वित्तै रिक्तोऽपि जात्युच्चो नात्यल्पमुपसर्पति । सुक्षीणर्क्षेशरक्षा स्यादर्कोदर्कश्रियैव हि

भगवत्स्तोत्रपूर्वकं ग्रन्थस्य समर्पणम्

युक्तिमल्लिका

वित्तै रिक्तोऽपि जात्युच्चो नात्यल्पमुपसर्पति ।

सुक्षीणर्क्षेशरक्षा स्यादर्कोदर्कश्रियैव हि ।। ९७८ ।।

सुरोत्तमटीका

 विपत्तौ तत्परिहाराय संपत्तौ तद्दातुरविस्मरणाय संपत्स्थैर्याय च हरिभक्तेन सर्वोत्तमो हरिरेव प्रार्थ्यो नान्य इत्यत्र दृष्टान्तमाह ।। वित्तैरिति ।। रिक्तः शून्यः । जात्युच्चः जात्या श्रेष्ठः । उत्तमजीव इत्यर्थः । अत्यल्पं लौकिकराजादिकम् । ऋक्षेशः नक्षत्राधिपतिश्चन्द्रः । सुक्षीणश्चासौ ऋक्षेशश्च तस्य रक्षा सुक्षीणर्क्षेशरक्षा । क्षीणपञ्चदशकलश्चन्द्रोऽमावास्यायां सूर्यमेत्य तत एकां सुषुम्नाख्यान्तेजःकलां संगृह्य प्रतिपत्तिथिमारभ्याभिवृद्धो भवतीति पौराणिकी प्रथा । एवं सोमवंशोत्पन्नक्षत्रियकुलाग्रेसरतया उच्चेन चन्द्रेण सूर्यवंशाधिपतित्वेनोच्चस्य सूर्यस्यैव प्रार्थनाद्भगवद्भक्तत्वेनोत्तमो जीवः स्वसंकटेऽपि भगवन्तमेवाश्रयेन्न त्वन्यमिति भावः ।। ९७८ ।।

सत्यप्रमोदटीका

 जात्युच्चः ब्राह्मणः । अत्यल्पं धनिकं राजादिकम् । ‘मा गृधः कस्यचिद्धनम्’ इति निषेधात् न उपसर्पति तस्मात् संपदं नाशास्ते । ‘प्रतिग्रहं मन्यमानस्तपस्तेजोयशोनुदं’ इत्युक्तेः । निदर्शयति सुक्षीणेति ऋक्षेशः नक्षत्रेशश्चन्द्रः सुक्षीणः अमावास्यायां पञ्चदशकलाविकलोऽपि । तस्य रक्षा । अर्कः अलं सुखपूर्णः सूर्यान्तर्गतनारायणः तस्य श्रिया तेन दत्तया सुषुम्नातेजःकलया । यद्वा वित्तै रिक्तः अपि भगवदाज्ञया राज्यैश्वर्यं परित्यज्य वनं गतः अपि जात्युच्चः जीवजातिषूत्तमः वृकोदरः । अत्यल्पम् अक्षय्यपात्रार्थं सूर्यं वा अस्त्रलाभार्थं पशुपत्यादिकं वा न उपसर्पति । ऋक्षेशस्य अयं ऋक्षेशः । तद्धितप्रत्ययस्य लोपः चन्द्रवंशोत्पन्नः । तस्य रक्षा । अर्कस्य सुखपरिपूर्णस्य कृष्णस्य उदर्कश्रियैव संपूर्णानुग्रहेणैव ।। ९७८ ।।

युक्तिमल्लिका

तत्संपत्तौ विपत्तौ च गतिः श्रीपतिरेव नः ।

यो ब्रह्मरुद्रवीन्द्रेन्द्रचन्द्रादीनामधीश्वरः ।। ९७९ ।।

सुरोत्तमटीका

 एतदेव दर्शयति ।। तदिति ।। तत्तस्मात् ।। ९७९–९८१ ।।

सत्यप्रमोदटीका

 संपत्तौ मुक्तौ विपत्तौ संसारे गतिः अधिपतिः । नः अस्माकं तत्त्ववादिनां सिद्धान्ते । चन्द्रादीनां सोमसूक्तोक्तरीत्या मुक्तानाम् अमुक्तानां च ।। ९७९ ।।

युक्तिमल्लिका

नान्यं भजामि न स्तौमि नानुयामि कदाचन ।

हरिं च हरिपत्नीं च सुरादींश्च गुरून्विना ।। ९८० ।।

सत्यप्रमोदटीका

 गुरून् स्वोत्तमान् । ‘अन्येऽपि स्वात्मनो मुख्याः क्रमाद्गुरव ईरिताः’ इति वचनात् ।। ९८० ।।

युक्तिमल्लिका

भक्तिः स्यात्त्वयि गोविन्द तृप्तिः स्यात्त्वन्निषेवया ।

त्वत्तोऽन्यत्र विरक्तिः स्यान्मुक्तिश्च स्यान्मुकुन्द मे ।। ९८१ ।।

सत्यप्रमोदटीका

 मुक्तिः स्यादिति मुकुन्दार्थं इति शेषः । ‘एकान्तानां न कस्यचिदर्थे नारायणो देवः सर्वमन्यत्तदर्थकमि’त्युक्तेः

।। ९८१ ।।

युक्तिमल्लिका

अस्मिन्भवे भवेऽन्यस्मिन्भवान्ते च भवाम ते ।

दासानुदासाः श्रीनाथ त्राता त्वं नः सदा भव ।। ९८२ ।।

सुरोत्तमटीका

 भवान्ते जन्मनोऽन्ते । मुक्तावित्यर्थः ।। ९८२ ।।

सत्यप्रमोदटीका

 भवान्ते मुक्तौ ।। ९८२ ।।

युक्तिमल्लिका

पद्याख्यसूत्रबद्धेयं हृद्या स्याद्युक्तिमल्लिका ।

पद्मनाभस्य मध्वस्य विद्यायाश्च मनः प्रिया ।। ९८३ ।।

सुरोत्तमटीका

 स्वकृतयुक्तिमल्लिकाख्यग्रन्थं हरौ गुरौ च साहित्यमुद्रया समर्पयति ।। पद्याख्येति ।। एकैकपद्यस्यापि तत्र तत्रोक्तविधया बह्वर्थ-सूचकत्वात्पद्याख्यसूत्रेत्युक्तम् । रज्जुरिति ध्वनिः । विद्यायाः शारदादेव्याः ।। ९८३ ।।

सत्यप्रमोदटीका

 पद्मनाभस्य रमालालितपादपल्लवस्य । तदुक्तमभि-युक्तैः ‘ध्रियतां सदये हृदये कमलामहिलेन पुरुषेण’ इति । तेन रमाया अपि मनःप्रियत्वं प्रार्थितं ध्येयम् । विद्यायाः ग्रन्थाभिमानिन्या भारत्याः ।।९८३।।

युक्तिमल्लिका

हयग्रीवपदां भोजमधुमत्तमधुव्रतैः ।

सदा सेव्या वादिराजरचिता युक्तिमल्लिका ।। ९८४ ।।

सुरोत्तमटीका

 साहित्यमुद्रयैव सकलविदुषामुपकारिणीयं कृतिरित्याह ।। हयग्रीवेति ।। ९८४ ।।

सत्यप्रमोदटीका

 सदा सेव्या तत्प्रेप्सितहयग्रीवमहिमामृतप्रवाह-निष्यन्दित्वात् ‘विहातुमिच्छेन्न रसग्रही जनः’ इत्युक्तेः ।। ९८४ ।।

युक्तिमल्लिका

यो युक्तिमल्लि ते फुल्लपल्लवोल्लासवल्लभः ।

अञ्चाहिमञ्चं रम्यं च तं प्राञ्चं त्वं च सौरभैः ।। ९८५ ।।

सुरोत्तमटीका

 स्वकृतग्रन्थं प्रति त्वमपि भगवन्तमेव सदा स्तुहीति सयुक्तिकं बोधयति ।। य इति ।। मल्लीमतल्लीषुपदं दधानेत्यादौ मल्लिकाया मल्लीपदस्यापि प्रयोगात् हे युक्तिमल्लीति स्वकृतग्रन्थस्य सम्बुद्धिः । वल्लभः स्वामी । सौरभैः पञ्चसौरभैः । परिमलैरिति ध्वनिः ।। ९८५ ।।

सत्यप्रमोदटीका

 हे युक्तिमल्लि युक्तिमल्लिके, इति ग्रन्थदेवतां भारतीं प्रति प्रार्थना । अभिमान्यभिमन्यमानयोरैक्यव्यपदेशात् । ते फुल्लानां सुस्पष्टानां पल्लवानां शास्त्रप्रमेयप्रतिपादनानां उल्लासः शोभा येन सः श्रीमुख्यप्राणः तस्य यः वल्लभः प्रेष्ठतमः । तं अहिमञ्चं शेषशायिनं रमारमणम् अञ्च पूजय । तथा रम्यं द्वात्रिंशल्लक्षणोपेतं प्राञ्चं आदिगुरुं प्राणपतिं त्वं च त्वमेव अञ्च हरि-निर्माल्यतयोचिताया युक्तिमल्लिकायाः समर्पणेन पूजय । त्वत्प्रेरणयैव केवलं ग्रथितायाः समर्पणे तवैवाधिकार इति भावः ।। ९८५ ।।

युक्तिमल्लिका

यद्वाङ्मूलाऽसि मध्वोऽसौ विस्तारयतु ते गुणान् ।

दशप्रमतयो यस्य दश चाकृतयः प्रभोः ।

वल्लीधुरंधरो योऽसौ पुष्पवाटीधुरंधरः ।। ९८६ ।।

सुरोत्तमटीका

 मध्वाचार्यकृतभाष्यादिस्थितचातुर्याभ्यासबलेनैव स्वकृत-ग्रन्थेऽपि चातुर्यलाभादादिगुरं स्वस्य परमोपकारकं तं स्तौति ।। यद्वागिति ।। यस्य मध्वस्य वाच एव मूलानि यस्याः सा यद्वाङ्मूला । असौ वायो-रवताररूपः । मल्लिकागुणस्य वायोरंशेनैव विस्तार्यत्वादिति भावः । यस्य मध्वस्य । दश आकृतयः प्राणापानव्यानोदानसमानाः कूर्मानन्तकृकलदेवदत्त-धनञ्जयाख्याः ।। पुष्पवाटी पुष्पवनम् । वल्लीवनस्थैका पुष्पलता । यः पुष्पवाटीधुरन्धरः असावेव वल्लीधुरन्धर इति सम्बन्धः । तस्माद्युक्तिमल्लिकायाः प्रचारोऽपि मध्वमुनिनैव कर्तव्य इति भावः ।। ९८६ ।।

सत्यप्रमोदटीका

 यस्य श्रीमध्वस्य वाक् भाष्यादिकं तदेव मूलं उपजीव्यं यस्याः सा यद्वाङ्मूला असि वर्तसे । असौ गन्धवहः वायुः । ते गुणान् सौरभसर्वस्वान् विस्तारयतु श्रीशपादाम्बुजे समर्पणेन तदलौकिका-प्राकृतगन्धसंमिश्रणेन । विस्तारयतु दशदिक्षु सज्जनचेतांसि सुरमयतु । दश आकृतयः प्राणादयः पञ्च कूर्मानन्तादयः पञ्च इति दश । पुष्पवटी मीमांसा-शास्त्रग्रथितयुक्तिपुष्पवनं तस्या धुरंधरः अन्यैरसुकरस्य भाष्यस्य रचयिता । अत एव तदुपजीविकायाः बीजावापादिसमग्रहेतुः ।। ९८६ ।।

युक्तिमल्लिका

बीजावापः प्ररोहश्च पल्लवः प्रसवानि च ।

यत्प्रबन्धः प्रचारश्च विद्वन्मध्वस्य शक्तितः ।। ९८७ ।।

सुरोत्तमटीका

 युक्तिमल्लिकाकरणेनोत्पन्नपुण्यमपि मुख्यं मुख्यप्राण-स्यैवेत्यत्र साहित्यमुद्रया युक्तिमाह ।। बीजेति ।। प्ररोहः अङ्कुरः । यद्यस्मात् । प्रबन्धः मालारूपेण पुष्पबन्धनम् ।। ९८७ ।।

युक्तिमल्लिका

क्रयोत्थवित्तसम्पत्त्या तत्पूर्णो गुरुरेव नः ।

तद्दत्तवित्तभुग्योऽहं तत्परीचारमाचरन् ।। ९८८ ।।

सुरोत्तमटीका

 क्रयोत्थवित्तसम्पत्त्या क्रयेण विदुषामलङ्काराय तत्र दानेन उत्थं वित्तं पुण्याख्यवित्तं तस्य संपत्त्या । तत्तस्मात् गुरुर्मध्वः ।।९८८।।

सत्यप्रमोदटीका

 ‘स्वामी हि फलमश्नुते नास्वामी कर्म कुर्वाणः’ इति भाष्यमनुरुध्याह क्रयेति युक्तिमल्लिकायाः शिष्यप्रशिष्येषु प्रचयः । तदुत्था वित्तसम्पत्तिः पुण्यप्राप्तिः तया पूर्णः इति ‘द्रव्यस्वातन्त्र्यविज्ञानप्रयत्नैरधिकं फलम् । देवानामन्यगं चापि तेषु हि ब्रह्मणोऽधिकम्’ इत्युक्तेः । ‘आर्त्विज्य-मित्यौडुलोमिरि’ति सूत्रभाष्यदिशाऽऽह तद्दत्तेति । ‘सत्रयागेषु ऋत्विजा-मिवाल्पं फलं प्रजानामपि भवति’ इति भाष्योक्तेः ।। ९८८ ।।

युक्तिमल्लिका

गृहेषु गृहकृत्यानि कुर्वन्पथि पदानुगः ।

तेन राजान्तिकं नीतः सोऽहं सेवाधुरन्धरः ।। ९८९ ।।

सत्यप्रमोदटीका

 तेन वायुना राजान्तिकं परमात्मनः समीपं ‘स एनान् ब्रह्म गमयती’ति श्रुतेः ।। ९८९ ।।

युक्तिमल्लिका

स्ववनं स्वगृहं स्वाध्वस्वराजनगरीषु च ।

स एव मम योगीन्द्रो योगक्षेमधुरन्धरः ।। ९९० ।।

सुरोत्तमटीका

 स्ववनं स्वग्रन्थः । स्वगृहं स्वस्य गृहभूतं मम शरीरम् । स्वाध्वा स्वकीयो वैष्णवमार्गः । स्वराजनगरीषु वैकुण्ठादिषु । स एव मध्व एव ।। ९९० ।।

सत्यप्रमोदटीका

 स्ववनं वनवद्दुर्गमः ग्रन्थविस्तरः ।। स्वगृहं तदधिष्ठितं नानादेहजातम् । स्वाध्वा वैष्णवो मार्गः । स्वराजः विष्णुः तस्य नगरीषु वैकुण्ठादिषु । स एव मध्व एव ।। ९९० ।।

युक्तिमल्लिका

श्रुतिस्मृतिनिषङ्गोत्थमन्त्रास्त्रैर्यः समन्ततः ।

हिमालयस्य मलयस्य च मध्येऽजयत्खलान् ।। ९९१ ।।

सुरोत्तमटीका

 अधुना मध्वकिंकररुद्रादिदेवताकृपया चायं ग्रन्थो जात इति सूचनाय पुनरपि मध्वमेव स्तौति ।। श्रुतिस्मृतीति ।। मन्त्रास्त्रैः मन्त्ररूपवागाख्यास्त्रैः ।। ९९१ ।।

सत्यप्रमोदटीका

 मन्त्रास्त्रैः । ‘वाक्यैरतिबलीयोभिः प्रत्यस्त्रैरिवि वैदिकैः । अर्थान्तरं प्रकटयंस्तान्यसौ सन्न्यवर्तयत्’ इत्युक्तदिशा परप्रयुक्तवेद-वेदानुसारवाक्यानामर्थान्तरप्रदर्शकैः ।। ९९१ ।।

युक्तिमल्लिका

सोऽन्तः प्रविश्य दुःशास्त्रपुर्याः सर्वस्वशोधनम् ।

महाराजो मम गुरुस्तुच्छं कार्यमुपैक्षत ।। ९९२ ।।

सुरोत्तमटीका

 सः मध्वः । दुःशास्त्रपुर्याः अन्तः प्रविश्येति सम्बन्धः । महाराजस्य परपुरीस्थगेहान्तःस्थितक्षुद्रद्रव्याशया तत्प्रवेशस्यानुचितत्वात् तुच्छं कार्यमित्युक्तम् । सर्वज्ञस्य मध्वस्य वेदपञ्चरात्रादित एव व्युत्पत्तिः न तु दुश्शास्त्राभ्यासेनेति भावः ।। ९९२,९९३ ।।

सत्यप्रमोदटीका

 उपैक्षत ‘न चाप्रामाणिकं कल्प्यम्’ ‘नान्यथा तददृष्टेः’ इति संक्षेपेणैव दूषितवान् । न तु सविस्तरं सुधाचन्द्रिकादाविव परकीयपादभेदक्रमादिदूषणं पञ्चाख्यातिमतपराकृतिं प्रतिसूत्रं स्वीयान्यभाष्ययोः घटनाघटनप्रकाशनं च व्यधादिति भावः ।। ९९२ ।।

युक्तिमल्लिका

विद्यादारिद्य्रदोषेण दुःखी तत्सैन्यभिक्षुकः ।

अहमर्थातुरस्तां तु प्राविशं तद्भटैः सह ।। ९९३ ।।

सत्यप्रमोदटीका

 विद्यादारिद्य्रदोषेण भाष्यादिनिगूढगभीरनिर्मलार्थ-परिज्ञानाभावनिमित्तेन । तत्सैन्यभिक्षुकः पद्मनाभतीर्थत्रिविक्रमपण्डिताचार्य-जयतीर्थादीनां प्रबन्धार्थसंग्राहकः । तद्भटैः रुद्रगौतमप्रभृतिभिः विष्णोराज्ञया दुर्जनविमोहनाय मुखतो विपरीतार्थबोधकदुःशास्त्रप्रणयनेऽपि सञ्जनानुजिघृक्षया तात्पर्यतः मध्वसिद्धान्तस्यैव निरूपणपरैः । तां पुरीं परदर्शनाख्यपुरीम् ।। ९९३ ।।

युक्तिमल्लिका

दुस्तर्कतस्करान् जघ्नुस्तत्र तत्र त एव हि ।

ससम्भ्रमोच्चस्वरकृत्सोऽहं मेलनकृत्परम् ।। ९९४ ।।

सुरोत्तमटीका

 तत्सैन्यभिक्षुकः तस्य मध्वस्य सैन्ये देवऋषिगन्धर्व-मनुष्योत्तमपर्यन्त सेनायां याचकः । तेषां कृपया ईषद्विद्याभ्यासवानिति भावः । तां परदर्शनाख्यपुरीम् । तद्भटैः तमोयोग्यानां दुष्टानां मोहनाय चार्वाक-पाशुपतादिदुर्दर्शनेषु प्रविष्टैर्बृहस्पतिपशुपत्यादिमध्वभटैः ।। ९९४ ।।

सत्यप्रमोदटीका

 त एव रुद्रादय एव । ‘योग्यान्योजयितुं धिया विमलया नाभाव इत्यादिभिः । सूत्रैः खण्डितमाह बौद्धदलनव्याजेन तच्छङ्करः’ इत्युक्तेः । जघ्नुः पूर्वोत्तरव्याहतार्थान् कथयन्तः स्वोक्तं दुरर्थं स्वयमेव निराचक्रुः । ससम्भ्रमोच्चस्वरकृत् तेषां तदुपकारस्मरणसम्भ्रमेण उच्चस्वरेण विष्णोः परिवारतया तत्स्तोत्रकृत् । यद्वा ता व्याहतीरेव तदभि-प्रायानुसारेण युक्तिसम्भ्रमसमुपबृंहितस्वरेण प्रदर्शकः ।। ९९४ ।।

युक्तिमल्लिका

पतीनां मरणात्सर्वा दुर्वाङ्नारीर्गृहे गृहे ।

स्वार्थैः सहान्योन्यघातैर्हता वीक्ष्याफलां पुरीम् ।। ९९५ ।।

उपेक्ष्यार्थांश्च तांस्त्यक्त्वा निर्गतोऽहं ततो बहिः ।

कथामेतामकथयं सर्वां गुर्वग्रतो मम ।

कृती स सुकृतीनां तु कथां कृतिमकारयत् ।। ९९६ ।।

सुरोत्तमटीका

 त एव बृहस्पत्यादय एव । तत्र तत्र तेषु तेषु ग्रन्थेष्वेव । दुस्तर्कतस्करान् जघ्नुः । पूर्वोत्तरविरुद्धभाषणेन पूर्वार्थमुत्तरेण जघ्नुः उत्तरार्थं च पूर्वेण जघ्नुरिति भावः । ससम्भ्रमोच्चस्वरकृत् सम्भ्रमेण सहरुद्रादीनामपि उच्चैः दोषं मे हर हे हरेत्यादिस्तोत्रपाठेन स्वरकृत् । तेषां रुद्रादीनां मेलनं मन्मनस्येव हरेः परिवारतया स्थापनम् । तस्य कृत् । परदर्शनदूषणे समर्थोऽप्यहं परदर्शनदूषकाणां रुद्रादीनां स्तोत्रपाठादिना चरणस्मरणं करोमीति भावः ।। पतीनां स्वरक्षकाणां दुस्तर्काणां मरणात् सुंन्दोपसुन्दवत् परस्परं कलहेन मरणात् । अन्योन्यघातैः तर्कविरोधद्वारा वाक्यानामपि मिथो विरोधैः । स्वार्थैः सहहताः दुर्वाङ्नारीः वीक्ष्येति सम्बन्धः । तान् विरुद्धान् । ततः परदर्शनाख्य पुरीतः । साक्षादाविश्य च रुद्रादिदेवैः कृतेषु दुःशास्त्रेषु दूषण-बुभुत्सया प्रविष्टोऽहं रुद्रादीनामेव कृपया तत्रत्यदूषणानि दृष्ट्वादुष्टमिदं शास्त्रं न विवेकिभिः पाठ्यमिति धिक्कृत्यागत इति भावः । एतां कथां परदर्शनवाक्येषु परस्परं विरोधादिकथाम् । कृतिं युक्तिमल्लिकारूपकृतिम् ।। ९९५,९९६ ।।

सत्यप्रमोदटीका

 अर्थानां पूर्वोत्तरविरोधः प्रमाणान्तरविरोध एव वधः । वाचां तु अतत्वावेदकत्वलक्षणमप्रामाण्यम् । अफलां नञः अभावः विरोध-श्चार्थः । निष्फलां तमोरूपविपरीतफलां च उपेक्ष्य तिरस्कृत्य । त्यक्त्वा निर्गतः ‘सच्छास्त्रमभ्यसेन्नित्यं दुःशास्त्रं तु परित्यजेदि’त्युक्तेः । बहिः ‘भीतोऽहमभयं तत्त्ववादिनामेव पद्धतिं’ इति गुणसौरभे स्वयं शंसनात् । गुरोः अग्रे अशेषतात्त्विकासुरभञ्जकस्य तथा तत्प्रेरणाप्रयुक्ताशेषदुर्मतभञ्जकस्य अत एव प्रभञ्जनशब्दवाच्यस्य मध्वगुरोः सन्निधौ । अकथयं दुर्मतदुर्वासनादूरी-करणेन शरणागतं मां समुद्धरेति सम्प्रार्थये । कृती सः मध्वगुरुः । सुकृतीनां भाष्यतट्टीकादीनां कथां कृतिं अर्थवर्णनपरां कृतिं युक्तिमल्लिकाम् अकारयत् । वीणां वादयन्वैणुक इव अन्तर्बहिः प्रेरणेन रचयामास । अहं तु निमित्त-मात्रमिति भावः ।। ९९५,९९६ ।।

युक्तिमल्लिका

स्वकोशस्थसदर्थाख्यवित्तैर्दत्तैः स एव तत् ।

विद्रावयेद्धि दारिद्य्रं दद्यान्मध्वो गतिं च मे ।। ९९७ ।।

सुरोत्तमटीका

 तत्तस्मात् परदर्शनेषु विद्याख्यवित्तालाभेन मदीयविद्या-दारिद्य्रापरिहारात् ।। ९९७ ।।

सत्यप्रमोदटीका

प्रार्थनाप्रकारमेवाह स्वेति । कोशः सर्वमूलग्रन्थाः । सदर्थाख्यवित्तैः । सच्छब्दवाच्यविष्णूत्कर्षप्रतिपादकैः शास्त्राभिधेयैः पदाख्यै-र्वित्तैः । ‘अर्थोऽभिधेयरैवस्तु प्रयोजननिवृत्तिषु’ इत्यभिधानात् । दत्तैः गुरूपदेशेन बोधितैः । गतिं ज्ञानं भगवत्पदप्राप्तिं च ।। ९९७ ।।