तस्माच्छैवब्राह्मणपक्षपुराणवचनाश्रयात्
भयं द्वितीयाभिनिवेशतः स्यादिति श्लोकार्थः
युक्तिमल्लिका
तस्माच्छैवब्राह्मणपक्षपुराणवचनाश्रयात् ।
न तत्वप्रच्युतिः कार्या कार्याकार्यविवेकिना ।। ३५९ ।।
सुरोत्तमटीका
अनेन विभागप्रदर्शनेन प्रयोजनान्तरमपि सिद्ध-मित्याह ।। तस्मादिति ।। ३५९ ।।
युक्तिमल्लिका
द्वितीयाभिनिवेशेन भयं स्यादिति यद्वचः ।
तच्चात्मदेहगेहादिद्वयशब्देन भण्यते ।। ३६० ।।
तत्राग्रहाद्भयं ते स्यात्ततो भक्त्या भजेश्वरम् ।
इत्याह नो चेद्वाक्यस्य पूर्वोत्तरविरुद्धता ।। ३६१ ।।
सुरोत्तमटीका
इदानीं
भयं द्वितीयाभिनिवेशतस्स्यादीशादपेतस्य विपर्ययास्मृतिः ।
यन्माययातो बुध आभजेत्तं भक्त्यैकयेशं गुरुदेवतात्मा ।
इति भागवतवाक्यस्यैक्यपरतां निराकृत्य स्वाभिमतार्थपरतां स्थापयति ।। द्वितीयाभिनिवेशेनेति ।। आत्मदेहगेहादि जीवदेहगेहादि । आत्मनो देह-गेहादि द्वयशब्देन भण्यत इति स्मृतिं स्मारयितुं कीर्त्यत इत्यनुक्त्वा भण्यत इत्युक्तम् । ते स्यादिति जीवं प्रतिवचनम् । ततो देहगेहाद्याग्रहस्य भयहेतुत्वात् । नोचेदेवमर्थो न चेत् ।। ३६०,३६१ ।।
सत्यप्रमोदटीका
भागवते (ए.स्कं.द्वि. २७)
‘भयं द्वितीयाभिनिवेशतः स्यात् ईशादपेतस्य विपर्यया स्मृतिः ।
यन्माययातो बुध आभजेत्तं भक्त्यैकयेशं गुरुदेवतात्मा’
इति श्लोकं औतिनः ब्रह्मातिरिक्तद्वितीयवस्तुमिथ्यात्वपरत्वेन वर्णयन्ति । तेन च जीवब्रह्मणोरभेदः सिध्यतीति मन्वते । तन्निराकृत्य तस्य भेदपरतां निर्धारयति द्वितीयेत्यादिभिः । भण्यते इत्युक्त्या तात्पर्योक्तं ‘आत्मनो देह-गेहादि द्वयशब्देन भण्यते’ इति हरिवंशवचनं सङ्गृह्णाति । तच्च वचः इत्याह इत्यन्वयः । अभिनिवेशशब्दस्यार्थः आग्रह इति । ‘अविद्यमानं जीवस्य प्रतिभाति तदीयवत्’ इति तात्पर्योक्तेः । भयं संसारभयम् । ‘बुधः भक्त्या ईशं आभजेत्’ इति उपास्योपासकभावोक्त्या जीवपरयोर्भेदः स्फुटः । नो चेत् उक्तमर्थमनङ्गीकृत्य, द्वितीयशब्दस्य निर्विशेषब्रह्मातिरिक्तप्रपञ्चमात्रमर्थ-मङ्गीकृत्य तत्र अभिनिवेशतः सत्यत्वभावनया भयं स्यादित्यप्रामाणिकार्थः वर्ण्यते चेत् ।। ३६०,३६१ ।।
युक्तिमल्लिका
आत्मतोऽन्यद् द्वितीयं चेद् भयं तत्राग्रहाद्यदि ।
तर्हीशभक्तिभजनरूपे मुख्ये द्वितीयके ।
कथमन्ते विधिश्च स्याद्यत्पूर्वार्धे निषिध्यते ।। ३६२ ।।
सुरोत्तमटीका
तर्हि कोर्थः परस्येत्यतः पराभिमतमर्थमनूद्यपूर्वोत्तर-विरोधमेव विशदयति ।। आत्मत इति ।। आत्मतः परमात्मतः अन्यज्जगत् । तत्र ब्रह्मव्यतिरिक्ते जगति । ईशश्च भक्तिश्च भजनं च तान्येव रूपं यस्य तस्मिन् मुख्यद्वितीयके साक्षादद्वैत विरोधिभेदवासनारूपत्वेन परानभिमतघट-पटादितोप्यस्यैव द्वितीयस्य मुख्यत्वादिति भावः । मायावादिमते हि निर्विशेषचितः अविद्याशाबल्ये सतीश्वराख्यं द्वितीयं तस्मिन्भक्तिस्तस्य सेवाचेति द्वितीयं च प्रथमं भवति । पश्चाद्घटपटादिकं जगत् । अन्ते श्लोक-स्योत्तरार्थे विधिः आभजेदिति लिङन्तपदेनविधानम् । यतः पूर्वार्धे ब्रह्मणो द्वितीयेऽभिनिवेशतः भयं स्वादिति द्वितीयं दूषयित्वा पुनरुत्तरार्धे अत इति द्वितीयाभिनिवेशस्य भयहेतुत्वमेव हेतूकृत्य ईशं भक्तयाऽऽभजेदिति वाचो-भङ्ग्यन्तरेणेश्वरादि द्वितीयेऽभिनिवेश एव विधीयते । अतः पूर्वोत्तरविरोधः । सेव्यसेवक भावोहि भेदघटितत्वात्परस्य मुख्यं द्वितीयम् । तस्यैव विधाने कथं न पूर्वोत्तरविरोध इति भावः ।। ३६२ ।।
सत्यप्रमोदटीका
विरुद्धतामेवोपपादयितुं अत्रैव श्लोके अनेकद्वितीय-वस्तुविधानं दर्शयति तर्हीति । कर्ता बुधः । क्रिया आसम्यक् भजनम् । ईशः कर्म । एकया भक्त्या इति ईशभजने इत्थं भावः । गुरुदेवतात्मा इत्यनेन ‘यथा देवे तथा गुरौ’ इति प्रमाणोक्ता गुरुदेवतयोः योग्यताऽनुसारिणी भक्तिः । एतत्सर्वं द्वितीयं साक्षाद्भेदसाधकत्वान्मुख्यमित्याह मुख्ये इति । तदुक्तं अनुव्याख्याने ‘कर्तृकर्मणोरुत्सर्गतो भिदा’ इति । अङ्गीकृतश्चायं नियमः स्वकर्मकसंविद्रूपत्वमनङ्गीकुर्वता मायिना ।। ३६२, ३६३ ।।
युक्तिमल्लिका
गुरुदेवतयोरात्मा चित्तं यस्येति विग्रहे ।
पदं तदपि वक्तीशभजकस्य गुणान्तरम् ।। ३६३ ।।
सुरोत्तमटीका
ननु तर्हि गुरुदेवतात्मेति पदस्य कोर्थ इत्यत आह ।। गुरुदेवतयोरिति ।। विग्रहे विवज्ञिते गुणान्तरं गुरौ देवतायां च कृतमनस्कत्व रूपगुणम् ।। ३६३ ।।
युक्तिमल्लिका
न चेत्प्रागुक्तभजनं विरुद्धार्थः कथं वद ।
लिङर्थस्सोऽपि बलवान्विशेषणपदार्थतः ।। ३६४ ।।
सुरोत्तमटीका
न चेत् एवमर्थो न चेत् । प्रागुक्तेश्वरभजन विरुद्धः गुरुदेवता स्वरूपत्वरूपोर्थः । पूर्वमीश्वरभेदघटित तत्सेवामुक्त्वा इदानीं पुनस्तदभेदोपि कथं वक्तव्य इति भावः । लिङर्थः आभजेदिति लिङर्थः । सः सेव्यसेवकभावः । बलवान् उद्देश्यपदार्थत्वादावश्यकः । विशेषणपदार्थतः बुधाख्यस्य विशेष्यस्य विशेषणीभूतगुरुदेवतात्मपदार्थात् । लिङ्लोट्तव्य-प्रत्ययार्थोहि वाक्यमुख्यार्थः । तदनन्तरं अधिकारिवाचकबुधपदम् । ततः परं तस्य विशेषणीभूतपदम् । अतो मुख्ये बाधायोगात् तदानुकूल्येनैवान्यत्पदं योज्यमिति भावः ।। ३६४ ।।
सत्यप्रमोदटीका
बलवान् ‘न विधौ परःशब्दार्थ’ इति शाबरवचनात् ।। ३६४ ।।
युक्तिमल्लिका
अतो ग्रान्थिकमुद्राज्ञो नापातार्थेन तुष्यति ।। ३६५ ।।
सुरोत्तमटीका
अतः परकीयार्थस्य पूर्वोत्तरविरुद्धत्वात् ।। ३६५ ।।
सत्यप्रमोदटीका
ग्रान्थिकमुद्रा प्रमाणविरोधाभावरूपयोग्यताघटितागम- लक्षणम् ।। ३६५ ।।
युक्तिमल्लिका
पूर्वोत्तराविरुद्धार्थं वदेन्मीमांसया बुधः ।
न चेदाकाशशब्देन परं ब्रह्म कथं जगुः ।। ३६६ ।।
सुरोत्तमटीका
नचेत् पूर्वोत्तराविरुद्धोर्थो न वक्तव्यश्चेत् ।। ३६६ ।।
सत्यप्रमोदटीका
पूर्वेति । तदुक्तं वार्तिके ‘पौर्वापर्यपरामृष्टः शब्दोऽन्यां कुरुते मतिम्’ इति । जगुः मीमांसका इति शेषः ।। ३६६ ।।
युक्तिमल्लिका
ग्रन्थेऽस्मिन्देहगेहादि भयहेतुतयोच्यते ।
स्थले स्थले तत्समोक्त्या तस्यैव स्याद् द्वितीयता ।। ३६७ ।।
सुरोत्तमटीका
द्वितीयशब्देन देहगेहादिकमेव ग्राह्यमित्यत्राऽऽन्तर-युक्तिमप्याह ।। ग्रन्थ इति ।। अस्मिन्ग्रन्थे भागवते । तस्माद्रजोरागविषाद-मन्युमानस्पृहाभयदैन्याधिमूलम् । हित्वागृहं संसृति चक्रवालं नृसिंहपादं भजताऽकुतोभयमित्यादौ स्थले स्थले । तत्समोक्तया तत्समाख्यया । द्वितीयता भयहेतुभूतद्वितीयता ।। ३६७ ।।
सत्यप्रमोदटीका
स्थले स्थले ‘हित्वाऽऽत्मपातं गृहमन्धकूपम्’ । ‘हित्वा गृहं संसृतिचक्रवालम्’ ‘किमु व्यवहितापत्यदारागारधनादयः’ इत्यादिषु । द्वितीयता भयजनकताऽवच्छेदकं रूपम् ।। ३६७ ।।
युक्तिमल्लिका
सद्धर्मं साधुभिस्सङ्गं तत्पूरुषनिषेवणम् ।
यो ह्यपेक्षितमाचष्टे निराचष्टे कथं हि तत् ।। ३६८ ।।
सुरोत्तमटीका
युक्तयन्तरं चाह ।। सद्धर्ममिति ।। सद्धर्मः शेवधिर्नृणां सङ्गो यदिस्याद्भगवत्प्रियेषुनः तत्पूरुषनिषेवया इत्यादौ अपेक्षितमाचष्टे इति योजना । तदेव भयं द्वितीयाभिनिवेशत इति श्लोके द्वितीयपदेन कथं निराचष्टे । ब्रह्मव्यतिरिक्तस्य सर्वस्य द्वितीयपदार्थत्वे सद्धर्म सत्संग श्रवण-मनननिदिध्यासनादेरपि भयहेतुत्वापत्त्या न परकीय व्याख्यानमुचितं किं त्वस्मदुक्त एवार्थ इति भावः ।। ३६८ ।।
सत्यप्रमोदटीका
सद्धर्मं ‘धर्मस्यापवर्ग्यस्य’ ‘तच्छ्रद्धया भगवद्धर्म-चर्यया’ इत्यादिना, एवं सत्सङ्गं ‘तुलयाम लवेनापि न स्वर्गं नापुनर्भवम् । भगवत्सङ्गिसङ्गस्य’ ‘सङ्गस्तेष्वथ ते प्रार्थ्यः’ इत्यादिना, तत्पूरुषनिषेवणं ‘महत्सेवां द्वारमाहुर्विमुक्तेः’ इत्यादिना अपेक्षितं पुरुषार्थहेतुम् । तत् भय-निवृत्तिहेतुतया स्वयमेव तात्पर्यतो विहितं एतत्सर्वं द्वितीयं वस्तु । निराचष्टे भयहेतुतया ब्रूयात्
।। ३६८ ।।
युक्तिमल्लिका
अपि चाभिनिवेशस्य भयदत्वे स एव हि ।
त्याज्यस्स्यात्सोऽपि बाध्यो न द्वितीयं केन बाध्यते ।। ३६९ ।।
सुरोत्तमटीका
अस्तु वा परकीय एवार्थः । तथापि ब्रह्मणो नाद्वितीयत्व सिद्धिरित्याह ।। अपि चेति ।। स एवाभिनिवेश एव । सोप्यभिनिवेशोपि । एव शब्दस्य व्यवच्छेद्यमाह ।। द्वितीयमिति ।। यथा-कण्टकस्पर्शस्य भयहेतुत्वे तत्स्पर्श एव परिहरणीयोन तु कण्टकस्यापि मिथ्यात्वम् । तथेहापि द्वितीयाभिनिवेशस्य भय हेतुत्वे स एवत्याज्योन पुनर्द्वितीयादेर्मिथ्यात्वमप्यङ्गीकार्यम् । इयांस्तु विशेषः । अस्मदाचार्याः ज्ञानभक्त्यादिगुणभरिताः विषय एव विरक्ता देह गेहादि दुर्विषयमेव हेयकोटौ निक्षिप्तवन्तः । त्वं तु सर्वावलक्षणश्शोभनमपि जगदाभासीकरोषीति । बाध्यत्वाभावास्तूभयत्रापि सम इति भावः ।। ३६९ ।।
सत्यप्रमोदटीका
स एव अभिनिवेश एव न तु द्वितीयमित्येवकारार्थः । अन्यथा चोरापराधेन माण्डव्यस्य शूलारोपणन्यायः । बाध्यो न यत्र भयदत्वं तत्र त्याज्यत्वमित्येव व्याप्तेः । कण्टकादिषु तथैव दर्शनात् । न तु बाध्यत्व-मिति । तत्रैव व्यभिचारात् । द्वितीयबाध्यत्वम् तु कफोणिगुडायितमिति भावः ।। ३६९ ।।
युक्तिमल्लिका
अतोद्वितीयभावस्य कथमाशात्र कथ्यताम् ।
गृहात्प्रव्रजिते भिक्षौ किं गेहं भस्मसाद् भवेत् ।। ३७० ।।
सुरोत्तमटीका
अतः द्वितीयबाधाभावात् । अद्वितीयभावस्येति पदच्छेदः । अत्र श्लोके । तत्रोदाहरणमाह ।। गृहादिति ।। ३७० ।।
सत्यप्रमोदटीका
प्रव्रजिते यद्भयहेतुः तत् त्याज्यमिति अनुसन्धाय इति पूरणीयम् । भस्मसाद् भवेदिति । दूरे बाधितं इति हृदयम् । अन्यथा भस्मीभावस्य सत्यत्वेनैव व्याप्तेः बाधाभावे निदर्शनत्वानुपपत्तेः । ज्ञाननाश्यत्वं मिथ्यात्वं इत्यभिप्रायेण वा उक्तिः ।। ३७० ।।
युक्तिमल्लिका
द्वयोऽयं देहगेहादिस्स्वभावेनैव देहिनाम् ।
अविद्यमानोभिमानाद्भाति स्वीयतया किल ।। ३७१ ।।
सुरोत्तमटीका
एवमाद्यपद्यस्यार्थमुक्त्वा, अविद्यमानो ह्यवभाति हि द्वयोर्ध्यातुर्धिया स्वप्नमनोरथो यथा । तत्कर्मसंकल्पविकल्पकं मनो बुधो निरुन्ध्यादभयं यतस्स्यादिति द्वितीयपद्यस्यार्थमाह ।। द्वयोऽयमिति ।। स्वभावेनैव परं निरपेक्षतया स्वभावत एव । देहिनामविद्यमानः न तु वस्तु-स्थित्याऽविद्यमानः । ईश्वरकालकर्माद्यधीनदेहस्य प्रत्यक्षादि प्रमाणसिद्धत्वेन सर्वथाऽविद्यमानत्वस्यायोगात् स्वप्नमनोरथाख्यदृष्टान्तायोगाच्च पदान्तरमध्या-हृत्यैव व्याख्येयम् । स्वाप्नो हि पदार्थः स्वेच्छयैव परं जीवानां न वर्तते । सन्ध्ये सृष्टिराह हीति सूत्रादीश्वरेच्छयाऽस्त्येव । मनोरथविषयोऽपि राज्यादिर्न स्वरूपत एवाविद्यमानः किं तु ध्यातुः पुरुषस्य स्वभावत एवाविद्यमानः । अतः कथं न दृष्टान्तायोगः । अकारवाच्येन परमात्मना निमित्तेन विद्यमान इति वा । अभिमानाद्रजोगुणनिमित्तरागविशेषात् ।। ३७१ ।।
सत्यप्रमोदटीका
भागवते तत्रैवोत्तरश्लोकार्थं (श्लो.३८) विविनक्ति द्वय इति । अविद्यमानोऽप्यवभाति हि द्वयो ध्यातुर्धिया स्वप्नमनोरथो यथा । तत्कर्मसङ्कल्पविकल्पकं मनो बुधो निदध्यादभयं ततः स्यात्’ अस्यार्थः हरिवंशसमाख्योक्त्या तात्पर्ये निर्णीतः । ‘आत्मनो देहगेहादि द्वयशब्देन भण्यते । अविद्यमानं जीवस्य प्रतिभाति तदीयवत् । जाग्रद्वत्तु यथा स्वप्नः प्रतिभाति मनोरथः । विद्यमानवदेवैवम् देहादीशवशे स्थितम् । विभाति स्ववशत्वेन सैषा संसृतिरुच्यते । तस्मात्तद्विषयं त्यक्त्वा मनो विष्णौ निवेशयेत् इति ।। ३७१ ।।
युक्तिमल्लिका
सर्वथा विद्यमानत्वे शशशृङ्गायितो भवेत् ।
पारमार्थेन तादृक्त्वं तव मे तूक्तवर्त्मना ।। ३७२ ।।
सुरोत्तमटीका
यथाश्रुतार्थे दोषान्तरं चाह ।। सर्वथेति ।। तादृक्त्वं अविद्यमानत्वम् । तव मायावादिनः । तुशब्देनार्थक्रियाकारिणो देहादेर-पारमार्थ्यायोगात् स्वकृताध्याहारस्यैव विशेषमाह ।। ३७२ ।।
सत्यप्रमोदटीका
पारमार्थ्येन अविद्यमान इति तु अयुक्तम् । प्रमितस्य पारमार्थ्यनिषेधायोगात् । स्वव्याहतं च एवं व्याख्यानं यथोक्तं भामत्याम् । ‘प्रमाणानि खलु स्वगोचरे प्रवर्तमानानि तत्वमित्येव प्रवर्तन्ते इति ।। उक्तवर्त्मना अकारवाच्यविष्णोर्वशत्वेन विद्यमानः इत्युक्तमार्गेण ।। ३७२ ।।
युक्तिमल्लिका
ईशात्सर्वेश्वराद्विष्णोरपेतस्य ततः प्रभोः ।
ब्रह्मणस्तु द्वितीयेऽपि ब्रह्मण्यभिनिवेशतः ।। ३७३ ।।
निर्गुणाख्येऽभिमानेन भयं भंवति यन्नृणाम् ।
विपर्ययः स्मृतिश्च स्यान्मुकुन्दब्रह्ममोचनात् ।। ३७४ ।।
सुरोत्तमटीका
इदानीं भयं द्वितीयाभिनिवेशत इति पराभिमतपद्येनैव मायावादशैवादि सकलमतनिराकरणं करोति ।। ईशादिति ।। यद्यस्मात् । ईशादित्यस्यार्थकथनं सर्वेश्वरादिति । स च क इत्यत उक्तं ततः, मन्येऽकुत-श्चिद्भयमच्युतस्येति, नारायणायेति समर्पयेत्तदिति च प्राचीनपद्यद्वये प्रस्तुतत्वात्प्रभोस्समर्थाद्विष्णोरिति । द्वितीयमित्यस्यावधिपूरकमपि तदेवेश-पदमिति भावेनोक्तं ततस्तस्मात् प्रभोर्विष्णोर्ब्रह्मणः विष्ण्वाख्यब्रह्मणस्त्विति । पूर्वपद्ये विष्णोः प्रस्तुतत्वात् अस्मिन्पद्येऽपीशपदेन विष्णुरेव ग्राह्यः । कस्माद्द्वितीयमिति शङ्कापूरणायाप्यस्मिन्पद्ये पञ्चमीविभक्तयन्तेशपदेन प्रस्तुत एव ग्राह्य इत्यर्थद्वयसूचनाय ततः पदस्यावृत्त्या योजना कृता । द्वितीयेऽपि निर्गुणाख्ये ब्रह्मणीति सम्बन्धः । विपर्ययः विपरीतज्ञानम् अन्धन्तमो वा । मुक्तिदायकाद्विष्णोरन्यद्ब्रह्म आग्रहादेवोक्तमिति सूचनाय मुकुन्दब्रह्ममोचना-दित्युक्तम् ।। ३७३,३७४ ।।
सत्यप्रमोदटीका
इदानी ‘भयं द्वितीयाभिनिवेशतः’ इति पद्यं औत-शैवमतयोर्निरासकत्वेन प्रवृत्तिकर्मनिरासपरत्वेन च व्याख्याति ईशादित्यादिभि- र्नवभिः ।। ईशब्दवाच्याया लक्ष्म्या ईशात् अत एव सर्वेश्वराद्विष्णोरपेतस्य, तस्मिन् परब्रह्मत्वबुद्धिशून्यस्य, प्रत्युत ततः प्रभोर्ब्रह्मणः सकाशात्, द्वितीयेऽपि प्रमाणबाह्यतया गर्हिते दुराग्रहमात्रकल्पिते निर्गुणे ब्रह्मणि अभिनिवेशतः परब्रह्मत्वदुराग्रहवतः विपर्ययः मिथ्याज्ञानं तन्निमित्तकं भयं अन्धन्तमःस्यात् । तत्र हेतुः मुकुन्दस्य मोक्षप्रदस्य ब्रह्मणः मोचनात् अपलापादिति ।। ३७३, ३७४ ।।
युक्तिमल्लिका
सगुणस्य द्वितीयं हि निर्गुणं स्यान्न चापरम् ।
निरर्थोऽसि निरर्थाख्यं भेदकं यदि मुञ्चसि ।। ३७५ ।।
सुरोत्तमटीका
ननु विष्णोर्द्वितीयं ब्रह्मनिर्गुणमेव कुतः स्यादित्यत आह ।। सगुणस्येति ।। भावाद्द्वितीयोऽभाव इतिवत्सगुणाद्द्वितीयं निर्गुणमेव भवति नान्यदिति भावः । शब्दशक्त्यापि सगुणस्य द्वितीयं निर्गुणमेवेति भावेनाह ।। निरर्थोऽसीति ।। निर्गतोऽर्थो यस्मात्सः निरर्थः । शब्दार्थानभिज्ञ इति यावत् । निरर्थाख्यं निरः निरित्युपसर्गस्य अर्थं अभावं विरोधं वा भेदकं सगुणाद्भेदसाधकम् । द्वितीयशब्दो यदि सदृशवाची स्यात् तदा सगुणस्य सगुणमेव द्वितीयं वाच्यं न तु निर्गुणम् । इह च द्वितीयशब्दस्तव च मम च मते भिन्नवाच्येव । भिन्नवाचित्वे च यत्र भेदकमस्ति तदेव द्वितीयं स्यात् । न तु सजातीयम् । सगुणाद्भेदकं च गुणरहितत्वं निर्गुण एवास्ति न तु वस्त्वन्तरे । उक्तवक्ष्यमाणरीत्या सगुणस्यैवात्र प्रस्तुतत्वे ततो द्वितीयं निर्गुणब्रह्मैव स्यान्न तु ज्ञानादिगुणभरितं त्रिगुणभरितप्रकृत्यात्मकं वा जगदिति भावः ।। ३७५ ।।
सत्यप्रमोदटीका
निर्गुणमित्यत्र निरुपसर्गस्याभावः अर्थः । तथा च सगुणस्य द्वितीयं भिन्नम् । सजातीयेत्यर्थस्य परेणैव अनादरणात् भिन्न-मित्येवार्थस्तेन वाच्यः । निर्गुणमेव गुणरहितमेव स्यात् । न च अपरं गुण-पूर्णम् । स्वस्य स्वस्मादेव भिन्नत्वासम्भवात् । न वा अपरं त्रिगुणभरितं प्रकृत्यात्मकम् । अन्यथा निरुपसर्गस्य अर्थं भेदं मुञ्चसि । यदि । तर्हि निरथोसि शब्दार्थानभिज्ञः असि भवेः ।। ३७५ ।।
युक्तिमल्लिका
द्वितीयकोटिस्थेशात्ते द्वितीयं स्यात्तदेव हि ।। ३७६ ।।
सुरोत्तमटीका
युक्तयन्तरं चाह ।। द्वितीयकोटिस्थेति ।। अद्वितीयं निर्गुणब्रह्म द्वितीयं जगदिति कोटिद्वयं हि मायावादिनो मते । तत्र द्वितीयकोटिस्थेश्वरस्येशपदेन संग्रहे द्वितीयकोटेरेव सङ्गृहीतत्वात् ततो द्वितीयं भिन्नमद्वितीयनिर्गुणमेव स्यात् । अथवा निर्गुणब्रह्माख्यकोटेः प्राग्ग्रहणे तत्प्रथमं जगदेव द्वितीयं स्यात् । जगत्कोटेः प्राग्ग्रहणे च पश्चाद्गृह्यमाणा निर्गुणकोटिरेव द्वितीया स्यात् । प्रथमद्वितीयभावस्य विवक्षानुसारित्वादिति भावः । वस्तुतस्त्वालोकस्याभयदत्वेऽन्धकारस्यैव भयदत्ववदकुतश्चिद्भयमिति सगुणहरिपादोपासनस्याभयदत्वोक्तेर्भयदं तद्विरुद्धं निर्गुणमेव स्यात् इति ज्ञेयम् ।। ३७६ ।।
सत्यप्रमोदटीका
ते तव मते, ‘ब्रह्म सत्यं जगन्मिथ्या’ इत्येवंरूपे, द्वितीयकोटिस्थेशात् जगदन्तर्भूतात् ईशात् सगुणात् द्वितीयम् तदेव निर्गुणमेव हि उक्तनिरुपसर्गसामर्थ्यात् स्यात् ।। ३७६ ।।
युक्तिमल्लिका
अतो भक्त्या तमेवेशं भजेद्यस्तु गुरुर्भुवि ।
देवता च भवेत्तादृशाचार्ये यत्नवान्बुधः ।। ३७७ ।।
सुरोत्तमटीका
गुरुदेवतात्मेति पदस्यार्थमाह ।। यस्त्विति ।। यः पुरुषः गुरुर्भवेत् देवता च भवेत् । मूलरूपविचारे देवो भवेत् । अवताररूपविचारे गुरुर्भवेत् । स च वायोरवताररूपो मध्व एव । तादृशाचार्ये यत्नवानिति समस्तपदस्यार्थः । अनेन गुरुश्चासौ देवता च गुरुदेवता गुरुदेवतायामात्मा श्रवणाद्यर्थं प्रयत्नो यस्येति विग्रहस्सूचितो भवति । आत्मा यत्ने धृतौ देहे स्वभावे परमात्मनीत्यभिधानात् । एतादृशभजनकौशलं वातावतारमध्व-भजकस्यैव स्यात् । नाल्पज्ञगुरुभक्तस्येति भावः ।। ३७७ ।।
सत्यप्रमोदटीका
अतः निर्गुणे अभिनिवेशस्य तमआख्यभयहेतुत्वात् तमेव मुकुन्दमेव ईशं परब्रह्मत्वेन ‘परम्ब्रह्म परन्धाम पवित्रं परमं भवान्’ इति गीतोक्तवर्त्मना भजेत् । तदर्थं गुरुः मध्वः स चासौ देवता वायुः । तयोर-भेदात् । तच्छास्त्राध्ययने आत्मा यत्नः यस्य स तादृशः भवेत् । आत्मा यत्ने धृतौ देहे इत्यभिधानम् ।। ३७७ ।।
युक्तिमल्लिका
इति वाक्यार्थमालोच्य त्यजान्यद्भज नः प्रभुम् ।। ३७८ ।।
सुरोत्तमटीका
श्लोकार्थमुपसंहरति ।। इतीति ।। अन्यन्निर्गुणं ब्रह्म ।। ३७८ ।।
सत्यप्रमोदटीका
अन्यत् नैर्गुण्यभावनाम् ।। ३७८ ।।
युक्तिमल्लिका
अविद्यमानो ह्यत्यन्तासन्नपि द्वयशब्दितः ।
द्वितीयो निर्गुणाख्यात्मा ध्यातुर्नैर्गुण्यवादिनः ।
दुर्धिया भाति तत्वं तु तन्न किन्त्वच्युताभिदः ।। ३७९ ।।
सुरोत्तमटीका
अस्मिन्पक्षेऽप्यविद्यमान इति श्लोकं योजयति ।। अविद्यमान इति ।। निर्गुण ब्रह्मणो प्रामाणिकत्वात् यथास्थित एव शब्दार्थः ।। ३७९ ।।
सत्यप्रमोदटीका
‘अविद्यमान’ इति श्लोकमुक्तार्थे योजयति । अविद्य-मानः अत्यन्तासन् । स्वकीयत्वेन इत्यध्याहारः अस्यां योजनायां नापेक्षितः । द्वयशब्दार्थस्य निर्गुणस्य सर्वथाऽप्रामाणिकत्वादेव । द्वयः निर्गुणः आत्मा । ध्यातुः सर्वमपि ध्यानरूपमुपासनं अविद्यमानविषयकमेवेति वासनावतः मायिनः धिया उक्तदुर्धिया भाति मुखतः तत्वं तु तन्न । ‘भावाभावविवर्जितं समरसं’ इति वदद्भिस्तैरेव निर्गुणस्य प्रामाणिकत्वरूपतत्त्वताऽनङ्गीकारात् । किन्तु अच्युताभिधः ‘अच्युतो यो गुणैर्नित्यमेवाखिलै’रित्युक्तः गुणपरिपूर्ण एव तत्त्वं स्वतन्त्रतत्त्वम् ।। ३७९ ।।
युक्तिमल्लिका
अस्मात्पद्यद्वयात्पूर्वपद्ये स्पष्टोदितः किल ।
उपर्युपरि चक्राङ्कोऽधोऽधो नारायणश्च यः ।। ३८० ।।
सुरोत्तमटीका
द्वयशब्दितः द्वितीय शब्दपर्यायद्वयशब्दवाच्यः पूर्वपद्ये किञ्चिद्व्यवधानेन पूर्वं विद्यमाने । मन्येऽकुतश्चिद्भयमच्युतस्य पादाम्बुजो-पासनमत्र नित्यम् इति पद्ये । उपर्युपरि अव्यवहितोपरितने शृृण्वन्सुभद्राणि रथाङ्गपाणेर्जन्मानि कर्माणि च यानि लोके इति पद्ये । यश्चक्रांक इत्य-साधारणलिङ्गवत्तया कीर्त्यते । अधोधः अव्यवहिताधो भागस्थे कायेन वाचेति पद्ये । यः नारायणः नारायणाख्यासाधारणनामवान्नारायणायेति समर्पयेत्तदिति कीर्त्यते स इति पूर्वेणान्वयः । विष्णुविषयकश्रुतिद्वयेन लिङ्गेन चास्याध्यायस्य विष्णावेव तात्पर्यमतस्स एव परतत्वमिति भावः ।। ३८० ।।
सत्यप्रमोदटीका
पूर्वपक्षे ‘मन्ये कुतश्चिद्भयमच्युतस्ये’ति पद्ये, उपर्युपरि अव्यवहितोपरितने ‘शृृण्वन् सुभद्राणि रथाङ्गपाणेः’ इति श्लोके रथाङ्ग-पाणिरिति चक्राङ्कः अधोऽधः अव्यवहिताधोभागस्थे ‘नारायणायेति समर्पये तत्’ इति श्लोके नारायणश्च यः स एव तत्त्वमिति पूर्वेणान्वयः ।। ३८० ।।
युक्तिमल्लिका
दैवत्वे नासदीशादेर्वा द्वयस्याग्रहाच्च भीः ।
गुरुत्वेन तु तत्सेवाऽसूचिपूर्वविशेषणात् ।। ३८१ ।।
सुरोत्तमटीका
इदानीं शैवादिमतखण्डनपरतयापि योजनिकां सूचयति ।। दैवत्वेनेति ।। दैवत्वेन परदैवत्वेन । असतोऽविद्यमानस्येशादेर्महादेवादेः । द्वयस्य द्वयशब्दवाच्यस्य । उपलक्षणं चैतत् । पूर्वश्लोके द्वितीयशब्द-वाच्यस्येत्यपि द्रष्टव्यम् । ईशपदोदितविष्णोस्सकाशाद्द्वितीयत्वं ततोऽर्वाचीन-ब्रह्मरुद्रादेरपि घटते । अतस्तेष्वप्याग्रहात् परदैवत्वेनाग्रहात् भीर्भयं भवति । शैवादिमतान्यप्यनेनैव श्लोकेन निरस्तानि भवन्तीति भावः । शिवादयोऽपि सर्वथा न त्याज्या इत्याह ।। गुरुत्वेनेति ।। पूर्वविशेषणात् पूर्वं व्याख्यात-गुरुदेवतात्माख्यविशेषणात् । गुरुभूतदेवताभजने यत्नवानित्युक्तत्वात् गुरुभूत-देवतात्वेन शिवादेरपि भजनमसूचि । परदेवतात्वेन भजनं निषिद्धमित्युक्तं भवति । किञ्च पूर्वश्लोकाभ्यां साकाराच्युतपादार्चनादि सेवारूपकर्मणां फलमनपेक्ष्य भगवत्येव समर्प्यमाणनिवृत्तिकर्मणां चाकुतश्चिद्भयत्वमुक्त्वा अस्मिन्पद्यद्वये ततोऽत्यन्तविभिन्नतया द्वितीय शब्दवाच्यकाम्यकर्मप्रवाहस्य भयहेतुत्वमुक्त्वा शृृण्वन्सुभद्राणीत्यन्तिमश्लोके पूर्वोक्तनिवृत्तिकर्माण्येव स्थिरी-करोतीति व्याख्यानमप्युचितम् । देहगेहादीत्यत्रादिशब्देन देहगेहाद्युपयुक्त-काम्यकर्मणामपि हेयकोटौ सङ्गृहीतत्वात्पूर्वोत्तरश्लोकेषु निवृत्तिकर्मणां स्तूय-मानत्वाच्च मध्ये प्रसक्तहेयकाम्यकर्मनिन्दैव न्याय्या । तत्कर्मसङ्कल्पविकल्पकं मनो बुधो निरुन्ध्यादिति तत्रैवोपसंहारे तत्तस्मादिति पूर्वोक्तभयहेतुत्वं निमित्तीकृत्य कर्मसु सङ्कल्पं विकल्पं च कुर्वन्मनो निरुन्ध्यादिति कर्मनिन्दने-नैव निगमनाच्च पूर्वद्वितीयद्वयशब्दाभ्यां प्रवृत्तिकर्मणामेव दुःखहेतुत्वं वाच्यम् । अन्यथा द्वितीयजगन्निषेधपरत्वे हेतुसाध्ययोर्वैयधिकरण्यप्रसङ्गात् । अस्माकं तु तृतीयेऽर्थे स्पष्टैव सङ्गतिः । देहगेहाद्यर्थत्वेऽपि तत्तस्माद्देहगेहादीनां दुःखदत्वात् ऐहिकामुष्मिकानित्यदेहगेहादिसाधककाम्यकर्मणि मनो निरुन्ध्या-दिति सङ्गतिसम्भवात् । निर्गुणशिवाद्यर्थत्वेऽपि तत्तस्मान्निर्गुणशिवाद्याग्रहस्य दुःखहेतुत्वात् तदुपासनादिकर्मणि मनो निरुन्ध्यादिति सङ्गतिसम्भवात् । तव तु द्वितीयजगदाग्रहस्य दुःखहेतुत्वे द्वितीये जगत्येव मनोनिरोधो वक्तव्यः । कर्ममात्रे मनोनिरोधस्य का सङ्गतिः । न हि यज्ञादिकं जगत्साधकं जग-दुपासनादिकर्म वा कस्यचिन्मते प्रसक्तम् । अतः परमते सुस्थैवासङ्गतिः । उक्तरीत्या निवृत्ति कर्मणामङ्गीकृतत्वात् साधारणोऽप्ययं कर्मशब्दः प्रवृत्ति-कर्ममात्रपरः । अविद्यमान श्शास्त्रेष्वविद्यमानः । रोचनार्थं फलश्रुतिरिति वचनात् ज्योतिष्टोमेन स्वर्गकामो यजेतेत्यादिशास्त्रतात्पर्याविषय इत्यर्थः । द्वयः प्रवृत्तिकर्मसमूहः ध्यातुः विषयानेव ध्यातुः पुंसः । धिया रागकलुषित-बुध्द्याऽवभाति शास्त्रविषयतया प्रतिभाति । तत्तस्माद्बुधः कर्मसंकल्पविकल्पकं मनो निरुन्ध्यादिति पूर्वोत्तरयोजनासौकर्यादयमेव शास्त्रार्थ इति न परेषा-मवकाशः । दैवत्वेनासदीशादेरित्यत्रादिपदेन मीमांसकाभिमतकाम्यकर्मणामपि सङ्गृहीतत्वात् तद्दूषणायेदमपि व्याख्यानं मूलकृत एवाभिमतम् ।। ३८१ ।।
सत्यप्रमोदटीका
शैवादिमतमपाकरोति दैवत्वेनेति । सर्वोत्तमत्वेन इत्यर्थः । असन् अविद्यमानश्चासौ ईशादिश्च तस्य द्वयस्य रुद्रादेः । आग्रहात् परदेवतात्वाभिमानात् । ‘साम्याधिक्ये तदन्येषामित्युक्तपरतत्वप्रद्वेषात् भीः अधमागतिः । गुरुदेवतात्मा इति विशेषणेन इतरदेवतासु गुरुत्वदेवत्वबुद्धिः योग्यतानुसारिणी आवश्यकीत्याह गुरुत्वेनेति । ‘परिवारतया ग्राह्या अपि हेयाः प्रधानतः’ इत्युक्तेः । एतदाह गुरुत्वेनेति । यद्वा मीमांसकाभिमत-काम्यकर्मनिराकरणमनेन क्रियते । तथा हि । अविद्यमानः शास्त्रतात्पर्य-विषयतया अविद्यमानः रोचनार्थं फलश्रुतिरिति वचनात् ‘ज्योतिष्टोमेन स्वर्गकामो यजेते’त्यादिशास्त्रतात्पर्याविषय इत्यर्थः । ‘न ह्यल्पफलभाग्वेदो वासुदेवैकसंश्रयः’ इति भागवततात्पर्योक्तेः । द्वयः ‘नारायणायेति समर्पयेत्तत्’ ‘शृण्वन् सुभद्राणि रथाङ्गपाणेः’ इत्यत्रैव पूर्वत्र उत्तरत्र चोक्तान्निवृत्तिकर्मणो भिन्नः प्रवृत्तिकर्मसमूहः । ध्यातुः ‘इदमद्य मया लब्धं इमं प्राप्स्ये मनोरथम्’ इति विषयविचारमग्नस्य धिया कामकलुषितया अवभाति शास्त्रतात्पर्यविषयतया प्रतीयते । कामिनः कृपणालुब्धाः पुष्पेषु फलबुद्धयः इति तात्पर्यवचनात् । तस्मात् बुधः कर्मसङ्कत्पविकल्पकं मनो निरुन्ध्यात् बहिर्मुखं यथा न भवति तथा निगृह्णीयात् । सिद्धविशेषे इष्टे इष्टसाधने च हरौ स्थापयेच्च । ततः अभयं स्यात् । ‘निवृत्तं सेवमानस्तु ब्रह्माभ्येति सनातनम्’ इत्युक्तं निर्वाणं भवेत् इति ।। ३८१ ।।
युक्तिमल्लिका
त्वमेवाहमिति प्रोक्तेप्यैक्याशा नैव शक्यते ।
त्वमेवाहमिति प्राहुरतिस्निग्धं यतो जनाः ।। ३८२ ।।
सुरोत्तमटीका
अधुना वाक्यान्तरेऽप्यैक्यशङ्कां निराकर्तुमुपोद्घात-सङ्गतिमाह ।। त्वमेवाहमिति ।। यतः यस्मात् । अतिस्निग्धमतिप्रियं सखायं जनास्त्वमेवाहमिति प्राहुः तत इति पूर्वेणान्वयः ।। ३८२ ।।
युक्तिमल्लिका
अहं पृथक्पृथक्त्वं किं त्वमेवाहमिति प्रभुः ।
स्वमन्त्रिणमतिप्रेम्णा किं न वक्ति प्रियंवदः ।। ३८३ ।।
सुरोत्तमटीका
उदाहरणान्तरमाह ।। अहमिति ।। किं शब्दस्यो-भयत्रापि सम्बन्धः । प्रियं वदः प्रभुरिति सम्बन्धः ।। ३८३ ।।
युक्तिमल्लिका
तस्मादेतादृशे वाक्ये प्रतीतार्थे तु बाधिते ।
प्रेमग्राह्यमबाधे तु स्वरूपैक्यमिति स्थितिः ।। ३८४ ।।
सुरोत्तमटीका
उदाहरणमुपसंहरन्प्रमेयविशेषं चाह ।। तस्मादिति ।। प्रतीतार्थे आपाततः प्रतीतैक्यरूपार्थे बाधिते सर्वसिद्धविरुद्धधर्मादिना वक्तु-मशक्ये । अबाधे अनन्तासनस्थेन हरिणा स्वावतारं कृष्णं प्रतीन्द्रादिभि-रर्जुनादीन् प्रति चेदृग्वाक्यकथनदशायामुभयोरपि समगुणत्वेन मुख्यार्थ-बाधाभावे ।। ३८४ ।।