मायाविनो न चेद्भ्रान्तिर्विश्वमासीदनाकुलम्
मायामयत्वखण्डनम्
युक्तिमल्लिका
मायाविनो न चेद्भ्रान्तिर्विश्वमासीदनाकुलम् ।
मायाविनो यदि भ्रान्तिर्विश्वं नारोपितं मम ।। ४६४ ।।
सुरोत्तमटीका
मायाविनो जगदीश्वरस्य भ्रान्तिर्न चेत् । विश्वं सर्वज्ञस्य तस्य प्रमाविषयीभूतविश्वम् । तथा चोभयतः पाशारज्जुरित्याह ।। मायाविन इति ।। प्रथमपक्षे मायाया अविद्यात्वपातेन तदावृत्तेश्वरचैतन्यस्योक्तविधया जगद्भ्रमत्वायोगादिति भावः । द्वितीयपक्षस्य तु भावः पूर्वपद्य एवोक्तः ।। ४६४ ।।
सत्यप्रमोदटीका
किञ्च मायावी ईश्वर एव तवाभिमतः । तस्य भ्रान्तिः मायिकवस्तुदर्शनं अस्ति न वा । न चेत् तस्य ज्ञानस्य प्रमात्वापत्त्या तद्विषयस्य विश्वस्य सत्यत्वमेव स्यादित्याह विश्वमिति । अस्ति चेत् तथाऽपि विश्व-सत्यत्वमेव सेत्स्यतीत्याह नारोपितमिति । भ्रान्तेः सत्याधिष्ठानप्रधानसादृश्य-द्रष्टृतद्देहेन्द्रियदोषसंस्कारबाधकाज्ञानादिपूर्वकत्वनियमात् । देहेन्द्रियादीनां च पृथिव्यादिकार्यत्वात् तेषामपि सत्यत्वमावश्यकम् । न चैतेषां अपि भ्रान्ति-विषयता । अन्योन्याश्रयात् । भ्रान्तिसिद्धौ देहेन्द्रियादिसिद्धिः तत्सिद्धौ च भ्रान्तिसिद्धिरिति । अत्र विस्तरः न्यायामृते प्रतिकूलतर्कपराहतिप्रकरणे (प्र.२५) ।। ४६४ ।।
युक्तिमल्लिका
किञ्च मायाविनस्स्थूलदेहेन्द्रियगुणादिकम् ।
ब्रह्मगाज्ञानपरिणामात्मकं तेन चेष्यते ।। ४६५ ।।
सुरोत्तमटीका
दूषणान्तरं चाह ।। किञ्चेति ।। तेन मायावादिना ।। ४६५–४६९ ।।
सत्यप्रमोदटीका
बकबन्धनन्यायपराहता चेयं परप्रक्रियेत्याह त्रिभिः किञ्चेत्यादिना । ब्रह्मणोऽज्ञानपरिणामात्मकं व्यावहारिकम् । न तु प्राति-भासिकम् । तथा च जगदपि तथैव आविद्यकं अस्तु किं मायिकत्वदुर्व्यसनेन । लाघवात् ऐकरूप्याच्चेति भावः ।। ४६५ ।।
युक्तिमल्लिका
एवं चेज्जगदेतच्च ब्रह्म स्वाविद्यया सृजेत् ।
अतदाकारपरिणामाख्यविक्षेपशक्तया ।। ४६६ ।।
सत्यप्रमोदटीका
देहेन्द्रियादीनामिव विश्वस्यापि अतदाकारपरिणाम-रूपया अविद्याशक्त्यैव सृष्टिः तन्मते सुलभैवेत्याह एवमिति ।। ४६६ ।।
युक्तिमल्लिका
अज्ञानापगमे चाधिष्ठानदृक्चास्तु तस्य दृक् ।
बकबन्धाय निर्बन्धो निर्निबन्धन एव ते ।। ४६७ ।।
सत्यप्रमोदटीका
कथं तर्हि विश्वस्य दर्शनमित्यतः मोक्तं विस्मार्षी-रित्याह अज्ञानापगम इति ।। ४६७ ।।
युक्तिमल्लिका
तस्मादज्ञानकलिलं ब्रह्म वा मायया वृतः ।
महेश्वरो वा सर्वार्थांस्तया पूर्वं द्विरूपया ।। ४६८ ।।
अतदाकारपरिणामाख्यविक्षेपशक्तया ।
करोत्येव ततः पश्चात्सन्निकृष्टेन्द्रियैश्शुभैः ।
पश्यन्ति सर्वे सर्वत्रेत्येव वाच्यं त्वयाऽपि हि ।। ४६९ ।।
सत्यप्रमोदटीका
कलिलं आवृतम् । माययेत्यनास्थया । स्रष्टा यो वा को वाऽस्तु आविद्यकैव सृष्टिस्त्वयोच्यतां न मायिका इत्यत्र नैर्भर्यम् । अतदाकारपरिणामशक्तेः अविद्यायामेव सम्भवात् । सन्निकृष्टेन्द्रियैरिति । अन्यथा प्रतिकर्मव्यवस्थाऽयोगात् ।। ४६८–४६९ ।।
युक्तिमल्लिका
मायारूप्यं शुक्तिरूप्यं दोषशक्त्यैव केवलम् ।
दृष्टं स्यात्सन्निकृष्टत्वं तत्र नेष्टं द्वयोरपि ।
अतस्तदारोपितं स्याद्दोषयुक्तेन चक्षुषा ।। ४७० ।।
सुरोत्तमटीका
तत्र रजतसृष्टौ मायासृष्टौ च । तन्मायिकं शुक्ति-रजतादिकं च ।। ४७० ।।
सत्यप्रमोदटीका
प्रतिभासिकदर्शने सन्निकर्षासम्भवात् दोष एव तत्कार्यकर इत्याह मायेति ।। ४७० ।।
युक्तिमल्लिका
व्यावहारिकविश्वं तु सन्निकर्षेऽक्षगोचरः ।
नो चेन्नेति मतं यस्मात्तवापि च ममापि च ।
तस्मादनारोपितत्वं तत्त्वमासीज्जगत्त्रये ।। ४७१ ।।
सुरोत्तमटीका
नो चेत् सन्निकर्षो नो चेत् । तस्मात्सन्निकृष्टकरण-ग्राह्यत्वेनारोपितवैलक्षण्यात् । एवं च जगदनारोपितं सन्निकृष्टकरणग्राह्यत्वात् । व्यतिरेकेण शुक्तिरूप्यवदित्यनुमानमप्यनेन सूचितम् । प्राक्सन्निकर्षलब्धार्थ-सत्तयाऽऽरोपो नेत्युक्तम् । अधुना सन्निकर्षबलादेवेति विशेषः । इदमुक्तं भवति । विवरणोक्तरीत्या ब्रह्माश्रिताविद्यया जगत्सृष्टिपक्षे महीमहीधरादि-जगदधिष्ठानभूतब्रह्मचैतन्यस्य घटाद्यधिष्ठानचैतन्यवन्मानसापरोक्षवृत्त्या-स्वावरकाज्ञानापगमपर्यन्तं जगद्भ्रमत्वायोगात् अनारोपितमेव जगत्स्यात् । अत एव ह्यविद्यावृतशुक्त्यवच्छिन्नचैतन्यस्य स्वावरकाविद्योपादानकरजतभ्रमत्वानु-पपत्तेरान्तरसाक्षिचैतन्यस्यैव तद्भ्रमत्ववर्णनं मायावादिनां घटाद्यधिष्ठान-चैतन्येऽप्यज्ञानापगमानुसरणं च । एकत्रावरणस्याकिञ्चित्करत्वेऽन्यत्राप्य-किञ्चित्करत्वस्यापरिहारात् ।
किञ्च घटादिचैतन्यानामपि साक्षाद्ब्रह्मचैतन्यत्वेन तद्भ्रमप्रतिरोधकस्या-ज्ञानस्य कथं न जगद्भ्रमप्रतिरोधकत्वं मायासृष्टिपक्षेऽपि मायायास्स्वाश्रया-व्यामोहकत्वेन सर्वज्ञेश्वरस्य मायिकत्वेनाभिमतजगदज्ञानाभावप्रसङ्गात् । सर्वज्ञत्वरक्षणाय ईश्वरज्ञानविषयत्वाङ्गीकारे च माययाऽव्यामुग्धतया प्रमाभूत-दृग्विषयत्वेन सत्यत्वापरिहाराच्च ईश्वरदेहगेहादेर्द्रष्टृजीवदेहेन्द्रियादेश्च सत्यत्व-प्रसङ्गात् । भगवद्देहादेर्जीवदेहादेश्चाविद्यकत्वे तत्कल्पकत्वेनाभिमतब्रह्मणोऽपि पूर्वोक्तरीत्या तद्भ्रमत्वायोगेन तेषां सत्यत्वापरिहारात् । जगतोऽपि तद्वत्सृष्टि-सम्भवेन कल्पनाद्वयवैयर्थ्यापाताच्च । मायिककरितुरगादिवदसन्निकृष्टानामेव घटपटादीनां दर्शनप्रसङ्गात् परेणापि सन्निकृष्टानामेवैषां दर्शनाङ्गीकारेणा-रोपात्पूर्वं सन्निकर्षघटकतया सत्त्वप्रसङ्गात् । सन्निकृष्टकरणग्राह्यत्वाख्य-व्यतिरेक्यनुमानेन च सत्यत्वप्रसङ्गात् । मायाविनो जगदीश्वरस्यापि भ्रम-सम्पादकत्वे च स्वाश्रयाव्यामोहकत्वाभावेन मायाया अज्ञानत्वापातेनाज्ञान-पक्षोक्तदोषेणैव दुष्टत्वप्रसङ्गात् । नापि जगद्द्रष्टृनानाजीवानामपरोक्षवृत्तिरेव तत्तद्भ्रमः । तस्याश्चक्षुरादीन्द्रियसन्निकर्षजन्यत्वनियमेन सन्निकर्षघटकघट-पटादीनां प्रागेव सत्यत्वप्रसङ्गात् । दृग्दृश्ययोगायोगं वदता परेण तस्या जगद्भ्रमत्वानङ्गीकाराच्चेति ।। ४७१ ।।
सत्यप्रमोदटीका
तस्मात् व्यावहारिकवस्तुदर्शनस्य अन्वयव्यतिरेकाभ्यां सन्निकर्षसापेक्षताऽध्यवसायात् सन्निकर्षस्य च पूर्वं वस्तुसद्भावनियतेः भ्रान्तेः पुरैव विद्यमानस्य भ्रान्तिकल्पितताऽसम्भवाच्चेति भावः ।। ४७१ ।।
युक्तिमल्लिका
अतस्त्वत्प्रक्रियाम्बैव सूतेऽनारोपितं जगत् ।
या जलाञ्जलिना स्वेनैवारोपाग्निमशीशमत् ।। ४७२ ।।
सुरोत्तमटीका
आरोपानुपपत्तिकथनमुपसंहरति ।। अत इति ।। या प्रक्रिया । जलाञ्जलिना प्रमेयाख्यजलाञ्जलिना । पूर्वोत्तरपर्यालोचनायां तदीयप्रमेयस्यैवारोपविरुद्धतया जगद्रक्षणोपयोगित्वात् जलाञ्जलिनेत्युक्तम् ।। ४७२ ।।
सत्यप्रमोदटीका
अतः संप्रतिपन्नभ्रान्तपदार्थेतरत्वरूपस्य प्रातिभासि-केतरत्वस्य त्वयैव वियदादौ विश्वेऽभ्युपगमात् । स एव वादावल्युक्तो हेतुः । अनारोपितं तत्त्वावेदकप्रमाणदृष्टत्वं तत एव पारमार्थिकसत्यत्वं च सूते निराबाधतया साधयति । ब्रह्मणोऽन्वयदृष्टान्तस्य, शुक्तिरूप्यादेर्व्यतिरेक-दृष्टान्तस्य च जागरूकत्वादिति भावः । जलाञ्जलिना व्यावहारिकत्वाभ्युप-गमेन ।। ४७२ ।।
युक्तिमल्लिका
अतो मूलस्य शोधे तु मिथ्यात्वे नास्ति कारणम् ।
सत्यत्वसाधकान्येव सन्दृश्यन्ते सहस्रशः ।। ४७३ ।।
सुरोत्तमटीका
मूलस्य जगत्सृष्टेः ।। ४७३ ।।
सत्यप्रमोदटीका
मूलस्य । चिद्वेद्यत्वे वा वृत्तिवेद्यत्वे वा प्राक् सन्निकर्षसम्पादकतया सत्यत्वापेक्षारूपस्य । तथा प्रातिभासिकत्वपक्षेऽपि द्रष्टृदेहेन्द्रियादिसत्यत्वरूपस्य । कारणं साधकम् । संदृश्यन्ते । उपजीव्यत्व-निरवकाशत्वादिसमस्तन्यायैः प्राबल्योपेतानि प्रत्यक्षादीनि उपलभ्यन्ते । सहस्रशः बहुत्वनिमित्तकबलवन्ति च ।। ४७३ ।।
युक्तिमल्लिका
तदधिष्ठानचैतन्यं प्राग्विश्वाकारविक्रियम् ।
तत्कल्पकभ्रमत्वं तु तस्य न स्यात्कदाचन ।। ४७४ ।।
सुरोत्तमटीका
तत् तस्मात् । प्राक्सृष्टिदशायाम् । विश्वाकारविक्रियं विश्वाकारेण विक्रियाऽविद्यापरिणामो यस्मिंस्तत्तथोक्तम् । तस्य जगदुपादाना-विद्यावृतब्रह्मणः ।। ४७४ ।।
सत्यप्रमोदटीका
तदिति विश्वेत्यर्थः । तदाकारविक्रियं विश्वाकारेण विकारवत् । तत्कल्पकं तद्विषयकभ्रमरूपम् । कदाचन प्राक् प्रतीतेः आवरणसद्भावेन उत्पादस्यैवाभावात्, पश्चादुत्पद्यमानायाश्च सन्निकर्षसम्पादक-तया स्वोपजीव्यपदार्थसत्यत्वं प्रति बाधकत्वासंभवात् ।। ४७४ ।।
युक्तिमल्लिका
वृत्तिश्च सन्निकृष्टार्थभवा सिद्धस्य वेदनम् ।
तत्कल्पकभ्रमत्वं च तस्या अपि न कर्हिचित् ।। ४७५ ।।
सुरोत्तमटीका
सन्निकृष्टार्थभवा इन्द्रियार्थसन्निकर्षजन्येत्यर्थः । तस्याः वृत्तेः ।। ४७५ ।।
युक्तिमल्लिका
तस्मादभ्रमसिद्धत्वं सत्यतासाधकं दृढम् ।। ४७६ ।।
सुरोत्तमटीका
स्वसाधितप्रमेयस्य प्रकृतोपयोगं दर्शयति ।। तस्मादिति ।। ४७६ ।।
सत्यप्रमोदटीका
तस्मात् तत्वावेदकप्राणदृष्टत्वात् ।। ४७६ ।।
युक्तिमल्लिका
तत्र तत्र स्थितं ब्रह्म स्वाज्ञानकलिलं किल ।
घटोऽहमित्यादिरूपैर्भ्रान्तं सर्वत्र सर्वदा ।
इत्थं तद्भ्रान्तिमात्रस्य विवर्तोऽयं भवः किल ।। ४७७ ।।
यदि स्वाज्ञानतो ब्रह्म घटं कल्पयति भ्रमात् ।
कुलालमृत्तिकादण्डचक्राद्यैः किं प्रयोजनम् ।। ४७८ ।।
सुरोत्तमटीका
पुनरपि किञ्चिन्मूलं संशोध्यसत्यतामनुभावयन्मुद्गरादि-जन्य जगदग्ररूपसंहारशोधनेऽपि सत्यत्वमेवेत्याह ।। तत्र तत्रेति ।। यत्र यत्र यदा यदाऽपरोक्षवृत्तिस्तत्र सर्वत्र सर्वदेत्यर्थः । चैतन्यस्य स्वस्मिन्नहमित्येवो-ल्लेखसम्भवेनायं घटत इति भ्रमाकारो न स्यादित्यभिनवं मूलशोधनम् । विवर्तः विपरीताकारपरिवर्तनम् । भ्रान्तिसिद्धविपरीताकार इत्यर्थः । भवस्संसारः
।। ४७७,४७८ ।।
सत्यप्रमोदटीका
‘ॐ उदासीनानामप्येवं सिद्धिः’ इति सूत्रोक्तं अति-प्रसङ्गं विवक्षुः परप्रक्रियामनूद्य अपहसति तत्र तत्रेति । अधिष्ठानस्य चैतन्यस्य अहमिति धीविषयतया भ्रमाकार ‘अयं घट’ इत्यनुक्त्वा ‘अहं घट’ इत्येवाह अहमिति । विवर्तः अतदाकारावभासः । भवः घटादिप्रपञ्चः ।। ४७७ ।।
युक्तिमल्लिका
किं कारुदार्वपेक्षास्ति गन्धर्वपुरसर्जने ।
किं वा सर्पस्य मिथुनाद्रज्जुसर्पजनिस्तव ।। ४७९ ।।
सुरोत्तमटीका
प्रयोजनाभावमेव दृष्टान्तमुखेन दर्शयति ।। किङ्कार्विति ।। तवमते । इदमप्यभिनवं मूलशोधनम् ।। ४७९ ।।
सत्यप्रमोदटीका
कुलालेति तदुक्तमनुव्याख्याने । ‘कार्यार्थी कारणं सच्च नोपादद्यात् कथंचन’ इति । रज्जुसर्पः गन्धर्वनगरं चेत्यादिकं असदेव । न तयोः सर्जनम् । नतरां तदर्थं उपादाननिमित्तादिकारणापेक्षा इत्याह किमिति । तदुक्तं वादावल्यां ‘पदार्थस्य असत्त्वेन तदुत्पाद्यताया असम्भवित्वादि’ति ।। ४७९ ।।
युक्तिमल्लिका
मुद्गरस्य प्रहारेण भ्रमं मुञ्चति नान्यथा ।
अहो दुर्जनसङ्गत्या दौर्जन्यं ब्रह्मणोऽप्यभूत् ।। ४८० ।।
सुरोत्तमटीका
परप्रक्रियामपहसन्नग्रमपि शोधयति ।। मुद्गरस्येति ।। ब्रह्मणोभ्रमे सति घटनाशायोगात् मुद्गरप्रहारे च घटनाशदर्शनात् ब्रह्मापि भ्रमं मुञ्चतीत्युक्तम् ।। ४८० ।।
सत्यप्रमोदटीका
किञ्च मुद्गरप्रहारादिना जायमानो नाशः किं घटस्य उत तदधिष्ठानभूतब्रह्मचैतन्यसमवेतभ्रमस्य । नाद्यः तथा सति ध्वंसप्रतियोगिनो घटस्य सत्यत्वापत्तेः । न हि शशविषाणादेः असतो ध्वंसः सम्भवति । न द्वितीयः । प्रहारेण भ्रमं मुञ्चतस्तव ब्रह्मणः राजदण्डेन भ्रमं त्यजतः तस्कर-स्येव दौर्जन्यापत्तेः इत्यपहसति अहो इति ।। ४८० ।।
युक्तिमल्लिका
विपरीतप्रमाबाध्यो भ्रमस्सर्वत्र दृश्यते ।
मुद्गरेण भ्रमोच्छेदस्त्वद्भ्रमस्यानुमापकः ।। ४८१ ।।
सुरोत्तमटीका
अस्तुमुद्गरेण भ्रमनाशः को दोष इत्यत आह ।। विपरीतेति ।। ४८१ ।।
सत्यप्रमोदटीका
विपरीतप्रमेति । अधिष्ठानयाथात्म्यज्ञानेत्यर्थः । अनुमापक इति । मायावादी भ्रान्तः, प्रमाणविरुद्धार्थभाषित्वादित्यनुमान-सौलभ्यादिति भावः ।। ४८१ ।।
युक्तिमल्लिका
अज्ञाने ज्ञाननाश्यत्वभ्रमं च तव मुद्गरः ।
मोचयामास तद्वादी मुद्गरस्तत्त्ववादिनाम् ।। ४८२ ।।
सुरोत्तमटीका
तवाज्ञाने ज्ञाननाश्यत्वभ्रममिति सम्बन्धः । मुद्गरेणा-ज्ञानोपादानकघटनाशे उपादानभूताज्ञाननाशस्याप्यावश्यकत्वादिति भावः । तत् तस्मात् बाधं विना घटभ्रमं मोचयता मुद्गरेण घटादावबाध्यत्वरूपसत्यत्व-साधनात् ज्ञानेनैवाज्ञाननाश इति परमतदूषणाच्चेत्यर्थः ।। ४८२ ।।
सत्यप्रमोदटीका
अज्ञानस्य स्वकार्येण सह ज्ञानेन निवृत्तिर्बाध इति परप्रक्रियाऽपि तद्भ्रममूलैव इत्येतदप्यनेनैव सिद्धमित्याह अज्ञानेति । मुद्गरः तव भ्रमं मोचयामास इत्यन्वयः । भ्रमस्य विषयप्रदर्शनं अज्ञाने ज्ञाननाश्यत्व-मिति । चशब्देन कार्यस्य घटादेः ज्ञानेन विनाश्यत्वभ्रमं पूर्वोक्तं समुच्चिनोति । तत् तस्मात् । यस्मादिति अध्याहारः । मुद्गरः तव भ्रमं तथा तव ब्रह्मणश्च भ्रमं इत्युभयं भ्रमं मोचयन् सन् तव प्रक्रियाद्वयमपि दूषयति तस्मादिति संबन्धः । तत्त्ववादिनां वादी परपक्षदूषणेन तदभिमतसाधकः । अयं भावः । मुद्गरप्रहारेण ‘अहं घटः’ इति तव ब्रह्मणो भ्रमस्य नाश इत्युपपादितम् । तेनैव घटोपादानस्य अज्ञानस्यापि विनाशः मुद्गरेणैवेत्येतदपि सिध्यति । यद्यपि लोके उपादाननाशेन विनाऽपि कार्यनाशो दृष्टः तथाऽपि नैषा तव प्रक्रिया । अन्यतरावशेषे तस्य सत्यत्वापत्तेः । तथा च कार्यस्य उपादानेन सह ज्ञानेन निवृत्तिर्भवतीति त्वत्प्रक्रिया भ्रममूलैवेति सिध्यतीति ।। ४८२ ।।
युक्तिमल्लिका
नष्टस्यापि पुनर्ज्ञानेनापि नाशो यदीष्यते ।
तदा नाशस्य नाशेन जगदुन्मज्जनं भवेत् ।। ४८३ ।।
सुरोत्तमटीका
बाधाभावे युक्तयन्तरं चाह ।। नष्टस्येति ।। इष्यते मुक्तिकाले ।। ४८३ ।।
सत्यप्रमोदटीका
‘अज्ञानस्य स्वकार्येण प्रविलीनेन वा सह ज्ञानेन निवृत्तिः बाध’ इति परप्रक्रियायां, प्रविलीनेन सह इत्येतदंशं दूषयति नष्ट-स्येति । ध्वंसप्रतियोगिनो घटस्य पुनर्नाशः न तावद् घटस्य प्रतियोगिनो पुन-र्नाशेन निर्वाह्यः । घटस्य मुद्गरप्रहारेण पूर्वमेव नाशात् । अतः प्राप्ताप्राप्त-विवेकेन नाशस्य नाशेनैव निर्वाह्यः । अस्तु इति चेत्तत्रातिप्रसङ्गमाह तदेति । मोक्षो हि बन्धध्वंसः । तदुक्तं मायिना ‘अविद्याऽस्तमयो मोक्षः’ इति । ध्वंसस्यापि ध्वंसाङ्गीकारे अविद्यारूपसंसारस्य पुनरुन्मज्जनप्रसङ्गः । तदुक्तं वादावल्यां ‘न हि सहस्राक्षोऽपि क्षयं क्षेप्तुं क्षम इति उन्मत्तवादश्च स्यादि’ति ।। ४८३ ।।
युक्तिमल्लिका
दग्धे पटे कारणेन सह कार्यं विनश्यति ।
एवं निश्शेषनष्टस्य पुनर्नाशोऽष्टमो रसः ।। ४८४ ।।
सुरोत्तमटीका
निश्शेषनष्टस्य कारणशेषं विना नष्टस्य ।। ४८४ ।।
सत्यप्रमोदटीका
असमवायिकारणस्य तन्तुसंयोगस्य नाशेन नष्टस्य घटस्य पुनर्नाशः सप्तमो रसः । समवायिकारणानां तन्तूनामेव नाशेन अत एव निश्शेषनष्टस्य पुनर्नाशस्तु अष्टमो रस इत्याह दग्ध इति ।। ४८४ ।।
युक्तिमल्लिका
अतो ज्ञानाविनाश्यत्वात्सत्या घटपटादयः ।
सत्यत्वादेव नारोप्यास्सर्वे ब्रह्मवदेव हि ।। ४८५ ।।
सुरोत्तमटीका
अतः नष्टस्य पुनर्नाशायोगात् ।। ४८५ ।।
सत्यप्रमोदटीका
अत इति । तथा च प्रयोगः । वियदादिकं न आरोपितं सत्यत्वात् ब्रह्मवत् । न चासिद्धिः । वियदादिकं सत्यं ज्ञानानाश्यत्वात् तद्वदेव । असिद्धिस्तु परिहृतेति भावः ।। ४८५ ।।
युक्तिमल्लिका
या चक्षुःप्रभवा वृत्ती रूपवद्घटगोचरा ।
नीरूपब्रह्मगाज्ञानं सा निवर्तयते कथम् ।। ४८६ ।।
सुरोत्तमटीका
घटवृत्त्या घटावच्छिन्नचैतन्याज्ञाने निवृत्ते तदधिष्ठान-चैतन्यमेव घटभ्रमः । एवं पटभ्रमादयोऽपि । अतस्सर्वस्य चैतन्यारोपितत्व-साम्येऽपि यदज्ञाननिवृत्तौ सत्यां यच्चैतन्यं यदुल्लिखति । स एव तस्य विषयो नापर परकीयप्रतिकर्मव्यवस्था । तत्र घटादिज्ञानेन चैतन्याज्ञाननिवृत्तिस्ताव-दनुपपन्नेत्याह ।। या चक्षुरिति ।। तद्विषयकज्ञानस्यैव तदज्ञाननिवर्तकत्वात् चाक्षुषघटवृत्तेश्च रूपवद्द्रव्यविषयत्वनियमेन नीरूपब्रह्माख्यद्रव्यगोचरत्वा-योगादिति भावः ।। ४८६ ।।
सत्यप्रमोदटीका
चक्षुःप्रभवा चक्षुरिन्द्रियमार्गोद्गता वृत्तिः तत्तद्वस्त्वा-त्मना परिणतान्तःकरणोपरिणामात्मिका । रूपवदिति हेतुगर्भं विशेषणम् । महत्वसमानाधिकरणेद्भूतरूपवत्त्वस्य चाक्षुषताप्रयोजकत्वात् । नीरूपेत्युप-लक्षणम् । निराकारेत्यपि ग्राह्यम् । तेन तदाकारेणान्तःकरणपरिणामस्य अशक्यशङ्कत्वात् । ब्रह्मविषयकवृत्तेरेवैवं असंभवेन तत्र ज्ञातृचैतन्यस्य प्रतिफलनं इत्यादिकं गर्भस्रावेणैव निरस्तमिति भावः ।। ४८६ ।।
युक्तिमल्लिका
तप्तवारिस्थितस्याग्नेरज्ञानं किं तया गतम् ।
घटस्थरसगन्धादेरज्ञानं वा ततो गतम् ।। ४८७ ।।
सुरोत्तमटीका
चक्षुषो रूपपुरस्कारेणैव द्रव्यग्रहणमनुभावयति ।। तप्तेति ।। तया तप्तवारिविषयकचाक्षुषवृत्त्या । रूपाभिभवमात्रेणापि स्वयोग्यं तेजोऽगृह्णदत एव तदज्ञानं चानिवर्तयच्चक्षुः सर्वथा रूपरहितम् अत एव स्वायोग्यं च ब्रह्म कथं गृह्णीयात् । कथं च तदज्ञानं ज्ञानं निवर्तयेदिति भावः । अयोग्यस्यापि ब्रह्मणो योग्यघटावच्छिन्नत्वात् चक्षुषा दर्शनमिति शङ्कां च पूर्वदृष्टान्तेनैव दूषितामपि दृष्टान्तान्तरमुखेन निराकरोति ।। घटस्थेति ।। ततः चक्षुषः ।। ४८७ ।।
सत्यप्रमोदटीका
अथैवमपि चक्षुरिन्द्रियजन्यया वृत्त्या ब्रह्मणोऽज्ञान-निवृत्तिरङ्गीक्रियते तर्हि तयैव घटगतरसस्पर्शगुरुत्वादेरपि अज्ञाननिवृत्तिः आपद्यते । तच्च अनानुभविकम् । नीरूपत्वादेर्न तथेति चेत् ब्रह्मण्यपि समानः प्रसङ्गः इत्याशयः । तप्तवारिस्थाग्ने रूपस्य अनुद्भूतत्वेन तस्यापि न चाक्षुष-वृत्तिविषयत्वम् ।। ४८७ ।।
युक्तिमल्लिका
योग्यावच्छेदकबलादयोग्यस्यापि दर्शनम् ।
इति पक्षोऽपि नैव स्याद्रसादौ तददर्शनात् ।। ४८८ ।।
सुरोत्तमटीका
दृष्टान्तान्तरकथनस्य भावं स्वयमेव दर्शयति ।। योग्येति ।। ४८८ ।।
सत्यप्रमोदटीका
एतेनैतदपि निरस्तम् । ब्रह्मणो नीरूपत्वादिना स्वरूपेण चाक्षुषत्वायोग्यत्वेऽपि रूपवद् घटाद्यवच्छेदेन तदुपपत्तिरिति । स्वरूपत एवायोग्यस्य उपाध्यवच्छेदेऽपि प्रत्यक्षत्वासंभवात् । न हि घटाद्य-वच्छेदेनापि नीरूपस्य स्वरूपतोऽयोग्यस्य प्रत्यक्षत्वं संभवति । न च राहोः शुक्लभास्वरचन्द्रावच्छेदेनेव प्रत्यक्षतोपपत्तिः । विषमो हि दृष्टान्तः । राहोरपि नीलरूपवत्वेन स्वरूपतो योग्यत्वात् । एतदाशयेनैव रसगन्धादेरिति दृष्टान्तोक्तिः ।। ४८८ ।।
युक्तिमल्लिका
चक्षुर्योग्यघटस्थोऽपि किं रसश्चक्षुषेक्ष्यते ।
अतस्स्वाविषयाज्ञानं कथं वृत्त्या निवर्त्यताम् ।। ४८९ ।।
सुरोत्तमटीका
अतः रसादौ चक्षुषाऽज्ञाननिवृत्त्यदर्शनात् ।। ४८९ ।।
सत्यप्रमोदटीका
अतः स्वरूपत एवायोग्यस्य योग्योपाध्यवच्छेदेऽपि प्रत्यक्षताऽसम्भवात् । स्वाविषयाज्ञानं वृत्त्यव्याप्यचैतन्यावरकम्।। ४८९ ।।