गृष्ट्योर्मिथो विरोधे हि हत्वैकामपराङ्मुखीम्

निर्गुणश्रुतिविचारः

युक्तिमल्लिका

गृष्ट्योर्मिथो विरोधे हि हत्वैकामपराङ्मुखीम् ।

विरोधशान्तिं कः कुर्याद्विना म्लेञ्छकुमारकान् ।। ५२० ।।

सुरोत्तमटीका

 अपौरुषेयतया निर्दोषे वेदे एकभागस्यातत्वावेदकत्व कथनमयुक्तमित्यत्र दृष्टान्तमाह ।। गृ(घृ)ष्टयोरिति ।। प्रथमप्रसूतयोर्गवोः । विना म्लेच्छ कुमारकानित्यनेन दार्ष्टान्तिकेऽपि तस्य बौद्धत्वं ध्वनयति ।। ५२० ।।

सत्यप्रमोदटीका

 द्वा सुपर्णेत्यादिश्रुतयो निरवकाशतया भेदं प्रतिपाद-यन्ति । तत्त्वमसीत्यादयः कतिपया अभेदपरा इवापाततः प्रतीयन्ते । निर्दोषत्वेन प्रमाणानां वेदवाक्यानां न तत्त्वतो विरोधः सम्भवति । अतः ‘वेदवेदानुसारेषु विरोधेऽन्यार्थकल्पना’ इति भगवत्पादोदाहृतव्यासस्मृत्यनुरोधेन निरवकाशभेदवाक्यानुसारेण सावकाशैक्यवाक्यानां सादृदृयैक्याद्यर्थान्तरवर्णनेन विरोधः परिहरणीयः । औतिनस्तु भेदवाक्यानामतत्वावेदकत्वलक्षण-मप्रामाण्यमुक्त्वा विरोधपरिहारमभिलषन्ति । तेषामेवमुक्तेरतिनिन्द्यतामनुरूप-दृष्टान्तप्रदर्शनेन समर्थयति गृष्ट्योरित्यादिना । गृष्टिः सकृत्प्रसूता गौरति-पवित्रा । विरोधे अस्वाभाविके । न तु अहिनकुलादीनामिव स्वरूपभूते । येन अर्थान्तरलालसतोत्पादनेनापि कलहविमोचनं दुर्घटं स्यादिति भावः । म्लेञ्छाश्च ते कुमारकाश्चेति विग्रहः । कुत्सिताश्च ते मारकाश्चेति च । नीचा गोविप्रहिंसाशीलाः इत्यर्थः । तान्विना । क इत्याक्षेपे ।। ५२० ।।

युक्तिमल्लिका

तृणपिण्याकदानेन कृत्वाऽर्थान्तरलालसाम् ।

ततः प्रच्यावयेदेकां क्रुद्धाऽप्यन्याध्वना व्रजेत् ।। ५२१ ।।

सुरोत्तमटीका

 किन्तु सावकाशस्यार्थान्तरकथनेनोभयोरपि वेदभागयोः प्रामाण्यमेव रक्षणीयमित्यत्रापि दृष्टान्तमाह ।। तृणपिण्याकेति ।। अर्थान्तर-लालसां कृत्वेति सम्बन्धः । ततो विरोधात् । अन्या क्रुद्धापि कोपात्तृणादिक-मसहमानापीत्यनेन दार्ष्टान्तिकेऽपि निरवकाशत्वं ध्वनयति ।। ५२१ ।।

सत्यप्रमोदटीका

 एकां स्वभावदुर्बलाम् । ततः मुखतः कलहात् । क्रुद्धाऽपि पूर्वमिति शेषः । अपिना प्रागपि प्रतीतः क्रोधरूपः कलहो न स्वभावकृत इति तस्यास्वरसतां ध्वनयति । अन्या स्वभावबलवती अत एवार्थान्तरालालसा । अन्याध्वना दुर्बलगृष्टिप्रक्रान्तमार्गापेक्षया अन्यमार्गेण । वस्तुतः पूर्वप्रवृत्तस्वमार्गेणैव । बलवत्याः स्वमार्गात्प्रच्युत्यभावात् ।। ५२१ ।।

युक्तिमल्लिका

एवं श्रुत्योर्विरोधेऽपि या वागन्यार्थवर्तिनी ।

तां तदर्थपरां कृत्वा मोचयेत्कलहं तयोः ।। ५२२ ।।

सुरोत्तमटीका

 दार्ष्टान्तिकं योजयति ।। एवमिति ।। तयोस्सावकाश-निरवकाशश्रुत्योः कलहं विरोधम् ।। ५२२ ।।

सत्यप्रमोदटीका

 दार्ष्टान्तिकं योजयति एवमिति । अत्र गृष्टी तत्वमसि द्वासुपर्णवाक्ये । म्लेञ्छकुमाराः वेदस्वरूपतत्प्रामाण्यादिमिथ्यात्वं ब्रुवाणा मिथ्यावादिनः । तृणापिण्याकादिकं वक्ष्यमाणं सादृश्यैक्याद्यर्थान्तरषट्कम् इत्यादिविवेको ध्येयः । बौद्धः श्रुतिसाध्व्याः प्राणापहारकः । मायी तु तन्मानभङ्गं समीहमानस्ततोऽपि निन्द्यतर इति भावः ।। ५२२, ५२३ ।।

युक्तिमल्लिका

अतत्वावेदिका त्वेका तत्वस्यावेदिका परा ।

इत्याद्युक्तिस्त्वमानत्वप्राप्त्याऽसुत्याजनं श्रुतेः ।। ५२३ ।।

सुरोत्तमटीका

 ननु तत्वावेदकत्वातत्वावेदकत्वाभ्यां विरोधशान्तिः किं न स्यादित्यत आह ।। अतत्वेति ।। एका निरवकाशश्रुतिः । अपरा सावकाशश्रुतिः । आदिपदेनानुवादकत्वादिकं ग्राह्यम् । अमानत्वप्राप्त्या अतद्वतितत्प्रकारकज्ञानजनकत्वरूपा प्रामाण्यप्राप्त्या असुत्या जनं प्राणसम-प्रामाण्यत्याजनम् । श्रुतेः अतत्वावेदकत्वेनोक्तश्रुतेः । एतेन ध्वनितं बौद्धत्वं स्पष्टीकृतमिति द्रष्टव्यम् ।। ५२३ ।।

युक्तिमल्लिका

सादृश्यैक्ये स्थानमत्योरैक्ये व्याप्त्यैक्यपूर्वके ।

सावकाशैक्यवाग्भेदवाक्तु स्वार्थपरायणा ।। ५२४ ।।

सुरोत्तमटीका

 एवमपि प्रकृते किमायातमित्यत आह ।। सादृश्यैक्य इत्यादिना ।। सादृश्यैक्ये सादृश्यरूपैक्ये स्थानमत्योरैक्ये स्थानैक्ये मत्यैक्ये चेत्यर्थः । व्याप्त्यैक्ये व्याप्तिरूपैक्ये । पूर्व इत्यनेन स्वातन्त्र्यैक्यवैशिष्ट्यैक्ययो-र्ग्रहणम् । उक्तार्थषट्के ऐक्यवाक्सावकाशेति सम्बन्धः । स्वार्थपरायणा अन्यार्थेऽवकाशशून्या निरवकाशेत्यर्थः ।। ५२४ ।।

सत्यप्रमोदटीका

 ऐक्यश्रुतीनां सावकाशत्वमर्थान्तरप्रदर्शनेन व्यनक्ति सादृश्येति । सर्वत्र निमित्तसप्तमी । सादृश्यं च तदैक्यं चेति विग्रहः । पूर्वके इत्यनेन स्वातन्त्र्यविशिष्टैक्ययोर्ग्रहणम् । तुशब्देनार्थान्तरपरत्वव्यवच्छेदः । स्वार्थः वाच्यार्थः परायणं प्रमित्युद्देश्यः यस्याः सा ।। ५२४ ।।

युक्तिमल्लिका

एकीभूतास्तु कुरव एकीभूतौ नृपाविमौ ।

ऐक्याद्वयस्य ऋभुमानित्याद्युक्तिर्विचार्यताम् ।। ५२५ ।।

सुरोत्तमटीका

 एकीभूतास्तु कुरव इति स्थानैक्ये एकशब्दप्रयोग-स्योदाहरणम् । इमौ नृपावेकीभूताविति मत्यैक्ये एकशब्दप्रयोगस्योदाहरणम् । ऐक्याद्वयस्य ऋभुमानित्यनेन शय्यासनाटनविकत्थनभोजनादिष्वैक्याद्वयस्य ऋभुमानिति विप्रलब्धः ।। ‘‘सख्युस्सखेव पितृवत्तनुजस्य सर्वं सेहे महामह-तया कुमतेरघं मे’’ इति भागवतोक्त्या व्याप्त्यैक्ये ऐक्यपदप्रयोगस्योदाहरणम् । ऋभुमान्देवश्रेष्ठः कृष्णश्शयनादिव्यापारेष्वैक्यादविनाभावात्सहैव सञ्चरणा-दित्यर्थः । वयस्यस्सखेति विप्रलब्धो वंचितोऽपि महामहतया महामहिमतया कुमतेर्मे सर्वमघं सख्युः सखेव तनयस्य पितृवत् इति श्लोकार्थः । अत्र सादृश्ये ऐक्यप्रयोगस्य सिंहो देवदत्त इत्यादौ एकस्मिन्ग्रामेऽविशिष्टस्यापि यवनस्य शक्त्या स्वातन्त्र्ये सत्यस्मिन्ग्रामेऽयमेक एवेति स्वातन्त्र्यैक्ये एकपद-प्रयोगस्य इतरकार्येष्वस्वतन्त्रस्यापि कस्यचित्तपोविद्यादिनोत्तमत्वे सति अस्मिन् ग्रामेऽयमेक एवेति एकपदप्रयोगस्य चोदाहरणानि प्रसिद्धत्वान्नोक्तानि । अत्र निमित्तपञ्चकं

स्वातन्त्र्ये च विशिष्टत्वे स्थानमत्यैक्ययोरपि ।

सादृश्ये चैक्यवाक्सम्यक्सावकाशा यथेष्टत

इत्यनुव्याख्यानोक्तरीत्या संगृहीतम् । व्याप्त्यैक्यं तु भागवतोक्तं ग्रन्थकृतैव सङ्गृहीतमिति द्रष्टव्यम् ।। ५२५ ।।

सत्यप्रमोदटीका

 स्थानैक्यादिनिमित्तानैक्यव्यवहारान्दर्शयति एकीभूता इति । तेन न स्वायत्तन्यायविरोधेनामुख्यवृत्तौ प्रयोजनापेक्षा । एकीभूताः एकस्थानस्थितिमन्तः । स्थानैक्ये लक्षणा । एकीभूतौ एकविषयकमतिमन्तौ । मत्यैक्ये दृष्टान्तः । लक्षितलक्षणावृत्तिः । व्याप्त्यैक्ये दृष्टान्तो वयस्य ऋभु-मानिति । ऋभवो देवाः । ‘आदित्या ऋभवोऽस्वप्ना अमर्त्या अमृतान्धसः’ इत्यमरः । तद्वान् देवश्रेष्ठः कृष्णः । इदं चार्जुनस्य युधिष्ठिरं प्रति वचनं भागवते प्रथमस्कन्धे । अत्र व्याप्तिर्बहुत्र सहावस्थितिः । स्थानैक्यस्यैव विशेषः ।

शय्यासनाटनविकत्थनभोजनादिष्वैक्याद्वयस्य ऋभुमानिति विप्रलब्धः ।

 सख्युः सखेव पितृवत्तनयस्य सर्वं सेहे महामहतया कुमतेरघं मे’

इति पूर्वार्धे शय्याऽऽद्यनेकव्यापाराणामैक्येऽधिकरणत्वोक्तेरुत्तरार्धे च महामहिमत्वकुमतित्वादिविरुद्धधर्मोक्तेश्च न तन्मध्यपतितमैक्यपदं स्वरूपैक्य-परमिति स्पष्टम् । न हि स्वरूपैक्यमवस्थाविशेषनियतमिति भावः । वशीकृत ग्राममधिकृत्यास्मिन्ग्रामेऽयमेव पुरुष इति खातन्त्र्यैक्ये, विद्याविशिष्टं ब्राह्मण-मधिकृत्यायमेव ब्राह्मणोऽस्मिन्ग्रामे इति विशिष्टैक्ये च उदाहरणे ध्येये । अनेन

स्वातन्त्र्ये च विशिष्टत्वे स्थानमत्यैक्ययोरपि ।

 सादृश्ये चैक्यवाक् सम्यक्सावकाशा यथेष्टतः’

इति भगवत्पादोक्तिर्विवृता ध्येया ।। सादृश्यैक्ये गौणीवृत्तिर्विशिष्टैक्ये च लक्षणावृत्तिश्च ज्ञेये । एतान्युदाहरणान्युपलक्षणानि । व्याप्त्यैक्ये सर्वं जलं लवणमिति, निमित्तैक्ये ‘आयुर्वै घृतमि’ति, तत्सिद्ध्यैक्ये ‘यजमानः प्रस्तर’ इत्यादीनि न्यायामृते ‘इदं सर्वं यदयमात्मा’ इति श्रुत्यर्थविवरणभङ्ग उदाहृतान्यनुसन्धेयानि ।। ५२५ ।।

युक्तिमल्लिका

लिङ्गानुशासनं यस्मादेके मुख्यान्यकेवलाः ।

इत्याह भेद एवैक्यं मुख्यता वा ततो भवेत् ।। ५२६ ।।

सुरोत्तमटीका

 इदानीमेकमेवाद्वितीयमित्यादौ विद्यमानमेकपदं लिङ्गानु-शासनबलान्मुख्यया वृत्त्या सर्वोत्तमत्वं भेदं वा वक्तीति तवैव विरोधीति भावेनाह ।। लिङ्गानुशासनमित्यादिना ।। अतः कारणात् ।। ५२६ ।।

सत्यप्रमोदटीका

 एकशब्दार्थमुपजीव्यैव खलु मायावादिनैक्यं साधनीयम् । न च तत्सम्भवति । तच्छब्दस्य ऐक्यविरोधिभेदाद्यर्थकत्वेनानु-शिष्टत्वादित्याह लिङ्गेति । ततः तस्मात् कारणात् । यस्मादित्यनेनान्वयः । ऐक्यम् ‘एकमेवाद्वितीयमि’त्यत्र श्रूयमाणैकशब्दप्रवृत्तिनिमित्तम् । एवेति स्वरूपैक्यव्यवच्छेदः ।। ५२६ ।।

युक्तिमल्लिका

यदा तवैक्यशब्दोऽयं भेदं वक्त्यखिलेशितुः ।

वक्ति सर्वोत्तमत्वं वा प्रतिवक्ति कथं भवान् ।। ५२७ ।।

सुरोत्तमटीका

 ततः किमित्यत आह ।। यदेति ।। तदेति शेषः । भवान्कथं प्रतिवक्ति । तत्ववादिनां प्रतिभटतया वक्ति । त्वदायुधस्यैव परैरपहृतत्वादिति भावः । श्रुतियोजनातु एकमेवाद्वितीयमित्यत्र एकं सर्वोत्तमं सकलजीवजडात्मकात्प्रपञ्चादत्यन्तभिन्नमिति वा परेऽव्यये सर्व एकीभवन्ती-त्यत्रतु अव्यये परे परमात्मनि आधारे स्थिता मुक्ताः मुक्तत्वादेवैकीभवन्ति संसारिभ्यो मुख्यावा तद्विलक्षणावा परस्परं परमात्मनस्सकाशाच्च भिन्नावा भवन्तीति द्रष्टव्या ।। ५२७ ।।

सत्यप्रमोदटीका

 तव, ऐकयसाधकत्वेन त्वदभिमततया त्वत्सम्बन्धी । सर्वोत्तमत्वमिति । ‘ब्रह्मेशानादिभिर्देवैर्यत्प्राप्तुं नैव शक्यते । तद्यत्स्वभावः कैवल्यं स भवान् केवलो हरे ।।’ इति निर्वचनानुसारेण केवलेत्यस्य सर्वोत्तमार्थकत्वं च सूचितम् । लिङ्गानुशासनमुपलक्षणम् । ‘एको गोत्रे इत्यत्रैकशब्दोऽयमन्यप्रधानासहायसङ्ख्याप्राथम्यसमानवाची’ति कैयटोक्ति-र्न्यायामृतोदाहृताऽपि ग्राह्या । प्रतिवक्ति भेदं प्रत्याख्याति । त्वदभिमत-मानस्यैव त्वत्प्रतिकूलत्वादिति भावः ।। ५२७ ।।

युक्तिमल्लिका

एवं निर्गुणवाक्यं च सामान्यवचनत्वतः ।

दोषरूपगुणाभावपरं कर्तुं हि शक्यते ।। ५२८ ।।

सुरोत्तमटीका

 ऐक्यवाक्योक्तं सावकाशत्वन्यायं केवलो निर्गुण इति निर्गुणवाक्येऽप्यतिदिशति ।। एवमिति ।। यद्यप्युत्सर्गापवादन्यायेनापि परिहारः । तथाऽप्युत्सर्गस्य सावकाशत्वनियमेनापवादस्य निरवकाशत्वनियमेन चाय-मतिदेशः । उपायस्योपायान्तराविरोधित्वादिति भावः । दोषरूपगुणाः राग-द्वेषदुःखबन्धकसत्त्वादयः प्राकृतरूपादयस्सर्वे लौकिकगुणावा

।। ५२८,५२९ ।।

सत्यप्रमोदटीका

 निर्गुणवाक्यं निर्गुणपदघटितं ‘साक्षी चेता केवलो निर्गुणश्चे’ति वाक्यम् । यद्वा यौगिकत्वेन वाक्यतुल्यं निर्गुणेतिपदम् । वचन-त्वतः उच्यतेऽर्थोऽनेनेति व्युत्पत्त्या वाक्यत्वतः पदत्वतो वा । सामान्येति । अर्थान्तरपरतया नेतुं शक्येत्यर्थः । गुणशब्दस्योत्कर्ष-प्रयोजकधर्मेष्विव प्रकृतिकार्येषु सत्वादिष्वपि प्रयोगात् ।। ५२८ ।।

युक्तिमल्लिका

एष सर्वेश इत्यादिविशेषवचनं तु यत् ।

अन्यार्थशून्यं तत्स्वार्थं प्राणत्यागेऽपि न त्यजेत् ।। ५२९ ।।

सत्यप्रमोदटीका

 यत् यस्माद्विशेषवचनं तत् तस्मादन्यार्थशून्यमिति योजना । प्राणत्यागेऽपि अवान्तराभिमानिनामिति शेषः प्रलयेऽपीति यावत् । न त्यजेत् । अर्थान्तरस्यानवकाशादस्यापि स्वार्थस्य परित्यागे नैरर्थक्यलक्षणा-प्रामाण्यप्रसङ्गादिति भावः ।। ५२९ ।।

युक्तिमल्लिका

न हिंस्यादिति वाक्यं हि क्रतोरन्यत्र मान्यते ।

तद्बह्वर्थविभक्त्यन्तसर्वशब्दान्वितां श्रुतिम् ।

श्रौतादन्यत्र नयता तच्छून्या किं न नीयते ।। ५३० ।।

सुरोत्तमटीका

 न केवलमेष न्यायोऽस्माभिरेवाङ्गीक्रियते किंतु त्वयाऽ-प्यङ्गीकृत इत्याह ।। नहिंस्यादिति ।। तत्तस्मात्सामान्यनिषेधस्यैकदेशे सङ्कुचितत्वात् । बह्वर्था भूतानीति बहुत्वार्था विभक्तिस्तदन्ता सर्वा । सर्वाणि इति सर्वशब्दान्विताच तामित्यर्थः । श्रौतात्क्रतोः । तच्छून्या निर्गुण इति श्रुतौ तदुभयाभावादिति भावः । प्राकृतगुणो नेति सर्वेषां दोषरूपगुणानां निषेद्धुं शक्यत्वाद्बहुवचनेऽपि न भर इति हृदयम् । विशेषविधेस्सकाशात्सामान्य-निषेधस्य दौर्बल्येपीदमेवोदाहरणम् ।। ५३० ।।

सत्यप्रमोदटीका

 निषेधवाक्यानां सर्वत्र प्रमितेतरनिषेधपरत्वमित्यत्र सम्प्रतिपन्नं दृष्टान्तमाह नेति । निषेधवाक्यानां बहुवचनान्तसर्वपदघटित-त्वेऽप्ययं न्यायोऽप्रतिबद्धप्रसर इत्याह बह्वर्थेति । बह्वर्थविभक्तिः बहुवचनम् । तदन्तश्चासौ सर्वशब्दश्च तेनान्वितां श्रुतिं सर्वा भूतानीति श्रुतिम् । अन्यत्रेत्यतः पूर्वं क्रतोरित्यनुषज्यते । तच्छून्या सर्वशब्दशून्या निर्गुणश्रुतिः । अत्र बहुवचने न भरः । प्रकृतिगुणानामपि बहुत्वात् । एतेन निर्गुणश्रुतिर्निषेधरूपत्वा-त्प्रबलेत्यपि परास्तम् । न हिंस्यादिति निषेधस्यैव विशेषविधिना बाधस्यो-दाहृतत्वादित्याकूतम् ।। ५३० ।।

युक्तिमल्लिका

अतस्सामान्यतो यत्तु निषेधवचनं श्रुतौ ।

विशेषवाक्यविहितं न हि तत्प्रतिषेधति ।। ५३१ ।।

सुरोत्तमटीका

 अत एष सर्वेश्वर इत्यादिविशिष्य गुणविधायकवाक्या-न्निर्गुण इति सामान्यतो गुणनिषेधकनिर्गुणवाक्यमेव । दुर्बलमिति भावेनोप-संहरति ।। अत इति ।। ५३१ ।।

सत्यप्रमोदटीका

 अतः निरवकाशत्वस्यैव बाधकत्वे तन्त्रत्वात् निषेध-वाक्यत्वस्याप्रयोजकत्वात् । सामान्यतो वचनम् सावकाशवाक्यं निर्गुणश्रुतिः । विशेषवाक्यविहितम् निरवकाशेन ‘एष सर्वेश इति अनेन विहितं सर्वेश-त्वादिकम् । हीत्यनेनास्य न्यायस्य सुदृढतामाह

।। ५३१ ।।

युक्तिमल्लिका

योऽसौ निर्गुण इत्युक्तश्शास्त्रेषु जगदीश्वरः ।

प्राकृतैर्हेयसंयुक्तैर्गुणैर्हीनत्वमुच्यते ।

इति पाद्मे त्रयस्त्रिंशाध्याये रुद्रस्य वागियम् ।। ५३२ ।।

सुरोत्तमटीका

 उक्तमर्थं पुराणवचनेन द्रढयति ।। योऽसाविति ।। हेयसंयुक्तैर्हेयत्वसंयुक्तैर्हेयैरित्यर्थः ।। ५३२ ।।

सत्यप्रमोदटीका

 प्राकृतगुणानामेव निषेध इत्यत्र समाख्यां पठति योसाविति । शास्त्रेषु श्रुतिस्मृतिषु सर्वत्र । प्राकृतैः बन्धहेतुभिः ।

सत्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः ।

 निबध्नन्ति महाबाहो देहे देहिनमव्ययम्’

इति गीतोक्तेः । अत एव हेयसंयुक्तैः हेयत्ववद्भिः हेयैरिति यावत् । हीनत्वं तन्नियामकत्वेन तत्कृतलेपाभावः । ‘गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति’ इत्युक्तेः । असावित्यनेन विष्णोः वक्तू रुद्राद्भिन्नत्वं, जगदीश्वर इत्यनेन रुद्रस्य तथात्वाभावः स्वयं प्रकृतिबद्धत्वं च ज्ञाप्यन्ते ।। ५३२ ।।

युक्तिमल्लिका

शब्दस्य लब्ध्वा योग्यार्थमयोग्यार्थो न मृग्यते ।

दुग्धार्थी बुद्धिमान्दोग्धि कस्तं बस्तगलस्तनम् ।। ५३३ ।।

सुरोत्तमटीका

 प्रामाणिके प्रमाणान्तराविरुद्धे चार्थे सम्भवति सति अतादृशार्थगवेषणमनुचितमित्येतत्सदृष्टान्तमाह ।। शब्दस्येति ।। बस्तः छागः । सर्वथा क्षीराभावाद्बस्तेत्युक्तम् ।। ५३३ ।।

सत्यप्रमोदटीका

 शब्दस्य एकीभवन्ति निर्गुणः इत्यादिकस्य । योग्यार्थं प्रामाणिकं प्रमाणाविरुद्धं च स्थानमत्यैक्यादिकं प्राकृतगुणरहित इत्यादिकम् । लब्ध्वा स्वरसतः अधिगम्य । अयोग्यार्थः अप्रामाणिकः सकलप्रमाणविरुद्धश्च स्वरूपैक्यं सद्गुणरहित इत्यादिरूपः । न मृग्यते दुरभिनिवेशनिमित्तेन न कल्प्यते । अत्रैव दृष्टान्तमाह दुग्धार्थीति । कामधेनौ सत्यामित्यादावुप-स्कर्तव्यम् । बस्तः छागः । अयं पुनर्विशेषः । छागगलस्तनदोहनं क्लेशमात्र-फलकम् । श्रुतेरपार्थाभिधानं तु तमःफलकमिति ।। ५३३ ।।

युक्तिमल्लिका

सन्ध्यायां वन्दते योगी सन्ध्यां भोगी तु सुन्दरीम् ।

युगपन्मतिभेदस्तद्भिन्नयोरेव नान्यथा ।। ५३४ ।।

सुरोत्तमटीका

 ऐक्यवाक्यस्य मत्यैक्ये सावकाशत्ववद्भेदवाक्यस्यापि मतिभेदे सावकाशत्वं किं न स्यादिति केनचिदुक्तेऽपि भिन्नाविमौ राजाना-वित्यत्र भिन्नभिन्नविषयकमतिद्वयस्यैव मतिभेददर्शनेन तस्य च पुरुषभेदाविना-भूतत्वात् नास्माकमनिष्टमिति सदृष्टान्तमाह ।। सन्ध्यायामिति ।। सन्ध्यां वन्दत इति सम्बन्धः । द्वासुपर्णेत्यत्र द्वाविति वर्तमानकालीनद्वित्वोपपादनाय युगपन्मतिभेदस्यावश्यकत्वादिति भावः । इदानीं भिन्नोऽयमित्येकवचनांतप्रयोगे स्वरूपभेदानपेक्षक्रमिकमतिभेदस्य कथञ्चिच्छङ्कितुं शक्यत्वेऽपि द्वावेतौ भिन्ना-वेतावित्यादिद्विवचनान्तप्रयोगे स्वरूपभेदानपेक्षमतिभेदस्य शङ्कितुमप्यशक्य-त्वादित्यपि द्रष्टव्यम् ।। ५३४ ।।

सत्यप्रमोदटीका

 कश्चिदाह, ऐक्यवाक्यं यथा मत्यैक्यपरमित्युच्यते तथा द्वासुपर्णेत्यादिभेदवाक्यं मतिभेदपरं किं न स्यादिति । तद्दूषयति सन्ध्या-मिति । अयमभिसन्धिः । द्वासुपर्णेतिवाक्यस्य स्वरूपभेदपरत्ववारणाय खलु मतिभेदपरत्वं परेणाङ्गीकृतम् । न तावता तस्येष्टसिद्धिः । स्यादपि तथा कथञ्चित् यदि जीवपरमात्मनोर्जीवानां वा कालभेदेनैव मतिभेदः स्यात् । न तु तथाऽस्ति । युगपदेव मतिभेदस्यानुभूयमानत्वात् । स च स्वरूपभेदेना-विनाभूत एवोपलब्धः। योगिभोगिनोस्तथा दृष्टेः । तथा च मतिभेदाङ्गी-कारोऽपि स्वरूपभेदाङ्गीकार एव पर्यवसन्न इति घट्टकुटीप्रभातन्यायः । अयमत्र प्रयोगः । जीवपरमात्मानौ, स्वरूपतो भिन्नौ, युगपद्भिन्नविषयक-मतिमत्त्वात् योगिभोगिवत् । न चासिद्धिः परेणैव भेदश्रुतेस्तत्परत्वाङ्गीकारात् । न च दृष्टान्तः साधनविकलः । सन्ध्यायामेकस्मिन्काले योगिना सन्ध्या-वन्दनस्य भोगिना तु सुन्दरीवन्दनस्य करणात् । नैमित्तिकव्यवहारभेददर्शनेन तन्निमित्तमतिभेदकल्पनासौलभ्यात् । भिन्नयोरेवेति एककारपुरस्सरं व्याप्ति-प्रदर्शनेन भेदस्य व्यापकत्वं मतिभेदस्य व्याप्यत्वं ज्ञायते । नान्यथेत्यनेन व्याप्तेः सुदृढता चावगम्यते ।। ५३४ ।।

युक्तिमल्लिका

सखायौ सयुजौ चेति मतिस्थानभिदे स्फुटम् ।

यत्प्रत्याह ततोऽप्याह भेदवाग्भेदमेव हि ।। ५३५ ।।

सुरोत्तमटीका

 किञ्च सयुजाविति स्थानभेदस्य सखायाविति मतिभेदस्य च स्पष्टं निराकृतत्वेन नात्र मतिभेदस्थानभेदयोरवकाशोऽप्यस्तीत्याह ।। सखाया विति ।। प्रत्याह निराकरोति । ततोऽप्यर्थान्तरा सम्भवादपि ।। ५३५ ।।

सत्यप्रमोदटीका

 अङ्कीकृत्य परोक्तं श्रुतेर्मतिभेदपरत्वं स्वरूपभेदपर्यव-सायित्वं समर्थितम् । वस्तुतः सखायौ इति पदसद्भावेन तेन च मत्यैक्य-स्यैवागमनेन न मतिभेदपरत्वं श्रुतेः कल्पनार्हमित्याह सखायाविति । इदमुपलक्षणम् । सयुजाविति स्थानैक्यस्यापि निर्देशात् स्थानभेदपरताऽप्य-पास्ता वेदितव्या । ततोऽपि अर्थान्तरासम्भवादपि । न केवलं प्रागुक्तेन पर्यवसानप्रकारेणेत्यपेरर्थः

।। ५३५ ।।

युक्तिमल्लिका

ऐक्योक्तेस्स्वविरोधिन्यास्सख्यस्थानैक्यवादिनी ।

यद्गती चाह तद्वाणी कृपाणीयं विरोधिनाम् ।। ५३६ ।।

सुरोत्तमटीका

 न केवलमैक्यवाक्यस्य मत्यैक्यस्थानैक्ययोरवकाशोऽ-स्माभिरेवावादि किंतु श्रुत्याप्यसूचीत्याह ।। ऐक्योक्तेरिति ।। सख्यस्थानैक्य-वादिनी जीवपरयोरिति शेषः ।। ५३६ ।।

सत्यप्रमोदटीका

 द्वा सुपर्णेति श्रुतिर्न केवलं स्वपक्षं भेदं साधयति किं तु परपक्षं प्रतिक्षिपत्यपीत्याह ऐक्येति । यदि जीवब्रह्मणोर्भेदस्तर्हि ‘विज्ञान-मयश्च आत्मा परेऽव्यये सर्व एकीभवन्ति’ ।

यावन्मोक्षस्तु भेदः स्याज्जीवस्य परमस्य च ।

 ततःपरं न भेदोऽस्ति भेदहेतोरभावतः’

इति मुक्तावैक्याभिधात्रीणां भेदनिषेधिकानां च श्रुतीनां का गतिरिति परेषां चोद्यस्य परिहारं सूचयितुं सखायौ सयुजाविति च पदद्वयेन गतिद्वयसूचनात् । विरुद्धमतिमत्वं प्रति हेतोरज्ञानस्य नाशनात् न मुक्तौ मतिभेदः, सयुजा-वित्युक्तत्वात्स्थानैक्यस्यैवावगमान्न स्थानभेदो वेति मत्यैक्यस्थानैक्यनिमित्त एवाभेदव्यपदेश इति ।। ५३६ ।।

युक्तिमल्लिका

नारायणः परं ब्रह्म नान्यद्ब्रह्म ततः परम् ।

प्राक्सृष्टेरप्सु यश्शेते वटपत्रपुटे प्रभुः ।। ५३७ ।।

सुरोत्तमटीका

 पराभिप्रेतनिर्गुणब्रह्म निराकर्तुं नारायणस्यैव परब्रह्मतां युक्त्या प्रसाध्य तस्यैव सत्त्वादिगुणवैधुर्येण निर्गुणतां चाह ।। नारायण इत्यादि श्लोकत्रयेण ।। ततो नारायणात् । सृष्टेः प्राक् । ब्रह्मप्रलयेप्यविलीनस्य अत एव कार्यब्रह्मभूतचतुर्मुखादप्युत्तमस्य सृष्टेः पूर्वं विद्यमानस्य अत एवाकार्यस्य च नारायणस्यैव परब्रह्मता युक्ता । अनाद्यनन्तवस्तुत्वात् । न पराभिलषित-स्येति युक्तिः । प्रयोगस्तु विमतो नारायणः परम्ब्रह्म भवितुमर्हति सृष्टिशून्य-त्वात् नाशरहितत्वाच्च व्यतिरेकेण घटवदिति । विष्णोरन्यत्र सर्वत्र पराधीन-विशेषावाप्तिलक्षणसृष्टेरपूर्णता लक्षणनाशस्य च सत्त्वेन न क्वापि व्यभिचारः ।। ५३७ ।।

सत्यप्रमोदटीका

 अत्राह । द्वे ब्रह्मणी । निर्गुणं सगुणं च । तत्र निर्गुणं नित्यशुद्धबुद्धमुक्तस्वभावं परिपूर्णम् । तदेव मायाशबलितत्वेनैश्वर्य-वत्तया सगुणमित्युच्यते । तत्र सद्गुणबृंहितो नारायणोऽपरं ब्रह्म । शुद्धं तु निर्गुणं परं ब्रह्मेति । तदेतच्छलोकत्रयेण निराकरिष्यन्नादौ प्रतिजानीते नारायण इति । ततः नारायणात् । अन्यद्ब्रह्मैव नास्ति दूरे ततः परम् । तथोक्तं ‘‘ब्रह्मशब्दः परे विष्णौ नान्यत्र क्वचिदिष्यते’ इति । तत्र सूत्रोक्तयुक्तीराह प्रागिति । अप्सु शेते इत्यनेन नारायणशब्दनिर्वचनं सूचितम् । शेते इत्यनेन ‘एकीभूय पुनः शेते निर्दोषो हरिरादिकृत्’ इति भाष्योदाहृतप्रमाणं च सूचितम् । अनेन स्वाप्ययादिति सौत्रयुक्तिरभिहिता । प्रलयेऽवस्थानोक्त्या जन्ममरणाभावः समर्थितः । तथा शुद्धिसौरभे वक्ष्यति ‘अतोऽभूद्देहलीदीपः प्रलये सत्त्वमीशितुः । कल्पान्ते यल्लयं रुन्धे कल्पादौ जन्म च प्रभोः’ इति । तेन च प्राकृतदेहसम्बन्धाभावो लभ्यते । तत्सम्बन्ध-वतो जन्ममरणनियतेः ।। ५३७ ।।

युक्तिमल्लिका

बन्धकीभूतसत्वादिदुर्गुणानां विवर्जनात् ।

स एव निर्गुणं ब्रह्मेत्युक्तस्सद्गुणबृंहितः ।। ५३८ ।।

सुरोत्तमटीका

 सद्गुणबृंहित इत्यनेन सर्वथा गुणशून्यमेव निर्गुणं ब्रह्मचेति वदतः बृहंतो ह्यस्मिन् गुणा इत्युक्तगुणपूर्णत्वलक्षणब्रह्मत्वानुपपत्त्या व्याहतभाषित्वं च सूचितम् ।। ५३८ ।।

सत्यप्रमोदटीका

 एतेनैव निर्गुणशब्दस्य तस्मिन्प्रवृत्तौ निमित्तं च दर्शितमित्याह बन्धकीभूतेति । ‘बृहन्तो ह्यस्मिन् गुणाः’ इत्युक्तं गुणपूर्णं ब्रह्म सर्वथा गुणशून्यमित्युक्तिस्तु व्याहतेः प्रथममुदाहरणम् ।। ५३८ ।।

युक्तिमल्लिका

तन्मुकुन्दाभिधं ब्रह्म वेदाख्यब्रह्मवर्णितम् ।

ब्राह्मणानां परं दैवं ब्रह्मसूत्रप्रकाशितम् ।। ५३९ ।।

सुरोत्तमटीका

 मुकुन्दाभिधमित्यनेन च विष्णोरेव परब्रह्मत्वे मुक्ति-दायकत्वरूपयुक्त्यन्तरं च सूचितम् । वेदाख्यब्रह्मवर्णितमित्यनेन वेदैश्च सर्वैरहमेव वेद्य इत्यादौ कृष्णस्यैवोक्तवेदतात्पर्यगोचरत्वे तस्यैव परब्रह्मत्वे युक्तिस्सूचिता । ब्राह्मणानां परं दैवमित्यनेनापि ब्राह्मणानां सनकभृग्वादीनां परं दैवमित्यर्थस्यैवाभिप्रेतत्वेन विष्णोरेव परब्रह्मत्वेऽधिगतपरमार्थैराराध्यत्वरूपे युक्तिरसूचि । ब्रह्मसूत्रप्रकाशितं ब्रह्ममीमांसासूत्रप्रकाशितमित्यनेनतु वेद-समानार्थकसूत्रप्रतिपाद्यस्य नारायणस्य परब्रह्मत्वे मोक्षोपयोगिजिज्ञासा-विषयत्वरूपयुक्तिर्लब्धा । एको दाधार भुवनानि विश्वेति श्रुतिप्रतिपादित-विष्णोरेव द्युभ्वाद्यायतनं स्वशब्दादित्यादिसूत्रप्रतिपाद्यत्व सम्भवेन च ब्रह्मसूत्रप्रकाशितो विष्णुरेव ।। ५३९ ।।

सत्यप्रमोदटीका

 ‘तन्निष्ठस्य मोक्षोपदेशादि’ति सौत्रयुक्तिमाह मुकुन्दाभिधमिति । ‘तस्यात्मनो निर्गुणस्य ज्ञानान्मोक्ष उदाहृतः’ ‘परो हि पुरुषो विष्णुस्तस्मान्मोक्षस्ततः स्मृतः’ इति चोक्तेर्विष्णुरेव निर्गुणः । वेदाख्यब्रह्मवर्णितमित्यनेन साक्षादेव निर्गुणपदेन ‘साक्षी चेता केवलो निर्गुणश्चे’ति श्रुतौ वर्णितत्वोक्त्या श्रुतत्वाच्चेति सौत्रहेतुरभिहितः । परं दैव-मित्यनेनेतरदेवतानामपरत्वं अत एव विष्णुपरिवारतयैव ग्राह्यत्वं, विष्णोस्तु प्राधान्येनोपादेयत्वं वर्णयता ‘हेयत्वावचनाच्च’ इति सूत्रोक्तयुक्तिः प्रति-पादिता । ब्रह्मसूत्रप्रकाशितमित्यनेनैवमादिभिः सूत्रैः परब्रह्मत्वेन प्रकाशितो नारायण एवेति निगमनं कृतं ध्येयम् ।। ५३९ ।।

युक्तिमल्लिका

सहस्रशीर्षं देवं विश्वाक्षं विश्वशंभुवम् ।

विश्वं नारायणं देवमक्षरं परमं पदम् ।। ५४० ।।

विश्वतः परमां नित्यं विश्वं नारायणं हरिम् ।

विश्वमेवेदं पुरुषस्तद्विश्वमुपजीवति ।। ५४१ ।।

पतिं विश्वस्यात्मेश्वरं शाश्वतं शिवमच्युतम् ।

नारायणं महाज्ञेयं विश्वात्मानं परायणम् ।। ५४२ ।।

नारायणपरो ज्योतिरात्मा नारायणः परः ।

नारायणपरं ब्रह्म तत्वं नारायणः परः ।। ५४३ ।।

यच्च किञ्चिज्जगत्सर्वं दृश्यते श्रूयतेऽपि वा ।

अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणस्स्थितः ।। ५४४ ।।

सुरोत्तमटीका

 इदानीं नारायणोपनिषदा नारायणस्यैव परब्रह्मतां स्पष्टीकर्तुं तां पठित्वा व्याचष्टे ।। सहस्रशीर्षमित्यादिना ।। ५४०-५४४ ।।

सत्यप्रमोदटीका

 उक्तार्थे स्पष्टां नारायणोपनिषदं पठति पञ्चभिः श्लोकैः सहस्रेत्यादिना ।। ५४०-५४४ ।।

युक्तिमल्लिका

इति स्पष्टा ह्युपनिषत्परं ब्रह्माह तं प्रभुम् ।। ५४५ ।।

सुरोत्तमटीका

 स्पष्टा नारायणः परम्ब्रह्मेति सुप्रसिद्धनारायणनाम्नैव तमुद्दिश्य परब्रह्मत्वविधानात् । हीत्यनेनानेकपरब्रह्मलक्षणभरितत्वान्नारायण एव परंब्रह्मेति सूचयति । तदेव विशदयत्युत्तरग्रन्थेन ।। ५४५ ।।

सत्यप्रमोदटीका

 नारायणेत्यसकृदुद्देशः तात्पर्यनिर्णायकः । परं ब्रह्मेति विधेयम् । शिष्टं सहस्रशीर्षत्वादिकं लक्षणोक्तिः । स्पष्टेति । निरवकाश-बहुलक्षणकथनादिति भावः ।। ५४५ ।।

युक्तिमल्लिका

विश्वतः परमत्वं च विश्वशंभूमितां तथा ।

विश्वोपजीव्यतामात्मेश्वरताक्षरते तथा ।। ५४६ ।।

सुरोत्तमटीका

 विश्वतः परमत्वं चेत्यनेन विश्वतः परमामिति श्रुत्युक्त-सर्वोत्तमत्वं गृह्यते । परमश्चासावश्चेति विग्रहे सोमपाशब्दवत् परमाशब्दः । विश्वशम्भूमितां विश्वशम्भुवमिति श्रुत्युक्तपूर्णानन्दभूमितां विश्वोपजीव्यतां तद्विश्वमुपजीवतीत्युक्तविश्वोपजीव्यताम् । एवमुत्तरत्रापि द्रष्टव्यम्

।। ५४६, ५४७ ।।

सत्यप्रमोदटीका

 विश्वतः परमश्चासौ अश्चेति विग्रहः । परमा शब्दो विश्वपाशब्दवदाकारान्तः । अशब्दः परब्रह्मवाची । ‘अकारः सर्ववागात्मा परब्रह्माभिधायकः’ इत्यभिधानात् । विश्वशम्भुवं परमानन्दस्वरूपम् । ‘लक्षणं परमानन्दो विष्णोरेव न संशयः’ इति विष्णुलक्षणम् । यद्वा विश्वो वायुः तस्य आनन्दप्रदम् । तदुक्तं ‘आनन्दतीर्थपरानन्दवरद’ इति । अक्षरता चतुर्विधनाशराहित्यम् । ‘अक्षरं ब्रह्म परमम्’ इति गीतायां परब्रह्म-लक्षणत्वेनोक्तम् ।। ५४६ ।।

युक्तिमल्लिका

शाश्वतत्वाच्युतत्वे च महाज्ञेयत्वमेव च ।

अन्तर्बहिश्च विश्वस्य व्याप्तत्वं चाप्यनन्तताम् ।। ५४७ ।।

सत्यप्रमोदटीका

 शाश्वतत्वं शश्वदेकप्रकारत्वम् । ‘पूर्वावगतवत्सदा । स्थितेर्ब्रह्यर्तमित्युक्तम्’ इति ब्रह्मलक्षणतयोक्तम् । अच्युतत्वं नित्यमेवाखिलै-र्गुणैरिति पूरणीयम् । महाज्ञेयत्वं प्राधान्येन जिज्ञास्यत्वम् । अनन्ततां देशकालगुणैरपरिच्छिन्नताम् ।। ५४७ ।।

युक्तिमल्लिका

ब्रह्मधर्मानिमान्सर्वान्यस्मिन्नारायणे श्रुतिः ।

सहस्रशीर्ष्णि पुरुषे तन्नाम्नैव पुनः पुनः ।। ५४८ ।।

सुरोत्तमटीका

 एष सर्वेश्वरः यतो वाचो निवर्तन्ते तेन जातानि जीवन्ति आत्मावा ओद्रष्टव्यः सत्यं ज्ञानमनन्तं ब्रह्मेत्यादि श्रुतिषु प्रसिद्धानि-मान् ब्रह्मधर्मान् । पराभिमतनिराकारब्रह्मणो नश्रौतत्वमिति भावेनोक्तं सहस्रशीर्ष्णि पुरुष इति । तन्नाम्नैव नारायणः परंब्रह्म तत्वं नारायणः परः । नारायणः परोज्योतिरात्मा नारायणः परः । व्याप्य नारायणः स्थित इत्यादौ नारायणनाम्ना । अभ्यासस्य महातात्पर्यलिङ्गत्वादित्याशयेनोक्तं महातात्पर्येति

।। ५४८,५४९ ।।

सत्यप्रमोदटीका

 सहस्रशब्दोऽनन्तवाची । ‘अनन्तबाहूदरवक्रनेत्रमि’ति गीतोक्तेः ।। ५४८ ।।

युक्तिमल्लिका

आम्नाते सङ्कलय्याह महातात्पर्यपूर्वकम् ।

स एव हि परं ब्रह्म ब्रह्मलक्षणवेदिनाम् ।। ५४९ ।।

सत्यप्रमोदटीका

 लक्षणवेदिनाम् । लक्षणवाक्यानि असाधारणधर्माने-वाभिदधति न तु पुनरखण्डं स्वरूपमात्रमिति विजानताम् ।। ५४९ ।।

युक्तिमल्लिका

परं ब्रह्म परं ज्योतिः परं तत्वं परं पदम् ।

परमात्मेति च ब्रह्मनाम्ना नारायणं प्रभुम् ।। ५५० ।।

उद्दिश्य पौनःपुन्येन ब्रह्मणो लक्षणानि च ।

सर्वाण्युक्त्वोत्तरग्रन्थे परीक्षा च यतः कृता ।

श्रुत्या लक्षणशास्त्रस्य मर्यादामनुसृत्य हि ।। ५५१ ।।

सुरोत्तमटीका

 न केवलं ब्रह्मलक्षणभरितत्वान्नारायणः परं ब्रह्म किं तु परम्ब्रह्म परञ्ज्योतिः परमात्मेत्यादि परब्रह्मनामभिरपि नारायणस्यैवो-द्देशादित्याह ।। परं ब्रह्मेत्यादिना ।। उत्तरग्रन्थे पद्मकोशप्रतीकाशमित्यादिग्रन्थे ।। ५५०,५५१ ।।

सत्यप्रमोदटीका

 श्रुत्या मर्यादामनुसृत्य नारायणमुद्दिश्य लक्षणान्युक्त्वा परीक्षा कृतेति योजना । ब्रह्मनाम्ना ब्रह्मणो नाम तेन । समुदायैकवचनम् । परं ज्योतिरित्यादीनां चतुर्णामपि ब्रह्मण एव नामत्वम् ।। ५५०, ५५१ ।।

युक्तिमल्लिका

शृङ्गग्राहितया तस्य हृद्गुहायां प्रदर्शनात् ।

उक्तलक्षणपूर्णस्य परमात्माभिधस्य च ।। ५५२ ।।

सुरोत्तमटीका

 परमात्माभिधस्य शृृङ्गग्राहितया प्रदर्शनादिति पूर्वेणा-न्वयः ।। ५५२ ।।

सत्यप्रमोदटीका

 श्रुत्या प्रदर्शनात्स एव हि परं ब्रह्मेति पूर्वेणान्वयः ।। ५५२ ।।

युक्तिमल्लिका

राजा राजसु मुख्यो हि महाराज इतीर्यते ।

आत्माऽन्यात्मसु मुख्यश्च परमात्मा तथा प्रभुः ।। ५५३ ।।

सुरोत्तमटीका

 परमात्मशब्दार्थमाह ।। राजेति ।। ५५३ ।।

सत्यप्रमोदटीका

 परमात्माभिध इत्यत्रोक्तं परमात्मशब्दस्य अभिधात्व-मवयवशक्तिप्रदर्शनेनापि प्रदर्शयन्नेव तस्य योगरूढतां उपपादयति राजेति । आत्मा अन्यात्मसु इति छेदः । अन्यात्मभ्यः परमो मुख्यः । तदुक्तं सुधायां ‘शब्दान्तरसमभिव्याहारवशेन सामान्यशब्दस्य विशेषार्थस्य कल्पनीयत्वादि’ति ।। ५५३ ।।

युक्तिमल्लिका

यस्तु प्रस्तावितः पूर्वमात्मा नारायणः परः ।

परमात्मेति चात्रोक्तस्स एव स्यान्न संशयः ।। ५५४ ।।

सुरोत्तमटीका

 लक्षणग्रन्थे आत्मानारायणः परः इत्युक्तपरमात्माभिध-नारायणस्यैव परीक्षाग्रन्थे परमात्मा व्यवस्थित इति परमात्मपदेन परामर्शा-दैकार्थ्यमिति भावेनाह ।। यस्तु प्रस्तावित इति ।। ५५४ ।।

सत्यप्रमोदटीका

 पूर्वं लक्षणग्रन्थे । अत्र परीक्षाग्रन्थे । स एवेति । अन्यथाऽसाङ्गत्यापत्तेरिति भावः ।। ५५४ ।।

युक्तिमल्लिका

तत्स ब्रह्मेति वाक्तत्तदभिधामाह नाभिदाम् ।

महेश्वरशिवश्रुत्योः पौनरुक्त्यभयादपि ।। ५५५ ।।

सुरोत्तमटीका

 उक्तरीत्या पूर्वप्रकरणे नारायणमहिम्न एव प्रस्तुतत्वा-त्सब्रह्मेत्यत्र तत्तद्देवैक्यमर्थो नेत्याह ।। तदिति ।। तत्तस्मात्परमात्मनः विश्वतः परमत्वादिना सकलजीवजडात्मकात्प्रपञ्चादत्यन्तविलक्षणस्यैव नारायणस्य प्रस्तुतत्वात् । अन्यथोपक्रमविरोधात् । सब्रह्मेति वाक् स ब्रह्मा स शिवस्स हरिरित्यादिवाक् । ऐक्यपक्षे स महेश्वर इत्येतावता शिवैक्यसिद्धेः पुनस्सशिव इति व्यर्थं स्यादित्याशयेनाह ।। महेश्वरेति ।।

यो वेदादौ स्वरः प्रोक्तो वेदान्तेच प्रतिष्ठितः ।

तस्य प्रकृतिलीनस्य यः परस्समहेश्वर

इति महेश्वरश्रुतिः । अत्र स्वरशब्देन पूर्वोक्तप्रणवस्यैव तस्येति प्रस्तुतत्वात् जडप्रकृतौ लीनस्य शबलस्येति मन्दाशङ्का गर्भस्रावेणैव गता । किंतु प्रकृत्या लीनस्यानुच्चारणेन लीनस्य तस्य प्रणवस्य यः परस्स्वामीत्येवार्थः । अतोपि महेश्वरो विष्णुरेव । चक्रशङ्खगदापद्मधर इति विष्णुं भास्वत्किरीटमिति चावयोर्मते तस्यैव प्रणवध्येयत्वात् । ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मर-न्निति गीतावाक्याच्च । नामसमन्वयपक्षेतु न काचिदनुपपत्तिरिति भावः । उपक्रमोपसंहारयोरैकार्थ्यावश्यंभावान्महतामीश्वरो महेश्वर इति सावकाश-महेश्वरपदस्य निरवकाशनारायणपदानुसारेणैव योजनीयत्वात् ।। ५५५ ।।

सत्यप्रमोदटीका

 तत् उपक्रमपरीक्षोपसंहाराणामैकार्थ्यावश्यम्भावात् । स ब्रह्मेति वाक् ‘स ब्रह्मा स शिवः स हरिरि’त्युपसंहारवाक् । तत्त-दभिधामाह ब्रह्मा शिवः इत्यादिशब्दैर्नारायण एवाभिधेयः परममुख्यवृत्या प्रतिपाद्य इति बोधयति । नाभिदामिति सामानाधिकरण्यबलेन शिवादि-जीवैक्यमित्यर्थः । स्वरूपैक्यस्य बाधितत्वात् । विशिष्टयोरैक्यस्य मायिनाऽप्य-नङ्गीकारात् । ‘कथमेकत्वमनयोर्घटते विपरीतयोरि’ति तदुक्तेः । इतश्चैव-मित्याह महेश्वरेति ।। ‘यः परः स महेश्वर’ इत्युपसंहारोक्तमहेश्वरेत्यर्थः ।। ५५५ ।।

युक्तिमल्लिका

प्रागुक्तार्थोपसंहर्त्री महेश्वरमहीश्वरे ।

शयानमाह तस्यैक्ये कस्यासौ स्यान्महेश्वरः ।। ५५६ ।।

सुरोत्तमटीका

 शेषशयनस्य तस्यैव सकलदेवाधीश्वरशेषेश्वरतया महेश्वरत्वसम्भवात् रुद्रो ब्रह्माणमाश्रित इत्युक्तरुद्रस्य तदसम्भवादन्यथा नारायणेपनिषत्त्वव्याघाताच्चेत्याशयेनाह ।। अहीश्वर इति ।। उपलक्षणं चैतत् । स हरिरिति महेश्वरश्रुतेरुपर्यपि हरेः प्रस्तावादित्यपि द्रष्टव्यम् । पुनरैक्ये दूषणान्तरं चाह ।। तस्यैक्य इति ।। इदमप्युपलक्षणम् । परमत्वस्य स्वराडित्युक्त स्वातन्त्र्यस्यचायोगादित्यपि ग्राह्यम् ।। ५५६ ।।

सत्यप्रमोदटीका

 महेश्वरं अहीश्वरे इति छेदः । स्वयं चतुर्मुखाश्रितस्य रुद्रस्य महेश्वरत्वासम्भवात् । उपर्यपि ‘हरिरि’ति हरेः प्रस्तावात् तत्रैवोक्तस्य परमत्वस्य स्वराडित्युक्तस्वातन्त्र्यस्य च रुद्रेऽयोगादित्यपि ग्राह्यम् ।। ५५६ ।।

युक्तिमल्लिका

विश्वमेवेदं पुरुषस्तद्विश्वमुपजीवति ।

इत्यैक्योक्तेः परं चा(पुरैवा)न्या गतिमाह ततोऽपि न ।। ५५७ ।।

सुरोत्तमटीका

 ऐक्यायोगे युक्त्यन्तरं चाह विश्वमेवेदमिति ।। ५५७ ।।

सत्यप्रमोदटीका

 ‘पुरुष एवेदं सर्वं’ इत्याद्यैक्यश्रुतीनां श्रुत्यैव सोप-पत्तिकं गत्यन्तरोक्तेर्न स्वरूपैक्यमर्थ इत्याह विश्वमिति । अन्यथा विश्वान्तः-पातिजडैक्यस्य परेणाप्यनङ्गीकारात्, यद्विश्वत्वेन प्रतीतं तत्पुरुष आरोपित-मित्यर्थकरणे पदद्वयलक्षणापत्तेः इत्यादि दोषजातं न्यायामृते ‘इदं सर्वं यदयमात्मे’त्यादिश्रुत्यर्थभङ्गे निरूपितमनुसन्धेयम् ।। ५५७ ।।

युक्तिमल्लिका

यद्विश्वं पुरुषाख्यं तमुपजीवति तत्सदा ।

विश्वं पुरुष इत्युक्तं यत्तदोर्नित्ययोगतः ।। ५५८ ।।

सुरोत्तमटीका

 श्रुतेरर्थमाह ।। यद्विश्वमिति ।। यद्यस्मात् विश्वं कर्तृ । उपजीवतीत्यस्य सकर्मकत्वात् प्राक्प्रस्तुतपुरुषपदस्य द्वितीयान्ततयाऽनुवृत्तिरिति भावेनोक्तं पुरुषाख्यं तमिति ।। तत्तस्मात्पुरुषोपजीवकत्वात् विश्वं इदमित्यपि ग्राह्यम् । पुरुष इत्युक्तं पुरुष एवेत्युक्तम् । राजा राष्ट्रमितिवदुपजीव्योप-जीवकभावादेव पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यमित्यादिश्रुतिषु तत्र तत्र पुरुषैक्यव्यपदेशो न स्वरूपैक्यात् । जडाजडयोस्तदयोगादिति श्रुतेर्भावः । तच्छब्दश्रवणाद्यच्छब्दोऽध्याहार्य इत्याह ।। यत्तदोरिति ।। ५५८ ।।

सत्यप्रमोदटीका

 श्रुतेर्योजनां एकवाक्यत्वाय दर्शयति यदिति । पूर्वार्धे तच्छब्दोऽध्याहार्य इत्युपेत्याह तत्सदेति । अध्याहारे नियामकमाह यत्तदोरिति । उत्तरार्धे यच्छब्दश्रवणमेव नियामकमित्याशयः । तथा च राजा राष्ट्रमिति-वत्स्वतन्त्र्यैक्यमेव श्रुत्यर्थ इति भावः ।। ५५८ ।।

युक्तिमल्लिका

श्रुत्यर्थमित्थमेवाहुः पुंक्लैब्याद्ये तु बिभ्यति ।

कश्छिन्द्याच्छतिसुन्दर्यास्सौन्दर्यं चरणद्वये ।। ५५९ ।।

सुरोत्तमटीका

 येतु विश्वमेवेदं पुरुष इत्यत्र पुरुषैक्यमेवोक्त्वा तत् तं पुरुषं विश्वमुपजीवतीत्यर्थमाहुः तेषां दोषद्वयं वदन्नस्मदुक्त एव श्रुत्यर्थ इत्याह ।। श्रुत्यर्थमिति ।। पुंक्लैब्यात् पूर्वोक्तपुरुषस्य तदिति नपुंसकपदेन परामर्शात् । चरणद्वये विश्वमेवेदं पुरुषः तद्विश्वमुपजीवतीति पादद्वये सौन्दर्यमैकार्थ्यरूपवाक्यालङ्कारं छिन्द्यात् ऐक्यभेदरूपविरुद्धार्थकथनेन दूषयेत् । एवं वदता पूर्वपादे ऐक्यस्यैवोक्तत्वादुत्तरपादे चोपजीव्योपजीवकभावेन भेद-स्यैवोक्तत्वात्तस्यच सम्भवत्येकवाक्यत्वे वाक्यभेदोहि दूषणमिति दूषणत्वोक्तेः परस्परव्याहतार्थकथने त्वमानत्वप्राप्त्या श्रुतेरेव नाशितत्वाच्च महादूषणत्वादिति भावः । अत एव छिन्द्यादित्युक्तम् ।। ५५९ ।।

सत्यप्रमोदटीका

 ये इति उत्तरश्लोकोक्तान्मीमांसानिपुणान्विवेकिनः परामृशति । इत्थमेव हेतुहेतुमद्भावेनैकवाक्यतयैव । पुङ्क्लैब्यात् पररीत्या तदित्यस्य तमित्यर्थाश्रयणेन लिङ्गव्यत्ययदोषात् । इदमुपलक्षणम् । पूर्वार्धस्य, ऐक्यार्थवर्णनेन उत्तरार्धस्य उपजीव्योपजीवकभावलक्षणभेदार्थपरत्ववर्णनेन च वाक्यभेददोषात् परस्परं व्याघातेनाप्रामाण्याख्यदोषाच्चेत्यपि ग्राह्यम् । बिभ्यति । श्रुतेर्व्याहतार्थवर्णनस्य ‘तत्प्रमाणस्य निन्दा च’ इत्युक्तरीत्या भगवद्द्वेषपर्यवसायित्वेनानर्थहेतुत्वादिति भावः । कः उक्तानर्थाद्भीतः इत्यर्थः। चरणौ छिन्द्यादिति । पादयोर्त्र्याहतार्थद्वयवर्णनेनाप्रामाण्यापादनं सुन्दर्याः साध्व्याः पादच्छेदवन्महापातकमिति भावः ।। ५५९ ।।

युक्तिमल्लिका

अतश्श्रुत्यर्थमीमांसानिपुणानां विवेकिनाम् ।

मते नारायणो देवः परं ब्रह्म न चापरः ।

इति निर्णीयते नो चेच्छ्रुतिरेषा प्रकुप्यति ।। ५६० ।।

सुरोत्तमटीका

 श्रुतिव्याख्यामुपसंहरति ।। अत इति ।। श्रुत्यर्थ-मीमांसानिपुणानामित्यनेनेदमभिप्रैति । महाज्ञेयमिति प्राक् नारायणस्य सकल-शाखास्वतिशयेन ज्ञेयत्वमुक्तम् । तच्च तत्र तत्र वेदवाक्येषु ब्रह्मेन्द्रहर्यक्षर-महेश्वरादिशब्दैर्ब्रह्मादीनां कथनात् विरुध्यत इत्याशङ्कानिवारकत्वेन तत्तन्नाम्नां स महेश्वर इत्यादिना नारायण एव समन्वयकथनं प्रकृतोपयोगि । हरि-शब्दोऽपि हरिसूक्तस्थो हर्यश्वत्वादिलिङ्गबलादिन्द्रगामीति शङ्का । अतस्तस्यापि समन्वयकथनं ‘यो देवानां नामधाः’ ‘मां विधत्तेऽभिधत्ते मां’ तत्तु-समन्वयादिति श्रुतिस्मृतिसूत्रानुसारिच । तत्तद्दैवतैक्यं नारायणं महाज्ञेय-मित्यत्रोक्तातिशयेन ज्ञेयत्वरूपमहाज्ञेयत्वस्य पतिं विश्वस्येत्युक्तविश्वपतित्वस्य अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणस्स्थित इत्युक्तसर्वव्यापित्वस्य आत्म-नामीश्वरः आत्मेश्वर इत्युक्तजीवेश्वरत्वस्य परमात्मपदार्थस्य च विरुद्धम् । मध्ये वामनमासीनं विश्वेदेवा उपासत इत्यादिश्रुत्या शभ्मोः पितामहो ब्रह्मपिता शक्राद्यधीश्वर इति स्मृत्या अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशादिति सूत्रेण च विरुद्धम् । अथवा श्रुत्यर्थमीमांसानिपुणानामित्यनेन सूत्रभाष्यटीका-कारणां सङ्ग्रहः । तेहि अन्तःस्थाधिकरणे ब्रह्मेन्द्राग्न्यादिदैवताखिलनाम्नां समन्वयमेवोचुः । न तु तत्तद्देवतैक्यम् । प्रत्युत तत्रैव भेदव्यपदेशाच्चान्य इति सूत्रेण इन्द्रस्यात्मा वायोरात्मानं अन्तरादित्ये अन्तश्चन्द्रमसि सहैव सन्तं न विजानन्ति देवा इत्यादिभेदव्यपदेशाद्ब्रह्मादिदेवानामन्यतामेव वर्णयामासुः । एतदेवाभिप्रेत्योक्तं प्राक् तत्तदभिधामाह नाभिदामिति । एषाश्रुतिः सहस्र-शीर्षमित्यादिश्रुतिः । व्याहतभाषिणे तुभ्यमिति शेषः । अथवा एषा वक्ष्यमाणा श्रुतिः ।। ५६० ।।

सत्यप्रमोदटीका

 उपसंहरति अत इति । श्रुतिः तदभिमानिनी महा-लक्ष्मीः । कृप्यति स्वपतिनिन्दकाय दुर्वादिने तुभ्यमिति शेषः ।। ५६० ।।

युक्तिमल्लिका

देवानामवमोऽग्निर्वै विष्णुस्तु परमः प्रभुः ।

तदन्तरेण ब्रह्माऽऽद्यास्सर्वा अन्यास्तु देवताः ।। ५६१ ।।

ऋग्वेदब्राह्मणं ह्यादावेवं तरतमत्वतः ।

देवान्सर्वान्विविच्योक्त्वा विष्णोः परमतां जगौ ।। ५६२ ।।

तस्मात्तु परमं वस्तु न किञ्चिदपि शंसति ।

एते प्रधाना देवेषु तेष्वप्येषु क्रमः किल ।। ५६३ ।।

सुरोत्तमटीका

 तामर्थतः पठति ।। देवानामिति ।। ऋग्वेदब्राह्मणं अग्निर्वैदेवानामवमो विष्णुः परमस्तदन्तरेण सर्वा अन्या देवता इति ऋग्वेद-ब्राह्मणम् । हीत्यनेन श्रुतेः प्रसिद्धतामाचष्टे । अत्र देवता इत्येतावतैव पूर्तौ पुनस्सर्वपदं ब्राह्मशैवादिमतरीत्या केषाञ्चिदसङ्ग्रहशङ्कानिरासायेति भावेन ब्रह्माद्या इत्युक्तम् । विविच्य अन्या इति भिन्नतां प्रदर्श्य भिन्नतामित्युप-लक्षणम् । आद्यन्तयोरिव मध्ये मध्येऽपि परमतामवमतांचेत्यपि ग्राह्यम्

।। ५६१-५६३ ।।

सत्यप्रमोदटीका

 उक्तार्थे स्पष्टमृग्वेदब्राह्मणं अर्थतः पठति देवा-नामिति ।। दिवु गताविति धातोः प्राप्यानामित्यर्थः । ‘अर्चिरादिना तत्प्रथितेरि’ति तस्यैव प्रथमप्राप्यत्वोक्तेः । अन्यथा अग्न्यपेक्षयाप्यवमानां देवानां विद्यमानत्वेन विरोधापत्तेः । सर्वशब्दस्य सङ्कोचवारणार्थं ब्रह्माद्या इत्युक्तम् । अन्याः भिन्नाः अन्योन्यं अवमत्वपरमत्वरूपतरतमभाववन्तश्च

।। ५६१-५६३ ।।

युक्तिमल्लिका

अतो विष्णुः परं ब्रह्म सर्वश्रुतिमतादभूत् ।

विष्णोरन्यत्परं ब्रह्म न श्रौतमिति चाप्यभूत् ।

वेदव्याख्यानरूपं यद्ब्रुवन्ति ब्राह्मणं बुधाः ।। ५६४ ।।

सुरोत्तमटीका

 अतः वेदव्याख्यानरूपब्राह्मणे प्रतिपादितत्वात् ।।५६४।।

सत्यप्रमोदटीका

 अतः ऋग्वेदब्राह्मणेन वेदव्याख्यानरूपेण प्रतिपादि-तत्वात् । इमौ प्रयोगावभिप्रेतौ । विष्णोः सर्वोत्कर्षः सर्वश्रुतिसम्मतः । तद्व्याख्यानब्राह्मणवाक्यसंमतत्वात् । यो यद्व्याख्यानसंमतः स तद्व्याख्येयसंमतः यथा सम्प्रतिपन्नः । अन्यदेवतासर्वोत्तमता श्रुतिविरुद्धा तद्व्याख्यानब्राह्मण-वाक्यविरुद्धत्वात् । पूर्ववत्सामान्यव्याप्तिः । न च हेतू असिद्धे इत्याह ब्रुवन्ति बुधा इति ।। ५६४ ।।

युक्तिमल्लिका

उक्तार्थस्य समस्तस्य प्रमाणेन प्रसिद्धताम् ।

वै शब्देनाह तद्वक्ति सर्वमानैश्च सिद्धताम् ।। ५६५ ।।

श्रुत्या स्मृत्याऽनुमानेन प्रत्यक्षेण च योगिनाम् ।

विष्णोस्सर्वोत्तमत्वं हि सिद्धमित्याह सा श्रुतिः ।। ५६६ ।।

सुरोत्तमटीका

 यद्यस्मात्तत्तस्मात्सर्वप्रमाणप्रसिद्धिद्योतकवैशब्दबलात् ।। ५६५,५६६ ।।

सत्यप्रमोदटीका

 दाढर्यहेतुं सर्वप्रमाणसंवादं वैशब्दो वक्ति इत्याह उक्तेति ।। ५६५ ।।

युक्तिमल्लिका

अतस्त्रिदेवतैक्यं स्यान्न पुराणशतैरपि ।

विरोधे त्वनपेक्षं स्यादिति यत्सूत्रशासनम् ।। ५६७ ।।

सुरोत्तमटीका

 अतः वेद एव विष्णोस्सर्वोत्तमत्वप्रतिपादनात् । विरोधेत्वित्यनेन विरोधेत्वनपेक्षं स्यादसति ह्यनुमानमिति सूत्रं सङ्गृह्णाति । अनपेक्षमप्रमाणं अनुमानं मूलश्रुत्यनुमापकम् ।। ५६७ ।।

सत्यप्रमोदटीका

 मा भूच्छ्रुत्या त्रिदैवतैक्यसिद्धिः पुराणैस्तु कुतो न स्यादित्यत आह अत इति । श्रुतिविरुद्धार्थे पुराणशतानामपि न प्रामाण्यमिति भावः । अत्रार्थे जैमिनिसूत्रं पठति विरोध इति । श्रुतिविरोधे स्मृतिप्रामाण्य-मनपेक्ष्यमनादरणीयं स्यात् । हि यस्मादसति श्रुतिविरोधे मूलश्रुत्यनुमानमुक्तं न तु सतीति सूत्रार्थः ।। ५६७ ।।

युक्तिमल्लिका

यत्ता लक्ष्म्यादिभृग्वन्ता देवा देव्यश्च मध्यगाः ।

तत्ताः स्त्रीपुंसयोश्शक्तदेवतोक्त्या श्रुतिर्जगौ ।। ५६८ ।।

सुरोत्तमटीका

 तत्तस्माद्देवानां देवस्त्रीणां च मध्यगतत्वात् ।। ५६८ ।।

सत्यप्रमोदटीका

 यत् यस्मात् । ताः तारतम्यस्तोत्रे प्रकृतिरित्यारभ्य भृग्वन्ता देवता उक्ताः देवा देव्यश्च । मध्यगाः अग्निविष्ण्वोः । तत् सर्वासां देवदेवीनां सङ्ग्रहार्थम् । कथं तत्सङ्ग्रह इत्यत आह देवतोक्त्या देवतापदेन श्रुतिस्ता जगौ इति । स्रीपुंसयोः शक्तेति हेतुगर्भविशेषणम् । नित्यसापेक्षत्वान्न शक्तपदमसमर्थम् । तेन समासोपपत्तिः ।। ५६८ ।।

युक्तिमल्लिका

नान्वश्नुवन्ति ते विष्णो महित्वमितरे त्विति ।

यतश्श्रुतिरतोप्यैक्यं तेन नान्यस्य कस्यचित् ।। ५६९ ।।

सुरोत्तमटीका

 नान्वश्नुवन्तीत्यादिना परोमात्रयेति श्रुतिमुपादत्ते । अतस्तन्महिम्नोऽन्यैरप्राप्यत्वकथनात् । तेन विष्णुना ।। ५६९ ।।

सत्यप्रमोदटीका

 ऐक्यप्रतिषेधपरां स्पष्टां श्रुतिमुदाहरति नेति । परो मात्रयेति श्रुतेरर्थतोऽनुवादोऽयम् । मात्रया त्रिविधेयत्ताया परोऽतिक्रान्तोऽसि । तन्वा वृधान व्याप्त । तव महिमानं इतरे नाप्नुवन्ति । रमाया गुणतः परिच्छेदसद्भावात् ब्रह्मादीनां परिच्छिन्नदेहवत्त्वाच्चेति भावः ।। ५६९ ।।

युक्तिमल्लिका

जातो वा जायमानो वा विष्णो कश्चित्पुमांस्तव ।

महिम्नोऽन्तं परं नापेत्याह काचिच्छ्रुतिः प्रभुम् ।। ५७० ।।

सुरोत्तमटीका

 एवं नारायणस्यैव ब्रह्माद्युत्तमत्वरूपपरब्रह्मतां प्रसाध्य तस्य परोदीरितसर्वधर्मराहित्यरूपनिर्गुणत्वं च धर्माणामनित्यत्वाद्वा निवृत्ति-रङ्गीक्रियते उत मिथ्यात्वादिति विकल्प्य न द्वेधाऽपीति निराकर्तुमुपक्रमते ।। जातो वेत्यादिना ।। अनेन नते विष्णो इति श्रुतिमर्थत उपादत्ते ।। ५७० ।।

सत्यप्रमोदटीका

 स्यादेतत् । न वयं तत्त्वम्पदयोः शक्तिमाश्रित्य तद्वाक्यस्यैक्यपरत्वं ब्रूमः । किं नाम विरुद्धाकारत्यागेन । अतो नानुपपत्ति-रित्यतः किं परित्यागोऽनित्यत्वेनोत मिथ्यात्वेन । नाद्यः श्रुत्या भगवन्महिम्नो नित्यत्वावगमादित्याह जात इति । ‘न ते विष्णो जायमानो न जातो देव महिम्नः परमन्तमापे’ति श्रुतेरर्थानुवादोऽयम् । जनिष्यमाण इत्यपि ग्राह्यम् । पुमान् चेतनः । अन्तं नाप नाशं इयत्तां वा न जानाति । अन्तस्यैवा-भावादिति हृदयम् । तेन स्यादुत्तरत्र तथा कश्चित्समर्थ इति शङ्काऽनवकाशः । अनेन भगवद्गुणानामन्तराहित्यलक्षणनित्यत्वापरिमितत्वयोः सिद्धिः ।। ५७० ।।

युक्तिमल्लिका

तस्मान्नित्योऽस्य महिमा न कदाऽपि निवर्तते ।

सत्यस्सो अस्य महिमेत्युक्तेश्च न निवर्तते ।। ५७१ ।।

सुरोत्तमटीका

 तस्मादन्तमवसानं नापेति कालपरिच्छेदरूपान्तशून्यत्व-कथनात् । सत्यस्सो अस्य महिमेति श्रुत्या उक्तेः सत्यत्वोक्तेः । न च वाच्यं स परमात्मा सत्य इति ब्रह्मण एव सत्यत्वमुच्यते न महिम्न इति । तथा सति अस्य महिमेति वाक्यशेषे आकाङ्क्षापूरकपदाभावादपरिपूर्णत्वप्रसङ्गेन अस्य परमात्मनः सः श्रुतिप्रसिद्धो महिमा सत्य इत्येकवाक्यतयैव योजनीयत्वात्

।। ५७१ ।।

सत्यप्रमोदटीका

 नापि द्वितीय इत्याह सत्य इति । ‘गृणे शवो यज्ञेषु विप्रराज्ये’ इति वाक्यशेषः । अस्यार्थस्तत्वोद्योतटीकायामुक्तः । ‘स जगत्सृष्ट्यादिलक्षणोऽस्य परमेश्वरस्य महिमा सत्यः तं विप्रप्रधानेषु यज्ञेषु शवः सुखमुद्दिश्य स्तौमि’ इति उक्तेः सोपपत्तिकवचनात् । सुखोद्देश्यक-स्तुतिकर्मत्वरूपसत्यत्वसाधकयुक्तेरपि कथनात् । न निवर्तते न बाध्यते ।। ५७१ ।।

युक्तिमल्लिका

अतस्त्वन्निर्गुणत्वं तु नास्य स्याद्धि कदाचन ।

तस्मात्त्रिगुणशून्यत्वान्निर्गुणोऽप्ययमेव हि ।। ५७२ ।।

सुरोत्तमटीका

 अतः द्वेधाऽपि निर्गुणत्वायोगात् । तस्मात्सर्वधर्मशून्यत्व रूपनिर्गुणत्वायोगात् ।। ५७२ ।।

सत्यप्रमोदटीका

 त्वदिति । त्वदभिमतेत्यर्थः । हीति । गुणानां नित्यत्वेन सत्यत्वेन च प्रमाणप्रसिद्धेः । तस्मात् त्वदुक्तनिर्गुणत्वायोगात् । नारायणे निर्गुणपदप्रवृत्तिनिमित्तं प्रामाणिकत्वादस्मदुक्तमेव ग्राह्यमित्याह त्रिगुणशून्यत्वादिति ।। ५७२ ।।

युक्तिमल्लिका

ब्रह्मायं गुणपूर्णत्वात्परमश्चोत्तमत्वतः ।

तन्निर्गुणं च परमं ब्रह्म नारायणस्सदा ।। ५७३ ।।

सुरोत्तमटीका

 तत्तस्मान्निमित्तत्रयात् ।। ५७३ ।।

सत्यप्रमोदटीका

 ब्रह्मशब्दप्रवृत्तौ निमित्तं गुणपूर्णत्वं न तु लोकरुढ््या जातित्वजीवत्वादिकम् । उत्तमत्वतः क्षराक्षराभ्यामिति शेषः । फलितमाह तदिति । तस्मात्प्रवृत्तिनिमित्तत्रयात् ।। ५७३ ।।

युक्तिमल्लिका

न च तद्गुणमिथ्यात्वान्निर्गुणावसरस्तव ।

नित्यस्य ब्रह्मवन्मिथ्यात्वस्यैवानुपपत्तितः ।। ५७४ ।।

सुरोत्तमटीका

 इदानीं धर्माणां नित्यत्वेनापि मिथ्यात्वाभाव इत्याह ।। नचेति ।। ५७४ ।।

सत्यप्रमोदटीका

 ब्रह्मगुणा न मिथ्या नित्यत्वाद्ब्रह्मवत् इत्युपपत्तिविरुद्धं च गुणमिथ्यात्वमित्याह अनुपपत्तितः इति ।। ५७४ ।।

युक्तिमल्लिका

सत्यस्सो अस्य महिमेत्याह तत्सत्यतां च वाक् ।

अतस्त्वन्निर्गुणोक्तिश्च त्रिगुणानां विमोचिका ।। ५७५ ।।

सुरोत्तमटीका

 पूर्वोक्तहेतुं च स्मारयति ।। सत्य इति ।। ततश्च नित्यत्वात्सत्यत्वाच्च ब्रह्मवन्न मिथ्येति मिथ्यात्वाभावेऽपि हेतुद्वयं घटत इति भावः ।। ५७५ ।।

सत्यप्रमोदटीका

 पूर्वोक्तश्रुतिविरुद्धं चेत्याह सत्य इति ।। अतः श्रुतियुक्तिविरुद्धत्वात् ।। ५७५ ।।

युक्तिमल्लिका

नित्यस्सत्यश्च महिमा कथं तद्ग्रासतामियात् ।। ५७६ ।।

सुरोत्तमटीका

 तद्ग्रासतां निर्गुणोक्तिग्रासताम् ।। ५७६ ।।

सत्यप्रमोदटीका

 तद्ग्रासतां निर्गुणपदार्थनिषेधप्रतियोगिगुणात्मकताम् ।। ५७६ ।।

युक्तिमल्लिका

नञा परशुना छिन्ने पदे त्वां नानुयाति सा ।

गुणसत्यत्वनित्यत्वकारूत्तेजितमूर्तिना ।। ५७७ ।।

सुरोत्तमटीका

 पूर्वं केवलो निर्गुणश्चेत्यत्र निर्गुण इति पदच्छेदमङ्गीकृत्य दूषणमभिहितम् । अधुनोपनिषदामनियतपदत्वेन अनिर्गुण इत्येव पदच्छेदस्य सुकरत्वात् त्वदभिमतनिर्गुणत्वसाधकमेव नास्तीति साहित्यमुद्रयाह ।। नञेति ।। नञा अकारेण । अभावसंपादकत्वात् परशुनेत्युक्तम् । पदे निर्गुणपदे छिन्ने अनिर्गुण इति निर्गुणत्वविरुद्धाकारमापन्ने सा केवलो निर्गुण इति वाक् त्वां मायावादिनं नानुयाति त्वदभिलषितनिर्गुणत्वमर्थं न वदति । छिन्नपदस्यानु-यात्राभावो ध्वनितः । अस्मदभिलषितानिर्गुणपदस्य वेदवक्यरूपमन्त्रशक्त्या संपादितत्वात् अस्मदनुयानं तु युक्तमिति ध्वनितम् । प्राक्साधिते गुणसत्यत्व-नित्यत्वे एव कारू ताभ्यामुत्तेजितमूर्तिना नञेति सम्बन्धः । फूत्कारायस्ताडन-कर्त्रोरुभयोरावश्यकत्वाद्द्विवचनम् । उत्तेजनं नाम सत्यनित्यगुणनिषेधासम्भवेन अकारपरशोरावश्यकत्वाख्यधारासंपादनम् । सत्यनित्यगुणानां निर्गुण इति निषेधायोगात् अनिर्गुण इति पदच्छेदः कर्तव्य इति भावः ।। ५७७ ।।

सत्यप्रमोदटीका

 केवलो निर्गुणश्चेति वाक्ये केवलो अनिर्गुणश्चेति पदच्छेदोऽपि एवं च इति सूत्रात्कर्तुं शक्यः । एवं च नञा नञ्समासा-श्रयणेन पदे छिन्ने पदच्छेदे कृते सति सा अनिर्गुण इति वाक् त्वां नैर्गुण्य-वादिनं नानुयाति तवानु अनुकूलमर्थं न याति न गमयति किं तु नानु प्रतिकूलमेवार्थं याति अतिशयेन गमयति सद्गुणबृंहितत्वमेव समर्थयति । द्वौ नञौ प्रकृतमर्थं सातिशयं गमयत इति न्यायात् । नञोऽभावो विरोधश्चार्थः । एवं पदच्छेदे साधकमाह गुणसत्यत्वनित्यत्वेति । कारुः शिल्पी । ‘कारुस्तु कारके शिल्पे विश्वकर्मिणि शिल्पिनि’ इति हेमन्ते । अत्र गुणसत्यत्वनित्यत्वे कारू । उत्तेजनं संवादेन दाढर्््यसम्पादनम् । अस्मन्मते तु पूर्वोत्तरानुगुण्यात् स्वरसत एव अनिर्गुण इति पदस्वरूपस्य विद्यमानत्वेन । पुनर्नञा योजना-प्रसक्तेरेवाभावेन, अस्मदनुयानं सुखेनैव निर्वहतीति भावः ।। ५७७ ।।

युक्तिमल्लिका

एवं चानिर्गुणत्वार्था यत्ते निर्गुणतां क्षिपेत् ।

अतस्तद्गुणमिथ्यात्वसाधकं च न किञ्चन ।। ५७८ ।।

सुरोत्तमटीका

 फलितमाह ।। एवं चेति ।। अनिर्गुणत्वार्था वागिति शेषः । क्षिपेन्निराकुर्यात् । अघटं भूतलमित्यत्र घटस्येव अनिर्गुणपदेन निर्गुणत्वस्यैव निषेधादिति भावः । अतः निर्गुणत्वोक्त्यभावात् । निर्गुणोक्ति-बलादेवहि श्रौतानां गुणानां मिथ्यात्वं पर आशास्ते तस्यैव मूले कुठारन्यायेन छिन्नत्वान्न परस्यात्र प्रत्याशा । न केवलमेतावन्मात्रं किंतु अनिर्गुण इत्युक्ते त्वदभिमतनिर्गुणत्वस्यैव साक्षात्प्रतिषेधान्निर्गुणत्वेप्याशा न कार्येति भावः ।। ५७८ ।।

सत्यप्रमोदटीका

 अनेन नैर्गुण्यस्य आगमासिद्धत्वं तद्विरुद्धत्वं चोभय-मुपपादितमित्याह एकमिति ।। ५७८ ।।

युक्तिमल्लिका

तदुक्तगुणसत्यत्वनित्यत्वे नौपचारिके ।। ५७९ ।।

सुरोत्तमटीका

 तच्छ्रौतगुणसत्यत्वनित्यत्वयोः व्यावहारिकसत्यत्व-बहुकालावस्थायित्वरूपसङ्कोचकारणनिर्गुणोक्त्यभावात् ।। ५७९ ।।

सत्यप्रमोदटीका

 कालत्रयेऽपि ब्रह्मवदेव सत्यत्वबोधिकानां सगुण-श्रुतीनां बाधासम्भवान्नोपचरितार्थत्वकल्पनमित्याह ।। तदिति । एवमेवोप-चारकल्पने ब्रह्मणः सत्यत्वनित्यत्वयोरपि तथात्वं स्यादिति भावः ।। ५७९ ।।

युक्तिमल्लिका

नेहनानेत्यादिवाक्यमपि तस्मान्न तान्क्षिपेत् ।

नित्यं सत्यं परं ब्रह्म, किं शून्यत्वश्रुतिः क्षिपेत् ।। ५८० ।।

सुरोत्तमटीका

 इदानीं नेहनानेति वाक्यबलादपि श्रौतभगवद्गुणानां मिथ्यात्वं नाशास्यमित्याह ।। नेहेति ।। तस्मात्सत्यत्वनित्यत्वयोश्रौतत्वात् । तत्र दृष्टान्तमाह ।। नित्यमिति ।। किमाक्षेपे ।। ५८० ।।

सत्यप्रमोदटीका

 तस्मात् सत्यत्वेन नित्यत्वेन च गुणानां श्रुत्यैव प्रमितत्वात् । तान् गुणान् । क्षिपेत् निषेधेत् । किञ्चनशब्देन गुणाननूद्य नेहनानास्तीति निषेधः किं न स्यादिति चेत् एवं तर्हि ‘असदेवेदमग्र आसीत्’ इति शून्यश्रुतिः ब्रह्मापि निषेधेदित्यतिप्रसङ्गमाह किमिति । मायाशबलस्य निषेधाङ्गीकारादिष्टापत्तिरित्यत आह परमिति । ननु ‘ब्रह्मविदाप्नोति परमि’ति प्रकृतस्य परब्रह्मणः सत्यमिति सत्यत्वेन श्रुतत्वान्न तस्य बाधो वाऽनन्तमिति नित्यत्वेन श्रुतत्वान्न विनाशो वा सम्भवतीति न शून्यश्रुत्या तन्निषेधो युक्तः । औपनिषदत्वान्न ब्रह्मणः प्रमाणान्तरेण प्राप्तिः सम्भाविनी । श्रुत्या प्राप्तस्य श्रुत्या निषेधे श्रुतेरुन्मत्तप्रलापत्वप्रसङ्गश्च इति चेत्सममेतत्सर्वं गुणानामपीति भावः ।। ५८० ।।

युक्तिमल्लिका

किं च ब्रह्मणि तद्वाक्यं नानाभूतं निषेधति ।। ५८१ ।।

सुरोत्तमटीका

 प्रकारान्तरेणापि नेहनानेति वाक्यं न गुणनिषेधक-मित्याह ।। किं चेति ।। ५८१ ।।

सत्यप्रमोदटीका

 गुणनिषेधकत्वेऽन्तरङ्गविरोधमाह किञ्चेति । ब्रह्मणि इहपदार्थे नानाभूतं भिन्नम् । उत्तरवाक्याद्गुणस्तोममित्यस्योत्कर्षः । भेदविशिष्ट गुणस्तोमस्य निषेधो गुणस्तोमरूपविशेष्यस्योक्तरीत्या प्रमितत्वेन तन्निषेधे बाधात् विशेषणं भेदमुपसङ्क्रामति । ‘सविशेषणे हि विधिनिषेधौ विशेषण-मुपसङ्क्रामतो विशेष्ये बाधादि’ति न्यायात् । ‘न जीर्णमलवद्वासाः स्नातकः स्यादि’त्यादौ दर्शनात् । अत एवोक्तं ‘विशेष्यं नाभिधा गच्छेत्क्षीण-शक्तिर्विशेषणे’ इति ।

एकदेशापवादेन कल्प्यमाने तु बाधके ।।

 न सर्वबाधनं युक्तमिति न्यायविदः स्थिताः’

इति च । गुणानां स्वरूपेण निषेधे नानेति व्यर्थं स्यादिति भावः ।।५८१।।

युक्तिमल्लिका

अभिन्नसुगुणस्तोममन्वजानाद्धि सा स्फुटम् ।

न चेद्ब्रह्मणि जीवैक्यमपि शक्यमपोहितुम् ।। ५८२ ।।

सुरोत्तमटीका

 विपक्षे बाधकं चाह ।। न चेदिति ।। अपोहितुं निराकर्तुं शक्यमिति योजना । ऐक्यस्यापि ब्रह्मधर्मत्वाविशेषेण ब्रह्मणि किञ्चन नास्तीति वाक्यस्य पक्षपातायोगात् ।। ५८२ ।।

सत्यप्रमोदटीका

 विशिष्य निषेधः शेषविध्यनुज्ञापक इति न्यायेन पर्यवसितमाह अभिन्नेति । यस्तु वैयात्याद्भेदमात्रनिषेधकत्वमनङ्गीकृत्य विशेष्यभूतधर्मनिषेधकत्वं ब्रूते तस्यातिप्रसङ्गमाह न चेदिति । ऐक्यमिति । तस्यापि ब्रह्मधर्मत्वाविशेषादिति भावः ।। ५८२ ।।

युक्तिमल्लिका

अभिन्नधर्मधर्मित्वमपि शक्यं तवैक्यवत् ।

एकशेषोऽपि तद्वन्न लोकमर्यादयाऽपि न ।। ५८३ ।।

सुरोत्तमटीका

 अभिन्नगुणानां धर्मधर्मिभावो ब्रह्माभिन्नैक्यस्य ब्रह्मण ऐक्यमिति त्वयैव सदा व्यवह्रियमाणधर्मधर्मिभाववद्घटत इत्याह ।। अभिन्नेति ।। एकशेषः धर्माः न सन्ति ब्रह्मैवास्तीत्येकस्यैवावशेषः । तद्वदैक्यवत् । अभेदेऽपि यथा तवैक्यमप्यस्ति ब्रह्माप्यस्ति तथाऽस्माकमपीति भावः । लोकमर्यादया घटस्य घटत्वादितद्धर्माणां चाभेदेऽपि एकशेषाभावरूपया । धर्मधर्मिणोरभेदस्य भेदाभेदवादिना त्वयाप्यङ्गीकारात् ।। ५९३ ।।

सत्यप्रमोदटीका

 एकधाऽनुद्रष्टव्यमिति श्रुतिबलादैक्यस्य ब्रह्यस्वरूप-त्वोपगमान्नैक्यनिषेधो युक्त इति चेत्, ‘विज्ञानमानन्दं ब्रह्मे’ति श्रुतिबला-ज्ज्ञानानन्दादिगुणानामपि ब्रह्मस्वरूपत्वसिद्धेः कथं तन्निषेधः । ननु ज्ञाना-नन्दादिधर्माणां न ब्रह्मणाऽभेदः । तथात्वे धर्मधर्मिभावानुपपत्तेरिति चेत्त-वैक्यवदेवोपपत्तेरिति प्रतिबन्दीं गृह्णाति अभिन्नेति । तदुक्तमनुव्याख्याने ‘इति पृष्टे तदैक्यस्य गतिरेव न विद्यते’ इति । ऐक्यस्य ब्रह्मणाऽभेदमङ्गीकुर्वाणेनापि परेण न तस्य ब्रह्ममात्रत्वं वक्तुं युक्तम् । भेदव्यवहाराणामनेकेषां सद्भावेन तन्निर्वाहानुपपत्तेरित्याह एकशेष इत्यादिना । तन्मात्रत्वे अन्यतरस्यैव परिशेषः स्यान्न तूभयोरपि । एवं ब्रह्मैक्यशब्दयोः पर्यायेणैव प्रयोगः स्यान्न सहप्रयोगार्हत्वम् । ब्रह्मणः स्वप्रकाशत्वेन ज्ञातत्वेऽप्यैक्यस्याज्ञातत्वं न स्यात् । ब्रह्मस्वरूपविषयेऽविवादवदैक्येऽपि विवादो न स्यात् इत्यादिप्रसङ्गाः स्युरित्याह पर्यायेत्यादिना । तत्र यस्तव परिहारः स ममापि इत्याह तथेति ।। ५८३, ५८४ ।।

युक्तिमल्लिका

पर्यायशब्दवाच्यत्वादज्ञातत्वाद्विवादतः ।

ऐक्यं न ब्रह्ममात्रं ते गुण्यभिन्नगुणस्तथा ।। ५८४ ।।

सुरोत्तमटीका

 ऐक्यस्य ब्रह्ममात्रतैव न तद्धर्मतेति वदतो बाधकान्तरं चाह ।। पर्यायेति ।। घटःकरीरः कलश इतिवद्ब्रह्मणस्तदैक्यस्य च पर्याय-शब्दवाच्यत्वात् प्रत्युत ऐक्यं ब्रह्म चेत्यपर्यायशब्दवाच्यत्वात् । नह्यैक्याभेद-शब्दवदैक्यब्रह्मशब्दावपि पर्यायौ । तन्मात्रत्वेतु तद्वदेव तदपि स्यादिति भावः । अज्ञातत्वात् ब्रह्मणो ज्ञातत्वेऽप्यैक्यस्य अज्ञातत्वाङ्गीकारात् । विवादतः ब्रह्मण्यविवादेऽपि ऐक्ये वादिविवादात् ।। ५८४ ।।

युक्तिमल्लिका

तच्च ब्रह्मणि सामर्थ्यविशेषाद्धटते मम ।

तव तूक्तैक्यवादेऽस्मिन्निर्विशेषमतं गतम् ।। ५८५ ।।

सुरोत्तमटीका

 नन्वभेदे धर्मधर्मिभावः कथं घटत इत्यतस्स्वमते साधकमाह ।। तच्चेति ।। तत् अभिन्नधर्मधर्मित्वम् । ममेति वदता निर्विशेष-वादिनस्तव गतिर्नेति सूचितम् । अगत्या मयाऽपीदमङ्गीक्रियत इति वदन्तं प्रत्याह ।। तवत्विति ।। उक्तविरुद्धस्वभावत्वघटनाय ऐक्यब्रह्मणोरभेदोवा त्याज्यः अभिन्नयोर्विरुद्धस्वभावघटकविशेषस्याङ्गीकार्यत्वात् निर्विशेषमतं वा त्याज्यमित्युभयतः पाशारज्जुरिति भावः ।। ५८५ ।।

सत्यप्रमोदटीका

 विशेषशक्तिमङ्गीकुर्वाणस्य मम भेदव्यवहाराणां विशेषेणैव निर्वाहात् तत् अभिन्नधर्मधर्मित्वं घटते । तव तु उक्तैक्यवादे ब्रह्मण ऐक्यस्य चैक्यमिति वादे, उक्तातिप्रसङ्गपरिहारार्थं अकामेनापि विशेषाङ्गीकारे समापतिते च सतीति योज्यम् । निर्विशेषमतहानिरित्याह निर्विशेषेति ।। ५७५ ।।

युक्तिमल्लिका

न विद्यते विशेषस्तु यस्मादित्यखिलेशताम् ।

निर्विशेषश्रुतिस्तस्मात्प्राहास्माकं तवापि च ।। ५८६ ।।

सुरोत्तमटीका

 तर्हि सविशेषब्रह्मवादिनां मते निर्विशेषोऽक्षरश्शुद्ध इति श्रुतेः का गतिरित्यत आह ।। नेति ।। विशेषः आधिक्यं अधिकं वस्तुवा । तस्मात् अभिन्नश्रौतधर्माणां धर्मधर्मिभावघटकोक्तसामर्थ्यरूपविशेषस्य आवश्यकत्वात् ।। ५८६ ।।

सत्यप्रमोदटीका

 ननु भेदव्यवहारनिर्वाहार्थमपि ब्रह्मणि कथं विशेषा-भ्युपगमः निर्विशेषश्रुतिव्याकोपादिति चेन्निर्विशेषत्वविशेषोऽपि तस्य कथम् । सोऽपि त्यज्यते श्रुतिविरोधादिति चेत्सुतरां सविशेषतासिद्धिः । अभावाभावस्य भावरूपत्वात् । तर्हि निर्विशेषश्रुतेः कोऽर्थ इत्यत आह अखिलेशतामिति । यथोक्तं भागवते

निर्विशेषाय साम्याय नमो ज्ञानघनाय च ।

 क्षेत्रज्ञाय नमस्तुभ्यं सर्वाध्यक्षाय साक्षिणे’ इति ।

तस्मात् निर्विशेषपदेन पदार्थशक्तिरूपविशेषस्य निषेद्धुमशक्यत्वात् आधिक्यस्य वा अधिकवस्तुनो वा विशेषस्यैव निषेद्धव्यत्वप्राप्तेरिति भावः ।। ५८६ ।।

युक्तिमल्लिका

व्यवहारादनुगतात्सर्वत्रानुगता सदा ।

जातिश्चैकाखिलार्थेषु सत्ताद्या वर्तते किल ।। ५८७ ।।

सुरोत्तमटीका

 अधुना अनुगतजातिसद्भावे धर्मधर्म्यैक्यवादिनां मते तदभिन्नधर्मिणामप्यैक्यं स्यादित्याशङ्क्य तां निराकर्तुमुपक्रमते ।। व्यवहारा-दिति ।। कोऽपि अनुगतव्यवहारस्य अनुगतधर्मप्रयोज्यत्वादिति वदन् तार्किकः ।। ५८७-५८९ ।।

सत्यप्रमोदटीका

 ननु तथाऽपि धर्मधर्म्यभेदो नाङ्गीकारार्हः । जातिरूपधर्मस्तावत्स्वाश्रयेषु धर्मिष्वनुगत एकश्च । स चेद्धर्मिणोऽभिन्नस्तर्हि यदभिन्नाभिन्नमिति न्यायेन धर्मिणामप्यन्योन्यं अभेदः प्राप्नोति न च स इष्ट इति चेत्स्यादेष दोषोऽनुगतजातिमभ्युपगच्छतां तार्किकाणाम् नास्माकम् । अस्माभिरनुगतजातेरनङ्गीकारात् । यथोक्तं ‘भिन्नाश्च भिन्नधर्माश्च पदार्था निखिला अपि’ इति । नन्वनुगतव्यवहारान्यथोपपत्त्याऽनुगतजातिरुपेयेति तार्किकमतमाशङ्कते व्यवहारादनुगतादिति । अखिलार्थेषु द्रव्यगुणकर्मसु । किलापहासे ।। ५८७ ।।