नेह नानेति वाक्यं च नानात्वं ब्रह्मणि क्षिपेत्
नेहनानास्तीति श्रुत्यर्थः
युक्तिमल्लिका
नेह नानेति वाक्यं च नानात्वं ब्रह्मणि क्षिपेत् ।
जगत्त्रिकालसत्तां तन्न क्षिपेत्स्वस्वभूमिषु ।। ७३२ ।।
सुरोत्तमटीका
नेह नानेति श्रुतावप्ययमेव न्याय इत्याह ।। नेहेति ।। भावप्राधान्यमपेक्ष्य नानात्वमित्युक्तम् । लटा वर्तमानमेव क्षिपेत् । सर्वदा ब्रह्मणि नानात्वाभावस्तु एकमेव । एकधैवानुद्रष्टव्य इति सावधारणवाक्या-दवगन्तव्यः । तच्च नानात्वम् । स्वस्वभूमिषु पञ्चभेदधर्मिषु जीवेश्वरजडेषु । इहेति धर्मिविशेषोपादानात् । जगत् त्रिकालसत्तां तु न क्षिपेदित्युपलक्षणम् । निषेध्यतया जगतोऽत्राश्रवणान्न स्पृशेदित्यपि द्रष्टव्यम् । भवितृप्राधान्यमादाय जगन्निषेधपरत्वेऽपि ब्रह्मण्येव क्षिपेत् । स्वस्वभूमिषु कपालभूतलादिषु न क्षिपेत् । लट्प्रयोगबलाद्वर्तमानकाल एव क्षिपेन्न सर्वदा । अतो जगतोऽपि सार्वकालिकसार्वदैशिकनिषेधोऽनयापि श्रुत्या न सिद्ध्येत् । किञ्चान्योन्यस्मि-न्नन्योन्यात्मकतामध्यस्येति भवदीयभाष्यप्रक्रियया इदं रजतमित्यादाविवायं घट इत्यादावपि ब्रह्मजगत्तादात्म्यारोपस्त्वयाऽङ्गीकृतः । एवं च भ्रमनिवर्तको बाधोऽपि नेदं रजतमितिवद्ब्रह्मजगन्नेति जगत्तादात्म्यनिषेधरूप एव वक्तव्यः । तादात्म्यनिषेधरूपबाधे च तादात्म्यसत्त्वमात्रनिषेधे त्रैकालिकतादात्म्यसत्त्व-निषेधे च सार्वकालिक भेदस्यैव प्राप्त्या भिन्नजगतोऽप्रतिषेधेन च नास्माक-मनिष्टम् । न विद्यते द्वितीयं यस्येति निषेधो ब्रह्मणि जगन्नास्तीति निषेधश्च तादात्म्यभ्रमानिवर्तकत्वात्प्रकृतानुपयुक्तः । प्रत्युत द्वितीयं ब्रह्मणो न ब्रह्मणि जगन्नेति निषेधे ब्रह्मैव द्वितीयमिति त्वद्रीत्या भ्रान्तिप्रतीततत्तादात्म्यस्थापक एव । न हि ब्रह्मणो न ब्रह्मण्यपि नेति निषेधे ब्रह्मणो ब्रह्मात्मकतायाः काचन हानिर्दृश्यते । द्वितीयपदनानापदपर्यालोचनायां तु सुतरां जगतो ब्रह्माद्वितीयत्वप्राप्तिरिति द्रष्टव्यम् ।
ब्रह्मजगन्नेति निषेधरूपबाधस्तु भवतो महावाक्यशतेनापि न दृश्यते । अनयोर्वाक्ययोस्तादृशनिषेधपरत्वस्य त्वयैवानङ्गीकारात् । अङ्गीकारे च शुक्तौ नेदं रजतमिति रजततादात्म्यनिषेधेऽपि शुक्तावेव केन चिदानीयनिक्षिप्त शुक्तिभिन्नरजतसत्त्ववत् आपणस्थरजतसत्त्ववच्च ब्रह्मणि जगत्तादात्म्यनिषेधेऽपि ब्रह्मण्येव ब्रह्मभिन्नजगत्सत्त्वस्य स्वस्वकारणेषु जगत्सत्त्वस्य चाप्रतिघाते-नार्थान्तरत्वात् । ब्रह्मजगद्भेदसिद्ध्याऽस्मदभीष्टसिद्धेश्च । सर्वं खल्विदं ब्रह्मेत्यादिवाक्येषु सर्वैक्यस्यैव प्रतिपादनेन सुतरां तादात्म्यभ्रमानुकूलतया तन्निषेधरूपत्वाभावात् ।
कथं तर्हि भवतामपि मते इदानीं ब्रह्मणि जगतो वर्तमानत्वान्नास्तीति निषेध इति चेत्सत्यम् । स्वस्वोपादानेष्वित्यनुक्त्वा स्वस्वभूमिषु न क्षिपेदिति वदता यथावत्स्थितजगतो ब्रह्मापि भूमिरेवेति तत्तत्र न निषेधति किन्तु वस्तुस्थित्या नानामतोक्तरीत्या च विरुद्धाकारसंपन्नस्य जगतो ब्रह्मैवाभूमिरिति तत्तत्र निषेधतीत्यस्यार्थस्य ग्रन्थकृतैव सूचितत्वान्न काप्यनुपपत्तिः । तथा हि । अतीतानागतवर्तमानत्वेन नानाभूतं जगत् इह ब्रह्मणि किञ्चन किञ्चिदतीत-मनागतं च नास्ति । अतीतानागतपदोक्तप्रध्वंसप्रागभावप्रतियोगित्वाख्यधर्मि-सत्ताऽसहिष्णुधर्मेण नानाभूतं वर्तमानजगतो विलक्षणम् । अत एव नास्तीति नास्तित्वे हेतुसूचनायापि नानाभूतमिति विशेषणमुपात्तम् । अनेन प्रलयाभावं वदतो मीमांसकस्य सदाकार्यसत्त्वमङ्गीकृत्य भविष्यत्कार्यमेवानङ्गीकुर्वत-स्सत्कार्यवादिनश्च मतं निरस्तम् । नानाभूतपदेन जगत् त्रैविध्यमङ्गीकृत्य वर्तमानकाल एव तन्निराकुर्वंत्या श्रुत्या तदनङ्गीकारमतस्यापहस्तितत्वात् । नानाभूतं इतो विलक्षणं तदैव धर्मिसत्तानियतवर्तमानत्वाख्यधर्मघटितं वर्तमानं जगत् ब्रह्मण्यस्त्येवेति आर्थिकोऽर्थः । किञ्चनपदं च सर्वैरपि नास्तीत्यभि-लप्यमानयोरतीतानागतयोरस्तीत्यभिलप्यमाने वर्तमाने जगति च चक्षुषी निमील्यना स्तित्वं वदतो मायावादिनो मुखमुद्रणार्थम् । एवं चार्थात्सामान्यतो मिथ्यात्वमतमपि अपहस्तितमिति वेदितव्यम् ।
यद्वा वर्तमानमेवाशुतरविनाशित्वेन चिरविनाशित्वेन नित्यत्वेन च नानाभूतं जगत् इह ब्रह्मणि किञ्चन आशुतरविनाशि चिरविनाशि च नित्यान्नानाभूतं विलक्षणमत एव स्वप्रागभावप्रध्वंसदशायां नास्तीत्यर्थः । एतत्कल्पमध्यवर्ति-नामेव विद्यमाननिषेधप्रदर्शनाय प्राचीनपक्षात् पृथगुक्तिः । प्राचीनपक्षोक्त-वर्तमानजगत्यपि न सर्वस्य सदाप्यस्तित्वमिति विवेकप्रदर्शनाय तदनन्तर-मेवोक्तिः ।
अथवा मायावादिनोक्तरीत्या सद्विलक्षणत्वासद्विलक्षणत्वाभ्यां तेनैव दृष्टि-सृष्टिपक्षोक्तपदार्थाननन्त्येन वा जैनोक्तरीत्या सत्त्वासत्त्वसदसत्त्वादिरूपसप्त-भङ्ग्या वा परमाणु पुञ्जवादिनोक्तरीत्या एकस्यैव बहुपरमाण्वात्मकत्वेन वा नानाभूतं जगत् इह ब्रह्मणि किञ्चन किमपि नास्तीत्यर्थः । एतादृशस्वकपोल-कल्पित दुर्मतानि श्रौतमतप्रतिष्ठापकस्य ब्रह्मणो मनसे न रोचन्त इति सूचनाय इहेति पदम् ।
यद्वा चेतनाचेतनात्मतया नानाभूतं यज्जगत् तत्किञ्चन एकदेशभूतं जडमेव । इह ब्रह्मणि । नानाभूतम् । भिन्नं नास्ति अस्तीति न किन्तु सर्वमपि भिन्नमस्तीति फलितोऽर्थः । अत्रापि किञ्चन पदं नानापदं च जडमात्रभेद-मङ्गीकृत्य चेतनभेदमनङ्गीकुर्वतो मुखमुद्रणार्थम् । अतिविरुद्धत्वान्मायिमतस्य चतुर्धा खण्डनम् । अथवा तार्किकोक्तरीत्या वृत्तिमदवृत्तिमत्पदार्थभेदेन नानाभूतं जगत् किञ्चन वृत्तिमत्पदार्थ एवेह ब्रह्मणि नास्ति अस्तीति न किन्तूभयमप्यस्तीत्यर्थः । अत्राप्यर्थाद्विष्णोरखण्डस्वामित्वकथनाच्छ्रीब्रह्मरुद्रा-दीनां खण्डस्वामित्व कथनाच्च श्रुत्या स्वमतस्थापनं शाक्तादिमतनिराकरणं च कृतमिति द्रष्टव्यम् । एवं च विश्वतश्चरणस्वप्रभुरिव श्रुतिरपीयं स्वरक्षकस्य हरेः प्रतिपक्षभूतान्यमतानि स्वपदविन्यासचातुर्येणैव हैन्याकराणि चकार ।। ७३२ ।।
सत्यप्रमोदटीका
‘नेहनानेत्यागमोऽस्त्वत्र मानं इति चेन्न । तस्य ब्रह्मणि नानात्वनिषेधपरत्वात्’ इति वादावल्युक्तं सपरिकरं विवृण्वन्नाह नेति नानाशब्दस्य भावप्रधानत्वपक्षे इह ब्रह्मणि सगुणे नानावतारे च किञ्चन गुणक्रियादिप्रतियोगिकः स्वगतो भेदो नास्ति । ‘यदेवेह तदमुत्र, यदमुत्र तदन्विह’ इति श्रुतेः । क्षिपेत् निराकुर्यात् । भूमिषु प्रमाणसिद्धाधिकरणेषु । परस्परप्रतियोगिकपारमार्थिकभेदशून्यस्वैकदेशप्रतियोगिकपारमार्थिकभेदशून्यतां न बोधयतीत्यर्थः ।
इदमत्रावधेयम् । विशिष्य निषेधन्यायेन इह भेदो नास्तीत्युक्तौ अन्यत्र भेदसद्भावोऽवगम्यते भेदो नास्तीति निषेधे गुणक्रियाऽवयवादयः सन्ति । किन्तु तेषां परस्परं परमात्मनो वा भेदो नास्तीति ज्ञायते । तदुक्तं ‘एवं धर्मान् पृथक् पश्यंस्तानेवानुविधावती’ ति । किञ्चनेति भेदसामान्यनिषेधेन भेदाभेदपक्षो निराक्रियते । एवं गुणक्रियाऽवयवादिप्रतियोगिकानेकभेदनिषेधार्थः किञ्चनशब्दः । भवितृप्राधान्यनिर्देशपक्षेऽपि नाना भिन्नं किञ्चन गुणकर्मादिकं नास्ति इत्येवार्थः । किञ्चनशब्दः प्रकृतगुणकर्मादिधर्मपर एव सर्वनाम-शब्दत्वात् । तदुक्तं न्यायामृते
वाक्यशेषस्थधर्माख्यविशेषे पर्यवस्यति ।
किञ्चनेति हि शब्दोऽयमक्ताशब्दो घृते यथा ।। इति ।
भिन्नधर्मा न सन्तीत्युक्तौ विशेष्याणां धर्माणां प्रमितत्वेन निषेधायोगेन विशेषणस्य भेदस्यैव निषेधः पर्यवस्यति । धर्माणां स्वरूपेण निषेधाभिप्राये नानेतिशब्दो निरर्थकः स्यात् ।
यद्वा नानाशब्दो विनाऽर्थकः । ‘नाना विष्णुं मोक्षदो नास्ति देवः’ इति प्रयोगात् । तथा च किञ्चनशब्दस्य प्रपञ्चार्थकत्वेऽपि प्रपञ्चो ब्रह्मणाऽविनाभूत इत्येवार्थः । यद्वा प्रलये प्रपञ्चो ब्रह्मणि नास्ति इत्युक्तौ, लटा तदानींतननिषेध एव ज्ञाप्यते सृष्टिस्थित्योस्तत्सद्भावोऽनुज्ञायत एव । एतदप्युक्तं स्वस्वभूमिषु इति । सृष्टिस्थितिकालयोः स्वस्वाधिकरणे सत्तां नैव निषेधतीत्यर्थः ।
यद्वा जगति नाना कुवादिकल्पितः किञ्चन अप्रामाणिक आकारः, सदसद्विलक्षणत्वं सप्तभङ्गीस्वातन्त्र्यं परमाणुपुञ्जरूपत्वं इत्यादिकं नास्तीत्यर्थः। एतदप्युक्तं सत्तां न क्षिपेत् किन्तु अप्रामाणिकमाकारमेव क्षिपेदिति । किं चेदं पराभिमतप्रपञ्चाभेदभ्रमस्य न बाधकम् । नात्र ब्रह्म जगताऽभिन्नं नेति ज्ञाप्यते किन्तु ब्रह्मणि भिन्नं जगन्नेत्येव । तथा चाभेदभ्रमः स्थिरीकृत एव स्यात् न तु बाधित इत्यवगन्तव्यम् । एतदप्युक्तं नानात्वं क्षिपेत् न त्वभेदं येन बाधकं स्यादिति भावः । यद्वा ब्रह्मणि भिन्नं किञ्चन जगन्नास्ति किन्तु सर्वमपि अस्तीत्यर्थः । यद्वा अतीतानागतः प्रपञ्च इदानीं नास्तीत्युक्ते सत्कार्यवादोऽ-प्यनेनैव निरस्तो ध्येयः ।। ७३२ ।।
युक्तिमल्लिका
असङ्गिनि च सद्विश्वं नास्तीत्यपि निगद्यते ।। ७३३ ।।
सुरोत्तमटीका
गीतावाक्यसमाख्यया च श्रुतेरर्थमाह ।। असङ्गिनीति ।। सत् विद्यमानम् ।। ७३३ ।।
सत्यप्रमोदटीका
‘ऋतेऽर्थं यत्प्रतीयेत न प्रतीयेत चात्मनि’इति भागवतोक्तासङ्गित्वेनापि जगतो भगवति विद्यमानस्यापि नास्तित्वरूपं श्रुत्यर्थं घटयति असङ्गिनीति । यथोक्तं तत्रैव तात्पर्ये ‘सर्वं परे स्थितमपि नैव तत्रेति भण्यते । यतो हरेर्न जीवेन जीवनं न हरौ ततः । जीवः प्रकृतिरप्यत्र यतो नैव हि बन्धकृत् । कर्म चाफलदातृत्वात् कालश्चापरिणामनात्’’ इत्यादि ।। ७३३ ।।
युक्तिमल्लिका
मया ततमिदं विश्वं जगदव्यक्तमूर्तिना ।
मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ।। ७३४ ।।
न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् ।
योगैश्वर्यबलादेतन्न तु मिथ्यात्वतः किल ।। ७३५ ।।
इति कृष्णस्य वचनान्न तन्मिथ्यात्वकारणम् ।। ७३६ ।।
सुरोत्तमटीका
गीतावाक्यं पठति ।। मयाततमिति ।। तत् श्रुत्या भगवत्युक्तं नास्तित्वम् ।। ७३४-७३६ ।।
सत्यप्रमोदटीका
उक्तार्थे गीतां संवादयति मयेत्यादिभ्याम् । अस्यार्थो विवृतो गीताविवृतौ ‘त्वगिन्द्रियेण तं ज्ञात्वाऽन्योन्यधर्मसंक्रान्तिमासाद्य न तिष्ठन्ति भगवतः प्रकृतस्पर्शहितत्वात्’ इति ।। योगः स्वरूपसामर्थ्यम् ।। तत् श्रुत्युक्तं नास्तित्वम् । किल प्रसिद्धम् । श्रुतिस्मृतिभ्यामेव गत्यन्तरकथनादिति भावः ।। ७३४-७३६ ।।
युक्तिमल्लिका
अतस्तद्बाधपरशोरयो लोकत्रयेऽपि न ।
सिद्धं तु शाखाछेद्येव मूलच्छेदः कथं वद ।। ७३७ ।।
सुरोत्तमटीका
उपसंहरति ।। अत इति ।। अतः सार्वदैशिकसार्व-कालिकजगन्निषेधस्य क्वाप्यश्रवणात् । अयः अयस्स्थानीयत्रैकालिकनिषेधः लोकत्रयेऽपि नेति सम्बन्धः । न च वाच्यं श्रुतेरनाद्यनन्तत्वेन तत्कृतवर्तमान निषेधोऽप्यर्थादनाद्यनन्तकालीन इति । एवमपि त्रैकालिकनिषेधस्यार्थिकत्वेन मिथ्यात्वे चोदनाभावस्यापरिहारात् । ब्रह्मणोऽन्यत्र निरवधिकानन्त्याङ्गीकारे तवापसिद्धान्तात् । श्रुतेश्च ब्रह्मवत्सदातनत्वे तस्या एव त्रिकालनिषेधायोगेन सर्वमिथ्यात्वासिद्धेश्च । सावधिकानन्त्ये चावध्युत्तरकाले निषेधासिद्ध्या त्वदभिलषितमिथ्यात्वस्यैवासिद्धेश्च । किञ्च निषेधस्य त्रैकालिकत्वपरिरक्षणाय वेदनित्यतामङ्गीकृत्य तदुक्तवर्तमाननिषेधस्यापि त्रैकालिकत्वं वदता वेदोक्तानां विश्वसत्यत्वभेदब्रह्मसगुणत्वसाकारत्वादीनां सर्वेषामर्थानां च सर्वकालेष्वपि वर्तमानत्वं वक्तव्यम् । एवं च सर्वदा वर्तमानेष्वर्थेषु क्रियमाणो निषेधः अन्धकारस्थित घटनिषेधवद्भ्रान्तनिषेधो वा स्यात् । पारिभाषिकनिषेधो वा स्यात् । अतिवाद्यपि प्रतिवादीत्वम् अस्मदभिमतवाद्ये वा भूः । किंकरा-श्शङ्कराद्या इति स्तुतिश्च निरवधिकार्थैवाभूत् ।
न च श्रौतनिषेधस्य भ्रान्तित्वे श्रुतेरप्रामाण्यं स्यादिति शङ्कनीयम् । वेदे तत्वावेदकत्वातत्वावेदकत्वविभागस्य त्वयैव कृतत्वात् । निषेध्यार्थानां च सर्वदा विद्यमानत्वे निषेधभ्रान्तित्वस्यैव न्याय्यत्वात् । व्यर्थमन्यथाऽन्धकार-स्थितघटनास्तित्वप्रतीतेर्भ्रान्तित्वम् । जगत्सत्त्वप्रतिपादकवाक्यानां च त्वदुक्तविधया कदापि स्वार्थप्रच्यावनाभावेनाभ्रान्तित्वस्यैव प्राप्तेश्च । यदि च श्रुतेरप्रामाण्याद्भीतोऽसि तदा प्रागस्मदुक्तनवार्थानेव वद ।
अथवा नानाभूतं किञ्चन किञ्चिदपि जगद् इह ब्रह्मणि नानाभूतत्वादेव न अन्यत् भिन्नं सदस्तीति वा । इह ब्रह्मणि यन्नानाभूतं जगदस्ति । तत् न ब्रह्म न । आधाराधेयभावात् क्षराक्षरजडतया नानाभूतत्वाच्चेति वा अभिनवमर्थान्तरं वद । तदन्यतद्विरुद्धतदभावार्थेषु नञोऽनुशासनात् । नब्राह्मण इत्यादौ प्रयोगाच्च । स्वस्मिन्नस्तीत्युक्तस्यैव जगतः पुनस्स्वस्मिन्नेव नास्तित्वं घटयतो भगवतः कौशलनिदर्शनेन त्रिदशाधिपतेर्माधवस्य मध्वस्य च कृपया दशेमेऽर्था ग्रन्थकृतैवोत्प्रेक्षिताः स्वग्रन्थे सूचिताश्च । तच्छिक्षयैवास्माभिर्लिखितान-स्वकौशलेनेति द्रष्टव्यम् । सिद्धं स्वारसिक शब्दशक्तया सिद्धं, निषेधनं, शाखाच्छेदि कालविशेषे देशविशेषे चास्तित्वच्छेदि । मूलच्छेदः सार्वकालिक-सार्वदैशिकनिषेधाख्यच्छेदः ।। ७३७ ।।
सत्यप्रमोदटीका
तद्बाधपरशोः विश्वमिथ्यात्ववादस्य । अयः साधकम् । लोकत्रयेऽपि प्रस्थानत्रये अन्विष्यमाणेऽपि । विश्वं सत्यं इति श्रुत्या, उक्तगीतावाक्यैः,वैधर्म्याच्च न स्वप्नादिवत् इत्यादि सूत्रैः खण्डितत्वात् । शाखा आपातार्थः । मूलं तत्त्ववादः ।। ७३७ ।।
युक्तिमल्लिका
तत्त्रिकालेऽपि नास्तित्वं न श्रौतं नोपयोगि च ।
नाशस्यास्य च बाधस्य परस्परविरोधतः ।। ७३८ ।।
सुरोत्तमटीका
तत् तस्मात् उक्तन्यायात् । उपयोगि ज्ञानविनाश्य-त्वाख्यमिथ्यात्वोपयोगि । अनुपयोगित्वमेव दर्शयति ।। नाशस्येति ।।७३८।।
सत्यप्रमोदटीका
न च वाच्यं ईश्वरवन्नित्यया श्रुत्या नास्ति किञ्चनेति निषेधे नास्तित्वं सार्वकालीनमेव सेत्स्यति न वर्तमानमात्रकालीनमिति । ‘न वेदा न वर्णाश्रमाचारधर्माः’ इति वेदमिथ्यात्ववादिना त्वया तन्नित्यत्वानङ्गी-कारात् । अङ्गीकारे च तत्रैव श्रुत्यर्थमिथ्यात्वस्य भङ्गापत्तेः । तेनैव न्यायेन श्रौतसत्यत्वादीनामपि त्रैकालिकत्वसिद्धेः । प्रमाणविरोधे श्रुत्यादीनां प्रमाणानुगुणार्थान्तराङ्गीकारस्य न्यायप्राप्तत्वात् । तदेतदाह न श्रौतमिति श्रुतितात्पर्यविषयो नेति भावः । इह ब्रह्मणि यत् नाना बहुचित्रं जगदस्ति, तत् न, ब्रह्मणो भिन्नं इति योजनोपपत्तेः । नञो भिन्नेत्यर्थवाचित्वेनाभि-धानसिद्धत्वात् । नोपयोगि । तुष्यत्विति न्यायेनाभ्युपगमेऽपि त्वदभिलषितस्य ‘अज्ञानस्य स्वकार्येण सह ज्ञानेन निवृत्तिर्बाध’ इति त्वया निरुक्तस्य ज्ञाननाश्यत्वापमिथ्यात्वस्य साधनं उपयोगं नावहतीति भावः । निवृत्तेः सत्त्वनियतत्वात्, सत्त्वासत्त्वयोश्च परस्परविरहव्यापकत्वेनैव प्रमितत्वादिति भावः ।। ७३८ ।।
युक्तिमल्लिका
व्यावहारिकसत्त्वं तु नास्त्वित्वापरनाम हि ।। ७३९ ।।
सुरोत्तमटीका
व्यावहारिकसत्त्वमादाय त्रिकालनास्तित्वेऽपि नाशो घटत इत्यत आह ।। व्यावहारिकसत्वमिति ।। ७३९ ।।
सत्यप्रमोदटीका
ननु न प्रमाणविरोधेन प्रतीतार्थप्रच्यावनम् । तेषां व्यावहारिकसत्यमात्रप्रतिपादकत्वात् । अनया श्रुत्या च पारमार्थिकसत्त्वस्य निषेधादिति इति वाच्यम् । निर्मूलत्वात्कल्पनायाः । ‘बाध्यविषये च व्यावहारिकमित्यस्याद्वैतिपरिभाषामात्रसिद्धत्वादि’ति औतिभिरङ्गीकारेण प्रमाणान्तरैर्व्यावहारिकसत्त्वोक्तौ तेषां अप्रामाण्यस्यैवापातात् । सर्वाभ्युपगत व्यवहारनिर्वाहकत्वरूपव्यावहारिकत्वोक्तौ श्रुतीनां वैयर्थ्यप्रसङ्गात् । ‘अप्राप्ते शास्त्रमर्थवदि’ति न्यायात् । तदेतदाह व्यावहारिकेति ।। ७३९ ।।
युक्तिमल्लिका
सत्तानिषेधे सत्येव या सा भ्रान्तौ प्रतीयते ।
तदाऽस्तित्वकथा शुक्तिरूप्यास्तित्वकथोपमा ।। ७४० ।।
सुरोत्तमटीका
या सत्ता । त्रैकालिकनिषेधं वदता निषेधे सत्येव व्यावहारिकसत्त्वाख्य सत्ताकथनादिति भावः । तदस्तित्वकथा तस्य नास्तीत्युच्यमानस्य सत्त्वस्य तदैव तत्रैवास्तित्वकथा ।। ७४० ।।
सत्यप्रमोदटीका
अस्तित्वकथा कथामात्रम् । न हि इतोऽन्यत् शशशृङ्गादेरपि असत्त्वमस्ति । कथोपमेति । बाधविलम्बः नासत्त्वप्रतिक्षेपकः इति भावः ।। ७४० ।।
युक्तिमल्लिका
नाशो न चेदयं बाधो जगत्प्रत्येव सम्भवेत् ।
अज्ञानस्यैव विज्ञानं विरोधीति गतं तदा ।। ७४१ ।।
सुरोत्तमटीका
नाशो न चेत् नाशस्य प्राक्प्रतियोगिसत्त्वनियमभिया कुत्रापि नाशो नाङ्गीक्रियते चेत् । नाशपदेनापि बाध एवोच्यते चेदित्यर्थः । बाधः अयं बाधरूपो नाश इत्यर्थः । जगत्प्रत्येव सम्भवेत् । नेदं रजतमित्यत्र नास्तित्वापरपर्यायनाशस्य रजतं प्रत्येव दर्शनात् । तवाद्वितीयश्रुत्यापि द्वितीयस्यैव साक्षान्नास्तित्वाख्यनाशस्योक्तत्वादिति भावः । अस्त्वेवं तदापि मम का हानिरित्यत आह ।। अज्ञानस्यैवेति ।। तदा एवं सति । ज्ञान-मज्ञानस्यैव निवर्तकमिति सावधारणव्याप्तेर्भङ्गप्रसङ्ग इति भावः ।। ७४१ ।।
सत्यप्रमोदटीका
ननु ज्ञाननाश्यत्वं नाम ज्ञानबाध्यत्वमेवाभिमतं चेत् तर्हि ज्ञानेन साक्षादेव बाधसम्भवे अज्ञानद्वाराश्रयणं निरर्थकं इत्याह नाश इति ।। ७४१ ।।
युक्तिमल्लिका
सोऽपि त्रिकालसत्ताया निषेधः स्यान्न चापरः ।
स तु न श्रूयते क्वापीत्युक्तं तत्कुत्र बाध्यता ।। ७४२ ।।
सुरोत्तमटीका
व्याप्तिभङ्गोऽप्यस्तु तथापि बाध्यत्वसिद्ध्या ममेष्टसिद्धि-रित्यत आह ।। सोऽपीति ।। सोऽपि बाधोऽपि । तत् तस्मात् । त्रिकाल-नास्तित्वस्यैव बाधत्वे प्रतियोगिसत्तासापेक्षज्ञाननाश्यत्वपक्षप्रतिक्षेपप्रसङ्गः । तत्परित्यज्य नाशपदेनापि बाधस्यैवोक्तौ त्वदुक्तव्याप्तेर्भङ्गप्रसङ्गः । व्याप्तिमपि परित्यज्य बाधमात्रेणापि न सन्तोष्टव्यम् । क्वाप्यश्रवणेन तस्याप्यन्तत उज्जीवयितुमशक्यत्वात् । एवं च मार्जाराग्रे मूषिक चापलवत्परकीयशास्त्र-प्रक्रियाधावनायैवाभूत् न जीवनायेति भावः।। ७४२ ।।
सत्यप्रमोदटीका
बाधपक्षे पूर्वोक्तं अश्रौतत्वं दोषं स्मारयति न श्रूयत इति ।। ७४२ ।।
युक्तिमल्लिका
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि दृष्ट एवात्मनीश्वरे ।। ७४३ ।।
इत्यादिवाक्यैर्बन्धस्य पुण्यपापादिकर्मणाम् ।
अज्ञानस्य च विज्ञानाच्छ्रुतो नाशो न चापरः ।
अतस्सर्वजगन्नाशो ज्ञानेनेत्यतिसाहसम् ।। ७४४ ।।
सुरोत्तमटीका
किं चाज्ञानसंशयपुण्यपापातिरिक्तजगतो ज्ञान-नाश्यत्वस्यक्वाप्यश्रवणात् तन्मिथ्यात्वकथा न कथंचिदप्युपयोगिनीत्याह ।। भिद्यत इति ।। ७४३,७४४ ।।
सत्यप्रमोदटीका
नाश एव न बाध इत्यभिनीय दर्शयति भिद्यत इति । श्रुतोऽपि नाशः बन्धकारणमात्रस्याज्ञानादेः न तु सर्वजगत इत्याह न चापर इति ।। ७४३,७४४ ।।
युक्तिमल्लिका
इदानीं नष्टनानार्थनाशोऽन्ते ज्ञानतः कथम् ।
प्रागेव नास्तिता तस्य यतस्सर्वस्य संमता ।। ७४५ ।।
सुरोत्तमटीका
अयुक्तश्च ज्ञानेन जगन्नाश इत्याह ।। इदानीमिति ।। नष्टस्य पुनर्नाशायोगात् । मास्तु ज्ञानेन नाशो बाधः किन्तु नास्तित्वबोध एव बाधः । स च नष्टस्यापि घटत इत्यत आह ।। प्रागेवेति ।। प्राग्ब्रह्मज्ञाना-त्प्राक् । तस्य इदानीं नष्टस्य । ध्वस्तघटादौ नास्तीति व्यवहारस्य सर्वसम्मत-त्वात् । त्रिकालनास्तित्वस्य च तथा बोधकशब्दाभावेन परमते शब्दजन्या-परोक्षज्ञाने उल्लेखस्यैवायोगात् । नास्तित्वोल्लेखमात्रस्य प्रागेव सिद्धत्वादिति भावः ।। ७४५ ।।
सत्यप्रमोदटीका
‘अज्ञानस्य स्वकार्येण प्रविलीनेन वा सह ज्ञानेन निवृत्तिर्बाधः’ इति बाधलक्षणे ‘प्रविलीनेन सह’ इत्यंशं अपहसति इदानी-न्तनेति नष्टस्य ब्रह्मज्ञानेन पुनर्नाशो वा, पुनः पूर्वं ज्ञातस्य नाशज्ञानं वा । नाद्यः इत्याह प्रागेवेति ।। ७४५ ।।
युक्तिमल्लिका
अतो नास्तित्वबोधोऽन्ते कथमस्येति चिन्त्यते ।
अनुवादितया वाक्यममानं स्याद्धि तेषु ते ।। ७४६ ।।
सुरोत्तमटीका
अतः इदानीमेव नास्तित्वबोधात् । अन्ते ब्रह्मज्ञान-दशायाम् । अस्य इदानीमेव नास्तीति प्रतीयमानस्य जगतः । नास्तित्व-बोधोऽपीदानीमेव जायते न तु ब्रह्मज्ञानदशायामिति भावः । इदानीं ज्ञातस्य पुनर्ब्रह्मज्ञानदशायामपि ज्ञाने को दोष इत्यत आह ।। अनुवादितयेति ।। वाक्यं ब्रह्मज्ञानजनक वाक्यम् । तेषु प्रागेव प्रत्यक्षादिना नास्तीति ज्ञातेषु ।। ७४६ ।।
सत्यप्रमोदटीका
न द्वितीयः । बाधबोधकवाक्यस्य ज्ञानज्ञापकत्वेना-प्रामाण्यापत्तेरित्याह अनुवादितयेति ।। ७४६ ।।
युक्तिमल्लिका
किन्तु प्रलयकालीनवह्न्यर्काद्यैर्जगत्क्षयः ।
मुद्गरादिकुठाराद्यैर्मध्ये मध्येऽर्थनास्तिता ।। ७४७ ।।
सुरोत्तमटीका
इदानीं नष्टघटादीनां ज्ञानेन नाशस्य नास्तित्वबोधस्य चायोगेऽपि प्रलये नश्यज्जगतो ज्ञानेन नाशो वा क्रियते नास्तित्वं वोल्लिख्यत इत्यत आह ।। किंत्विति ।। जगत्क्षय इत्युपलक्षणम् । नास्तित्वबोधोऽपि संहृतत्वादेव चक्षुराद्यैरेव भवति । न तु तदर्थमपि ब्रह्मज्ञानमपेक्ष्यत इति द्रष्टव्यम् । नास्तितेत्युपलक्षणम् । नाशोऽपि ग्राह्यः । ज्ञानेन नाशो न चेत् केन तयोर्नाश इति शङ्कापरिहारायोभयत्रापि नाशककथनम् । अत एव किंत्वित्युक्तम् ।। ७४७ ।।
सत्यप्रमोदटीका
तव बाधकज्ञानस्य न जगन्नाशकत्वम् । नाशस्य हेत्वन्तरेणैव सिद्धेरित्याह किन्त्विति । तदुक्तं सुधायां ‘किन्तु मुद्गरप्रहारा-दिना घटस्येव ईश्वरस्य ज्ञानेच्छाप्रयत्नव्यापारैर्विनाश एवे’ति ।। प्रलये नाश-दर्शनमपि यथायथं प्रतियोगिग्राहकप्रमाणैरेव न तु पुनः त्वदुक्तप्रणाड््या ब्रह्मज्ञानेनेति भावः ।। ७४७ ।।
युक्तिमल्लिका
तच्छिन्नमूलशाखोग्रो मिथ्यावादाख्यपादपः ।
न फलाय न पत्राय न च्छायायै भवेत्तव ।। ७४८ ।।
सुरोत्तमटीका
तत् तस्मात् । प्राङ्नष्टे प्रलयकालनष्टे च नाश-नास्तित्वबोधयोरन्यफलत्वेन ब्रह्मज्ञानफलत्वायोगात् छिन्नं मूलं इदानीन्तन-नास्तित्वाख्यं, शाखाग्रं प्रलयकालीननाशनास्तित्वाख्यं च यस्य । उभयत्रापि ज्ञाननाश्यत्वस्य ज्ञानेनैव नास्तितयोल्लिख्यमानत्वस्य चाभावेन मिथ्यात्वस्यैव भग्नत्वादिति भावः । अथवा उक्तप्रकारेण स्वप्रक्रिययैवारोपायोगाद्बाधायोगाच्च । छिन्नमारोपाख्यं मूलं बाधाख्यशाखाग्रं च यस्य स तथोक्तः । अल्पत्वादादि-त्वाच्चाद्यस्य मूलता बहुविस्तारवत्त्वादन्त्यस्याग्रता । मिथ्याभूतार्थे आरोपस्य पूर्वकालीनत्वाद्बाधस्य च चरमकालीनत्वात् उभयाभावे मिथ्यात्वस्य सुतरा-मभावाच्चैवमुक्तमिति ज्ञातव्यम् ।। ७४८ ।।
सत्यप्रमोदटीका
छिन्नेति निराकरणेनाभासीकृतेत्यर्थः । मूलं साधकाभिमतश्रुत्यादिमानस्वरूपम् । तेषामप्यग्रतो मिथ्यात्वापातेन वन्ध्यासुत-वचस इव स्वरूपासिद्धहेतूनामिव चासाधकत्वात् । अग्रच्छेदो नाम वाक्यानां पूर्वोत्तरविरोधेन प्रमाणान्तरविरोधेन त्वदभिमतार्थाप्रतिपादकत्वम् । अनुमानानां व्याप्त्याद्यङ्गवैकल्यम् । न फलायेति । वन्ध्यासुतेन मरुमरीचिकया पोषित-गन्धर्वनगरवृक्षस्येव स्वरूपत एवाभावादिति हृदयम् ।। ७४८ ।।
युक्तिमल्लिका
इदानीं बाध्यरजताधिकसत्ताश्रयत्वतः ।
भेदो ब्रह्मगुणा विश्वं ब्रह्मवत्परमार्थसत् ।। ७४९ ।।
सुरोत्तमटीका
पुनरप्यनुमानान्तरेण भेदस्य ब्रह्मगुणानां विश्वस्य च सत्यतां स्थापयति ।। इदानीमिति ।। ७४९ ।।
सत्यप्रमोदटीका
पूर्वोक्तं प्रातिभासिकेतरत्वरूपं पारमार्थिकत्वसाधकं हेतुं स्मारयति इदानीमिति ।। ७४९ ।।
युक्तिमल्लिका
देहात्मनोरेकता च नभोनैल्यं च ते मते ।
यत्प्रातिभासिकं सर्वं तद्धेतुर्न विपक्षगः ।। ७५० ।।
सुरोत्तमटीका
यत् यस्मात् । तत् तस्मात् प्रातिभासिकत्वेन शुक्ति-रजताधिकसत्ताश्रयत्वाभावात् ।। ७५० ।।
युक्तिमल्लिका
बाध्यं यच्छुक्तिरूप्यादि तदद्यैव हि बाध्यते ।
नभोनैल्यं च तत्रत्यैर्न नीलमिति बाध्यते ।। ७५१ ।।
सुरोत्तमटीका
किं च बाध्यं सर्वमिदानीमेव बाध्यते । अनादिकाल-मारभ्य एतावत्कालपर्यन्तमबाधितस्य जगतो ब्रह्मवदुपर्यपि न बाध इति वक्तुं नभोनैल्यभ्रमे देहात्मैक्यभ्रमे च यत्परैरिदानीमबाध्यत्वे सति ब्रह्मज्ञानेनैव बाध्यत्वमङ्गीकृतम् तन्निरासाय तयोरुभयोर्वस्तुस्थितिं प्रदर्शयति ।। बाध्यमिति ।। तत्रत्यैः भ्राम्यमाणनभोदेशस्थैः स्वसमीपस्थे नभसि । न कस्यापि भ्रमः । किन्तु दूरस्थे । तत्रापि तत्रत्यस्य न नीलमिति धीरस्त्येव । अतस्तस्यापीदानीमेव बाध्यत्वमिति भावः ।। ७५१ ।।
सत्यप्रमोदटीका
मम देह इति नभो न नीलमिति च प्रमयेदानीमेव बाधात् न देहात्मैक्यादौ व्यभिचारः । तत्र हेत्वभावादेव । शुक्तिरूप्ये तु प्रातिभासिकत्वं तेनैवाङ्गीकृतम् । तत्रत्यैः प्रत्यक्षतो नैल्याभावं पश्यद्भिः । अत्रत्यस्य तु तत्रत्यस्य प्रत्यक्षमूलकेनाप्तवाक्येन बाधः । न सर्वथा केवलागमेनेति भावेनाह नभ इति ।। ७५१ ।।
युक्तिमल्लिका
आकाशे नीलिमोदेतीत्यादिवेदोक्तितस्तु तत् ।
अबाध्यमेव वा नैल्यं नोभयत्रापि न क्षतिः ।। ७५२ ।।
देहोऽहमिति विज्ञानं न हि कस्यापि देहिनः ।
नाहं देह इति ज्ञानं सर्वेषामपि सर्वदा ।। ७५३ ।।
मम देह इति प्राहुस्सर्वेऽपि कथमन्यथा ।
देहात्मैक्यभ्रमस्येत्थमवकाशो न विद्यते ।। ७५४ ।।
सुरोत्तमटीका
तत् दूरे प्रतीयमानं नभोनैल्यम् । समीपे नैल्याप्रतीतेः दूरे च प्रतीतेः नयनपक्ष्मणामिव तदाऽतिसामीप्यमेवार्थदोषः कल्प्यत इति भावः ।। ७५२–७५४ ।।
सत्यप्रमोदटीका
व्युत्पादितं प्रातिभासिकत्वं अव्याकृताकाशे प्रतीत-नैल्यस्य । भूताकाशनीलिम्नस्तु श्रुतिसिद्धत्वात् योगिप्रत्यक्षगम्यत्वाच्च पार-मार्थिकत्वमेवेति न तत्र व्यभिचारप्रसङ्ग इत्याह आकाश इति । नः तत्त्व-वादिनाम् । क्षतिः उक्तानुमानस्य व्यभिचारः ।। ‘अहं गौरः’ इति व्यवहारः सिंहश्चैत्रः, कृष्णं वस्त्रं इत्यादिवदुपचारमात्रत्वात् न तथाविधप्रतीतिसाधक इत्याह देह इत्यादिभिः
।। ७५२–७५५ ।।
युक्तिमल्लिका
गौरोहमित्यादिवाक्च कौराद्यङ्गेऽभिमानतः ।
अहंताया व्यवहृतिरुपचारेण केवलम् ।
न हि सिंहात्मकं मर्त्यं वक्ति वागौपचारिकी ।। ७५५ ।।
यतोऽस्ति पुत्रे मित्रादौ वित्ते वाऽतिप्रिये नृणाम् ।
नष्टे नष्टोऽहमिति वाक्तुष्टे तुष्टोऽहमित्यपि ।। ७५६ ।।
अतो बाध्यस्य सर्वस्य बाधोऽद्यापि हि विद्यते ।। ७५७ ।।
सुरोत्तमटीका
वाक् सिंहो देवदत्त इति वाक् । यथा सिंहो देवदत्त इति प्रयोगस्यौपचारिकत्वान्न तेन सिंहदेवदत्ततादात्म्यस्य प्रतीतिः किन्तु सादृश्यस्यैव तथा गौरोऽहमित्यौपचारिकप्रयोगेऽपि न देहतादात्म्यप्रतीतिः मम देह इति भेदबुद्धेर्जागरूकत्वात् । किं त्वभिमानादेव स्वीये स्वत्वव्यवहार इति भावः ।। ७५५–७५७ ।।
सत्यप्रमोदटीका
उपचारमेव सुस्पष्टैर्निदर्शनैर्द्रढयति पुत्र इत्यादिना ।। बाध्यस्य सम्प्रतिपन्नभ्रान्तपदार्थस्य प्रातिभासिकरूप्यादेः । अद्यापि ब्रह्मज्ञानेतरेण तत्प्रागेव ।। ७५६–७५७ ।।
युक्तिमल्लिका
अनादिकालतस्सर्वं दृश्यते जगदीदृशम् ।
बाधो न लभ्यते सर्वमस्तीत्यद्यापि वीक्ष्यते ।। ७५८ ।।
सत्यप्रमोदटीका
जगदीदृशमिति । तदुक्तं तत्त्वोद्योते ‘न क्वाप्यनीदृशं विश्वं तत्तत्कालानुसारत’ इति ।। ७५८ ।।
युक्तिमल्लिका
यो नास्त्यत्रास्ति सोऽन्यत्र गृहे नास्त्यस्त्यसौ बहिः ।
सर्वत्र सर्वदेदं तु नास्त्येवेति क्व धीर्वद ।। ७५९ ।।
सुरोत्तमटीका
यो घटः अत्र नास्ति सोऽन्यत्रेत्यन्वयः । एवमुत्तरत्रापि ।। ७५९ ।।
सत्यप्रमोदटीका
किञ्चायं निषेधः एकदेशकालप्रतिपन्नस्य कालान्तरादौ चेत् रीत्यन्तरेण परिच्छिन्नत्वं अनित्यत्वं वोक्तं भवति । त्रिकालाखिल-देशनिषेधस्तु नास्त्येव । नित्यसर्वगतयोः कालाकाशयोस्तादृशनिषेधप्रतिज्ञाने व्याघातश्चेत्याह य इति ।। ७५९ ।।