अथ दृग्दृश्यसम्बन्धायोगात्केवलमीदृशी
दृग्दृश्ययोः संबन्धानुपपत्तिभङ्गः
युक्तिमल्लिका
अथ दृग्दृश्यसम्बन्धायोगात्केवलमीदृशी ।
कुसृष्टिर्हि त्वया वाच्या सापि शोच्या महात्मनाम् ।। ६४२ ।।
सुरोत्तमटीका
दृग्दृश्यसम्बन्धायोगात् अयं घट इति ज्ञानस्य मान-सत्वम् । अत एव दृश्यस्य ब्रह्मण्यारोपश्चेति शङ्कां सविस्तरं दूषयति ।। अथेति ।। ईदृशी दृश्यस्य दृशि आरोप इत्येवमाकारा ।। ६४२ ।।
सत्यप्रमोदटीका
अथेदानीं पराभिमतं दृग्दृश्ययोराध्यासिकसम्बन्धं सविस्तरं निरस्यति अथेत्यादिभिः । सम्बन्धायोगादिति । ज्ञानस्याद्रव्यत्वेन संयोगस्याभावात्, समवायस्य चात्मातिरिक्तेनासम्भवादिति भावः । कुसृष्टिः अध्यासः, प्रतिकर्मव्यवस्थानिर्वाहार्थं अन्तःकरणस्य बहिर्निर्गमनं, तत्तदाकारेण परिणामः, तत्र ज्ञातृचैतन्यस्य प्रतिफलनं, तेनाधिष्ठानावरणनिवृत्तिः इत्यादिका । शोच्येति । क्लृप्तेन विषयविषयिभावाख्यस्वरूपसम्बन्धादेव व्यवहारनिर्वाहादिति भावः ।। ६४२ ।।
युक्तिमल्लिका
एवं सति च दृश्यस्य दृक्सम्बन्धोऽपि को वद ।
अध्यासाध्यस्तभावश्चेत्सोऽपि सम्यग्विविच्यताम् ।। ६४३ ।।
सुरोत्तमटीका
एवं सति दृश्यस्य दृश्यारोपे सति ।। ६४३,६४४ ।।
सत्यप्रमोदटीका
एवं सति संयोगाद्यसम्भवे सति, असम्बद्धस्य प्रकाशनेऽतिप्रसङ्गात् त्वयाऽपि यस्य कस्यचित्सम्बन्धस्यावश्यं वक्तव्यत्वे च सति ।। ६४३ ।।
युक्तिमल्लिका
आरोपरूपज्ञानत्वमध्यासत्वं हि केवलम् ।
अध्यस्तत्वं च तज्ज्ञानज्ञेयत्वं न ततोऽपरम् ।। ६४४ ।।
सत्यप्रमोदटीका
ज्ञेयत्वं विषयत्वम् ।। ६४४ ।।
युक्तिमल्लिका
अतस्त्वयोक्तस्सम्बन्धो ज्ञानज्ञेयत्वमेव हि ।
न संयोगस्तयोरासीत्समवायोऽपि न ह्यभूत् ।। ६४५ ।।
सुरोत्तमटीका
अतः अध्यासाध्यस्तभावस्यापि ज्ञानज्ञेयत्व एव पर्यव-सानात् । तयोः ज्ञानज्ञेययोः ।। ६४५ ।।
सत्यप्रमोदटीका
ज्ञानज्ञेययोः स्वरूपसम्बन्धः घटतद्वृत्त्योः क्लृप्तः । तेनैव सर्वनिर्वाहे किमाध्यासिकसम्बन्धकल्पनादुर्व्यसनेनेत्याह अत इत्यादिभिः ।। ६४५,६४६ ।।
युक्तिमल्लिका
अयं तु वृत्तिघटयोरप्यस्त्येव स्वभावतः ।
वृत्तिर्ज्ञानं घटो ज्ञेय(इ)मिति को नाम नाब्रवीत् ।। ६४६ ।।
सुरोत्तमटीका
अयं त्वयाऽप्यन्ततोऽङ्गीकृतो ज्ञानज्ञेयत्वरूपः । वृत्तिः अन्तःकरणवृत्तिः ।। ६४६ ।।
युक्तिमल्लिका
ज्ञानज्ञेयत्वमनयोः केनेति यदि शङ्क्यते ।
आरोप्यारोपभावो हि तयोः केनेति कीर्तय ।
संयोगसमवायौ तु नोभयोरपि संमतौ ।। ६५७ ।।
सुरोत्तमटीका
अनयोः वृत्तिघटयोः । तयोः घटतदधिष्ठानचैतन्ययोः ।। ६४७ ।।
सत्यप्रमोदटीका
प्रतिबन्द्या परेणैव स्वरूपसम्बन्धमङ्गीकारयितुं पृच्छति केनेति ।। ६४७ ।।
युक्तिमल्लिका
यदि ब्रह्मणि सत्त्वं च घटस्य पृथगुच्यते ।
तर्ह्यध्यस्तत्वकथनं कण्ठशोषणमेव ते ।। ६४८ ।।
संयुक्तसमवायाख्यस्सम्बन्धस्तत्र ते भवेत् ।
घटेन युक्तं तद्ब्रह्म समवेता च तत्र चित् ।। ६४९ ।।
सुरोत्तमटीका
पृथक् आरोपात्पृथक् आरोपातिरिक्तं ब्रह्मणि घटसत्त्वं च आरोपोपयोगितयाऽङ्गीक्रियते चेदित्यर्थः ।। तत्र घटे तदधिष्ठानचैतन्य-रूपज्ञाने चेत्यर्थः । संयुक्तसमवायमुपपादयति ।। घटेनेति ।। ६४८,६४९ ।।
सत्यप्रमोदटीका
सम्भावितं प्रकारान्तरमुट्टङ्क्य निषेधति यदीति । पृथगिति । घटस्य चैतन्येऽध्याससिद्धौ उपयोगितया, अध्यासात् पृथग्भूतः, ब्रह्मणो घटेन संयोगसम्बन्धोऽङ्गीक्रियते चेदित्यर्थः ।। एवं सति घटस्य ब्रह्मसमवेतेन ज्ञानेन संयुक्तसमवायः सम्बन्ध उक्तो भवति । तत्कथमित्यत आह घटेनेति । चित् ज्ञानम् ।। ६४८,६४९ ।।
युक्तिमल्लिका
एवं चेद्ब्रह्मसंयुक्तघटाभ्रज्ञानताऽपि ते ।
घटज्ञाने कुतो नाभूत्सम्बन्धस्य समत्वतः ।। ६५० ।।
सुरोत्तमटीका
एवं चेत् घटब्रह्मसंयोगेनैव चिद्रूपज्ञानस्य घटज्ञानत्वं चेत् । घटाभ्रं घटावच्छिन्नाकाशः । घटज्ञाने ब्रह्मचैतन्यात्मकघटज्ञाने । संयुक्तसमवायस्योभयत्र साम्यादिति भावः । अत एवारोपोऽप्यपेक्षित इति चेत् न । भ्रमरूपज्ञानमेव ह्यारोपः । सम्बन्धस्य साम्यात् उभयत्रापि भ्रमरूपं ज्ञानमस्त्वित्याक्षिपन्तं प्रति भ्रमरूपज्ञानात्मकारोपाभावादित्यस्यात्माश्रय-ग्रस्तत्वेनानुत्तरत्वात् ।। ६५० ।।
सत्यप्रमोदटीका
सम्बन्धान्तरेणैवालम् । किमध्यासेनेति पररीत्यै-वोक्तम् । वस्तुतस्तु न ज्ञानाश्रयब्रह्मणा संयुक्तत्वमात्रेण न तज्ज्ञानज्ञेयत्वम् । तथा सति घटकाशस्यापि ब्रह्मसम्बद्धत्वाविशेषेण घटज्ञानज्ञेयत्वं स्यादित्याह घटभ्रेति ।। ६५० ।।
युक्तिमल्लिका
किं ज्ञाने ज्ञानताऽस्तीति घटज्ञानेऽपि भासते ।
तस्माज्ज्ञाने स्थितत्वं तज्ज्ञानत्वे न प्रयोजकम् ।। ६५१ ।।
सुरोत्तमटीका
ज्ञानात्मकब्रह्मणि घटस्य सत्त्वं तेन ज्ञेयत्वप्रयोजकं च नेत्यत्र दृष्टान्तमाह ।। किं ज्ञान इति ।। तज्ज्ञानत्वे तस्य ज्ञानस्य तज्ज्ञानत्व इत्यर्थः ।। ६५१ ।।
सत्यप्रमोदटीका
तज्ज्ञाने भासमानत्वे तद्विषयत्वमेव तन्त्रम् । न तु ज्ञानरूपत्वं ज्ञानाश्रितत्वं वा इत्येतन्निदर्शयति किमिति । ज्ञाने आश्रितत्व-मात्रेण ज्ञानता न घटज्ञानेऽवभासत इति भावः ।। ६५१ ।।
युक्तिमल्लिका
विषयत्वं विषयिता काचिद्वाच्याऽपरैव तत् ।
स एव वृत्तिघटयोरस्त्वद्धाऽयं श्रमाय ते ।। ६५२ ।।
सुरोत्तमटीका
अपरा ज्ञानज्ञेयत्वादध्यस्ताध्यासभावाच्चातिरिक्ता । तत् तस्मात् प्रकारान्तरेण ज्ञानज्ञेयसम्बन्धानिर्वाहात् । अयम् अध्यासपर्यन्त-धावनरूपः ।। ६५२ ।।
सत्यप्रमोदटीका
अतः तज्ज्ञानत्वे तद्विषयकत्वमेव तन्त्रमिति निगम-यति विषयत्वमिति । स एवेति । तदुक्तं वादावल्यां ‘चैतन्याविषयत्वेऽपि बाधकाभावात् । वृत्तिविषयत्वेनैव व्यवहारोपपत्तेरि’ति । अद्धा निश्चयेन । अयं अध्याससम्बन्धः । ते भ्रमाय तवैव भ्रमनिदर्शकः ।। ६५२ ।।
युक्तिमल्लिका
सम्बन्धाभावमात्रेण वस्तु मिथ्येति को वदेत् ।
सिद्धे वस्तुनि सम्बन्धस्तादृक्कल्प्यो हि कश्चन ।। ६५३ ।।
सुरोत्तमटीका
किं च दृष्टसम्बन्धेष्वेकतराभावे सम्बन्धान्तरमेव कल्प्यम् । न तु तस्य मिथ्यात्वमित्याह ।। सम्बन्धेति ।। ६५३ ।।
सत्यप्रमोदटीका
त्वया सम्बन्धो ज्ञातुं न शक्यते इत्येतावता प्रमित-वस्त्वपलापो न युक्त इत्याह सम्बन्धाभावमात्रेणेति ।। त्वया सम्बन्धस्य ज्ञातुमशक्यत्वमात्रेण । तदुक्तमभियुक्तैः ‘न हि जात्यन्धेन नीलं न शक्यते इत्येतावता अनिर्वचनीयमेव तत्’ इति । उक्तं च वादावल्यां ‘संयोगासम्भवे समवायवदन्यस्यापि तयोरसम्भवे कल्प्यत्वात् । विषयविषयिभावस्य सम्भवादि’ति ।। ६५३ ।।
युक्तिमल्लिका
घटाभावश्च भूमिश्च योगाभावेन किं मृषा ।
तादृक्स्वरूपतामन्ते तयोर्योगं हि मन्वते ।। ६५४ ।।
सुरोत्तमटीका
तादृक्स्वरूपतां सम्बन्धान्तरमन्तरेण विशिष्टप्रतीति-योग्यस्वरूपताम् । स्वरूपसम्बन्धविशेषमिति यावत् । तयोः भूतलघटाभावयोः
।। ६५४ ।।
सत्यप्रमोदटीका
योगेति स्वरूपातिरिक्तसम्बन्धेत्यर्थः । तादृक्स्वरूपतां सम्बन्धान्तरमन्तरेण विशिष्टव्यवहारजनकत्वयोग्यत्वरूपस्वरूपताम् ।। ६५४ ।।
युक्तिमल्लिका
न चेत्परोक्षवृत्तीनां विषयाः स्युः कथं वद ।
न हि वृत्तौ पदार्थानामध्यासस्तत्र विद्यते ।। ६५५ ।।
ज्ञानज्ञेयत्वमर्यादा तत्र येनोच्यते त्वया ।
तेनैव दृश्यतादृक्त्वमपरोक्षेऽपि कथ्यताम् ।। ६५६ ।।
सुरोत्तमटीका
नचेत् ज्ञानज्ञेययोर्भूतलाभावयोरिव स्वरूपसम्बन्धविशेष एव सम्बन्धो न चेत् अध्यास एव सम्बन्धो वाच्यश्चेदित्यर्थः । तत्र परोक्षज्ञानस्थले ।। ६५५,६५६ ।।
सत्यप्रमोदटीका
परोक्षवृत्तीनामित्युपलक्षणम् । न्यायामृते दृग्दृश्य-सम्बन्धानुपपत्तिभङ्गे उक्तरीत्या ‘ध्वंसादेरतीतादिना मिथ्यात्वलक्षणान्त-र्गतस्यात्यन्ताभावस्य प्रतियोगिना वेदान्तनिष्ठशक्तितात्पर्ययोश्च ब्रह्मणा, मुमुक्षायाश्च मोक्षेण तदुक्तदूषणस्य च दूष्येण, त्वद्वाक्यस्य चार्थेन.....-असम्बन्धेन स्वन्यायस्वक्रियास्ववचनविरोधाः स्युरि’त्युक्तातिप्रसङ्गाश्च ग्राह्याः । न हि ज्ञेये ज्ञानमिव, प्रतियोगिशक्तया ज्ञेयेष्यमाणव्यहर्तव्यादयः अभाव-शक्त्यज्ञानेच्छाव्यवहारादिष्वध्यस्ताः । (न्याया.१/२३) ।। येन स्वरूप-सम्बन्धेन । तत्र परोक्षवृत्तिस्थले । अपरोक्षे अपरोक्षवृत्तौ ।। ६५५,६५६ ।।
युक्तिमल्लिका
अन्यथा पटवृत्तिश्च घटवृत्तिः कुतो न ते ।। ६५७ ।।
तत्तद्वृत्तित्वमेव स्याद्येनोपायेन ते मते ।
तेनोपायेन सा वृत्तिस्तत्तज्ज्ञानं भवेन्मम ।। ६५८ ।।
तस्मात्कीलस्य लाभाय न देवालयनाशनम् ।
कुरु स्वीकुरु विश्वस्य सत्यतां भृत्यतां भज ।। ६५९ ।।
सुरोत्तमटीका
बाधकान्तरं चाह ।। अन्यथेति ।। ६५७-६५९ ।।
सत्यप्रमोदटीका
अन्यथा स्वरूपसम्बन्धभेदेन ज्ञाने वैलक्षण्यानङ्गीकारे ।। इदं घटज्ञानमेव न पटज्ञानमिति वैलक्षण्यं येन घटेन्द्रियसन्निकर्षजनितवृत्ति-प्रतिफलनादिना त्वया कथ्यते मया प्रतिफलनादिकुसृष्टिं विहाय तत्तदिन्द्रिय-सन्निकर्षादिजन्यत्वमात्रेण वृत्तिविषयत्वेनैव कथ्यते इत्याह तत्तदिति ।।
कीलोऽत्र सम्बन्धः । देवालयः विश्वम् । अल्पस्य हेतोर्बहुनाशो न युक्त इति न्यायव्युत्पादने तात्पर्यम् । वस्तुतः अन्धेन त्वया कीलस्यादर्शनमात्रेण देवालयस्य मिथ्यात्वकथनमयुक्तमित्याशयः । न कुर्वित्यन्वयः । भृत्यतां सत्यविश्वनिर्माणेन जगत्प्रभोरीश्वरस्येत्यादिः ।। ६५७–६५९ ।।
युक्तिमल्लिका
असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् ।
अपरस्परसम्भूतं किमन्यत्कामहैतुकम् ।। ६६० ।।
एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः ।
प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ।। ६६१ ।।
इति गीतास्थकृष्णोक्त्या मिथ्यात्वाशां परित्यज ।। ६६२ ।।
सुरोत्तमटीका
गीतायां मिथ्यात्वस्य भगवतैव स्पष्टं निन्दितत्वाच्च न जगन्मिथ्यात्वमित्याह ।। असत्यमिति ।। ते आसुराः । आसुरीं पार्थमे शृृण्विति उपक्रमात् । नष्टात्मानः अल्पबुद्धय इति निन्दनात् पूर्वपरामर्शित-च्छब्देनासुरत्वेन निन्दनाच्च जगतोऽसत्यत्ववादो न युक्त इति भावः ।। ६६०–६६२ ।।
सत्यप्रमोदटीका
स्वरूपसम्बन्धस्य प्रमितत्वेन आक्षेपकस्य सम्बन्धा-भावस्य प्रमितत्वं निराकृतम् । आक्षेप्यं मिथ्यात्वं प्रमाणविरूद्धं चेत्याह असत्यमिति । न च वाच्यं इयं निन्दा जगतोऽत्यन्तासत्त्ववादिनं बौद्धमेव स्पृशति न तु पुनः व्यावहारिकसत्यत्ववादिनं मायिनमिति । बौद्धेनापि सांवृतसत्यत्वस्याङ्गीकृतत्वात् । उभाभ्यामपि बाध्यत्वस्य स्वीकृतत्वेन विवादस्य नाममात्रत्वात् ।। तदुक्तं वादावल्यां ‘अत्यन्तासत्त्वाभ्युपगन्तुर्वादिन एवाभावात् । आहुरित्यस्यायोगात्’ इति । ‘आसुरीं पार्थ मे श्रुणु’ इत्युपक्रमेण नष्टात्मानः अल्पबुद्धय इति विशेषणेन मिथ्यात्ववादिनो निन्दा स्फुटा ।। ६६०–६६२ ।।
युक्तिमल्लिका
घटावच्छिन्नचैतन्ये घटाध्यासो न युज्यते ।
आत्माश्रयप्रसङ्गेन तादृग्भ्रान्तेरसम्भवात् ।। ६६३ ।।
अतो घटादेरध्यासश्शुद्धचित्येव ते मते ।
निरंशं शुद्धचैतन्यमेकमेव हि तत्तदा ।। ६६४ ।।
अध्यासात्प्रागवच्छेदभेदाद्भेदोऽपि तत्र न ।
एवञ्च सर्वं तत्रासीदध्यस्तं न तु किञ्चन ।। ६६५ ।।
सुरोत्तमटीका
प्रकारान्तरेणाप्यध्यासस्यार्थसम्बन्धतां दूषयति ।। घटा-वच्छिन्नेति ।। न च वाच्यं घटोपलक्षितचैतन्य एवाध्यासान्नात्माश्रय इति । अध्यासात्पूर्वं घटस्यैवाभावेन तदुपलक्षितत्वस्यापि वक्तुमशक्यत्वात् । तादृग्भ्रान्तेः आत्माश्रयग्रस्तभ्रान्तेः ।। शुद्धचिति शुद्धचैतन्यात्मकचिति । तत्र शुद्धचैतन्ये ।। ६६३-६६५ ।।
सत्यप्रमोदटीका
किं च घटस्यारोपः किं घटाधिष्ठानचिति, शुद्धचिति वा । नाद्यः घटारोपार्थं घटारोपस्यैव कारणत्वाङ्गीकारापत्त्याऽऽत्माश्रयात् । न द्वितीयः । शुद्धचितो निरंशत्वेन अध्यासस्याविशिष्टत्वात् युगपदेव सर्ववस्तूनां प्रकाशापातात् । न चावच्छेदकभेदादतिप्रसङ्गनिस्तारः । आरोपात्प्राक् अवच्छेदस्यासम्भवादित्याशयः । किञ्चन घटादिकं यत्किञ्चिदेकमेव
।। ६६३-६६५ ।।
युक्तिमल्लिका
तस्मात्सर्वस्य चाध्यासात्सा सर्वस्य च दृग्भवेत् ।
न चेत्कस्यापि दृङ्न स्यादध्यासस्त्वफलो भवेत् ।। ६६६ ।।
सुरोत्तमटीका
सा घटभ्रान्तित्वेनाभिमता चित् । नचेत् सर्वावभासकत्वं न चेत् । कस्यापि तस्य घटस्यापि ।। ६६६ ।।
सत्यप्रमोदटीका
सा घटाधिष्ठानभूता चित् । यदि पुनः चितः अज्ञानावृतत्वेन न सर्वस्य प्रकाशः तर्हि तत एव हेतोः कस्यापि प्रकाशो न स्यात् इत्याह न चेदिति । तदुक्तं वादावल्याम् । ‘अध्यस्तत्वेन प्रकाशने जीवे अध्यासपक्षे सर्वदा सर्वेषां प्रपञ्चः प्रकाशेत । ब्रह्मणोऽधिष्ठानत्वे तु न कस्यापि कदाऽपी’ति । अफल इति प्रकाशस्यानुपपादकत्वात् ।। ६६६ ।।
युक्तिमल्लिका
अतोऽध्यासान्न दृग्दृश्यभावो ब्रह्मघटादिषु ।
किं त्वध्यासेन हीनोऽर्थः सोयं त्वद्दृशि दृश्यते ।। ६६७ ।।
सुरोत्तमटीका
अफलत्वमेव विवेचयति ।। अत इति ।। अतः अध्यासस्य सर्वसाम्यात् ।। ६६७ ।।
सत्यप्रमोदटीका
अतः उभयथाऽपि दोषसद्भावात् । दृशि वृत्तौ चैतन्ये वा । दृश्यते विषयो भवति ।। ६६७ ।।
युक्तिमल्लिका
किञ्च शुक्त्यादिचैतन्येष्वध्यस्तं प्रातिभासिकम् ।
त्वन्मते करणद्वारा साक्षी किल निरीक्षते ।। ६६८ ।।
तदाऽध्यासाध्यस्तभावसम्बन्धो न तयोरभूत् ।
अतस्ततोऽन्यस्सम्बन्धस्तत्रावश्यं भवेत्तव ।। ६६९ ।।
तेनैव वृत्तिर्दृश्यानां दृगस्त्वखिलसंमता ।
अनानुभविकी ब्रह्मचितो दृक्त्वकथा वृथा ।। ६७० ।।
सुरोत्तमटीका
तयोः साक्षिचैतन्यशुक्तिरजतयोः ।। ६६८–६७० ।।
सत्यप्रमोदटीका
किञ्च शुक्तिरूप्यादिस्थले परप्रक्रिययैवाध्याससम्बन्धो भग्नः इत्याह किञ्चेति । रूप्यं शुक्त्यवच्छिन्नचैतन्ये आरोपितम् । प्रतिभासते च साक्षिणा । तथा च येन भासते न तदधिष्ठानम् । यच्चाधिष्ठानं पराग्भूतं शुक्त्यवच्छिन्नं चैतन्यं न तेन भासते । न च वाच्यं इदं रूप्यमिति भ्रमे अंशद्वयम् । तत्र इदमंशः अन्तःकरणवृत्त्यवच्छिन्नेन रजतांशस्तु अविद्यावृत्त्य-वच्छिन्नेन चैतन्येन प्रतिभासते अतो नोक्तो दोष इति । तथा सति अख्याति-मतानुमतिप्रसङ्गेन प्रवृत्त्याद्यनुपपत्तिः । चैतन्यैक्याङ्गीकारेण परिहारे तु प्रति-कर्मव्यवस्थाभङ्गः । अतः तत्र त्वयाऽपि शुक्तिकाशकलसन्निकृष्टमिन्द्रियं दोषवशाद्रजतं गृह्णातीति वाच्यम् । तथा च सर्वत्र स एव सन्निकर्षोऽस्तु । कृतमध्यासकुकल्पनया । भ्रमप्रमाविवेकस्तु दोषजन्यत्वतदभावाभ्यां सम्भवतीति न ब्रह्मचित एव दृक्त्वकल्पनं युक्तमित्याह अनानुभविकीति । तदुक्तं वादावल्यां ‘चैतन्याविषयत्वेऽपि बाधकाभावात् । वृत्तिविषयत्वेनैव व्यवहारो-पपत्तेः’ इति ।। ६६८-६७० ।।
युक्तिमल्लिका
अज्ञानं किल सर्वत्र ब्रह्म सर्वगतं किल ।
घटभ्रमस्तथाप्यस्य कुम्भकारगृहे किल ।। ६७१ ।।
सुरोत्तमटीका
प्रकारान्तरेणाप्यनानुभविकत्वं प्राक् संकोचेनोक्तमिदानीं विस्तृत्याह ।। अज्ञानमिति ।। तथापि कल्पकयोरज्ञानब्रह्मणोस्सर्वगतत्वेऽपि । अस्य ब्रह्मणः ।। ६७१ ।।
सत्यप्रमोदटीका
पूर्वोक्तविसङ्गतीः संगृह्य परप्रक्रियामपहसति अज्ञान-मित्यादिभिः पञ्चभिः । ब्रह्मेति अधिष्ठानाभिमतं एकमेवेत्यर्थः । तदुक्तं न्यायामृते (१/२३) ‘न हि त्वन्मतेऽपि विज्ञानवादिमत इव तत्तदर्थास्तत्त-ज्ज्ञानेऽध्यस्ताः । सत्यायाः शुद्धदृशः स्वतो भेदाभावात् उपाधिविशिष्टाया भेदेऽपि घटादिवन्मिथ्यात्वेन तदधिष्ठानत्वायोगादि’ति । घटभ्रमः अहं घट इत्याकारकः।।६७१ ।।
युक्तिमल्लिका
मृदादिकारणाभावे तत्रापि न भवेत्किल ।
जातेऽप्यनलसंयोगस्याधिक्ये बाध्यते किल ।। ६७२ ।।
तत्र तत्र घटे नीते भ्रमद्ब्रह्मानुगं किल ।
मुद्गरेण घटे ध्वस्ते भ्रमनाशो भवेत् किल ।। ६७३ ।।
सुरोत्तमटीका
तत्रापि कुम्भकारशालायामपि ।। ६७२,६७३ ।।
सत्यप्रमोदटीका
मृदादीति । न हि शुक्तौ रूप्यभ्रमाय उपादानाद्य-पेक्षाऽस्ति रूप्यस्यासत्त्वादेवेति भावः ।। आधिक्ये इति । तथा सति घटस्य नाशादिति भावः ।। ब्रह्म अनुगं इति पदच्छेदः ।। ६७२,६७३ ।।
युक्तिमल्लिका
एवं ब्रह्मभ्रमास्सर्वे क्लृप्तास्तत्तत्स्थले किल ।
विचित्रकार्यकर्तृणां यथाऽऽकांक्षा तथा किल ।। ६७४ ।।
सुरोत्तमटीका
तत्तत्स्थले कुम्भकारकार्वादिशालायां यथाकाङ्क्षा नाना-विधजीवानां यत्र यत्राकाङ्क्षा तथैव भ्राम्यति । न तु स्वेच्छया भ्रमः । जगत-स्सर्वस्याविद्यापरिणामपक्षे ब्रह्मणस्तद्भ्रमत्वपक्षे चोक्तं सर्वं वैचित्र्यं न घटत इति भावः ।। ६७४ ।।
सत्यप्रमोदटीका
कर्तृणां कुविन्दादीनां चिकीर्षाऽपि भ्रमकारणत्वे-नैष्टव्येत्याह विचित्रेति ।। ६७४ ।।
युक्तिमल्लिका
इदं विवेककौशल्यं ब्रह्मणो वा भ्रमस्य वा ।
उताज्ञानस्य किं वा तच्छास्त्रकर्तुर्न वेद्म्यहम् ।। ६७५ ।।
सुरोत्तमटीका
अनानुभविकप्रमेयकल्पकं परमपहसति ।। इदमिति ।। ६७५ ।।
सत्यप्रमोदटीका
विवेककौशलं विपरीतलक्षणया अविवेकमूढतेत्यर्थः । अहं इति । न केवलं अहमेव किन्तु आविपालगोपालाः दुःशास्त्रकारस्य मायिन एवेदं कुकल्पनाविलसितमिति विदन्तीत्याशयः ।। ७६५ ।।
युक्तिमल्लिका
भ्रमकारणसंपत्तौ भ्रमस्सर्वत्र सम्भवेत् ।
प्रयोजनानुसारेण स नियोक्तुं न शक्यते ।। ६७६ ।।
भ्रमजत्वकथा तस्माद्भ्रान्तश्रोत्राय रोचते ।
स्वस्वहेतूद्भवं सर्वं कार्यमित्यतिनिर्मलम् ।। ६७७ ।।
सुरोत्तमटीका
सः भ्रमः । रजतार्थिनोऽपि रज्जुसर्पभ्रमसंपत्तौ रज्जु-सर्पभ्रम एव जायते । न तु रजतभ्रमः । सर्पार्थिनोऽपि रजतभ्रमकारणसंपत्तौ रजतभ्रम एव जायते । न तु सर्पभ्रमः । एवं च परमते भ्रमकारणयोर-ज्ञानब्रह्मणोस्सर्वत्र सद्भावेऽपि कुलालशालायामेव घटभ्रमः कुविन्दशालायामेव पटभ्रम इत्यादिव्यवस्था लोकसंमततत्तत्सामग्रीजन्यत्वमेवाक्षिपति । भ्रमजत्व-कथान्तु भ्रान्तोपि नानुमन्यत इति भावः । अतो भ्रान्तश्रोत्राय रोचत इत्युक्तिरप्यभ्युपगमवादेनेति द्रष्टव्यम् ।। ६७६,६७७ ।।
सत्यप्रमोदटीका
प्रयोजनेति कुलालादीनामित्युपस्कर्तव्यम् ।। रोचते इति काकुः । भ्रान्तोऽपि सर्वः स्वसामग्रीमहिम्नैव भ्रमोत्पत्तिः न तु आत्मनः प्रयोजनानुसारेणेति निश्चिनोतीति भावः ।। ६७६,६७७ ।।
युक्तिमल्लिका
किञ्चाध्यस्तं समस्तं च स्वाधिष्ठानैस्सहेक्ष्यते ।
तदध्यस्तघटादीनां वृत्तिश्च ब्रह्मगोचरा ।
अध्यस्तसाक्षाद्धीत्वेन वाच्यावश्यं त्वयैव हि ।। ६७८ ।।
न चेद्ब्रह्मगताज्ञानं कथं सा विनिवर्तयेत् ।
न ह्यन्यज्ञानतोऽन्यत्र स्यादज्ञानपरिक्षयः ।। ६७९ ।।
एवञ्च ब्रह्मवृत्तिस्सा येन योगेन ते मते ।
तेनैव दृग्दृश्यभावोस्त्वध्यासेन न किं फलम् ।। ६८० ।।
सुरोत्तमटीका
प्रकारान्तरेणापि चैतन्यभ्रमत्वपक्षे वृत्तिभ्रमत्वपक्षे चाध्यासस्य वैफल्यमाह ।। किञ्चेति ।। अधिष्ठानोल्लेखं विना केवलमध्यस्तस्यैव भ्रान्तावुल्लेखायोगात् । अधिष्ठानं च चैतन्यं न स्वस्मिन् स्वयमध्यस्तम् । अतोऽध्यासाभावेऽपि यथा तस्योल्लिख्यमानत्वसम्भवाद्व्यर्थोऽध्यास इति भावः ।। ६७८-६८० ।।
सत्यप्रमोदटीका
किं च भ्रमबाधयोरुभयत्राधिष्ठानोल्लेखो नियतः । इदं रजतं नेदं रजतमित्यत्र दर्शनात् । तत्राधिष्ठानचितो ज्ञानं न तावदध्यास-सम्बन्धेन । चितः स्वस्मिन्ननध्यासात् । अतो वृत्त्यैवेति वाच्यम् । अतः आवश्यक्या तयैवाध्यस्ताभिमतप्रपञ्चज्ञानमस्तु । अलमप्रामाणिकस्याध्यासस्य तस्य सम्बन्धत्वस्य च कल्पनयेत्याह किञ्चेति । सहेति तदभिन्नतयेत्यर्थः । वृत्तिश्चेद्ब्रह्माविषयिणी तया ब्रह्मावरकाज्ञाननिवृविर्न स्यादित्याह न चेदिति ।। ६७८,६७९ ।।
युक्तिमल्लिका
कथं च वृत्तिरूपोऽयं भ्रमो ब्रह्मोल्लिखेत्तव ।
अतीन्द्रियं परं ब्रह्म कथं चक्षुरपीक्षते ।। ६८१ ।।
दृष्टं चेद्ब्रह्म मुक्तिः स्याद्दृष्ट्यैव किल मुच्यते ।
किं न्यूनमस्य ज्ञानस्य मुक्तिदान्निर्विकल्पकात् ।। ६८२ ।।
सुरोत्तमटीका
वृत्तेर्भ्रमत्वपक्षे पुनरपि दोषानाह ।। कथमिति ।। ६८१,६८२ ।।
सत्यप्रमोदटीका
योगेन इन्द्रियसन्निकर्षेण । इदं च परं प्रति आपाद्य तेनैव परस्य खण्डनकौशलम् । तन्मते ब्रह्मण औपनिषदत्वात् । इदं चानु-पदमेव स्वयं वक्ति कथं चेति । यद्वा योगेन वादान्तैः शक्तितात्पर्यलक्षण-सम्बन्धेन चरमवृत्तौ ब्रह्मणो विषयत्वम्, तेनैव अतीन्द्रियधर्मादिज्ञानमप्यस्तु इति भावः ।। निर्विकल्पकादिति । मोक्षहेतुत्वेन त्वदङ्गीकृताद्बाधकज्ञानात् । भ्रमस्य विशेषविषयकत्वं तु बाधकत्वे तन्त्रम् । तत्तु त्वयैव तिरस्कृतमिति भावः ।। ६८०-६८२ ।।
युक्तिमल्लिका
अखण्डब्रह्मचिद्भागे तन्मात्रस्यावगाहिनी ।
वृत्तिश्चानुकरोत्येषा तदंशे चरमप्रमाम् ।। ६८३ ।।
सुरोत्तमटीका
ननु घटांशे सविकल्पकत्वस्यापि विद्यमानत्वान्न मुक्ति-रित्यत आह ।। अखण्डेति ।। तन्मात्रस्य चित्स्वरूपमात्रस्य । तदंशे अधिष्ठानांशे ।। ६८३ ।।
सत्यप्रमोदटीका
वृत्तिरेवेति । अधिकविषयकत्वेऽपि विशेष्यांशविषय-कत्वस्यानपायादिति भावः । अङ्गीकृतं चास्या वृत्तेर्ब्रह्मानुभवत्वं परेणापि । यथोक्तं न्यायामृते ‘विज्ञातो घट इत्युक्तिर्ब्रह्मानुभवतो भवेत्’ इति परमतानु-वादप्रस्तावे ।। ६८३ ।।
युक्तिमल्लिका
न चेदधिष्ठाननिष्ठाज्ञानहन्त्र्यपि सा कथम् ।
याऽविद्यास्तमये शक्ता मुक्तौ शक्ता कथं न सा ।। ६८४ ।।
सुरोत्तमटीका
नचेत् अविद्यानिवृत्तिरूपमुक्तिदा नचेत् । सा वृत्तिः ।। ६८४ ।।
सत्यप्रमोदटीका
कथमिति तावन्मात्रस्यैव तन्मते मोक्षत्वात् । यथाऽऽह ‘अविद्याऽस्तमयो मोक्ष’ इति ।। ६८४ ।।
युक्तिमल्लिका
अहिमूषिकयोः पात्री यथा भागान्तरस्थितम् ।
आखुं हन्यात्तथेयं च हन्याद्द्रष्टरि बन्धनम् ।
तृणैश्छन्नोऽपि किं वह्निर्न दहेत्सतृणं वनम् ।। ६८५ ।।
सुरोत्तमटीका
अधिष्ठानांशस्य मुक्तिदत्वेऽपि अध्यस्तांशस्य संसार-रूपत्वान्न मुक्तिरित्याशङ्कां दृष्टान्तमुखेन परिहरति ।। अहिमूषिकयोरिति ।। इयं वृत्तिः पूर्वांशे ब्रह्मवृत्तित्वाख्यसर्पवती । उत्तरांशे च पूर्वांशविनाश्य-घटादिगोचरत्वरूपसंसाराख्यमूषिकवती । स्वपूर्वांशेनैव द्रष्टरि स्थित-मुत्तरांशाख्यबन्धनमपि स्वयमेव नाशयेत् । अत उत्तरांशे सविकल्पकरूपत्व-मपि न मुक्तिप्रतिबन्धकमिति भावः । दृष्टान्तान्तरमप्याह ।। तृणैरिति ।। सतृणं आच्छादकतृणसहितम् । एवमुत्तरांशसविकल्पकाच्छन्नापि पूर्वांशब्रह्म-विषयकवृत्तिः स्वाच्छादकसविकल्पकेन सह सकलमपि जगन्नाशयेदिति भावः । पराभिमतसर्वनाशोपयोगित्वात् दृष्टान्तान्तरकथनम् ।। ६८५ ।।
सत्यप्रमोदटीका
‘ननु ज्ञातोऽयं घट’ इति अधिष्ठानब्रह्मविषयकत्वेन भवतु ब्रह्मानुभवः । किं त्वियं अध्यस्तं घटमपि विषयीकुर्वन्ती कथं अध्यस्तं अज्ञानं नाशयेदिति शङ्कामनुरूपदृष्टान्तप्रदर्शनेन परिहरति ।। अहीति । मूषिकाऽऽश्रयभूताऽपि पेटिका सर्पस्याप्याश्रयत्वेन यथा भागान्तरस्थित-मूषिकावधहेतुस्तथेति भावः । दृष्टान्तान्तरमाह तृणैरिति । वह्निरावरणं तृणं विनाश्य यथा दहेत्तथेति भावः ।। ६८५ ।।
युक्तिमल्लिका
घटवृत्तिर्यतोऽज्ञाननाशिनीति मतं तव ।
ज्ञानार्थं श्रवणाद्यर्थं सिद्धेऽन्ने किं नु तण्डुलैः ।। ६८६ ।।
सुरोत्तमटीका
ननु श्रवणादिजन्यत्वाभावान्न मुक्तिरित्यत आह ।। ज्ञानार्थमिति ।। श्रवणादिकमपि ब्रह्मज्ञानार्थमेव प्रार्थनीयम् । यदृच्छयैव ब्रह्मज्ञाने जाते श्रवणादिजन्यत्वाभावेन न कोऽप्यपराध इति भावः । तत्र दृष्टान्तमाह ।। सिद्धेन्न इति ।। सिद्धे सुरभिस्तनादित एव सिद्धे । यथा-कामधेनुकल्पवृक्षादिलब्धान्नस्य तण्डुलजन्यत्वाभावेऽपि स्वकार्यकारित्वं तथाऽनायासलब्धस्यास्य ब्रह्मज्ञानस्य श्रवणादिजन्यत्वाभावेऽपि स्यादेव स्वकार्यकारित्वम् । दृष्ट्वैव तं मुच्यत इत्येव हि श्रुतिः । न तु श्रवणेन दृष्ट्वेति ।। ६८६ ।।
सत्यप्रमोदटीका
ननु सत्यं वृत्त्यैव ब्रह्मानुभव इति । ‘सर्वप्रत्ययवेद्ये च ब्रह्मरूपे व्यवस्थिते’ इत्यादेः । किन्तु स तादृशाऽनुभवो नाज्ञाननाशकः किन्तु श्रवणादिजन्य एव इति चेन्नैतत्तव मतमित्याह घटेति । त्वदभिमत-दृष्ट्वैव तं मुच्यते इति श्रुत्यर्थविरोधश्च । श्रवणादि अर्थं इति पदच्छेदः । आगमदोष एव यल्लघीयसि सत्युपाये गरीयस उपायान्तरस्य बोधनम् । तथा हि लोकन्यायः ‘र्ओ चेन्मधु विन्देत किमर्थं पर्वतं व्रजेदि’ति ।। ६८६ ।।
युक्तिमल्लिका
न चेच्छ्रवणशक्त्यैव स्याद्बन्धस्य निवर्तनम् ।
ज्ञानस्वभावतो मुक्तिरिति रिक्तं वचस्तव ।। ६८७ ।।
अयमित्यत्र लोको हि देशकालस्थतां वदेत् ।
ब्रह्मांशस्य प्रवेशं तु साक्षी सर्वस्य बाधते ।। ६८८ ।।
सुरोत्तमटीका
नचेत् यादृशतादृशज्ञानेन मोक्षो न चेत् ।।६८७,६८८।।
सत्यप्रमोदटीका
न हि ममेव तव मते ज्ञानजन्यप्रसादान्मुक्तिः । येन प्रसादसंपत्तये श्रवणादिजन्यत्वेन ज्ञानं नियम्येत । किन्तु ज्ञानस्वभावादेव । एवमपि श्रवणाद्यपेक्षाऽऽग्रहे परस्य बाधकमाह न चेदिति । ‘तद्धेतोरेवास्तु तद्धेतुत्वं मध्ये किं तेने’ति न्यायेनेति भावः ।। सर्वस्य देशकालादिकस्य साक्षी ब्रह्मांशस्य प्रवेशं बाधते इति योजना ।। ६८७,६८८ ।।
युक्तिमल्लिका
अतोऽनुभवबाधे तु स्यादारोपकथा तव ।
आरोपितत्वसिद्ध्यैव लोकानुभवबाधनम् ।। ७८९ ।।
सुरोत्तमटीका
अतः देशकालगोचरत्वस्य सर्वानुभवसिद्धत्वात् । स्वप्रक्रिययैवानुभवबाधेऽन्योन्याश्रय इत्यर्थः ।। ६८९ ।।
सत्यप्रमोदटीका
कथेति कथामात्रं न तु प्रामाणिकीति भावः । तेनात्रोक्तोऽन्योन्याश्रय आपाततः । वस्तुतोऽनुभवबाधिता निर्मूला प्रक्रियैव तिरस्कारार्हा इति हृदयम् ।। ६८९ ।।
युक्तिमल्लिका
सर्वानुभवबाध्यार्थं वेदोऽपि न हि बोधयेत् ।। ६९० ।।
सुरोत्तमटीका
ननु तमेव भान्तमनुभाति सर्वमिति श्रुत्यैव सर्वानु-भवबाध इत्यत आह ।। सर्वेति ।। सर्वानुभवबाध्यार्थं ब्रह्मानुस्यूततयैव घटपटाप्रतितीतिर्भवतीत्यर्थः । हिशब्देन सर्वानुभवबाधितयजमानप्रस्तरत्वादेर-बाधनप्रसिद्धिं सूचयति ।। ६९० ।।
सत्यप्रमोदटीका
सर्वेति अयं घट इत्यत्र प्रतीतौ इदंशब्देन ब्रह्म भासते इत्येवमर्थम् । वेदः ‘तमेव भान्तमनुभाति सर्वम्’ इत्यादिस्त्वदभिमतः । तदुक्तं भगवत्पादैः ‘न चानुभवविरोधे आगमप्रामाण्यम् । आगमप्रामाण्यानु-भवस्यैवाप्रामाण्यप्राप्तेरि’ति ।। ६९० ।।
युक्तिमल्लिका
तं भान्तमनुभातीति सौरालोकस्य दर्शने ।
हेतुतामाह भासेति स्पष्टोक्तेस्स हि भास्करः ।। ६९१ ।।
सुरोत्तमटीका
कस्तर्हि श्रुतेरबाधितार्थ इत्यत आह ।। तमिति ।। दर्शने घटपटादिदर्शने भान्तं तं सूर्यम् अनु अनन्तरम् अनुसृत्येत्यर्थः । सर्वं घटपटादिकं भाति चक्षुषा प्रतीयत इति सौरालोकस्य दर्शने हेतुतामाहेति सम्बन्धः । स्वोक्तानुसरणं श्रुतिः स्वयमेव विशदयति । तस्य सूर्यस्य भासा किरणेन करणेन चेति चाक्षुषप्रतीतेस्सौरालोकजन्यत्वमेव तदनुसरणमित्यर्थः । सः सूर्यः भास्करः भासं करोतीति भास एव करा यस्येति वा व्युत्पत्त्या सूर्यस्यैव भास्करत्वात् भाःपदवाच्यत्वं सूर्यकिरणस्यैवेत्यतः सूर्यपरमेवेदं वाक्यम् । ज्ञानवाचित्वे भयेति ब्रूयादिति भावः ।। ६९१ ।।
सत्यप्रमोदटीका
प्रकाशमानं तं सूर्यं अनुसृत्य सर्वं रूपवद्वस्तु, आलोक सहकारेण चाक्षुषज्ञाने प्रतीयत इति श्रुत्यर्थमाह तमिति । भासेति किरणानां करणत्वोक्त्या तच्छब्दः स्वरसतो भास्करपर एवेत्याह स इति ।। ६९१ ।।
युक्तिमल्लिका
भास्वन्तमनुसृत्योत्था ज्ञानाख्या भा ममास्ति तत् ।
तं भान्तमनुभातीति युक्तं ते तु न भाद्वयम् ।। ६९२ ।।
अधिष्ठानात्मकं ज्ञानं घटज्ञानं हि ते मते ।
तज्ज्ञानमनुसृत्योत्थमन्यज्ञानं क्व ते वद ।। ६९३ ।।
तं भान्तमनुभातीति वाक्यार्थो दुर्घटस्तव ।
अतोऽस्मदुक्त एवार्थो वाक्यस्वारस्यसंपदा ।। ६९४ ।।
सुरोत्तमटीका
स्वोक्तार्थे उपपत्तिं सूचयन्परोक्तार्थेऽनुपपत्तिमाह ।। भास्वन्तमिति ।। ज्ञानाख्या भा अनुभातीत्यत्रोक्ता भा । तत्तस्मात् सूर्यकिरण- ज्ञानाख्यभाद्वयस्य विद्यमानत्वात् । ते तव मायावादिनः ।। भाद्वयाभाव-मेवोपपादयति ।। अधिष्ठानेति
।। ६९२-६९४ ।।
सत्यप्रमोदटीका
‘गच्छन्तमनुगच्छति’ इति वाक्येऽनुशब्देन गमनद्वय-मिवात्रापि अनुभातीत्यत्रानुशब्देन भानद्वयं प्रतीयते । तच्च सूर्यस्य प्रकाशनं अनु घटादेर्भानं इति मदुक्तार्थः श्लिष्टः इत्याह भास्वन्तमिति । परस्य तु अनुशब्दार्थो दुर्घटः । भानरूपस्य अधिष्ठानचैतन्यस्यैकत्वादित्याह अधिष्ठानेति ।। ६९२-६९४ ।।
युक्तिमल्लिका
यदादित्यगतं तेजो जगद्भासयतेऽखिलम् ।
यच्चन्द्रमसि यच्चाग्नो तत्तेजो विद्धि मामकम् ।
इति स्मृत्या सूर्यभासो जगद्भासकतोचिता ।। ६९५ ।।
सुरोत्तमटीका
सूर्यभासो जगद्भासकत्वाख्यस्वोक्तार्थे स्मृतिसंमतिं चाह ।। यदादित्येति ।। मामकमित्युक्तया ब्रह्मपक्षेऽपि श्रुतिः प्रकाशमेव वक्ति । न तु ज्ञानमिति सूचयति ।। ६९५ ।।
सत्यप्रमोदटीका
स्वोक्तार्थे स्मृतिं संवादयति यदिति । ‘आदित्यगतं तेजो जगद्भासयते’ इति भागः प्रकृतोपपादकः ।। ६९५ ।।
युक्तिमल्लिका
कश्चिच्च चक्षुषा नैनं पश्यतीति हि वेदवाक् ।
स्वाद्वन्नलाभेऽपि कुतः कण्टकान्ने रुचिस्तव ।। ६९६ ।।
सुरोत्तमटीका
परोक्तार्थे बाधिकां श्रुतिमर्थतो गृह्णाति ।। कश्चिदिति ।। अनेन न चक्षुषा पश्यति कश्चनैनमिति श्रुतिं गृह्णाति । एतच्छ्रुत्यर्थपर्या-लोचनायां चाक्षुषघटादिवृत्तेर्ब्रह्मविषयकत्वायोगेन स्वाविषये तस्या अज्ञान-निवर्तकत्वस्याप्ययोगेन पराभिमतज्ञानस्याप्यभावात् घटज्ञाने ब्रह्मज्ञानस्यानु-स्यूतत्वोक्तिरयुक्तैवेति भावः । युक्तार्थलाभेऽप्ययुक्तार्थकथनमनुचितमित्ये-तदन्यापदेशेनाह ।। स्वाद्वन्नेति ।। ६९६ ।।
सत्यप्रमोदटीका
कश्चिदिति । अनेन ‘न चक्षुषा पश्यति कश्चनैनं’ इति श्रुतिं संगृह्णाति । तथा च अयं घट इति चाक्षुषप्रत्यक्षे न ब्रह्मणो भान-मिति भावः । स्वाद्वन्नं सूर्यचन्द्रादिप्रकाशस्येशाधीनत्वरूपं मोक्षहेतुभगव-न्महिमरूपम् । कण्टकान्नं जगतः क्षये पर्यवसाय्यध्यासरूपम् । व्याख्याते चेमे श्रुतिस्मृती अस्मदुक्तरीत्यैव परेणापि ॐ अनुकृतेस्तस्य च, ॐ अपि स्मर्यते इति सूत्रभाष्ये । अत्र विस्तरः भे.प.ब्र.सू.इति ग्रन्थे ।। ६९६ ।।
युक्तिमल्लिका
भासमानमिदं सर्वं रत्नार्केन्द्वनलादिकम् ।
तं भान्तमनुभातीति तस्य भासा विभाति च ।। ६९७ ।।
निरवद्यः श्रुतेरर्थस्सोऽयं स्मृतिसमाख्यया ।
भादीप्ताविति धात्वर्थं दीप्तिमाहुर्यतो बुधाः ।। ६९८ ।।
सुरोत्तमटीका
परकीयार्थे दीप्त्यर्थकपदद्वयस्य ज्ञानार्थकत्वस्वीकार-मुभयत्रापि भान्तं प्रतीयमानं भाति प्रतीयत इति कर्मार्थत्वं चारुचिं सूचयन्दीप्त्यर्थकधातोः कर्त्रर्थकप्रत्ययस्यान्वित्युपसर्गस्य न तत्र सूर्यो भाति न चन्द्रतारकौ नेमा विद्युतो भान्ति न चायमग्निरित्येतद्वाक्यपूर्वार्धोक्तार्थ परामर्शेदंपदस्य च योग्यमर्थान्तरमाह ।। भासमानमिति ।। इतिशब्दस्य भाति विभातीति पदद्वयेनापि योगः । सोऽयं सूर्यचन्द्रतारकविद्युद्रत्नादिभास्वररूप-मिदं पूर्वार्धोक्तं सर्वं तत्र परमात्मनि सूर्यो न भातीत्यादिना सूर्यादेरप्यनन्त-गुणितप्रकाशे परमात्मनि स्वभानायानुश्रयमाणतयोक्तं तत्प्रकाशाग्रे मन्दीभूत-स्वप्रभं सूर्यादिकं भान्तं प्रकाशमानं तं परमात्मानमनुसृत्य तत्सन्निधाने-नेत्यर्थः । भाति प्रकाशत इत्ययमर्थः स्मृतिसमाख्यया निरवद्यः धात्वननुकूल-त्वादिदोषरहितः श्रुतेरर्थस्स्यात् ।। ६९७,६९८ ।।
सत्यप्रमोदटीका
स्मृतिसमाख्ययाऽत्र श्रुतौ परमात्मनो जगद्भासकत्वं इतराभास्यत्वं सूर्यचन्द्रादिभाननियामकत्वं, एवंरूपो भगवतो महिमातिशय एवोच्यते इत्याह भासमानमिति । एवं सति दीप्त्यर्थकत्वमपि भाधातोरनु-कूलितमित्याह भा दीप्ताविति । परमते चैतन्यस्य निर्विशेषभारूपत्वेन कर्त्राद्यर्थकप्रत्यया अपि विरुध्यन्ते इत्यपि ध्येयम् ।। ६९७,६९८ ।।
युक्तिमल्लिका
यद्यद्विभूतिमत्सर्वं श्रीमदूर्जितमेव वा ।
तत्तदेवावगच्छ त्वं मम तेजोंऽशसम्भवम् ।। ६९९ ।।
इति गीतोदिता वाणी श्रीमतः केशवांशतः ।
श्रीमतां यद्भवं प्राह श्रुतिश्चाह तमेव तत् ।। ७०० ।।
सुरोत्तमटीका
स्मृतिमेवोदाहरति ।। यद्यदिति ।। विभूतेः पृथग्ग्रहणा-च्छ्रीमदित्यस्य कान्तिमदित्येवार्थः । कान्तिमतो जनकभगवदंशस्यापि कान्ते-रावश्यकत्वात् श्रीमतः केशवांशत इत्युक्तम् । एवं च कान्तिमतस्सूर्यादेः कान्तिमन्तं भगवन्तमनुसृत्य भानस्य स्पष्टीकृतत्वात् श्रुतेरप्ययमेवार्थ इति भावः ।। ६९९,७०० ।।
सत्यप्रमोदटीका
श्रुत्युक्तार्थे स्मृत्यन्तरमपि प्रमाणयति यद्यदिति । सर्वं आदित्यादिकं वस्तु । श्रीमत् कान्तियुक्तम् । मम तेजोंऽशेन प्रकाशरूपांशेन सहभूतं जानीहीत्यर्थः । तं उक्तं श्रुत्यर्थं एव आह । तत् तस्मात् स एवार्थो युक्तः ।। ६९९,७०० ।।
युक्तिमल्लिका
न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा ।
दिव्यं ददामि ते तक्षुः पश्य मे योगमैश्वरम् ।। ७०१ ।।
श्रुत्यर्थधानाक्षोणीयं वाणीगुप्त्यै वृतिश्च नः ।
चक्षुषैवेक्षणक्षेपाद्यच्छत्येकार्थता स्मृतेः ।
अदिव्यचक्षुर्वृत्तौ यद्ब्रह्मानुल्लेखवाक्च सा ।। ७०२ ।।
सुरोत्तमटीका
किञ्च ब्रह्मविषयकचाक्षुषवृत्त्या तदविद्यानिवृत्तौ जातायां भान्तं तं परमात्मानमनु सर्वं भातीति हि परस्यार्थः । इदमपि स्मृति-विरुद्धमिति भावेन तां स्मृतिं पठति ।। नत्विति ।। इयं वाणी अनेनैव चक्षुषा मां द्रष्टुं न शक्यसे न शक्नोषीति वाणी नश्श्रुत्यर्थधानाक्षोणी अस्माभिः प्रागुक्तायाः न चक्षुषा पश्यति कश्चनैनमिति श्रुतेरर्थबीजावापभूमिः । तच्छ्रुत्यर्थस्यैव पूर्वार्धे अनया स्मृत्या सङ्ग्रहादिति भावः । नः गुप्त्यै तमेव भान्तमनुभाति सर्वमिति श्रुतेरस्मदुक्तार्थरक्षणाय वृतिश्च उत्तरार्धे अर्थात् स्वस्य लौकिकचक्षुर्वृत्तावभानकथनेन प्रतिवादिमृगमुखमुद्रणस्याप्यनयैव साधित-त्वादिति भावः । अगम्यपर्वताग्रक्षेत्रवत् उभयाकारत्वमप्येकस्य न विरुद्धमिति ज्ञातव्यम् । एतदेव दर्शयति ।। चक्षुषेति ।। यदिति पदद्वयमपि यस्मा-दित्यर्थे । सा स्मृतिः ।। ७०१,७०२ ।।
सत्यप्रमोदटीका
‘न चक्षुषा पश्यति कश्चनैनं’ इत्युक्तश्रुतेः स्मृति-समाख्यामाह न तु मामिति । धानाक्षोणी बीजावापभूमिः । इयं स्मृतिः । वाणीगुप्त्यै श्रुतिसंरक्षणाय । वृतिः गीताचार्योण दत्तो वर इति भावः । स्वपक्षसाधने परपक्षदूषणे चेत्युभयत्र व्यापृतत्वात् । श्रुत्यर्थसाधकत्वं दर्शयति चक्षुषेति । परपक्षप्रतिक्षेपप्रकारमाह अदिव्येति । ‘न ह्ययं घट’ इति ज्ञान-जनकं चक्षुः प्राणिमात्रसाधारणं दिव्यमिति सम्भवतीति भावः ।।७०१,७०२।।
युक्तिमल्लिका
अथवा स्वस्वरूपेण ज्ञानेन परमेश्वरम् ।
स्वशक्त्यैव सदा भान्तमनुसृत्यान्यदेहिनाम् ।। ७०३ ।।
प्रत्यक्षेणानुमानेन शब्दाख्यकरणेन वा ।
भातीदं सकलं विश्वमित्यर्थोऽस्त्वति निर्मलः ।। ७०४ ।।
सुरोत्तमटीका
किञ्च ईश्वरस्य ईश्वरज्ञानस्य च सर्वोत्पत्तिमन्निमित्त-कारणत्वमीश्वरस्य स्वातन्त्र्यं ईश्वरज्ञानस्य बाध्यकरणनिरपेक्षतां च बोधयितुं तमेव भान्तं बाह्यकरणादिकं विना स्वस्वरूपकरणशक्त्यैव भान्तं स्वस्वरूप-ज्ञानेन प्रकाशमानं परमात्मानमनुसृत्य सर्वमिदं घटपटादिकं जीवानां तत्तदिन्द्रियैर्भाति ज्ञातं भवतीति वा सर्वजनमनोहरश्श्रुतेरर्थस्सम्भवतीत्याह।।अथवेति।।७०३,७०४ ।
सत्यप्रमोदटीका
भाधातोर्दीप्त्यर्थकत्वमाश्रित्य श्रुतेरर्थ उक्तः । ज्ञानार्थ-कत्वं स्वीकृत्यार्थान्तरमाह अथवेति । तं परमात्मानं एव स्वसत्तादौ परा-नपेक्षत्वरूपस्वातन्त्र्येणैव । तदाह स्वशक्त्यैवेति । भान्तं क्रियासातत्ये शतृप्रत्ययः । तदर्थः स्वपराशेषविषयकज्ञानाश्रयमित्यर्थः । सर्वार्थविषयकमिति स्वतन्त्रमिति च तज्ज्ञानस्य लक्षणद्वयोक्तेः । तं परमात्मानं अनु उपजीव्य । जीवानां इति शेषः, तत्तद्योग्यतां च अनु अनुसृत्य, सर्वं जगत् भाति तत्तत्करणजन्यज्ञानविषयो भवति ।। ७०३,७०४ ।।
युक्तिमल्लिका
एवं सति ब्रह्मणो वा विशेष्यस्य विशेषणे ।
तज्ज्ञाने वा नृणां जन्यज्ञानमात्रे निमित्तता ।
सर्वोत्पत्तौ निमित्तस्य (प्रोक्त्यै) प्राप्त्यैव स्यान्न ते कथा ।। ७०५ ।।
सुरोत्तमटीका
विशेष्यस्य भान्तमित्यत्र विशेष्यतयोक्तस्य । विशेषणे तत्रैव विशेषणतयोक्ते ब्रह्मभानेन सह जगद्भानस्यान्यैर्वादिभिरनङ्गीकारात्ते इत्युक्तम् । कस्याप्यनानुभविकत्वात् कथेत्युक्तम् ।। ७०५ ।।
सत्यप्रमोदटीका
ज्ञानविशिष्टं ब्रह्म जन्यज्ञानमात्रं प्रति निमित्तकारण-मित्युक्तौ विशेष्यप्राधान्यविवक्षायां ब्रह्मणः विशेषणस्य तद्विवक्षायां ब्रह्म-ज्ञानस्य निमित्तकारणत्वमर्थः प्राप्यत इत्याह एवमिति । विशेष्यस्य ब्रह्मणः वा विशेषणे तज्ज्ञाने वा सर्वोत्पत्तौ निमित्तता इति योजना । वाक्यार्थ इति शेषः । तत्र हेतुः भासेति तृतीयया निमित्तताप्राप्त्या एव इति । ते कथा अध्यासप्रलापः । न अत्र श्रुतौ नैवोक्ता इति भावः ।। ७०५ ।।
युक्तिमल्लिका
एवशब्दोऽनुशब्दश्च स्यादेवं सति सार्थकः ।
भासेत्यत्र तृतीयाया हेतुत्वार्थोऽपि शोभते ।। ७०६ ।।
सुरोत्तमटीका
अन्यप्रेरणव्यवच्छेदादेवशब्दस्य हेतुत्वकथनात् अनु-शब्दस्य च सार्थक्यादेवशब्दोऽनुशब्दश्चेत्याद्युक्तम् ।। ७०६ ।।
सत्यप्रमोदटीका
एवेति परसापेक्षत्वनिरासेन स्वातन्त्र्यस्य, अनुशब्देन जन्यज्ञानमात्रे तदधीनत्वस्य, भासेति तृतीयया निमित्ततायाश्च बोध इति श्रौतपदस्वारस्यमित्याह एवेत्यादिना ।। ७०६ ।।
युक्तिमल्लिका
तव त्वतीन्द्रियं वस्तु नैतद्वाक्यस्य गोचरः ।। ७०७ ।।
सुरोत्तमटीका
तव पक्षे । एतद्वाक्यस्य तमेवभान्तमिति वाक्यस्य । चक्षुर्वृत्त्या भान्तमिति हि परेणार्थो वक्तव्यः । स च ब्रह्मणोऽतीन्द्रियत्वादुक्त-श्रुतिस्मृतिविरोधाच्चानुपपन्न इति भावः ।। ७०७ ।।
सत्यप्रमोदटीका
तव चाक्षुषवृत्त्या भान्तं इत्यर्थं वदतः । अतीन्द्रियं वस्तु ब्रह्म । एतद्वाक्यस्य एतद्घटकस्य तं इति तस्य इति च शब्दस्य । न गोचरः नैव प्रतिपाद्यः ।। ७०७ ।।
युक्तिमल्लिका
परोक्षवृत्तावज्ञानानाशादृक्च यदावृता ।
अतस्सर्वपदार्थोऽपि स्यादनर्थकरस्तव ।। ७०८ ।।
सुरोत्तमटीका
दूषणान्तरं चाह ।। परोक्षवृत्ताविति ।। दृक् ब्रह्मदृक् । यत् यस्मात् । अतः तत्र चैतन्यस्यावृतत्वेन भान्तमनुभातीत्यस्य कथना-योगात् । अनर्थकरः सङ्कोचाख्यानर्थकारी । परोक्षज्ञानविषयेषु वह्न्यादिषु भान्तमनुभातीत्यर्थस्य तवैवानुपपन्नत्वेन सर्वशब्दार्थस्य सङ्कोचनीयत्वादिति भावः ।। ७०८ ।।
सत्यप्रमोदटीका
परपक्षे सर्वशब्दस्य ऐन्द्रियकार्थमात्रपरतया सङ्को-चोऽपि दोष इत्याह परोक्षेति । यत् यस्मात् । दृक् धर्माधर्माद्यतीन्द्रिया-धिष्ठानभूता चित् । आवृता । तत्र हेतुः परोक्षवृत्तेः आवरणनिवर्तकत्वस्य त्वयाऽनङ्गीकारात् इति ।। ७०८ ।।
युक्तिमल्लिका
यद्वा भान्तं तमन्वेतद्भातीति प्रतिभां हरेः ।
स्वगोचरां सर्वजगद्गोचरां च श्रुतिर्जगौ ।। ७०९ ।।
सुरोत्तमटीका
अथवा सर्वविषयके भगवज्ज्ञाने भान्तं तं परमात्मा-नमन्वनन्तरम् अमुख्यतयेत्यर्थः । सर्वं भाति । एवं च तस्य परमात्मनो भासा ज्ञानेन इदं सर्वं परापरप्रमेयात्मकं जगद्भातीति श्रुतेरर्थस्सम्भवतीत्याह ।। यद्वेति ।। ७०९ ।।
सत्यप्रमोदटीका
यद्वा तस्य भासा स्वरूपप्रमयैव सर्वं इदं प्रमाणप्रमितं अशेषं जगत् विभाति अशेषविशेषपुरस्कारेण निरतिशयस्पष्टतया च प्रकाशते । तमेव भान्तं प्राधान्येन प्रकाशमानं अनु तज्ज्ञानोद्देशेनैव सर्वं अन्यत् भाति ज्ञेयं भवति इत्यर्थः । जीवानां अयं घट इत्यादिज्ञानं अधिष्ठानचैतन्यात्मक-मेवेति अपगतस्मृतिरपि न वदेत् । अयं तु मायी ‘मत्तः स्मृतिर्ज्ञानमि’ति स्मृतेः दुराग्रहेणापलापी ततोऽपि निकृष्ट इत्याशयः ।। ७०९,७१० ।।
युक्तिमल्लिका
अन्यत्त्वमुख्यतो ज्ञेयमनुशब्दोऽपि शंसति ।
अस्मज्ज्ञानं तदेवेति कोऽपस्मार्यत्र वर्णयेत् ।। ७१० ।।
सुरोत्तमटीका
अस्मज्ज्ञानं अस्माकं सर्वेषां जीवानां ज्ञानं तदेव ब्रह्मैव । तत्तदधिष्ठानचैतन्यमेव तत्तदर्थस्य ज्ञानं नानादेहस्थितजीवानां तु ज्ञानमेव नास्तीति कोऽपस्मारी अत्र श्रुतौ वर्णयेदिति सम्बन्धः । जडानां चेतनत्वकथनात् जीवानां जडत्वकथनाच्चापस्मारीत्युक्तम् । तदेवेति वदता चिद्रूपज्ञानस्य स्वाविषयत्वात्तदधिष्ठानचैतन्यरूपज्ञानमेव सर्वोल्लेखीति श्रुते-राकारस्स्यात् । न तु भान्तमित्याद्याकार इत्यपि सूचितम् । वृत्तौतु स्वोत्पत्ति-दशायामावृतब्रह्मणो ज्ञानस्यैवाभावात् नास्याश्श्रुतेरवसर इत्यपि ज्ञेयम् ।। ७१० ।।
युक्तिमल्लिका
अथवा विश्वरूपाख्यरूपेण ज्ञानिनां दृशि ।
भान्तं तमनुसर्वं च भातीत्यर्थः श्रुतेर्भवेत् ।। ७११ ।।
सुरोत्तमटीका
अर्थान्तरं चाह ।। अथवेति ।। तं परमात्मानम् ।। ७११ ।।
सत्यप्रमोदटीका
भान्तमित्येतस्य ‘दृशि’ इत्येतत्पूरणीयम् । तस्य च योगप्रभावलब्धातिशये, विश्वरूपविषयके योगिज्ञान इत्यर्थः । तं परमात्मानम् । अनु तदवयवैकदेशाश्रितत्वेन । सर्वं भाति जगत् प्रतीयते इत्यर्थः । ‘तत्रैकस्थं जगत् कृत्स्नं प्रविभक्तमनेकधा । अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा’ इति स्मृतेः ।। ७११ ।।
युक्तिमल्लिका
मलमूत्रादिदृष्टिं सा ब्रह्मदृष्टिं कथं वदेत् ।
या तदाहौपनिषदमवाङ्मनसगोचरम् ।। ७१२ ।।
सुरोत्तमटीका
सर्वस्य जगतो ज्ञानस्य ब्रह्मविषयज्ञानतया परेण कथनात् मलमूत्रादिदृष्टिमित्युक्तम् । सा तमेव भान्तमिति श्रुतिः । या श्रुतिः । तत् ब्रह्म ।। ७१२ ।।
सत्यप्रमोदटीका
एवं चतुर्धा स्वमते योजनां प्रदर्श्य परोक्तार्थस्याति-जुगुप्सितत्वमाह मलेत्यादिभिः । या श्रुतिः तत् ब्रह्म औपनिषदं आह सा श्रुतिः मलमूत्रादिदृष्टिं एव ब्रह्मदृष्टिं कथं वदेत् इत्यन्वयः ।। ७१२ ।।
युक्तिमल्लिका
यद्धि वाङ्मनसाऽतीतं तद्वीथीवृषभः कथम् ।
श्लेष्ममूत्रमलादीनामपि दृग्ब्रह्मदृक्किल ।
तवातिसुलभं ब्रह्म यदौपनिषदं सताम् ।। ७१३ ।।
सुरोत्तमटीका
यत् ब्रह्म । वीथीस्थवृषभवत् ब्रह्मणोऽपि सर्वैरपि दृश्य-मानत्वकथनात् वीथीवृषभ इत्युक्तम् ।। ७१३ ।।
सत्यप्रमोदटीका
सर्वैरपि सुलभतया दृश्यत्वनिदर्शनाय वीथीति वृषभ-विशेषणम् । यत् ब्रह्म वृषभः वृषभसदृशः ।। ७१३ ।।
युक्तिमल्लिका
ब्रह्मज्ञाने सति नृणां मुक्तिः पश्चाद्भवेत्किल ।
मलैस्सह विमुक्तिः प्राक्पश्चाद्ब्रह्मदृशिस्तु ते ।। ७१४ ।।
पुण्यनाशस्तदैव स्यात्पातकैर्लिप्यते किल ।
ब्रह्मदृष्ट्या त्वशुद्धस्य हन्त शुद्ध्यै स्पृहा किल ।। ७१५ ।।
सुरोत्तमटीका
परप्रक्रियामपहसति ।। ब्रह्मज्ञान इति ।। प्राद्गल-विमोचनं पश्चान्मलदर्शने ब्रह्मणोपि दर्शनमिति परेणोक्तत्वात् प्राग्ब्रह्मणो मुक्तिः पश्चात्तद्दर्शनमित्यपहासः ।। तदैव मलेन सह ब्रह्मदर्शनसमय एव । शुचित्वापगमात् अशुचित्वागमाच्च पुण्यनाशः पापलेपश्चेत्युक्तम् । शुद्ध्यै आचमनादिशुद्ध्यै । मलदर्शनस्यापि ब्रह्मदर्शनरूपत्वे तस्यापि चरम-साक्षात्कारवत्पुण्यहेतुत्वमेव स्यात् । न निन्द्यतेति भावः ।। ७१४,७१५ ।।
सत्यप्रमोदटीका
मलादिविमोकानन्तरं शुद्ध्यर्थं प्रक्षालनादिविधयः खलु शास्त्रे प्रवर्तन्ते। त्वद्रीत्या ते विरुध्यन्ते । तेषां विधीनामुपपत्तये त्वयैवं वक्तव्यम् । मलमूत्रदर्शनरूपब्रह्मदर्शनेन पुण्यहानिः पापलेपश्च जातः । तदुभयपरिहाराय शुद्धिर्विधीयते इति । तदेतदपहसनीयमित्याह पुण्येति ।। ७१४–७१५ ।।
युक्तिमल्लिका
अतोऽधिष्ठानदृक्छून्यदृष्टित्वाद्घटदर्शनम् ।
ब्रह्मधीरिव नारोप इति स्यादनुमाऽपि नः ।। ७१६ ।।
स्वावेद्याधिष्ठानदृक्च नाधिष्ठानस्य धीस्तव ।
ततोऽधिष्ठान्दृक्छून्या घटदृष्टिर्द्विधाऽप्यभूत् ।। ७१७ ।।
तस्मादारोपबलतो न मिथ्याऽभूदिदं जगत् ।
बाधस्य शोधनेऽपि स्यान्न मिथ्येति मतिर्मम ।। ७१८ ।।
सुरोत्तमटीका
अतः घटज्ञाने चैतन्यदर्शनायोगात् ।। पररीत्या-प्यधिष्ठानज्ञानशून्यत्वमुपपादयति ।। स्वावेद्येति ।। परमते कर्तृकर्मभाव-विरोधेन चैतन्यस्य स्वविषयत्वानङ्गीकारात् अधिष्ठानचैतन्यरूपघटदर्शन-स्याधिष्ठानाविषयत्वं सिद्धमिति भावः । द्विधा लोकरीत्या स्वरीत्याच ।। ७१६–७१८ ।।
सत्यप्रमोदटीका
‘अयं घट इति चैतन्यरूपं ज्ञानं’ न भ्रमः अधिष्ठानाभिमतचैतन्यसंभिन्नतया प्रकाशमानत्वरहितत्वात् ब्रह्मज्ञानवत्, व्यतिरेकेण शुक्तिरूप्यज्ञानवत् न चासिद्धिः । औपनिषदस्य ब्रह्मणश्चाक्षुषज्ञाने भानायोगस्योक्तत्वात् । निर्विशेषस्य चैतन्यस्य स्वकर्मकत्वस्य परेणानङ्गी-काराच्चेत्याह अत इति स्वावेद्येति च ।। ७१६,७१७ ।।
युक्तिमल्लिका
अस्ति चेन्नास्तिताबोधो बाधस्सर्वस्य नाभवत् ।
नास्ति चेन्नास्तिताबोधो बाधस्सर्वस्य नाभवत् ।। ७१९ ।।
सुरोत्तमटीका
बाधमप्युभयतः पाशरज्जुभ्यां बध्नाति ।। अस्ति-चेत्यादिना ।। प्रथमपक्षे ब्रह्मव्यतिरिक्तनास्तिता बोधस्यैवोर्वरितत्वात् सर्वस्य बाधो नाभवदित्युक्तम् । त्रिकालनास्तित्वं हि बाधः । सचैकस्मिन्काले नास्तिताबोधस्यास्तित्वे कथं पुनस्तस्य स्यादिति भावः । एतेन व्याव-हारिकास्तित्वमपि प्रत्युक्तम् । त्रिकालनास्तितारूपबाधयोग्यत्वे प्रयत्नशतेनापि पुनस्तस्मिन्नस्तित्वस्य वक्तुमशक्यत्वात् । अस्तित्वे च कथं पुनस्तस्य त्रिकालनास्तित्वरूपबाधः । अतस्सुष्ठूक्तम् अस्ति चेन्नास्तिताबोधो बाधस्सर्वस्य नाभवदिति । द्वितीयपक्षे बाधत्वेनाभिमतनास्तिताबोधस्यैवा-भावात् न कस्यापि बाधस्स्यादित्यर्थः ।। ७१९ ।।
सत्यप्रमोदटीका
सर्वस्य बाधः सत्यो मिथ्या वा । आद्ये आह सर्वस्येति सर्वान्तःपातिनो बाधस्यैवोर्वरितत्वात् । द्वितीये तु स्वयमेवानङ्गी-कारान्न बाध इत्याह नास्तीति । न च बाधस्येदानीमेवास्तित्वं कालान्तरे सोऽपि बाधिष्यत इति वाच्यम् । इदानीं अस्तित्वस्यापि त्रैकालिकनिषेधरूप-बाधप्रतिरोधकत्वात् । तदुक्तं न्यायामृते ‘स्वकाले ह्यस्तितां गृह्णन् साक्षात्कार-स्त्रिकालगम् । प्रतिषेधं निरुन्धानो गृह्णात्येवात्यबाध्यतामि’ति ।। ७१९ ।।