ज्ञानं मानं नेति वाक्यं व्याहतं स्याद्विचारणे

तार्किकाभिमतप्रमाणलक्षणनिराकरणम्

युक्तिमल्लिका

ज्ञानं मानं नेति वाक्यं व्याहतं स्याद्विचारणे ।

धात्वर्थः प्रत्ययार्थश्च यतः स्थानद्वये समः ।। ७७० ।।

सुरोत्तमटीका

 पञ्चसौरभेषु विस्तृतप्रमेयधारणायासमर्थस्य मन्दमतेरपि साधोर्बोधाय तत्रोक्तं प्रमेयं अभिनवं च प्रमेयं मालारूपेण सङ्ग्रहीतुमुत्तरो ग्रन्थसन्दर्भः । तत्रादौ प्रमाकरणस्यैव प्रामाण्यं प्रमाया अप्रामाण्यं स्मृतेः अयाथार्थ्यं च वदन्तं तार्किकं दूषयति ।। ज्ञानमित्यादिना ।। कुतो व्याहति-रित्यत आह ।। धात्वर्थ इति ।। धात्वर्थः ज्ञा अवबोधने माङ्मान इति धात्वर्थः । उभयोरपि ज्ञानवाचकत्वादिति भावः । प्रत्ययार्थः ल्युट्प्रत्ययार्थः । ल्युट्प्रत्यये कृते सति लकारोकारटकाराणां लशक्वतद्धिते उपदेशेऽजनुनासिक इत्, हलन्त्यमिति च लोपे कृते सति उर्वरितयकारस्य युवोरनाकावित्यनादेशे कृते सति उभयत्रापि शब्दनिष्पत्तेरिति भावः ।। ७७० ।।

सत्यप्रमोदटीका

 सौरभपञ्चकोक्तं प्रमेयजातं मन्दानुजिघ्रक्षया सङ्गृह्णाति उत्तरग्रन्थसन्दर्भेण । एकान्तभक्तानां भगवज्ज्ञानमेव शास्त्रस्य परमप्रयोजनम् । मोक्षस्तु तदर्थत्वेनैव । किन्तु नैयायिकादयः सम्यगनुभवसाधनं प्रमाणमिति तल्लक्षणकथनेन ज्ञानस्य प्रमाणशब्दव्यवहारविषयतां एव अपलपन्ति । तान-पाकरोति ज्ञानमिति । माङ्धातोः ज्ञाधातोश्चैक एव ज्ञानरूपोऽर्थः । प्रत्ययस्य भावार्थत्वमप्युभयत्र समं इत्याह धात्वर्थ इति ।। ७७० ।।

युक्तिमल्लिका

स्वतस्त्ववादे प्रामाण्यं कस्येति च विचारय ।। ७७१ ।।

सुरोत्तमटीका

 स्वतस्त्ववादे ज्ञानप्रामाण्यस्य स्वतस्त्वपरतस्त्ववादे । तदा ज्ञानस्यैव प्रामाण्यमङ्गीक्रियते । लक्षणकथनसमये पुनर्ज्ञानप्रामाण्यं नाङ्गीक्रियते । ततोऽपि व्याहतिरिति भावः ।। ७७१ ।।

सत्यप्रमोदटीका

 ज्ञानप्रामाण्यरूपधर्मिण एवाभावे तस्य स्वतस्त्वरूप-धर्मनिषेधो व्याहत इत्याह स्वतस्त्वेति ।। ७७१ ।।

युक्तिमल्लिका

प्रज्ञप्तिः प्रमितिः प्रज्ञा प्रमा प्रज्ञानमेव हि ।

प्रमाणं स्याद्यतः शब्दाः पर्यायाः शक्तिशोधने ।। ७७२ ।।

सुरोत्तमटीका

 प्राथमिकव्याहतिमुपपादयति ।। प्रज्ञप्तिरिति ।। यतः शब्दाः प्रज्ञप्तिशब्दमारभ्य प्रज्ञानान्तशब्दाः पर्यायाः उक्तविधया धातोः प्रत्ययस्य च समत्वेनैकार्थवाचकाः । तत्तस्मात् प्रज्ञप्त्यादिप्रज्ञानान्तपदवाच्यमेव वस्तु प्रमाणं स्यात् । अन्यथा घटो भवति करीरो नेतिवत् कथं न व्याहतिरिति भावः ।। ७७२ ।।

सत्यप्रमोदटीका

 प्रज्ञानं प्रमाणं इति शब्दयोरैकार्थ्यमभिनीय दर्शयति प्रज्ञप्तिरिति ।। ७७२ ।।

युक्तिमल्लिका

श्रवणं मननं ध्यानं दर्शनं स्मरणं तथा ।

गमनं मोचनं बन्धाद्रमणं च किमुच्यताम् ।। ७७३ ।।

गर्भाधानं च जननं तथोपनयनं च किम् ।

यजनाध्ययने दानभोजने के विचारय ।। ७७४ ।।

भावार्थकल्युडन्तोक्तिबाहुल्यस्यैव दर्शनात् ।

अर्थोऽसौ प्रथमप्रोक्तो मुख्यस्तस्येति मे मतिः ।

तल्ल्युटो भाववाचित्वं मरणेऽपि न गच्छति ।। ७७५ ।।

सुरोत्तमटीका

 ननु ल्युटः करणार्थ एव मुख्यः भावार्थस्तु न मुख्यः । अतः कथं ज्ञानं प्रमाणं स्यादिति मन्दाशङ्कां भावार्थ एव ल्युटः प्रयोगबाहुल्यं प्रदर्श्य तस्यैव मुख्यार्थत्वमुपपादयन्परिहरति ।। श्रवणमित्यादिना ।। प्रथमप्रोक्तः भावे करणाधिकरणयोश्चेत्यत्र प्रथमतः पाणिनिना अनुशिष्टः । उपलक्षणं चैतत् । उक्तविधया भाव एव बहुशः प्रयोगाणां लोके अनुवृत्तत्वान्न मया पृथग्वक्तव्यमित्यनुवृत्तिसूत्रेणैवाह । अप्रधानाभ्यामाभ्यां करणाधि-करणाभ्यां सह न पपाठ चेत्यपि द्रष्टव्यम् । तस्य प्रत्ययस्य । तत्तस्मात् मरणेऽपि मरणशब्देपि मृताविति ध्वनिः ।। ७७३–७७५ ।।

सत्यप्रमोदटीका

 ल्युटो भावार्थे करणापेक्षया प्रयोगबाहुल्यं दर्शयति श्रवणमित्यादिना ।। प्रथमेति पाणिनिसूत्रे भावे करणाधिकरणयोरित्यत्र प्रथमेत्यर्थः । मरणेऽपि इति । तच्छब्दस्यापि भावार्थकत्वादिति हृदयम् ।। ७७३–७७५ ।।

युक्तिमल्लिका

प्रमाणीभूतभावार्थमनुसृत्यैव तल्ल्युटः ।

करणेऽपि प्रवृत्तिः स्याद्धात्वर्थस्य प्रवेशनात् ।। ७७६ ।।

सुरोत्तमटीका

 ज्ञानस्य करणानुसरणं विना स्वशक्त्यैव प्रमाणशब्द-वाच्यत्वात्केवलप्रमाणत्वम् । करणस्य तु ज्ञानमनुसृत्यैव प्रमाणशब्दवाच्यत्व-मित्याह ।। प्रमाणीभूतेति ।। तल्ल्युटः तस्मिन्प्रमाणापरपर्यायप्रज्ञानरूपार्थे प्रयुक्तल्युटः । कथं भावानुसरणमित्यत आह ।। धात्वर्थस्येति ।। प्रमीयते अनेनेति करणव्युत्पत्तौ धात्वर्थरूपज्ञानस्य प्रवेशतः प्रमाणीभूतभावार्थ-मनुसृत्यैव तल्ल्युटः करणेऽपि प्रवृत्तिः स्यादिति योजना । उपलक्षणं चैतत् । प्रमितिः प्रमाणमिति भावव्युत्पत्तौ करणस्याप्रवेशतः करणमननुसृत्यैवा-न्यत्राप्रयुक्तल्युटः प्रथमत एव भावे प्रवृत्तिरित्यपि द्रष्टव्यम्।।७७६ ।।

युक्तिमल्लिका

तत्केवलं प्रमाणं स करणेऽनुप्रमाणता ।

यतोऽनुशासनं चानु ततोऽप्येतद्गुणोचितम् ।। ७७७ ।।

सुरोत्तमटीका

 तत्तस्माद्भावे नैरपेक्ष्येणैव प्रमाशब्दप्रवृत्तेः करणे अन्यानुसरणेनैव प्रवृत्तेश्च । सः भावार्थः । प्रागुक्तनिमित्तं च स्मारयति ।। यत इति ।। अनु अनन्तरम् । एतत् करणे अनुप्रमाणशब्दप्रवर्तनम् । अन्यमनुसृत्य प्रवर्तनात् अनन्तरमनुशासनाच्चानुप्रमाणमिति भावः ।। ७७७ ।।

सत्यप्रमोदटीका

 ‘ज्ञानसाधनं’ इति करणे ज्ञानरूपभावस्यानु-प्रवेशोऽस्ति । ज्ञानं इति भावे तु न करणस्यानुप्रवेशः । अत उपजीव्य-त्वाद्भाव एव प्रत्ययस्य मुख्यार्थ इत्याह प्रमाणीभूतेति । केवलम् अनुशब्दाविशेषितम् । सः भावार्थः । अनुशासनं ल्युट्प्रत्ययविधायकं सूत्रम् । अनु करणे भावादनन्तरम् । गुणेति । अप्रधानेत्यपि भावः ।। ७७७ ।।

युक्तिमल्लिका

आधाराख्याधिकरणं भूम्यादिर्न प्रयोगवान् ।। ७७८ ।।

सुरोत्तमटीका

 ननु भावे करणे च प्रमाणशब्दस्य प्रवृत्तिवदनुशासन-साम्यादधिकरणे कुतो न प्रवृत्तिरित्यत आह ।। आधारेति ।। आधारोऽधि-करणमिति वचनात् हानरूपक्रियाविषयस्य घटादेः आधारो भूतलादि-रेवाधिकरणम् । तत्र च प्रमाणशब्दस्य लोके क्वाप्यप्रयोगात् । प्रयोगमूलत्वाच्च व्याकरणस्य न तत्र प्रमाणशब्दप्रवृत्तिरिति भावः ।। ७७८ ।।

सत्यप्रमोदटीका

 ‘ननु त्रिविधं प्रमाणमिति वक्तव्यम् । ल्युटोऽधि-करणेऽप्यनुशासनात् । सत्यम् । तथापि प्रमाणशब्दस्याधिकरणे प्रयोगा-भावात्तदसङ्ग्रहः’ इति पद्धत्युक्तं विवृण्वान आह आधारेति । आधारोऽधि-करणमिति सूत्रोक्तदिशा क्रिययोः कर्तृकर्मणोराधारक्रियां प्रति य आश्रय-स्तदधिकरणमुच्यते । न प्रमारूपक्रियाश्रयः । देवदत्तः कटे शेते, स्थाल्यां पचति इत्यादौ तथैव दर्शनात् । अधिकरणे प्रयोगाभावं दर्शयति भूमीति ।। ७७८ ।।

युक्तिमल्लिका

नारायणादिशब्देषु ल्युटोऽधिकरणे गतिम् ।

सूचयन्नेव तं प्राह कर्त्रर्थे नानुशास्ति तम् ।। ७७९ ।।

सुरोत्तमटीका

 तर्ह्यधिकरणे अनुशासनं व्यर्थमित्यत आह ।। नारायणादीति ।। आदिपदेन शयनासनस्थानादिशब्दा गृह्यन्ते । तं प्रत्ययम् । प्राह अधिकरणे अन्वशासत् । ल्युडन्तसकलशब्देष्वप्येतदेव सूत्रमनुशासनम् । तच्च एकत्राप्रयोगेऽपि स्थानान्तरे विद्यमानप्रयोगानुशासनाय कथं नापेक्ष्यत इति भावः । ननु कर्तुरपि ईश्वरस्य ज्ञानं प्रत्याधारतया अधिकरणत्वस्यापि विद्यमानत्वात्तत्र तार्किकैः प्रमाणशब्दस्य प्रयुज्यमानत्वाच्च स एवानु-शासनविषयोऽस्त्वित्यत आह ।। कर्त्रर्थ इति ।। तं प्रत्ययम् ।। ७७९ ।।

सत्यप्रमोदटीका

 न चैवमधिकरणे ल्युटोऽनुशासनं व्यर्थमिति शङ्क्यम् । धात्वन्तरेऽवकाशसम्भवादित्याशयेन तादृशगतिं दर्शयति नारायणेति । विप्राः प्रमाणं इति प्रयोगस्तु तद्वाक्यस्य तज्जन्यज्ञानस्य वा प्रामाण्याभिप्रायेणौपचारिक इत्याशयेनाह नैवेति ।। ७७९, ७८० ।।

युक्तिमल्लिका

षट्कारकमते कर्ता नैवाधिकरणं किल ।

कर्तृप्रामाण्यवादं तद्धन्ति पाणिनिरेव सः ।। ७८० ।।

सुरोत्तमटीका

 ननूक्तप्रकारेण कर्ताप्यधिकरणं कुतो नेत्यत आह ।। षडिति ।। कर्तृकारकं, कर्मकारकं, करणकारकं, संप्रदानकारकमपादान-कारकमधिकरणकारकं चेति षट्कारकमते भूतले घटं पश्यति, भूतले दारु च्छिनत्तीत्यादौ ज्ञायमानच्छिद्यमानघटदार्वादिकर्मकारकाधारस्य भूतलादे-रेवाधिकरणकारकतया वैयाकरणैर्विवक्षितत्वात् देवदत्तसमानयोगक्षेम ईश्वराख्यः कर्ताऽपि नाधिकरणं शाब्दे शाब्दिकाभिप्रेतार्थमुल्लङ्घ्य तदनभि-प्रेतार्थकल्पनायां छलत्वप्रसङ्गात् । अतो अधिकरणे अनुशासनेऽपि ज्ञानकर्त-रीश्वरेऽननुशासनम् । किन्तु भूतलमेवाधिकरणतया अनुशासनविषय इति वक्तव्यम् । तत् प्रमाणशब्दप्रयोगाभावात् । प्रमाणशब्दे प्रयुक्तल्युटो नानुशासनविषयः किन्तु स्थानाधिकरणादिशब्दे प्रयुक्तल्युट एवानुशासनविषय इति भावः। तत्तस्मात् ।। ७८० ।।

युक्तिमल्लिका

याथार्थ्यमेव प्रामाण्यं यतः स्ववचने जनः ।

प्रमाणतायै मे वाक्यं यथार्थमिति शंसति ।

व्यवहारानुकूलत्वाल्लक्षणं च तदेव तत् ।। ७८१ ।।

सुरोत्तमटीका

 अधुना सर्वव्यवहारोपयोगित्वादस्मदाचार्योक्तमेव प्रमाणलक्षणमनुसरणीयं नान्यदित्याह ।। याथार्थ्यमिति ।। प्रमाणतायै प्रमाणत्वप्रतिपादनाय । इदं चोपलक्षणम् । ज्ञाने प्रमाणत्वप्रतिपादनाय ज्ञानं याथार्थ्यमिति जनश्शंसतीत्यपि द्रष्टव्यम् । तत्तस्मात् ।। ७८१ ।।

सत्यप्रमोदटीका

 ‘याथार्थ्यमेव मानत्वं’ इति अनुव्याख्यानोक्त-सामान्यलक्षणस्य अनुप्रमाणे वाक्येऽव्याप्तिमाशङ्क्य तत्रापि प्रयोगसद्भाव-समर्थनेन परिहरति जन इति ।। ७८१ ।।

युक्तिमल्लिका

यदा यत्र यथा योऽर्थस्तथा तद्विषयीकृतौ ।

पारम्पर्येण साक्षाद्वा यथार्थं वक्ति तज्जनः ।। ७८२ ।।

सुरोत्तमटीका

 ननु यथावस्थितार्थविषयीकारित्वरूपयथार्थत्वस्य प्रमाणलक्षणत्वे सविषयकस्य केवलप्रमाणस्यैव तल्लक्षणं स्यात् । निर्विषयकस्य प्रमाणस्य कथं तल्लक्षणं स्यादित्यत आह ।। यदेति ।। पारंपर्येण यथार्थज्ञान-साधनत्वरूपपरंपरया साक्षाद्वा । तद्विषयीकृतौ तस्यार्थस्य विषयीकरणे । तत् ज्ञानं वाक्यं वा । यथार्थज्ञानजनकवाक्ये तज्जन्यज्ञाने च यथार्थमेव वाक्यं यथार्थं ज्ञानमित्युभयत्रापि यथार्थपदप्रयोगबलादेकत्र निर्णीतः शास्त्रार्थोऽ-परत्रापीति न्यायेन करणेष्वपि ज्ञानवत्साक्षाद्यथावस्थितार्थविषयीकारित्वरूप यथार्थत्वाभावेऽपि ज्ञानद्वारा यथार्थज्ञानसाधनतया यथावस्थितार्थ विषयित्व-रूपयथार्थत्वं वक्तव्यम् । अन्यथा सत्यं मे वाक्यमिति लौकिकवाक्ये सत्यं वेत्यादिश्रुतौ सत्यं मे व्याहृतं सतीत्यादि स्मृतौ च यथार्थवचनत्वार्थक सत्यपदप्रयोगो निर्मूलस्स्यात् । शब्दादिविषयाणां च स्वज्ञानं प्रति विषयत्व-वत्स्वज्ञानजनकश्रोत्रादीन्द्रियाणि च प्रति उक्त विधया विषयत्वाभावे श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च । अधिष्ठाय मनश्चायं विषयानुपसेवते । शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वतीत्यादिगीतायां, प्रवृद्धलोभं विषयेषु लालसमित्यादि पुराणे, षडिन्द्रियाणि षड्विषयाश्चेति परकीयग्रन्थे च रूपरसादौ चक्षुरादीन्द्रियविषयत्वोक्तिः ब्रह्मणो युक्तिरूपविचारविषयतोक्तिः शब्दरूपशास्त्रविषयत्वोक्तिश्च व्यर्था स्यात् । अतः सर्वैरपि गुरुशिरोमणेर्मध्व-द्युमणेस्सरणिरनुसरणीयैव ।। ७८२ ।।

सत्यप्रमोदटीका

 ‘यद्यथाभूतं प्रतीतं तस्य तथाभूतस्य सत्त्व’ इति सुधोक्तं परिष्कारमनुवदति यदेति । ‘ज्ञेयविषयीकारित्वं च साक्षाद्वा साक्षा-ज्ज्ञेयविषयीकारिकारणत्वेन वा विवक्षितमिति नानुप्रमाणेष्वव्याप्तिरि’ति पद्धत्युक्तमाह पारम्पर्येण साक्षाद्वेति ।। ‘‘ज्ञानविषय एव हि करणानां विषयः। न हि तानि कमप्यविषयीकुर्वन्त्येव ज्ञानं जनयन्ति । नाप्यन्य-विषयाणि । अतिप्रसङ्गात् । केवलं विषयस्य ज्ञेयतां ज्ञानमुपाधितया करणानि तु तज्जनकतया सम्पादयन्ति इत्येतावन्तं विशेषमाश्रित्य केवलानुप्रमाणभेदः समर्थितः’ इति सुधोक्तो विवेकोऽत्रानुसन्धेयः ।। ७८२ ।।

युक्तिमल्लिका

प्रामाण्यवादे ज्ञानस्य प्रामाण्यं वर्तते किल ।

स्मर्ताऽन्यस्यास्य विस्मर्ता लक्षणोक्तौ स किं बुधः ।। ७८३ ।।

सुरोत्तमटीका

 स्वतस्त्ववाद इत्यत्र सूचितं प्रमेयं सूचयति ।। प्रामाण्य-वाद इति ।। प्रामाण्यवादे प्रामाण्यस्य स्वतस्त्ववादे । लक्षणोक्तौ प्रमाकरण-मित्यादि लक्षणोक्तौ । अस्य ज्ञानप्रामाण्यस्य विस्मर्ता । अन्यस्य करण-प्रामाण्यस्य स्मर्ता । सः तार्किकः बुधः किमिति सम्बन्धः ।। ७८३ ।।

सत्यप्रमोदटीका

 प्रामाण्यवादे ज्ञानतत्करणयोः प्रामाण्यस्य परतस्त्व-कथनप्रस्तावे । लक्षणोक्तौ लक्षणकथनप्रस्तावे पुनः अस्य स्वेनैव प्रस्तावान्तरे स्वीकृतस्य ज्ञानप्रामाण्यस्य विस्मर्ता । अन्यस्य करणप्रामाण्यमात्रस्य । स्मर्ता सः तार्किकः ।। ७८३ ।।

युक्तिमल्लिका

अदुष्टकरणं चक्षुः प्रमाव्याप्तं यथा भवेत् ।

तथा प्रमाता जीवोऽपि प्रमाव्याप्तः कुतो न ते ।। ७८४ ।।

सुरोत्तमटीका

 किञ्च ननु प्रमाव्याप्तत्वेन ईश्वरस्य प्रमाणत्वे जीवस्यापि तेनैव कुतो न प्रामाण्यम् । न च वाच्यमप्रमाया अप्याश्रये जीवे कथं प्रमाव्याप्तत्वमिति । तथा सत्यप्रमाया अपि करणे इन्द्रिये प्रमाव्याप्तत्वा-भावप्रसङ्गात् । इन्द्रियस्यादुष्टतावस्थायां प्रमाव्याप्तिश्चेत् तदैव जीवस्यापि कथं न प्रमाव्याप्तिः । तर्ह्येकस्यैव जीवस्य प्रामाण्याप्रामाण्ये द्वे अपि स्यातामिति चेत् न । एकस्यैवेन्द्रियस्य प्रामाण्याप्रामाण्यवदुपपत्तेः । अवस्थाभेदेन तत्र विरोधपरिहारश्चेत्तेनैवात्रापि विरोधं परिहरेत्याह ।। अदुष्टेति ।। ७८४ ।।

सत्यप्रमोदटीका

 ‘प्रमाव्याप्तं प्रमाणमित्युदयनः । तदपि सर्वस्यापि प्रमेयस्येश्वरप्रमाव्याप्तत्वेनातिव्यापकत्वादयुक्तं’ इति पद्धत्युक्तदिशाऽऽह अदुष्ट-करणमिति ।। जीवः इति उपलक्षणं प्रमेयमात्रमित्यपि ग्राह्यम् । सुखादि-प्रमेयेऽस्मदादिप्रमाव्याप्तत्वेनातिव्याप्तिश्च द्रष्टव्या । चक्षुः निर्दोषार्थसन्निकृष्ट-मित्यपि विशेषणीयम् । अन्यथाऽव्याप्तिप्रसङ्गात् । तथा तादृशचक्षुरादिमान् । यथोक्तं जनार्दनभट्टीयपद्धतिटिप्पण्यां ‘प्रमाव्याप्त्या प्रमाणत्वे प्रमातुरपि तद्भवेत् । जीवेषु तदभावश्चेन्नेत्रादावपि नो भवेत् । विशिष्टस्य प्रमाव्याप्तौ जीवे सा केन वारिते’ति

।। ७८४ ।।

युक्तिमल्लिका

अशिष्टकर्तृप्रामाण्ये कर्तृमात्रे तदुच्यताम् ।

न चेत्सभास्वशिष्टस्त्वं शिष्टमध्ये भविष्यसि ।। ७८५ ।।

सुरोत्तमटीका

 अशिष्टकर्तृप्रामाण्ये अशिष्टस्य पाणिनिना प्रमाणतया अननुशिष्टस्य कर्तुरीश्वरस्य प्रामाण्ये अङ्गीकृते सति कर्तृमात्रे ज्ञानकर्तृचेतन-मात्रे । तत् प्रामाण्यम् । अशिष्टत्वस्य उक्तविधया प्रमाव्याप्तत्वस्य चोभयत्र साम्यात् । न चेत् न्यायसाम्येऽप्येकत्र प्रामाण्यं नाङ्गीकरोषि चेत् । अशिष्टः पण्डितैरशिक्षितः । अर्धजरतीयाङ्गीकाराशिष्टमध्ये सत्पण्डितमध्ये । अपण्डितो भविष्यसीत्यर्थः। मूर्खं सदसीदं वक्तुं शक्यते न शिष्टमध्य इति भावः ।।७८५।।

सत्यप्रमोदटीका

 ईश्वरस्यापि प्रमाणत्वसंग्रहाय साधनाश्रययोरन्यतरत्वे सति इति लक्षणं चेद्विशिष्यते तत्र दोषमाह अशिष्टेति । पाणिनिना ल्युडन्त-प्रमाणशब्दार्थतयाऽननुशिष्टेत्यर्थः । कर्तृप्रामाण्ये ईश्वररूपकर्तृविशेषमात्रे प्रामाण्येऽङ्गीक्रियमाणे सति । कर्तृमात्रे जीवमात्रे सर्वत्र प्रमातरि । अशिष्टः अर्धजरतीयन्यायेनापहसनीयः ।। ७८५ ।।