकाले संपद्यमानस्यापीत्यर्थः । अपवर्गाख्यमिति अभिधानवृत्तिकथनादुपचारेणापरमुक्तिरत्रोच्यते इति चोद्यानवकाश इत्याह नेति ।। १८५ ।।

युक्तिमल्लिका

ज्ञानसाध्यत्वकथनात्सिद्धा परममोक्षता ।। १८६ ।।

सेव्यसेवकभावश्च यतो भेज इतीर्यते ।

अतो जीवेशभेदस्य मुक्तावप्यनुवर्तनम् ।। १८७ ।।

साकारत्वं च पादोक्त्या रथोक्त्या भोगसाधनम् ।

तारतम्यं च जीवेषु खगेन्द्रत्वस्य कीर्तनात् ।

खगादिजीवराशिश्च मुक्तावस्तीति गम्यते ।। १८८ ।।

सुरोत्तमटीका

 युक्त्यन्तरं चाह ।। ज्ञानेति ।। १८६–१८८ ।।

सत्यप्रमोदटीका

 ब्रह्मविद्गतिरपरमोक्ष इति मायिनाऽपि दुर्वचमित्याह ज्ञानेति ।। अनुवर्तनमिति । भेदस्यानौपाधिकत्वस्य पारमार्थिकत्वस्य चोक्त्या भेदस्यौपाधिकत्वं आचक्षाणो भास्करः आविद्यकत्वं वदन् मायी च दूषितौ ।। १८६–१८९ ।।

युक्तिमल्लिका

एतत्समस्तं तत्रापि सिद्धं वाक्यार्थवेदिनाम् ।। १८९ ।।

महाभागवतेऽनल्पबुद्धिः पाण्डववंशजः ।

अधिकारी व्यासपुत्रः शुको योगीश्वरो गुरुः ।। १९० ।।

सुरोत्तमटीका

 तत्रापि मुक्तावपि ।। १८९–१९० ।।

सत्यप्रमोदटीका

 ‘अथो विहायेमममुं च लोकं विमृश्य तौ हेयतया पुरस्तात् । कृष्णाङ्घ्रिसेवामभिमृश्यमान उपाविशत्प्रायममर्त्यनद्याम्’ इति पूर्वं प्रकृतस्य ‘स’ इत्यत्र परामर्शात् परीक्षितः नित्यानित्यवस्तुविवेकादिमत्त्वं, महाभागवतः इत्यनेन भक्तिपूर्वकाध्ययनम् अदभ्रबुद्धिरित्यनेन सामर्थ्यं विद्वत्त्वं च इति अधिकारिसंपत्समृद्धिरभिहिता इत्याह अधिकारीति । एतैरेव विशेषणैस्तत्त्वज्ञानयोग्यता परीक्षिदिति पाण्डववंशजत्वकसूचनेन वक्तृप्रीति-विषयतेति ग्रन्थस्य श्रोत्रानुकूल्यं, शुकस्य वैयासकिरिति निर्देशेन व्यासोपदिष्ट- प्रमेयानामेव तत्पुत्रेण वर्णितत्वेन वक्त्रानुकूल्यं च प्रदर्शितम् इति विभाव-नीयम् । प्रायोपविष्टं प्रति तन्मोक्षार्थमुपदिष्टत्वेन प्रसङ्गानुकूल्यं च । तस्मा-त्परमप्रमाणत्वेन श्लोकनिरूपितं प्रमेयजातं वस्तुतत्त्वमिति सर्वमवदातम् । एवमीदृशज्ञानसाध्यत्वेनाभिहितोऽपवर्गोऽपरममोक्ष इति वादः उन्मत्तप्रलाप इत्यतिरोहितम् ।। १९०,१९१ ।।

युक्तिमल्लिका

तादृशाचार्यसंपत्तौ तस्य ज्ञानेन यत्फलम् ।

महामोक्षः कथं नासौ यन्मार्गोऽद्यापि योगिनाम् ।।१९१।।

सुरोत्तमटीका

 परममोक्षत्वे प्रबलयुक्तिं चाह ।। तादृशेति ।। तस्य शिष्यस्य जीवन्मुक्तेरपरोक्षज्ञानावस्थात्मकत्वेऽपि तत्फलत्वाभावात् । अपरोक्षज्ञानिना साक्षाच्छिवेन शुकेनापरोक्षज्ञानिनं परीक्षितं प्रत्युपदिष्टज्ञान-फलतयोच्यमानोऽयं मोक्षः कथं न परममोक्ष इति भावः । यन्मार्गः यस्य परीक्षितो मार्गः । भागवतश्रवणमिति यावत् । योगिनामपेक्षित इत्यर्थः ।। १९१ ।।

युक्तिमल्लिका

न तद्भासयते सूर्यो न शशाङ्को न पावकः ।

यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ।। १९२ ।।

इति गीतासु कृष्णेन स्वलोकगमनस्य यत् ।

पुनरावृत्तिशून्यत्वं परमत्वं च कीर्तितम् ।

अतस्तत्परमं धाम तदेव च परात्परम् ।। १९३ ।।

सुरोत्तमटीका

 गीतावाक्यान्तरेणापि वैकुण्ठस्यापुनरावृत्तिस्थानत्वं स्पष्टमाह ।। न तदिति ।। परात् जीवन्मोक्षात् ।। १९२,१९३ ।।

सत्यप्रमोदटीका

 अनुकृत्यधिकरणे सूर्याद्यप्रकाश्यत्वेन हेतुना कृष्णस्या- निर्देश्यसुखरूपत्वसमर्थितत्वात्तत्प्राप्तिरेव परममोक्ष इत्याह नेति ।। गीतासु इति बहुवचनेन ‘मामेवेष्यसि’ ‘ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरमि’त्यादीनि वचनानि सङ्ग्राह्याणि ।। १९२,१९३ ।।

युक्तिमल्लिका

यत्र त्वस्येति वाक्यं च स्पष्टश्रुत्युक्तमार्गतः ।

आचचक्षे परं मोक्षमिममेव न चापरम् ।। १९४ ।।

वाक्यार्थस्य प्रकारश्च पूर्वमेव निरूपितः ।

तयोर्निरवकाशस्य प्राबल्यं सावकाशतः ।। १९५ ।।

सुरोत्तमटीका

 श्रुतीत्युपलक्षणम् । स्मृतीत्यपि ग्राह्यम् । इमं वैकुण्ठम् ।। १९४,१९५ ।।

सत्यप्रमोदटीका

 स्पष्टश्रुतीति ‘यथाकामं चरति यथाकामं पिबति यथाकामं रमते’ इत्यादि भाष्योदाहृतश्रुतीत्यर्थः, ‘श्यामावदाताः शतपत्र-लोचनाः’ इति तदुदाहृतस्पष्टस्मृतयोऽपि ग्राह्याः । इममेव ‘लोकं वैकुण्ठ-नामानं दिव्यं षाड्गुण्यसंयुतम्’ इत्युक्तमेव । अपरं निर्विशेषभावरूपम् ।। सावकाशतः तर्कमुखतया योजनावकाशवतः यत्र त्वस्येति वाक्यात्

।। १९४,१९५ ।।

युक्तिमल्लिका

अन्यथा सुखभोगस्य ज्ञानमात्रस्य सर्वथा ।

निषेधात्तार्किकस्यैव मोक्षस्स्यान्नावयोर्मते ।। १९६ ।।

सुरोत्तमटीका

 अन्यथा यत्र त्वस्येति वाक्यस्य तर्कमुद्रया प्रवृत्त्य-नङ्गीकारे । यद्यपि सुखभोगोऽपि सुखापरोक्षज्ञानमेव । तथापि सुखाभावस्य सूचनाय केन कं जिघ्रेदिति विषयानुभवस्य श्रुतावपि पृथग्ग्रहणात् ग्रन्थकृतापि पृथग्गृहीतम् । सुखभोगस्य सुखसाधनविषयानुभवस्य । मोक्षः षड्बुद्धि-पदोदितषड्विधज्ञानैस्सह एकविंशतिप्रभेददुःखध्वंसात्मकः । आवयोः मोक्षं च सुखं ज्ञानं चास्तीत्यङ्गीकुर्वतस्तव च मम चेत्यर्थः ।। १९६ ।।

सत्यप्रमोदटीका

 अन्यथा तर्कात्मकत्वानङ्गीकारे, दर्शनस्पर्शनरस-नघ्राणादीनां निषेधात्मकत्वापत्त्या । तार्किकस्य मोक्षे ज्ञानसुखादिगुणाभाव-मङ्गीकुर्वाणस्य । इदं चापाततः । तार्किकः सुखाद्यनङ्गीकारेऽपि शिला-सदृशमपि भवतु मुक्तानां स्वरूपमेव वोररीकुरुते । अयं तु मायी ‘न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता’ इति गौडपादोक्तरीत्या मुक्तस्वरूपमेवापलपतीति ततोऽपि निकृष्ट इति हृदयम् ।। १९६ ।।

युक्तिमल्लिका

अविद्याऽस्तमयाधारो भावान्तरविभेदवान् ।

ध्वंसाधारत्वतः कुम्भध्वंसाधारकपालवत् ।

अनुमेयं मुक्तिकाले भेदं साधयति स्फुटम् ।। १९७ ।।

सुरोत्तमटीका

 इदानीं मोक्षेऽपि भावान्तराद्ब्रह्मणो भेदसद्भावेऽनुमानं रचयति ।। अविद्येति ।। अविद्यास्तमयाधारः ब्रह्मचैतन्यमित्यर्थः । ब्रह्मेत्युक्ते सगुणब्रह्मणासिद्धार्थता स्यादित्यत एवमुक्तम् । अन्तरपदमुपरञ्जकम् । ध्वंसाधारत्वतः ध्वंसाधारत्वात् । अनुमेयं इयमनुमेति सम्बन्धः ।। १९७ ।।

सत्यप्रमोदटीका

 ‘विमतो भिन्नो मुक्तत्वात्’ इति तत्त्वोद्योतोक्तमनुमानं मनसि निधाय मुक्तभेदसाधकमनुमानमाह अविद्याऽस्तमयाधार इति । संसारान्मुक्त इत्यर्थः । ‘अविद्याऽस्तमयो मोक्षः सा संसार उदाहृतः’ इति तदुक्तेः । ननु साध्ये भावान्तरपदेन स्वव्यतिरिक्तभावविवक्षायामप्रसिद्ध-विशेषणता । मुक्तस्य तद्भेदसिद्धिं विना तेषामेतद्व्यतिरिक्तत्वासिद्धेः । सिद्धौ च सिद्धसाधनत्वादिति चेन्न । स्वप्रागभावदशायां येन भेदेन विशिष्टस्तेनैव मोक्षेऽपीत्ययमर्थो विवक्षित इति टीकोक्तरीत्या साध्यतात्पर्यस्य विवक्षितत्वात् । कुम्भेति प्रतियोगिध्वंसयोः समानदेशवृत्तित्वनियमाद्घटध्वंसाधारः कपाल एव । तस्य च प्रागवस्था घटावस्था । तदानीं विद्यमानो भेदः जडसंसारिपरमात्म-प्रतियोगिकः । स सर्वोऽपि कपालदशायामनुवर्तते इति दृष्टान्ते साध्यसिद्धिः । तस्यैव संसारान्मुक्तेऽपि सिद्ध्या प्रतियोगिविशेषघटितस्य उद्दिष्टभेदस्य सिद्धिः । यद्वा बन्धध्वंसाधारत्वं हेतुः । तथात्वे निगडमुक्तो दृष्टान्तः इति तट्टीकोक्त-रीत्या प्रयोगो वा बोध्यः । अनुमा इयम् इति पदच्छेदः ।। १९७ ।।

युक्तिमल्लिका

ब्रह्मा तु सर्वजीवांस्तांस्त्रिविधान्स्वोदरस्थितान् ।

निवेश्य विष्णोरुदरे कुक्षिस्थैरपरोक्षिभिः ।। १९८ ।।

साकं वैकुण्ठवाहिन्यां परितोऽन्तःपुरं हरेः ।

मुक्तामुक्तस्थलोपाधौ चिद्रूपजलसंपदि ।। १९९ ।।

विरजायां महानद्यां निर्दोषायां भवच्छिदि ।

मग्नो विध्वस्तसंसारो लिङ्गदेहस्य भङ्गतः ।। २०० ।।

दिव्यस्वरूपसंपन्नः शेषवीन्द्रेन्द्रपूर्वकैः ।

चिद्रूपैः सनकाद्यैश्च भृग्वाद्यैश्च समन्वितः ।। २०१ ।।

कुक्षिं प्रविश्य स्वपितुरुषित्वा शतवत्सरान् ।

सृष्टिकाले पूर्वमुक्ता ब्रह्माद्या योगिनो यथा ।

जाताः स्वयञ्च स्वगणैः सह तद्वत्प्रजायते ।। २०२ ।।

सुरोत्तमटीका

 पूर्वमुपनिषदभिप्रेततयोक्तं मुक्तिगमनप्रकारमेकीकाराय पुनरनुवदन्किञ्चिदधिकं वदन् भागवतवाक्यारूढं करोति ।। ब्रह्मेत्यादिना ।। कुक्षिस्थैस्स्वकुक्षिस्थैः । शेषवीन्द्रेत्यादिकं पूर्वानुक्तं भागवतवाक्यानुसारेणात्र सङ्गृहीतम् । ‘‘कर्तृत्वात्सगुणं ब्रह्म प्रविश्य पुरुषर्षभमि’’त्यस्यार्थसूचनाय कुक्षिं प्रविश्य स्वपितुरित्याद्युक्तम् । अनेन सकलजीवोत्तमस्यैव कर्तृत्वात्पितृत्वा-त्सगुणसहभोगित्वादिगुणभरित इत्यर्थस्सूचितो भवति । शतवत्सरान् ब्रह्मशतवत्सरान् । सृष्टिकाले पूर्वमुक्ता इत्यादिकमपि यथापूर्वं जायत इति भागवतवाक्यस्यार्थसूचनाय सङ्गृहीतम् । अनेन पूर्वान्पूर्वमुक्तान्यथानतिक्रम्येति यथापूर्वशब्दार्थ उक्तो भवति । अगुणव्यतिरेकेण गुणमिश्रणरहिते वैकुण्ठादि-लोकत्रये प्रजायते प्रकर्षेणानन्दादिप्रादुर्भाववान्भवतीति मूल एवोक्तत्वात् । स्वपूर्वमुक्ता ब्रह्माद्यास्सृष्टिकाले येषु वैकुण्ठादिलोकेषु तिष्ठन्ति तत्रैव स्वयमपि स्थितोऽभूदिति भावः ।। १९८–२०२ ।।

सत्यप्रमोदटीका

 एवं पूर्वोक्तं महाप्रलये सर्वजीवानां स्थितिप्रकारमनूद्य भागवतसमाख्यया विशदयति ब्रह्मेत्यादिभिः । अपरोक्षिभिः स्वस्वयोग्य-भगवद्रूपविशेषदर्शनभोगाभ्यां विनष्टानिष्टसञ्चितप्रारब्धलक्षणाशेषकर्मभिः ।। चिद्रूपेति । लक्ष्म्यात्मकेत्यर्थः ।। विध्वस्तेति । ‘प्रारब्धकर्मशेषस्तु विरजा-तरणावधिरि’त्युक्तेः ।। चिद्रूपैः ‘आनन्दमात्रवपुषः सृतिविप्रमुक्तान्’ इति भगवत्पादवचनात् ।। शतवत्सरान्’ तावत्येव निशा तात यन्निमीलति विश्वसृगि’त्युक्तेः

।। १९८–२०२ ।।

युक्तिमल्लिका

शुद्धप्रकृत्यंशतः स्युर्भूषणायुधराशयः ।

मुक्तानां किल सर्वेषां लिङ्गभङ्गे हरीच्छया ।। २०३ ।।

सुरोत्तमटीका

 सारूप्यमोक्षप्रकारं वर्णयति ।। शुद्धेति ।। लिङ्गभङ्गे विरजाम्बुमज्जनाल्लिङ्गनाशे जायमाने । तन्नाशोत्तरक्षण एवेत्यर्थः । शुद्ध-प्रकृत्यंशतः विकाररहितकेवलप्रकृतेरेव नानावर्णसूक्ष्मांशैर्हरीच्छया भूषणादि-राशयस्स्युरिति सम्बन्धः । शर्कराखण्डपरिवृतमक्षिकाराशिवन्नानावर्णा-स्सूक्ष्मतर भास्वरप्रकृत्यंशा मुक्तानाञ्चिन्मयशिरःपाण्याद्यवयवेषु किरीटाद्या-कारेण संलग्ना भवन्तीति भावः । अथवा तदङ्ग एवानादिकालमारभ्य शुद्धप्रकृत्यंशतो विद्यमाना भूषणायुधराशयस्स्युः आवरकलिङ्गभङ्गे सति व्यक्तास्स्युः । लिङ्गदेहस्य चिद्रूपदेहकंचुकतया स्थितस्य त्रिविधजीवेष्वपि साम्येनैकत्र विशेषायोगात्प्रागुक्तपक्ष एव ज्यायान् ।। २०३ ।।

सत्यप्रमोदटीका

 यथेति ‘यथापूर्वं प्रजायते’ इति वचनात् । हरीच्छयेति ‘ज्ञानिनां मोक्षदश्च सः’ इत्युक्तेः ईश्वरेच्छाया एव प्रधाना-वरणत्वात् । शुद्धेति बन्धकव्यापाररहितेत्यर्थः । भूषणेति । ‘सर्वे चतुर्बाहव उन्मिषन्मणिप्रवेकनिष्काभरणाः सुवर्चसः ।’ इति द्वितीयस्कन्धे हरिणा चतुर्मुखाय प्रदर्शितस्य वैकुण्ठस्य वर्णनात् । ‘सन्दर्शयामास परं न यत्पद-मि’ति वचनात् तस्यैव परममुक्तित्वं प्रमीयते ।। २०३ ।।

युक्तिमल्लिका

अतः सारूप्यमोक्षोऽयं सर्वेषामपि योगिनाम् ।

सालोक्यसामीप्यसायुज्यानि योग्यतया किल ।। २०४ ।।

सुरोत्तमटीका

 अतस्सर्वेषामपि किरीटकुण्डलाद्यलङ्कारस्यापेक्षितत्वात् । योग्यतया सालोक्यादिमोक्षत्रयस्य या योग्यता तया । सा चोत्तमाधि-कारिणामेव भवति न सर्वेषामिति भावः । सालोक्यादिवदपूर्वं वा आवृततया प्रागुपविद्यमानं वा सारूप्यं विरजाम्बुन्यामज्य लिङ्गशरीरं विनाश्योत्थितानां सर्वेषां तदैव भवति । सालोक्यादित्रयं तु पुनस्सृष्टिकाले भगवदुदरान्निस्सृतानां योग्यानामुत्तमाधिकारिणामेव भवति । सर्वमोक्षाणामपि भगवदवताराणामिव शक्त्यात्मना प्राक्सतां व्यक्तेरेव जायमानत्वान्नोत्पत्तिराशङ्कनीया ।। २०४ ।।

सत्यप्रमोदटीका

 किलेति योग्यतयेति च वचनेन जीवानाम् अनादि-स्वरूपयोग्यतां मुक्तौ तारतम्यं चापलपन्तो रामानुजीया निरस्ताः । ‘मुक्ता-नामपि सिद्धानां नारायणपरायणः । सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामुने’ इति स्मृतौ ‘सर्वेऽस्मै देवा बलिमावहन्ति’ इति श्रुतौ च चतुर्मुखस्य सर्वमुक्तानामाधिपत्यसिद्धेः ।। २०४ ।।

युक्तिमल्लिका

अस्मद्गुरुर्मुख्यवायुर्हरेर्नाभिसरोरुहात् ।

उत्पद्य चतुरास्यत्वं प्राप्य शास्त्यखिलं जगत् ।। २०५ ।।

एवं चक्री जगच्चक्रं सदा वर्तयति प्रभुः ।

आद्यः स्थिरचराणां यो वेदगर्भः सहर्षिभिः ।। २०६ ।।

योगेश्वरैः कुमाराद्यैः सिद्धैर्योगप्रवर्तकैः ।

भेददृष्ट्याऽभिमानेन निस्सङ्गेनापि कर्मणा ।। २०७ ।।

कर्तृत्वात्सगुणं ब्रह्म पुरुषं पुरुषर्षभम् ।

स सङ्गत्य पुनः काले कालेनेश्वरमूर्तिना ।। २०८ ।।

जाते गुणव्यतिकरे यथापूर्वं प्रजायते ।

इति भागवते स्पष्टं कथेयं समुदीरिता ।। २०९ ।।

सुरोत्तमटीका

 वेदा गर्भे यस्य स वेदगर्भो मुख्यप्राणः । भविष्यद्भि-र्ऋषियोगेश्वरसिद्धाद्यैस्सह सगुणं ज्ञानानन्दादिगुणसहितं ब्रह्म परब्रह्मात्मकं पुरुषर्षभं नारायणं समेत्य प्रलयकाले तदुदरेस्थित्वेत्यर्थः । गुणव्यतिकरे गुणवैषम्याख्यसृष्टौ जायमानायां सत्याम् । स्वधर्मनिष्ठश्शतजन्मभिः पुमा-न्विरिञ्चतामेति । यत्पादपद्मपरिचर्यये त्यादिवाक्यैश्च सत्यलोकाधिपत्यस्यापि साक्षान्मोक्षाङ्गतया ज्ञानभक्तिवैराग्याणामवान्तरफलत्वसम्भवात् भेददृष्ट्या स्वतृतीयावतारे समर्थितभेदज्ञानेन । अभिमानेन मूलरूपेऽवतारेषु च हरावेव कृतबहुमानेन निस्सङ्गेन फलापेक्षां विना कृतेन कर्मणा राक्षससंहरणादिकर्मणा च प्रसन्नभगवदनुग्रहात् यथापूर्वं पूर्वब्रह्माणमनतिक्रम्य तदुत्पत्तिप्रकारेणेत्यर्थः । प्रजायते महत्तत्वप्रवर्तकस्थूलदेहतयोत्पद्यत इति तस्यैव श्लोकस्य सम्भव-दर्थान्तरमभिप्रेत्याह ।। अस्मद्गुरुरिति ।। २०५–२१० ।।

सत्यप्रमोदटीका

 चतुरास्यत्वं प्राप्येति ‘स्वधर्मनिष्ठः शतजन्मभिः पुमान्विरिञ्चतामेति’ इति वक्ष्यप्रमाणानुसारेणेति भावः ।। सदेति । ‘व्यदधा-च्छाश्वतीभ्यः समाभ्यः’ इति श्रुतेः । ‘न क्वाप्यनीदृशं विश्वमि’ति स्मृतेश्च । आद्य इत्यादि भागवतवचनम् ।। समुदीरिता समाख्यारूपेण वर्णिता ।। २०५–२०९ ।।

युक्तिमल्लिका

साधनं चास्य जीवेशभेददृष्टिर्हरौ गुरौ ।

अभिमानाभिधा भक्तिर्निवृत्तं कर्म चोच्यते ।। २१० ।।

मुख्यं तदुभयं कर्म त्वमुख्यं तत्र साधनम् ।

अतस्तृतीयं तत्प्रोक्तमपिशब्दोऽप्यगर्हयत् ।। २११ ।।

सुरोत्तमटीका

 तत्र मुक्तौ तेषु साधनेषु वा । अतः अप्रधानत्वात् । तत्फलसङ्गरहितं कर्म ।। २११ ।।

सत्यप्रमोदटीका

 तदेव साधयति साधनं चेति । भेददृष्ट्या इत्यस्यार्थः जीवेशेति । पञ्चभेदेत्यर्थः । (एतेषां श्लोकानां अर्थः तात्पर्योक्तः अभिमानेन पूर्णज्ञानेन । सङ्गत्य लये परमेश्वरं प्रविश्य । यथापूर्वं प्रजायते उच्चनीचादि-भावेन जायते अगुणव्यतिकरे बहिः श्वेतद्वीपे निर्गच्छन्ति ।) ‘पञ्चभेदांश्च विज्ञाय मुक्तिर्न चान्यथा’ इति स्मृतेः । ‘जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः’ इति श्रुतेः । अभिमानाभिधेति अभितो मानः इति व्युत्पत्त्येति भावः । गुराविति । ‘यस्य देवे परा भक्तिर्यथा देवे तथा गुरावि’ति श्रुतेः । निःसङ्गेनेति निवृत्तेनेत्यर्थः । ‘निष्कामं ज्ञानपूर्वं तु निवृत्तमिह चोच्यते । निवृत्तं सेवमानस्तु ब्रह्माभ्येति सनातनमि’ति वचनात् । अपिशब्देन ज्ञानसमकक्षतां गर्हयामास । ॐ भाक्तं वा अनात्मवित्तथा हि दर्शयति इति सूत्रात् ।। २१०–२१३ ।।

युक्तिमल्लिका

समुच्चयार्थं गर्हार्थमपि शब्दोऽयमीरितः ।

न चेच्चशब्दं प्रब्रूयात्सोऽपि च्छन्दो भिनत्ति न ।। २१२ ।।

सुरोत्तमटीका

 न चेद्गर्हापेक्षा न चेत् । सोऽपि चशब्दोऽपि । निस्सङ्गेन च कर्मणेत्युक्तेऽपि छन्दोभङ्गाभावादिति भावः।।२१२ ।।

युक्तिमल्लिका

अभिमानोऽप्युक्तरीत्या भक्तिरेव भवेदसौ ।

मोक्षसाधनपङ्क्तौ यः पठितो दिव्ययोगिना ।। २१३ ।।

सुरोत्तमटीका

 मोक्षसाधनपङ्क्तौ सर्वाविवादनिवृत्तकर्माख्यमोक्षसाधन-पङ्क्तौ ।। २१३ ।।

युक्तिमल्लिका

एवं परान्तकाले स्यान्मुक्तत्वं योग्ययोगिनाम् ।

परान्तकालो यन्मुक्तिकालः श्रुतिषु कथ्यते ।

निवृत्तं कर्म यन्मुक्त्यै ततोऽन्योऽर्थो न शोभते ।। २१४ ।।

सुरोत्तमटीका

 यद्यस्मात् । श्रुतिषु परान्तकाले परामृतादित्यादिश्रुतिषु । यद्यस्मात् । ततो मुक्तिसाधनत्वेन सर्वाभिमतनिवृत्तकर्मणा सह पठितत्वात् । अन्योऽर्थो व्यावहारिकभेददृष्ट्या देहाद्यभिमानेन पुनरिहैव जायत इत्याद्यर्थः । मुक्त्यैकसाधननिवृत्तकर्मण उत्पत्तिहेतुत्वायोगादृषीणां सनत्कुमारादि-योगीश्वराणां प्रवर्तकसिद्धानां सकलवेदप्रवर्तकब्रह्मणश्चान्ते देहाभिमानस्य चायोगात्परान्तकाले परिमुच्यन्ति सर्व इति श्रुतिविरोधाच्च । अतोऽ-स्मदुक्तविधया ज्ञानभक्तिवैराग्यसाधनत्रयेण पूर्वब्रह्मवदाविर्भूतानन्दो भवती-त्येवार्थः । परान्तकाले न मोक्षः किन्तु पुनरपि ब्राह्मशतवर्षानन्तरं मोक्ष इति स्वयूथ्यः कश्चित्तदपि न । परान्तकाले परिमुच्यन्ति सर्व इति श्रुतिविरोधात् न ह्युदिते जुहोतीति श्रुतेरुदयानन्तरं त्रिंशद्घटिकोपरि जुहोतीति कोऽपि प्रेक्षावानर्थं ब्रूते । ‘‘तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ संपत्स्यत इति श्रुतेः प्रारब्धकर्मनाशानन्तरं मोक्षविलम्बायोगाच्च । उक्तविधया वैकुण्ठाच्छ्वेत-द्वीपं प्राप्य गमनसम्भवेन ‘‘यावच्छ्वेतं न गच्छती’’ति वाक्यस्याप्यनुकूलत्वात् । प्रारब्धकर्मनाशस्तु यद्यपि विरजातरणावधिस्तथापि स प्रारब्धकर्मरूप-प्रकृतेर्बन्धो ब्रह्मणा सहैवभिद्यते न स्वेच्छयेत्यर्थसम्भवेनास्यापि वाक्यस्या-स्मदनुकूलत्वात् । अन्यथा ‘‘उपासते ते पुरतस्समाप्नुयुर्ब्रह्माणमस्मान्मतिमाप्य विष्णुम् ।। प्रयान्त्यतोऽन्येऽपि तमाप्य तस्माद्धरिं गता मुक्तिभाजः परान्त’’ इति स्पष्टाचार्यवचनविरोधेनापसिद्धान्तापातादतो यत्किञ्चिदेतत् ।। २१४ ।।

सत्यप्रमोदटीका

 जायते जनि प्रादुर्भावे इति धातोः ज्ञानानन्दा-द्यात्मकस्वस्वरूपेणाविर्भवतीत्यर्थः ।। अन्यः अर्थः मिथ्याभूतभेददर्शनेन देहाभिमानेन च यथापूर्वं इह संसारे देहसम्बन्धरूपं जन्म प्राप्नोतीत्येवं रूपः । न शोभते तिरस्कार्यः । ‘न भारती मेऽङ्ग मृषोपलक्ष्यते न कर्हिचिन्मे मनसो मृषा गतिः ।’ इत्यादिकथितमहिमातिशयोपेतस्य अभिमानाद्यशेषदोषदूरस्य चतुर्मुखस्य परान्तकाले प्राप्यगतेः मोक्षत्वावश्यंभावात् तस्याः संसारत्व-कथनस्य प्रमाणविरुद्धतयाऽपहसनीयत्वादिति भावः । अतः योगीश्वरस्य चतुर्मुखस्य सनकादियोगिनां साधनवर्णनपरत्रितयस्य अस्मदुक्तरीत्या क्रमेण ज्ञानं भक्तिः वैराग्यं इत्येवार्थाश्रयणस्य समुचितत्वादिति भावः ।। २१४ ।।

युक्तिमल्लिका

पुमान्विरिञ्चतामेति मामेवैति ततः परम् ।

इत्युक्त्या च पुनर्जन्म तस्यैव स्यात्कथं वद ।। २१५ ।।

मां लक्ष्मीं स्वात्मवाचित्वे यथाहमिति रुद्रवाक् ।

न शोभते न हि स्वात्मप्राप्तिः स्वस्य लये सति ।। २१६ ।।

पदं वैष्णवमेतीति वैकुण्ठगतिकीर्तनात् ।

पुनरावृत्तिवार्ताऽस्य निवृत्तेवाभवत्तव ।। २१७ ।।

सुरोत्तमटीका

 ‘‘स्वधर्मनिष्ठश्शतजन्मभिः पुमान्विरिञ्चतामेति ततःपरं हि माम् ।। अव्याकृतं भागवतोऽथ वैष्णवं पदं यथाहं विबुधाः कलाप्तय’’ इति भागवतवाक्यान्तरसमाख्यया यथापूर्वं प्रजायत इति वाक्यस्याप्यस्मदुक्त एवार्थ इत्याह ।। पुमानिति ।। पुमान् ब्रह्मपदवीयोग्यपुरुषः । शतजन्मभिस्स्व-विहितधर्माचरणं कृत्वा विरिञ्चतामेति ।

मामित्यस्यार्थकथनायोक्तम् ।। मां लक्ष्मीमिति ।। अस्य श्लोकस्य रुद्रवचनत्वान्मां स्वात्मानमित्यर्थः कुतो नेत्यत आह ।। स्वात्मवाचित्व इति ।। यथाहमिति रुद्रेण ब्रह्मनिर्याणस्य स्वनिर्याणं दृष्टान्ततया कथ्यते । एवं च यथा लयेऽहं मां प्रविशामि ब्रह्मापि मां प्रविशतीत्यर्थो वक्तव्यः । तच्चात्माश्रयान्न शोभते । तस्माद्यथाहं लक्ष्मीं प्रविशामि तथा ब्रह्मापि लक्ष्मीं प्रविशतीत्येवार्थ उचितः । सर्वेषामपि देवानां लक्ष्मीद्वारा विष्णुप्राप्तेश्शास्त्र-सिद्धत्वादिति भावः । उपलक्षणं चैतत् । यतस्सत्यलोकस्थितस्य ब्रह्मण-स्स्वलोकादुपरितनवैकुण्ठस्थविष्णुप्राप्तये भूलोकस्थितकैलासपर्वतस्थशिवप्रवेशो लौकिकमाभाणकमनुकरोति । अतोऽपि न युक्तः । सोऽथ विरिञ्चवीर्य इति भागवते रुद्रस्य ब्रह्मकुमारत्वोक्तेश्च न युक्त इति द्रष्टव्यम् ।

अथ लक्ष्मीप्राप्त्यनन्तरं भागवतः भगवद्भक्तशिरोमणिर्ब्रह्मा अव्याकृतं विकाररहितं वैष्णवं विष्णुसम्बन्धिपदं स्थानं वैकुण्ठमेतीत्यनेन लब्धमर्थमाह ।। पदमिति ।। तव पुनरावृत्तिवार्ता । यथापूर्वं प्रजायत इत्यस्य पूर्ववद्ब्रह्मा पुनरप्युत्पद्यत एव न तु वैकुण्ठं प्राप्नोतीत्यर्थकथनम् । तद्वल्लयप्रतिपाद-केऽस्मिन्वाक्ये स्पष्टं वैकुण्ठगतेरुक्तत्वेनैतद्वाक्यसमाख्यया तस्मिन्नपि वाक्येऽ-स्मद्व्याख्यानानुसारेण वैकुण्ठगतेरेव वक्तव्यत्वादिति भावः ।। २१५–२१७ ।।

सत्यप्रमोदटीका

 सुस्पष्टभागवतवचनाच्चैवमित्याह पुमानिति । अनेन ‘स्वधर्मनिष्ठः शतजन्मभिः पुमान् विरिञ्चतामेति ततः परं हि माम् । अव्याकृतं भागवतोऽथ वैष्णवं पदम्’ इति रुद्रवाक्यमर्थतः सङ्गृह्णाति । शत-जन्मभिरिति एकोनशतकल्पसाधनानन्तरम् इत्यर्थः । ततः परं विरिञ्चिपदेन साधनानन्तरम् । मां लक्ष्मी एति । द्वारमात्रतयेत्यर्थः । न तु तत्र लयः । वैष्णवं पदमेति इति उत्तरत्र श्रुतेः । रुद्रस्य चतुर्मुखे विलयस्य प्रमितत्वेन माम् इत्यस्य स्वात्मानं रुद्रमित्यर्थस्तु अशक्यशङ्कः ।। २१५–२१७ ।।

युक्तिमल्लिका

ब्रह्मणा सह मुक्तः सन्भोगान्भुङ्क्ते विपश्चिता ।

श्रुतिश्चैषा ब्रह्मणोऽन्ते मुक्तिमाह न संसृतिम् ।। २१८ ।।

सुरोत्तमटीका

 सोऽश्नुते सर्वान् कामान् सह ब्रह्मणाविपश्चितेति श्रुत्या मुक्तैस्सह चतुर्मुखब्रह्मणो मौक्तभोगकथनाच्च न तस्य पुनर्जन्मेत्याह ।। ब्रह्मणेति ।। २१८ ।।

सत्यप्रमोदटीका

 श्रुतिविरुद्धश्च परपरिकल्पितोऽर्थ इति वक्ति ब्रह्मणेति । श्रुतिः सोऽश्रुते सर्वान्कामान्सह ब्रह्मणा विपश्चितेति श्रुतिः । अत्र मुक्तमात्रस्य चतुर्मुखेण सहैव भोगकथनात् चतुर्मुखस्यैव पुनः संसारे आवृत्तिकथनं कथं नासङ्गतमित्याशयः ।। २१८ ।।

युक्तिमल्लिका

दत्तं किल ब्रह्मपदं रामेणास्मद्धनूमते ।

तच्च न स्याद्यदि ब्रह्मा स एव स्यात्पुनः पुनः ।। २१९ ।।

सुरोत्तमटीका

 अस्यैव ब्रह्मणः पुनर्जन्माभावे युक्त्यन्तरं चाह ।। दत्तमिति ।। तत् हनूमतो भविष्यद्ब्रह्मपदवीदानम् ।। २१९ ।।

सत्यप्रमोदटीका

 नैषः दोषः । ब्रह्मणा पुनः कल्पान्तरे मुक्तेन सह मुक्तानां भोगोपपत्तेरिति चेन्मैवम् । हनूमते रामेणागामिकल्पे एव ब्रह्मपद-दानानुपपत्तेः । न हि एकस्मिन्नेव ब्रह्मकल्पे चतुर्मुखद्वयावस्थानं सञ्जाघटीती-त्याह दत्तमिति ।। २१९ ।।

युक्तिमल्लिका

न चेच्छ्रुतिः कथं प्राह पवमानः प्रजापतिः ।

इत्याद्या पवमानस्य प्रजापतिपदं वद ।। २२० ।।

सुरोत्तमटीका

 वायोर्ब्रह्मपदानङ्गीकारे श्रुतिविरोधं चाह ।। न चेदिति ।। आदिपदेन मारुतस्य वेधस इति श्रुतिं गृह्णाति।। २२० ।।

सत्यप्रमोदटीका

 आद्यपदेन ‘मारुतस्य वेधसः’ इति श्रुतेर्ग्रहणम् ।। २२० ।।

युक्तिमल्लिका

तस्माल्लये हरेः कुक्षिं प्रविश्यान्ते लयस्य सः ।

वैकुण्ठादिपुरस्थः स्यादित्येवार्थः पुमर्थकृत् ।। २२१ ।।

सुरोत्तमटीका

 सः ब्रह्मा ।। २२१ ।।

सत्यप्रमोदटीका

 स्यादिति । स्वरूपेण प्रादुर्भवतीत्येवार्थः । एवकारेण पुनः संसारसम्बन्धं वारयति ।। २२१ ।।

युक्तिमल्लिका

परान्तकाले सर्वेऽपि मुच्यन्ते योगिनः किल ।

ब्रह्मैवं सति योगीन्द्रो मुक्ताग्रेसरतामियात् ।। २२२ ।।

सुरोत्तमटीका

 ब्रह्मणः कैमुत्येन मुक्तत्वे श्रौतयुक्त्यन्तरं चाह ।। परान्तेति ।। एवं सति ब्रह्मणोऽप्यधमापरोक्षज्ञानिनां सर्वेषां मुक्तत्वे सति ।।

सत्यप्रमोदटीका

 एवं सति योगिनामपि मुक्तत्वे सति । योगीन्द्रो ब्रह्मा न केवलं मुक्तो भवति किन्तु मुक्ताग्रेसरताम् इयादित्यर्थः ।। २२२ ।।