गुरोः शिष्यस्य पान्थस्य काकस्य च पशोरपि

अद्वितीयतानपुरुषार्थः

युक्तिमल्लिका

गुरोः शिष्यस्य पान्थस्य काकस्य च पशोरपि ।

द्वितीयाशैव यद्दृष्टा सुखं कस्याद्वितीयता ।। २८७ ।।

सुरोत्तमटीका

 मायावादिना परममोक्षतयाऽङ्गीकृतस्य द्वितीय-राहित्याख्याद्वितीयत्वस्य सुखविरोधित्वान्न मोक्षत्वमित्येतल्लौकिकालौकिक-दृष्टान्तमुखेन दर्शयति ।। गुरोरिति ।। गुरोश्शिष्याभावे दुःखदर्शनाच्छिष्याणां गुरोरभावे च दुःखदर्शनात् । यद्यस्मात् । अन्यत्स्पष्टम् ।। २८७ ।।

सत्यप्रमोदटीका

 ‘भयं द्वितीयाभिनिवेशतः स्यादि’ति भागवतस्यापार्थं परिकल्प्य द्वितीयराहित्यमेव मोक्ष इति यन्मायिभिरुच्यते तत् तद्वाक्य-स्यानुरूपानेकार्थान्तरपरत्वं सुबहुधा समर्थ्य पूर्वं भेदसौरभे दूषितम् लौकिक-दृष्टान्तप्रदर्शनेन साहित्यमुद्रया च तद् द्रढयति गुरोरित्यादिना चतुर्भिः ।। द्वैताभाव एव चेन्मोक्षस्वरूपं स्यात्तर्हि तदभिमतमोक्षस्य अनर्थरूपतैव पर्यवस्यति न त्वेव पुरुषार्थत्वमिति भावः । गुरोः ‘आ माऽऽयन्तु ब्रह्म-चारिणः स्वाहा’ इति प्रार्थयमानस्य । शिष्यस्येति ‘तद्विज्ञानार्थं गुरुमेवाभि-गच्छेदि’त्यादि श्रुतेरिति भावः ।। २८७ ।।

युक्तिमल्लिका

नश्वरं यदिहैश्वर्यमतोऽनश्वरसंपदे ।

स्वर्गार्थी कुरुते यज्ञं सुखं कस्याद्वितीयता ।। २८८ ।।

सुरोत्तमटीका

 यद्यस्मादनश्वरसंपदं स्वर्गस्थितबहुकालस्थायिसम्प-त्प्राप्त्यर्थम् । स्वर्गाश्रययज्ञकरणमपि संपदादिद्वितीयप्राप्त्यर्थमेवेति भावः ।। २८८ ।।

सत्यप्रमोदटीका

 इह संसारे । स्वर्गार्थी मुमुक्षुः । यज्ञं जिज्ञासारूपम् । ‘यज्ञेन यज्ञमयजन्त देवाः । ते ह नाकं महिमानः सचन्त’ इत्युक्तेः ।। २८८,२८९ ।।

युक्तिमल्लिका

एकार्थनाशेऽप्यन्यार्थे स्त्रीनाशे स्त्र्यन्तरे स्पृहा ।

दग्धे गेहे नूत्नगेहे सुखं कस्याद्वितीयता ।। २८९ ।।

सुरोत्तमटीका

 स्पृहेति सर्वत्र सम्बन्धः ।। २८९ ।।

युक्तिमल्लिका

धत्ते प्रियां मुकुन्दोऽङ्के गात्रार्धे तु शिवां शिवः ।

सख्या सखायो नन्दन्ति सुखं कस्याद्वितीयता ।। २९० ।।

सुरोत्तमटीका

 सख्या मित्रेण । यशसा यशोवता स्वसमीपं प्रत्यागतेन हरिणा सखायो ‘‘मुक्ता नन्दन्ती’’ति श्रुतिसङ्ग्रहाय सख्या सखायो नन्दन्तीत्युक्तम् । भूलोके स्वर्गलोके मुक्तिदशायां च द्वितीयाशाया एव दृष्टत्वेनाद्वितीयत्वं न पुरुषार्थ इति भावः ।। २९० ।।

सत्यप्रमोदटीका

 मुकुन्दः नित्यमुक्तः । ओ अङ्कस्थिता लक्ष्मीरिति वर्णनात् । लक्ष्म्याः सुखाविर्भावार्थम् द्वितीयस्य मुकुन्दस्यापेक्षा इत्यत्र तात्पर्यम् । न तु मुकुन्दस्य निरपेक्षस्य सुखार्थं द्वितीयाया लक्ष्म्या इति ध्येयम् । यद्वा कस्य सुखपरिपूर्णस्वरूपस्य नारायणस्यैकस्यैव स्वतन्त्रस्य अद्वितीयस्य अन्यनैरपेक्ष्येण सुखम् । न तु तदितरस्य कस्यापीति योजना ।। २९० ।।