वेदस्तु सर्वं ब्रह्मेति सर्वस्याप्येकतां स्फुटम्

'सर्वंखल्विदंब्रह्म'इतिश्रुत्यर्थः

 युक्तिमल्लिका

वेदस्तु सर्वं ब्रह्मेति सर्वस्याप्येकतां स्फुटम् ।

वक्ति तत्र तु जीवैक्यमात्रे केन भरस्तव ।। ५५० ।।

सुरोत्तमटीका

 प्रकारान्तरेणापि सर्वं खल्विदं ब्रह्मेति वाक्यस्य परकीयार्थेऽनुपपत्तिमाह ।। वेदस्त्विति ।। सर्वस्य जडाजडात्मकप्रपञ्चस्य । तत्र जीवजडात्मक सकलप्रपञ्चस्य ब्रह्मैक्यकथकवाक्ये सर्वशब्दसंकोचायोगादिति भावः ।। ५५० ।।

सत्यप्रमोदटीका

 ननु ‘सर्वं खल्विदं ब्रह्म’ ‘आत्मैवेदं सर्वम्’ इत्यादि- श्रुतिः स्वरूपैक्यं वक्ति । अतः अनुभवसिद्धोऽपि भेदो बाध्यतामित्यत आह वेद इति । यद्येवं तर्हि वेदे श्रद्धालुना सर्वशब्दार्थजडेनाप्यैक्यमङ्गीकार्यं न तु चिन्मात्रैक्यं विशेषहेत्वभावादित्याह केनेति ।। ५५० ।।

युक्तिमल्लिका

दृष्टस्तु जडभेदोऽस्तु मृषा च व्यावहारिकः ।। ५५१ ।।

सुरोत्तमटीका

 ननु जडभेदस्य प्रत्यक्षेण दर्शनात्कथं तदभेदश्श्रुत्यापि वक्तव्य इति चेत्तर्हि नाहं सर्वज्ञो नाहं सर्वकर्तेति ईश्वरप्रतियोगिकजीवभेदस्यापि प्रत्यक्षेण दर्शनाज्जीवाभेदोऽपि कथं कथनीयः । यदि च भेदस्य व्यावहारिकत्व- मवलम्ब्य परमार्थतो जीवाभेदश्श्रुत्या कथ्यते । तर्हि जडेऽपि सैव गतिर-स्त्वित्याह ।। दृष्टस्त्विति ।। दृष्टो जडभेदस्त्विति सम्बन्धः

।। ५५१ ।।

सत्यप्रमोदटीका

 विशेषहेतुमाशङ्कते दृष्ट इति । जडभेदोऽनुभवसिद्धो न बाधार्ह इति चेद्धन्त तर्हि अनुभवसिद्धे जीवभेदेऽपि धीमतां दृष्टिः । स व्यावहारिको मृषा चेत् जडभेदोऽपि तथैवास्तु इत्याह जडेति ।। ५५१ ।।

युक्तिमल्लिका

यदि तद्व्यतिरेकेणासत्त्वमर्थो जडे तव ।

चेतनेऽप्यस्तु नित्यत्वान्न चेन्नित्यजडेऽपि न ।। ५५२ ।।

सुरोत्तमटीका

 पुनरपि तच्छंकामनूद्य प्रतिबन्द्या दूषयति ।। यदीति ।। तद्व्यतिरेकेण ब्रह्मव्यतिरेकेण ब्रह्मैवास्ति । ब्रह्मव्यतिरेकेण जडन्तु सर्वथा नास्तीति जडमिथ्यात्वमित्यर्थः । तर्हि चेतनेऽप्यस्तु स एवार्थो भवत्वित्यर्थः । सर्वथा स कृच्छतैकशब्दस्यार्थद्वयकल्पना न युक्तेति भावः । नित्यत्वात् चेतनस्य ध्वंसाप्रतियोगित्वात् । न चेत् मिथ्यात्वं न चेत् । तर्हि नित्यजडे प्रकृतिवेदादावपि मिथ्यात्वं न वक्तुं शक्यमित्यर्थः । उपलक्षणं चैतत् । अनित्यजडेऽपि प्रध्वंसस्य प्रतियोगिसत्तापूर्वकत्वनियमेन त्रैकालिक सत्ता-निषेधरूपमिथ्यात्वं न वक्तुं शक्यम् । अतस्सर्वस्य तदधीनत्वमेवार्थो वक्तव्य इत्यपि द्रष्टव्यम् । किञ्च तद्व्यतिरेकेणासत्त्वमिति वदता परेणापि जडस्य

ब्रह्मात्मनावस्थानं नैवोच्यते । अतस्तद्व्यतिरेकेणेति पदवैयर्थ्यम् । न हि सर्वथाऽविद्यमानस्य शशविषाणस्य शशविषाणं ब्रह्मेति वाक्येन ब्रह्मव्यतिरेकेणा- सत्त्वं कोपिऽ ब्रूते । अतस्तद्व्यतिरेकेणासत्त्वं परेणापि जीव एव वक्तुं शक्यते न जडे । तथा च कथमुभयसाधारण्येनार्थकथनम् । सङ्कोचे पदार्थसङ्कोचा-द्विभक्त्यर्थसङ्कोचस्य न्याय्यत्वादस्मदुक्त एव वाक्यार्थ इति नेदं वाक्यं तवानु-कूलम् ।। ५५२ ।।

सत्यप्रमोदटीका

 ननु सर्वं ब्रह्मेति श्रुतिर्न जडैक्यं वक्ति । किन्तु ब्रह्मव्यतिरेकेण जडस्यासत्त्वम् । जीवस्य तु स्वरूपैक्यं अतो नोक्तदोष इति चेन्निर्मूलैषा सकृच्छ्रुतसर्वशब्दार्थे द्विधा कल्पना वाक्यभेदापत्तेरित्याह चेतनेऽपीति । ननु चेतनस्य नित्यत्वान्नासत्त्वकल्पनमिति चेदेवं तर्हि अविद्याया अपि तव ब्रह्मवदनादित्वात्तत एव च नित्यत्वावश्यम्भावात्तस्यापि जीववद्ब्रह्मणा स्वरूपैक्यमेवास्तु न तु पुनः तद्व्यतिरेकेणासत्त्वमित्याह नित्यजड इति । तदुक्तं श्रीभगवत्पादैः ‘स्यादविद्यात्वमात्मन’ इति । इदं चाभ्युपेत्योक्तम् । अनित्यस्यापि जडस्य पराभिमतस्य ब्रह्मव्यतिरेकेण त्रैकालिकासत्त्वस्य अनुपपत्तेरेवेति ध्येयम् । तदुक्तं ‘स्वकाले ह्यस्तितां गृह्णन् साक्षात्कारस्त्रिकालगम् । प्रतिषेधं निरुन्धानो गृह्णात्येवाह्यबाध्यतामि’ति ।। ५५२ ।।

युक्तिमल्लिका

ईशत्वसर्वकर्तृत्वसर्वज्ञत्वादयो गुणाः ।

अलभ्यास्तपसाप्यन्यैस्सर्वप्राणिमनोहराः ।

जीवैक्ये खलु सर्वेषामेषां नाशो भविष्यति ।। ५५३ ।।

सुरोत्तमटीका

 दोषान्तरं चाह ।। ईशत्वेति ।। ईशत्वं सर्वेश्वरत्वम् । एषां सर्वेश्वरत्वादीनाम् । अल्पेशेनाल्पकर्त्राऽल्पज्ञेन च जीवेनैक्ये साक्षा-त्तद्विरुद्धास्सर्वेश्वरत्वादयो महागुणास्त्याज्या इति भावः ।। ५५३ ।।

सत्यप्रमोदटीका

 किञ्च जीवैक्यपक्षे बहुविप्लवापाताज्जडैक्यपक्ष एव त्वयाऽङ्गीकारार्ह इत्याह ईशेति । मनोहरा इति । तदुक्तं भागवते प्रथमस्कन्धे

एते चान्ये च भगवन् नित्या यत्र महागुणाः

 प्रार्थ्या महत्त्वमिच्छद्भिर्न च यान्ति स्म कर्हिचिदि’ति ।

जडैक्ये तु चित्त्वनाशः सन्नपि ‘यत्राल्पीयांस्यो दोषाः सपक्ष’ इति न्यायेन सह्य इति भावः ।। ५५३ ।।

युक्तिमल्लिका

दुर्घटं घटयन्ती ते माया चित्त्वं जडे दिशेत् ।

तेन चित्त्वादिनाशस्स्यान्न जडैक्येऽपि ते मते ।

तच्चेदैक्यं सुखग्राह्यमिदं कस्मान्न गृह्यते ।। ५५४ ।।

सुरोत्तमटीका

 ननु जडेऽल्पेश्वरत्वादेरभावेन सर्वेश्वरत्वादिमोचका-भावेऽपि जडस्याचेतनत्वेन तद्विरुद्धचित्त्वं ब्रह्मणि नष्टं स्यादित्यत आह ।।  दुर्घटमिति ।। एकजातीयत्वलोभेन जडे चित्त्वं दिशेदिति भावः । तेन कारणेन । तज्जीवैक्यम् । इदं जडैक्यम् ।। ५५४ ।।

सत्यप्रमोदटीका

 किञ्च दुर्घटं घटयन्ती तवाविद्या चित्त्वमपि जडे घटयेदेवेति न तस्यापि नाशभयमिति सोपहासमाह दुर्घटमिति । सुखेति अनुभवविरोधमवधीर्य अविद्याप्राभावेणेत्यर्थः । इदं जडैक्यम् ।। ५५४ ।।

युक्तिमल्लिका

अनर्घरत्नचोरस्तु रक्ष्यो मृद्भाण्डतस्करः ।

शिक्ष्यः किल कृपालुस्तु दीनेषु कुरुते दयाम् ।। ५५५ ।।

सुरोत्तमटीका

 ननु यद्यपि जडस्य चित्त्वं भवदुक्तयुक्त्या मन्मते घटते तथापि मया तन्नाङ्गीक्रियते । अतो जडैक्ये चित्त्वनाशस्स्यात् । इति चेत्सत्यम् । तथापि जीवसाधारणचित्त्वमात्रनाशान्न महाहानिः । जीवैक्ये तु सर्वेश्वरत्वादि दिव्यगुणनाशात्तदेव नाङ्गीकार्यमित्यत्र दृष्टान्तमाह ।।  अनर्घ्येति ।। जडत्वे-नातिमूढतया कृपापात्रत्वात्पापसंसारादिदोषदूरत्वाच्च जडैक्यमेवाङ्गीकुर्यादिति भावः ।। ५५५ ।।

सत्यप्रमोदटीका

 अनर्घ्यरत्नानां ईशगुणानां चोरः अपलापपर्यवसितः जीवाभेदः । मृद्भाण्डं चित्त्वम् । तस्य तस्करः अपलापः शिक्ष्यः अग्राह्यः । किलापहासे । कृपालुः अविद्या । दीनेषु जडैक्यपक्षे एव । दयां कुरुते चित्त्वं घटयेत् ।। ५५५ ।।

युक्तिमल्लिका

जडस्यानन्दमयता जडं जन्मादिकारणम् ।

जडादज्ञाननाशस्ते दुर्घटं घटयेज्जडम् ।। ५५६ ।।

सुरोत्तमटीका

 किं च तव मते जडैक्ये ब्रह्मण्यपेक्षितमहागुणसिद्धिरेव स्यादित्याह ।। जडस्येति ।। जडस्य कोशस्य । जडमज्ञानम् । जन्मादिकारण त्वस्य तटस्थलक्षणत्वाङ्गीकारात् । ते मते । जडात् अन्तःकरणवृत्तिरूप-ज्ञानात् । स्वरूपज्ञानस्याज्ञानाविरोधित्वाङ्गीकारात् । जडैक्ये अन्तःकरण-वृत्तिरूप ज्ञानैक्यस्यापि लाभात् अज्ञानाख्यबन्धनाशकत्वमहामहिमा ब्रह्मणि सेत्स्यतीति भावः । जडमज्ञानं दुर्घटं घटयेत् । तथा च जडैक्ये दुर्घट घटकत्वाख्यमहामहिमापि सिद्ध््यतीति भावः ।। ५५६ ।।

सत्यप्रमोदटीका

 अविद्या दुर्घटत्वस्य तदाभिमतभूषणत्वविवरणव्याजेन बहुधा मायिमतप्रमेयाणां प्रमाणविरुद्धतां व्युत्पादयति जडस्येत्यादिना । आनन्दमयता=सूत्रकृन्निर्णीतब्रह्मत्वं पूर्वपक्षीकृत्य सिद्धान्तीकृता कोशरूपता । जडं अज्ञानं जन्मादिकारणं न तु ब्रह्मेति ब्रह्मस्वरूपलक्षणस्य तटस्थतोक्तिः । चितः अज्ञानस्फोरकत्वमुपेत्य जडात् चरमवृत्तिज्ञानादेव अज्ञाननाशः ।। ५५६ ।।

युक्तिमल्लिका

ज्ञानत्वरूपं चित्त्वं च वक्ष्यामोनुपदं जडे ।

दुष्करं तस्करत्वं तदस्मिन्ब्रह्म यशस्करे ।। ५५७ ।।

सुरोत्तमटीका

 पूर्वं जडैक्यस्य चित्त्वमात्र नाशकत्वान्मृद्भाण्डतस्करत्व-मुक्तम् । अधुनान्तःकरणरूपजडाभेदेऽज्ञानत्वरूपचित्त्वस्यापि तन्मतरीत्यैव लाभात्तस्करतैव नेत्याह ।। ज्ञानत्वरूपचित्त्वं चेति ।। अनुपदं श्लोकपञ्चका-दुपरि । तत्तस्मात् ज्ञानत्वरूपचित्त्वस्याहानेस्तस्करत्वं दुष्करमिति सम्बन्धः । अस्मिन्जडैक्ये । ब्रह्मयशस्करे अघटितघटकत्वादि प्रागुक्तमहागुणहेतुभूत इत्यर्थः ।। ५५७ ।।

सत्यप्रमोदटीका

 अनुपदं (श्लो.५६३) ज्ञानरूपमनस्तत्वेनेत्यत्र । ज्ञानकार्यस्याज्ञाननिवृत्त्यादेः जडेन वृत्तिज्ञानेनैव करणाभ्युपगमादस्यैव चित्त्वं अतथाभूतस्यात्मनो ज्ञानरूपत्वाभावः । यथोक्तं वादावल्यां जडत्वहेतुभङ्गे ‘आत्मनो ज्ञानस्वरूपता न निर्वाह्यतामारोहतीत्यादि’ना । दुष्करं विपरीत-लक्षणया सुकरमिति भावः । तस्करत्वं प्रकाशतस्करत्वं एवं यशस्करत्व-मित्यत्रापि विपरीतलक्षणया तद्गुणापलापेन अपयशस्करत्वमिति हृदयम् । तदुक्तं भगवत्पादैः ‘याथातथ्यमविज्ञाय शास्त्राणां शास्त्रदस्यवः’ इत्यादि । एवं घटादीनां द्रष्टृत्वं आत्मनश्च जडत्वं इत्यादि विरुद्धं सर्वमपि स्यात् इति ।। ५५७ ।।

युक्तिमल्लिका

मायाशक्त्या जडस्यापि सार्वज्ञादिप्रदानतः ।

ऐक्ये तु न जडात्मैक्यं तस्करस्याद्धि कस्यचित् ।। ५५८ ।।

सुरोत्तमटीका

 ननु जडस्य सार्वज्ञाभावात्कथं ब्रह्मैक्यमित्यत आह ।। मायाशक्त्येति ।। अघटितघटकमायाशक्त्येत्यर्थः । उपलक्षणं चैतत् । ब्रह्मणोऽपि सार्वज्ञादेः परेण मायाधीनत्वाङ्गीकारात् मायाख्यजडस्य सार्वज्ञादि सकलगुणा अपि परमते सम्भाविता इत्यपि द्रष्टव्यम् । जडस्येत्यक्यैक्ये त्वित्यत्रापि सम्बन्धः । एवञ्च जडस्यैक्ये तु मायाशक्त्या जडस्यापि सार्वज्ञादि प्रदानतः तत् जडात्मैक्यं कस्यचिद्धर्मस्यापि तस्करो न स्यादिति योजना ।।

सत्यप्रमोदटीका

 नन्वेवमपि जडैक्याङ्गीकारे ब्रह्मणः सार्वज्ञादि-हानापत्तिरित्यतो मा भैषीः त्वदाराध्यदेवताऽविद्यास्वशक्त्या जडेऽपि ब्रह्मणि सार्वज्ञादिकं घटयिष्यति इति सोपहासमाह मायेति । न तस्करः स्यादिति । अप्रमाणं सर्वं घटयेदेवेति भावः ।। ५५८ ।।

युक्तिमल्लिका

अथवा जडतामीशे दत्वा माया स्वशक्तितः ।

जडैक्यमेव घटयेदिदं तेऽतिप्रियं मतम् ।

यत्र त्वस्येति वाक्योक्तमुक्तेरत्युपयोगतः ।। ५५९ ।।

सुरोत्तमटीका

 युक्त्यन्तरं चाह ।। अथवेति ।। स्वशक्तितः दुर्घटघट-कत्वाख्यस्वशक्तितः । इदं ब्रह्मणो जडत्वमापाद्य जडैक्यम् । अतिप्रियत्वमेव दर्शयति ।। यत्रत्वस्येति ।। ब्रह्मणो जडैक्ये घटप्रायत्वावश्यंभावात्केन करणेन कं पश्येदिति केन करणेन कं जिघ्रेदित्युक्तपराभिलषितमुक्तिरपि सम्य-क्संपादिता स्यादिति भावः ।। ५५९ ।।

सत्यप्रमोदटीका

 जडैक्यं कथं ममातिप्रियमित्यत आह यत्रेति । यत्रत्वस्येति श्रुत्यर्थतया त्वया मुक्तौ ज्ञानसाधननिषेधेन मुक्तानां पर्यवसित-जडत्वोपपादकत्वेन त्वदभिमतमुक्तिस्वरूपोपोद्बलनादिति भावः ।। ५५९ ।।

युक्तिमल्लिका

नात्मानं न परांश्चापि तव मुक्तस्तदेक्षते ।

जडमुक्तस्तु सर्वत्र जडैक्ये नित्यमुक्तता ।। ५६० ।।

सुरोत्तमटीका

 किञ्च जीवैक्ये प्राग्बन्धसद्भावान्न नित्यमुक्तता । जडैक्ये तु प्रागपि बन्धाभावान्नित्यमुक्तत्वाख्यमहामहिमसिद्धिरित्याह ।। नात्मान-मिति ।। तव मुक्तः । तदा मुक्तिकाले । पूर्वं तु स्वपरदर्शनसद्भावाद्बद्ध एवेति भावः । सर्वत्र संसारदशायां मुक्तिदशायाञ्च । आत्मानं परांश्च नेक्षत इत्या-वृत्त्या सम्बन्धः । जडैक्ये ब्रह्मजडैक्ये । नित्यमुक्तता ब्रह्मणस्स्यादित्यर्थः

।। ५६० ।।

सत्यप्रमोदटीका

 न केवलमेतावत् किन्तु जडैक्ये सर्वदा ज्ञानाभावेन नित्यमुक्तत्वरूपातिशयोऽपीत्याह नेति । तदा मुक्तिदशायामेव । सर्वत्र नित्यदा स्वरूपविषयकज्ञानशून्यः ।। ५६० ।।

युक्तिमल्लिका

फले त्वतिशयाद्वाक्यं जडैक्यपरमेव तत् ।

सुखात्मता जडेऽपि स्यान्मानसं हि सुखं नृणाम् ।। ५६१ ।।

सुरोत्तमटीका

 तद्वाक्यं यत्रत्वस्येति वाक्यम् । ननु नित्यमुक्तत्व-लाभेऽपि सुखरूपत्वाभावात्कथं फलतेति शङ्कां निवारयति ।। सुखात्मतेति

।। ५६१ ।।

सत्यप्रमोदटीका

 जडेऽपीति । ‘विषयसम्बन्धेनापि आत्मस्वरूपानन्द एवाभिव्यज्यते’ इति विवरणोक्तेः । न च सुखरूपत्वेऽपि सुखविषयकतत्त्वं जडस्य नास्तीति वाच्यम् । निर्विशेषत्ववादिना चितोऽपि तदनङ्गीकारादेवेति भावः ।। ५६१ ।।

युक्तिमल्लिका

मोक्षश्च तार्किकाचार्यमोक्षवद्वा भविष्यति ।। ५६२ ।।

सुरोत्तमटीका

 प्रकारान्तरेणापि गतिमाह ।। मोक्षश्चेति ।। यथा तार्किकमते जगदीश्वरस्य सर्वदा सुखाभावान्मुक्तत्वम् । न तु दुःखध्वंसात् । नापि सुखात् । तथेति भावः ।। ५६२ ।।

सत्यप्रमोदटीका

 प्रसङ्गेन तार्किकाभिमतां सुखदुःखोभयध्वंसलक्षणं जडैक्यपर्यवसायिनीं मुक्तिमपि दृष्टान्तमुखेन धिक्करोति मोक्षश्चेति

।। ५६२ ।।

युक्तिमल्लिका

ज्ञानरूपमनस्तत्त्वेनैक्ये ज्ञानत्वमप्यलम् ।

स्यादेव यत्समस्तस्य ज्ञानं मानसमावयोः ।

न ते किञ्चिदनिष्टं स्यादस्माकं महती क्षतिः ।। ५६३ ।।

सुरोत्तमटीका

 अधुना जडैक्येऽपि ज्ञानत्वरूपचित्त्वमुपपादयति ।। ज्ञानरूपमनस्तत्वेनेति ।। यद्यस्मात् । समस्तस्य घटपटादेः । मानसं मनोरूपम् । अस्माकं मते महती क्षतिः । जडैक्ये महाक्षतिस्स्यात् । त्वद्वत् । जडेऽघटितघटकत्वशक्तेरस्माभिरनङ्गीकारात् । मुक्तौ च सकलमौक्तविषयद्रष्ट्र-त्वाङ्गीकाराच्च जडैक्यस्य वार्ताप्यस्मन्मते न शोभत इति भावः ।। ५६३ ।।

सत्यप्रमोदटीका

 मनस्तत्त्वेन जडेन । मानसं ‘धीर्भीः सर्वं मन एवे’ति श्रुतेः । अस्माकं दूषणानां भूषणत्वममन्यमानानां यथानुभूतगुणदोष-स्वरूपतत्त्वविदाम् । महती क्षतिः जीवजडैक्ये ब्रह्मणोङ्गीक्रियमाणे प्रमित-भेदापलापेन अपसिद्धान्तः ।। ४६३ ।।

युक्तिमल्लिका

तथापि चित्त्वमात्रस्य त्यागाद्भीतो जडैकताम् ।

श्रुतामपि जहासि त्वं यर्हि तर्हि तवैकताम् ।। ५६४ ।।

महागुणापहर्त्री त्वं त्यज भक्त्या भजाच्युतम् ।

न चेत्प्रभुर्महाचोरं त्वामन्धेतमसि क्षिपेत् ।। ५६५ ।।

सुरोत्तमटीका

 तथापि एवमपि । श्रुतां सर्वं ब्रह्मेति श्रुत्युक्ताम् । तवैकतां त्वदुपलक्षितजीवैकताम् । महागुणापहर्त्रीं सर्वेश्वरत्वादिमहागुण-हन्त्रीम् । न चेत् जीवाभेदंत्यक्त्वा भगवद्भजनं न करोषि चेत् । महाचोरं सर्वेश्वरत्वादि महामहिमतस्करम् ।। ५६४, ५६५ ।।

सत्यप्रमोदटीका

 तथाऽपि श्रुतपरित्यागाख्यदूषणस्य स्वसिद्धान्ताभि-मतं भूषणत्वं परित्यज्यापि । तवैकतां=त्वदुपलक्षितजीवैकतां त्यज । अन्यथा त्वां सूत्रनिर्णीतानां श्रुतिमहातात्पर्यविषयाणां अनन्तगुणानामपहर्तारम् । महाचोरं ‘अचूचुरद्वेदसमूहवाहं ततो महातस्करमेनमाहुः’ इत्युक्तदिशेति भावः । अन्धेतमसि क्षिपेत् । अन्धन्तमोऽप्यलङ्कारो नित्यदुःखं शिरोमणि-रि’ति भगवत्पादोक्तेः ।। ४६४, ४६५ ।।

युक्तिमल्लिका

दृश्यमानमिदं सर्वं ब्रह्मेत्यैक्यानुशासनात् ।

जडस्य ब्रह्मणैक्येऽपि का ते हानिर्निगद्यताम् ।। ५६६ ।।

सुरोत्तमटीका

 किञ्चेदंपदवतीयं श्रुतिः इदंपदार्थरूपजडैक्य एव योज्या । न त्वनिदं पदार्थरूपचिदैक्ये इति वदन्परमते जडैक्यस्यैव युक्तत्वे प्रागुक्त युक्तीरभिनवयुक्तीश्च सङ्कलयन्ननुपपत्तिं परिहरति ।। दृश्यमानमिति ।। इदं पदस्यार्थकथनमिदम् ।। ५६६ ।।

सत्यप्रमोदटीका

 किं च पराभावबोधकमिदं परं ‘अन्तवन्त इमे देहाः’ इत्यत्रेव दृश्यमानजडपरमेवाश्रयितुं युक्तं न तु प्रत्यगात्माभिधायकमित्याह दृश्यभावमिति । ते=अनुपपत्तीनां मायोपोद्बलकत्वेन अलङ्कारतामङ्गी-कुर्वाणस्य ।। ५६६ ।।

युक्तिमल्लिका

स्वावेद्यत्वं स्वभातत्वं जडैक्ये शोभतेतराम् ।

सार्वज्ञादिगुणानां च मिथ्यात्वं शोभतेतमाम् ।। ५६७ ।।

सुरोत्तमटीका

 हान्यभावमेवोपपादयति ।। स्वावेद्यत्वमिति ।। स्वभातत्वं स्वप्रकाशत्वम् । जडैक्ये पराभिलषितस्वावेद्यत्वस्य सार्वज्ञसर्वेश्वर-त्वादिगुणमिथ्यात्वस्य च जडे सर्वैरप्यङ्गीकारेण विवादाभावादिति भावः ।।

सत्यप्रमोदटीका

 आत्मन इव निर्विकल्पकस्वव्यवहारे घटादिजडस्य संविदन्तरापेक्षाशून्यत्वस्य स्वप्रकाशत्वस्य श्लिष्टत्वात् इत्याह शोभतेतरा-मिति ।। सार्वज्ञादिगुणानां जडे मिथ्यात्वं तु सर्वसंमतमित्याह शोभतेतमा-मिति ।। ५६७ ।।

युक्तिमल्लिका

रागादिदोषशून्यत्वमपि युक्ततरं भवेत् ।

सुखत्वमनुभूतित्वं मनोवत्स्यान्निराकुलम् ।

जडोपादानताऽप्यस्य पञ्चम्योक्तातिशोभते ।। ५६८ ।।

सुरोत्तमटीका

 अस्य ब्रह्मणः । यतो वा इमानि भूतानीति पञ्चम्या ।।

सत्यप्रमोदटीका

 एवमनुपपत्त्यन्तरापातेन त्वन्मतं भूषिततरं स्यादित्याह त्रिभिः रागादीत्यादिना ।। निराकुलमिति मनोदृष्टान्तेन, जडत्वेन हेतुना सुसाधत्वादिति भावः । पञ्चम्येति ‘यतो वेमानि’ इत्यत्रत्यया ।। ५६८ ।।

युक्तिमल्लिका

सृष्टिस्त्वदृष्टतोस्त्वेषा भाट्टानामिव ते मते ।

मिथ्याभूतं च कर्तृत्वं कस्य न स्यादुदीर्यताम् ।। ५६९ ।।

सुरोत्तमटीका

 ईश्वरस्य जडत्वे कर्तुरभावात्कथं जगत्सृष्टिरित्यत आह ।। सृष्टिस्त्विति ।। व्यवहारे भट्टनय इति त्वयाप्यङ्गीकारात् । युक्त्यन्तरं चाह ।। मिथ्याभूतमिति ।। चेतनत्वेऽपि मिथ्याभूतमेव कर्तृत्वं ब्रह्मणि परो वक्ति । तच्च जडत्वे सुतरां शोभत इति भावः ।। ५६९ ।।

युक्तिमल्लिका

चित्त्वादिधर्मशून्यैस्तु चेतनैर्घटसन्निभैः ।

अप्यैक्यं युक्तमेवास्येत्यस्तु सर्वं समञ्जसम् ।। ५७० ।।

सुरोत्तमटीका

 नन्वेवं ब्रह्मणो जडैक्ये चैतन्यैक्यं कथं घटनीयमित्यत आह ।। चित्त्वादिधर्मशून्यैरिति ।। चित्त्वधर्मसहितस्य चेतनस्यैक्यं जहल्लक्षणया सकलधर्मशून्यचिन्मात्रैक्यवादी परोऽपि न वक्ति । चित्त्वरहितस्तु घटप्राय एवेति ब्रह्मणो जडत्वेऽपीदृशचैतन्यैक्यमपि घटत एव । अतो न काप्यनुपपत्तिरिति भावेनोक्तं सर्वं समञ्जसमस्त्विति ।। ५७० ।।

सत्यप्रमोदटीका

 घटसन्निभैः, तत्रापि जडत्वादिधर्माणां त्यागेन पदार्थत्वरूपेणेत्यर्थः ।। समञ्जसं विपरीतलक्षणया सर्वानुपपत्तिभाजनम्

।। ५७० ।।

युक्तिमल्लिका

यद्येवमपि तत्रार्थस्तद्विनाऽसत्त्वमेव ते ।

चेतनेऽप्यस्त्वसावर्थो द्विधा क्लृप्तिस्तु ते मुधा ।। ५७१ ।।

सुरोत्तमटीका

 उपसंहरति ।। यद्येवमपीति ।। एवमपि चैतनैक्यादपि जडैक्यस्य युक्तियुक्तत्वेऽपि । तत्र जडे । अर्थः वाक्यार्थः । तद्ब्रह्म । मिथ्यात्वमित्यर्थः । असौ ब्रह्मविनाऽसत्त्वाख्यमिथ्यात्वरूपः । द्विधा एकत्र मिथ्यात्वमन्यत्रैक्यमिति प्रकारद्वयेन ।।५७१ ।।

सत्यप्रमोदटीका

 द्विधा जीवस्यैक्यं जडस्य मिथ्यात्वं इत्येवंरूपेण ।। ५७१ ।।

युक्तिमल्लिका

गजो मिथ्या यथा तद्वन्मिथ्या किल पलायनम् ।

बन्धो मिथ्याविमोक्षश्च मिथ्या किल भवन्मते ।। ४७२ ।।

सुरोत्तमटीका

 ननु चेतनानां मिथ्यात्वे मोक्षभोक्ता कस्स्यादित्याशङ्क्य तव मते मास्त्वसावित्याह ।। गजो मिथ्येति ।। गजाद्भीत्यापलायनं कुर्वन्तं पराचार्यं प्रति गजो मिथ्या पलायनं किमर्थं क्रियत इत्युक्ते पलायनमपि मिथ्येत्युत्तरं दत्तं किल । एवं च बन्धो मिथ्या किमर्थं तत्परिहारोद्योग इत्युक्ते सोऽपि मिथ्येत्येव परस्य सिद्धान्तोऽनुमीयते । अतः कस्य बन्धः कस्य मोक्षो न कस्यापीति भावः ।। ५७२ ।।

सत्यप्रमोदटीका

 मोक्षश्च मिथ्येति । अन्यथा सदद्वैतभङ्गात् ।।५७२।।

युक्तिमल्लिका

अतः किं चेतनैरेतैः कर्तृता भोक्तृतोज्झितैः ।

सर्वत्रैक्यश्रुतीनां स्यादेवं चेदेकवाक्यता ।। ५७३ ।।

सुरोत्तमटीका

 अतः बन्धमोक्षादिव्यवस्थाभावात् । युक्त्यन्तरं चाह ।। कर्तृताभोक्तृतोज्खितैरिति ।। मोक्षसाधनकर्तृत्वं मिथ्या चेत् । मौक्तसुख-भोक्तृत्वं च मिथ्या चेत् मुक्तत्वं वार्तामात्रमिति भावः । उपलक्षणं चैतत् । चेतनान्तरस्य मिथ्यात्वेऽपि ब्रह्माख्यचेतनस्य विद्यमानत्वात्तस्यैव बद्धत्वं मुक्तत्वं च भवेत् । अतो लाघवात् ब्रह्मव्यतिरिक्तस्य सर्वस्य मिथ्यात्वे परस्य न काप्यनुपपत्तिरित्यपि द्रष्टव्यम् । एवं चेद्ब्रह्मव्यतिरिक्तस्य चेतनाचेतनात्मकस्य सर्वस्य मिथ्यात्वं चेत् ।। ५७३ ।।

युक्तिमल्लिका

साम्येऽपि श्रुतियुक्तीनां हान्यभावेऽपि केवलम् ।

यदि स्वमतरक्षायै विवक्षेयमपेक्ष्यते ।। ५७४ ।।

सर्वस्य तदधीनत्वमर्थं सा वक्ति न द्विधा ।। ५७५ ।।

सुरोत्तमटीका

 केवलं स्वमतरक्षाया इति सम्बन्धः । इयं जडमिथ्यात्व-चेतनमात्रैक्यरूपा । अन्यमतरक्षायै तत्ववादमतरक्षायै । युक्तिप्रत्यक्षसत्कृतं मुख्यार्थबाधे सर्वत्र लक्षणादर्शनात् युक्तिसत्कृतम् । वाक्यार्थस्य प्रत्यक्ष-बाधाभावात् प्रत्युत भगवदधीनत्वस्य सर्वैरप्यनुभूयमानत्वाच्च प्रत्यक्षसत्कृतम् । सा सर्वं खल्विदं ब्रह्मेति श्रुतिः । सम्भवत्येकवाक्यत्वे वाक्यभेदो हि दूषण-मिति वचनादिति भावः ।। ५७४,५७५ ।।

सत्यप्रमोदटीका

 श्रुतियुक्तीनां विरोधस्येति शेषः ।। स्वमतेति सकल-प्रमाणविरुद्धस्वव्याहतमतरक्षायै इत्यर्थः ‘सर्वं समाप्नोषि ततोऽसि सर्वः’ इति गीताशाङ्करभाष्ये भेदमाश्रित्य सर्वव्यापकमित्यर्थोक्तेरिति ध्येयम् ।। तदधीनत्व-मिति ‘स्वातन्त्र्ये च विशिष्टत्वे स्थानमत्यैक्ययोरपि । सादृश्ये चैक्यवाक्सम्यक् सावकाशा यथेष्टतः’ इति भगवत्पादीयवचनात् ।। ५७४,५७५ ।।

युक्तिमल्लिका

अतो वाक्यबलादैक्यमाशास्यं न क्वचित्त्वया ।। ५७६ ।।

सुरोत्तमटीका

 अतस्सर्वैक्यवाक्येष्वपि भगवदधीनत्वाख्यलघुभूतार्थ-लाभात् ।। ५७६ ।।

सत्यप्रमोदटीका

 ऐक्यं अनुभवविरुद्धं जीवैक्यम् । तदुक्तं भगवत्पादैः ‘न चानुभवविरोधे आगमप्रामाण्यानुभवस्यैवाप्रामाण्यप्राप्तेः’ इति । क्वचिदिति त्वद्भाष्यकारेणापि विरोधभिया तत्र तत्र ‘सर्वकामः सर्वगन्धः’ ‘त एतस्यैव सर्वे रूपमभवन्’ ‘कामोऽस्मि भरतर्षभ’ ‘नमोऽस्तु सर्वत एव सर्व’ इत्यादौ सामानाधिकरण्यस्य भाक्तत्वमुपेत्य नियामकत्वव्यापकत्वादिभेदपरार्थस्यैवा-श्रयणात् अत्र पुनः स्वरूपैक्योक्तौ स्वव्याघातापत्तेरिति भावः । विस्तरस्त्वत्र ‘भेदपराण्येव खलु ब्रह्मसूत्राणि’ इति ग्रन्थे (प.९५-१०२) द्रष्टव्यः ।।५७६।।

युक्तिमल्लिका

विरुद्धापातलब्धेऽर्थे तवैवायं दुराग्रहः ।

अभिमान्युपदेशेन व्यासस्त्वर्थान्तरं जगौ ।। ५७७ ।।

सुरोत्तमटीका

 किं च त्वद्भाष्यमूलभूतसूत्रप्रक्रिया विरुद्धा च तवेयं प्रक्रियेत्याह ।। विरुद्धेति ।। प्रत्यक्षविरुद्धे वाक्यादापातप्रतीते सर्वस्य ब्रह्मा-द्वैतरूपार्थे । व्यासस्तु मृदब्रवीदापोऽब्रुवन्नित्यादि वाक्यानामापातप्रतीत-प्रत्यक्षादिप्रमाणविरुद्धजडमृद्वचनाद्यर्थं त्यक्त्वा मृदाद्यभिमानिदेवताव्यपदेशे-नार्थान्तरं मृदभिमानिदेवतावचनरूपार्थं जगाविति सम्बन्धः । स तु प्रत्यक्ष-विरुद्धार्थं त्यक्त्वा तदविरुद्धाद्यर्थमेवाप्रसिद्धमपि वृत्त्यन्तरमादायोक्तवान् । त्वं तु सर्वजनप्रसिद्धमपि वृत्त्यन्तरमुपेक्ष्य प्रत्यक्षबाधित एव वाक्यार्थे दुराग्रहं कुरुषे । तस्मादुत्सूत्रभाष्यकारो भवानिति भावः ।। ५७७ ।।

सत्यप्रमोदटीका

 जगौ अभिमानिव्यपदेशस्तु विशेषानुगतिभ्यामिति नये । अर्थान्तरं अभिमानिदेवतारूपम् ।। ५७७ ।।

युक्तिमल्लिका

श्रुतिश्चतुर्मुखैक्यं च मन्यते न परात्मनः ।

जीवैक्यं किमु तेनैव मोचिताऽनेकसङ्कटा ।। ५७८ ।।

सुरोत्तमटीका

 श्रुत्यभिप्रायविरुद्धं च जीवैक्यमित्याह ।। श्रुतिरिति ।। परात्मनः परमात्मनो नारायणस्य । जीवैक्यं न मन्यत इति किमु किमु वक्तव्यमित्यर्थः । सर्वजीवोत्तम चतुर्मुखैक्यमसहमाना श्रुतिर्नीचजीवैक्यं न सहत इति किं वक्तव्यमिति भावः । कुतश्चतुर्मुखैक्यं न मन्यत इत्यत आह ।। तेनेति ।। तेन नारायणेन मोचितानि अनेकसंकटानि मधुकैटभहयग्रीवतम आदिदैत्यकृतसङ्कटानि यस्यास्सा तथोक्ता । ब्रह्मणो मुखादेव वेदापहारे मोचनसामर्थ्याभावाद्ब्रह्मा तूष्णीमेव स्थितः । हरिस्तु महासामर्थ्ययुक्तत्वा-द्धयग्रीवमत्स्याद्यवतारं कृत्वा दैत्यान्हत्वा स्वात्मानं मोचितवानितीममर्थं स्पष्टमनुभूतवती श्रुतिरसमर्थचतुर्मुखस्यातिसमर्थेन नारायणेनैक्यं कथं मन्यत इति भावः ।। ५७८ ।।

सत्यप्रमोदटीका

 मोचितानेकसङ्कटा इति बहुव्रीहिः श्रुतिरित्यनेन अन्वयः । मत्स्यरूपेण इति शेषः । तदुक्तं भागवते ‘प्रलयपयसि धातुः सुप्त-शक्तेर्मुखेभ्यः श्रुतिगणमपनीतं प्रत्युपादत्त हत्वा । दितिजमि’ति ।। ५७८ ।।

युक्तिमल्लिका

हरिश्च स्वगुणान्दिव्यान्न मुञ्चति न तान्दिशेत् ।

तपसाराधितोऽपीषत्कर्तृज्ञातृत्वदो ह्यसौ ।। ५७९ ।।

सुरोत्तमटीका

 हर्यभिप्रायविरुद्धं च जीवब्रह्मैक्यमित्याह ।। हरिश्चेति ।। तान्गुणान् । कुतो न दिशेदित्यत आह ।। तपसेति ।। ईषत्कर्तृज्ञातृत्वदः ईषत्कर्तृज्ञातृत्वदः । हि शब्देन पाद्मकल्पाख्यदिवसे जगत्कर्तृत्व शक्तिविधुरस्य तत्करणकौशलज्ञानविधुरस्य स्वाधारकमलनालमूलभूतभगवज्ज्ञानविधुरस्य ब्रह्मणस्तपसा तुष्टोऽपि भगवांस्तस्मिन्नेकस्मिन्दिन एव करणशक्तिं ज्ञानशक्तिं च दत्तवान् । किमुतान्येषामिति पौराणिकप्रसिद्धिं सूचयति ।। ५७९ ।।

सत्यप्रमोदटीका

 हरिरिति ‘न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुरि’ति गीतोक्तेः । स्वातन्त्र्येणेति शेषः ।। तपसेति ‘एवं पुरा धारण-याऽऽत्मयोनिःनष्टां स्मृतिं प्रत्यवरुह्य तुष्यन् । तथा ससर्जेदमि’ति भागवतोक्तेः ।। ५७९ ।।

युक्तिमल्लिका

तस्मान्नात्मैक्यमन्येषां केषामपि स दित्सति ।

यः पौण्ड्रकवधं चक्रे यश्चेदिपमखण्डयत् ।। ५८० ।।

सुरोत्तमटीका

 तस्मात्तपसापि स्वमहिम्नोऽन्यत्रादानात् । सः भगवान् । युक्त्यन्तरं चाह ।। य इति ।। यः कृष्णरूपी नारायणः । पौण्ड्रकं सोऽहं-भावाभिरतपौण्ड्रकवासुदेवाख्यं दैत्यम् । चेदिपं लक्ष्मीरूपरुग्मिणीपाणिग्रहण-कामुकशिशुपालम् । स आत्मैक्यमन्येषां न दित्सतीति पूर्वेणान्वयः ।।५८०।।

सत्यप्रमोदटीका

 न दित्सति इच्छाया अप्यभावे कुतो दानम् । न हि कोऽपि प्रेक्षावान् स्वैश्वर्यं स्वयमेव घातयति । वधं ‘अथ च दैत्यहतिस्तमसि स्थिरा नियतसंस्थितिरेव नान्यथा’ इत्युक्तरूपम् ।। ५८० ।।

युक्तिमल्लिका

सोहम्भावात्किमन्योऽस्ति द्रोहः पौण्ड्रकराक्षसे ।

स चेच्छास्त्रस्य तत्त्वार्थः कुतस्तं शिक्षयेत्प्रभुः ।। ५८१ ।।

सुरोत्तमटीका

 पौण्ड्रकवधेऽपि कुतो नात्मैक्यं दिशतीत्यतो हेतुहेतु-मद्भावं स्फोरयति ।। सोऽहं भावादिति ।। लक्ष्मीपतित्वाख्यभावस्योप-लक्षणमेतत् ।। ५८१ ।।

सत्यप्रमोदटीका

 सोऽहमिति । वासुदेवोऽहमवतीर्णो जगत्पतिः’ इति तेन कृष्णं प्रति दूतमुखेन सन्देशप्रेषणात् ।। ५८१ ।।

युक्तिमल्लिका

सत्यं प्रियं वचो वाच्यं वाच्यं नासत्यमप्रियम् ।

यदच्युतोऽहमित्युच्चैरुच्चरन्पौण्ड्रकश्च्युतः ।। ५८२ ।।

सुरोत्तमटीका

 नीतिविरुद्धं च ब्रह्मैक्यानुसन्धानमित्याह ।। सत्यमिति ।। प्रियं प्रभुमनस्तोषकरं दासोऽहमित्यादिरूपम् । यद्यस्मात् । च्युतः नष्टः । तस्मादिति पूर्वेणान्वयः ।। ५८२ ।।

सत्यप्रमोदटीका

 च्युतः तमसि पातितः ।। ५८२ ।।

युक्तिमल्लिका

यया भियैकवाक्यस्थं जडैक्यं त्यज्यते त्वया ।

तयैव त्यज जीवैक्यं विरम्य व्यापृतिर्न चेत् ।। ५८३ ।।

सुरोत्तमटीका

 सकृच्छ्रुतैकवाक्यस्यार्थद्वयाङ्गीकारे विरम्य व्यापाराख्य-दोषो भविष्यतीति वदन्श्रुत्यर्थकथनमुपसंहरति ।। ययेति ।। यया प्रत्यक्ष-विरोधाख्यया ।। ५८३ ।।

सत्यप्रमोदटीका

 भिया अनुभवविरोधात् ।। ५८३ ।।

युक्तिमल्लिका

धौतवाससि दत्तोऽन्नरसो रजकमन्दिरे ।

एकीकर्तुं प्रयत्नेन ताडितोऽपि पुनः पुनः ।। ५८४ ।।

सुरोत्तमटीका

 प्राग्भिन्नानां पदार्थानां पुनः परस्परमभेदो यत्नशतेनापि लोके न दृष्टो नापि कर्तुं शक्य इत्याह ।। धौतवाससीति ।। रजकमन्दिरे धौतवाससि दत्तोन्नरस इति सम्बन्धः । एकीकर्तुं वस्त्रेण सहाभिन्नं कर्तुम् । प्रयत्नेन स्निग्धदारुमयखण्डविशेषादिप्रयत्नेन पुनः पुनस्ताडितोऽप्येकीभावपर्यन्तं ताडितोऽपि सम्यक्संश्लेषे जाते सति रजकेनैकीभूत इति प्रोक्तोऽप्यन्नरसः पटे एकतामेति किम् । नैवैति पुनरेकवारं प्रक्षालने सत्यन्नरसस्यापगमाद्वस्त्र-स्यानपगमाच्च । एवं च प्रागनेकीभूतपदार्थस्य बहुप्रत्यत्नेऽप्यभेदाख्यैकी-भावादर्शनात् अतिसान्द्रतरस्सम्बन्धविशेष एव प्राग्भिन्नानामैक्यमित्युच्यते । न त्वभेद एवेति भावः । तत्तस्मात् । प्राग्भिन्नस्याभेदासम्भवात् ।।५८४,५८५।।

सत्यप्रमोदटीका

 ‘न हि भिन्नमभिन्नतां याति’ न्यायस्यात्यबाध्यतां लौकिकदृष्टान्तोक्त्या द्रढयति धौतेति । तथा स्थानैक्यमेवार्थः ।।५८४ ।।

युक्तिमल्लिका

एकीभूत इति प्रोक्तोऽप्येकतामेति किं पटे ।

वाक्यं तद्बाधितार्थत्वात्सोपचारं प्रकल्प्यते ।। ५८५ ।।

ग्रामेऽस्मिन्नेक एव त्वमित्युक्तेश्चापि किं भवान् ।

अतोऽन्यस्यान्यवस्तुत्वं वाक्यैर्यत्नशतैरपि ।

कर्तुं न शक्यं किं वाचा काचो नीलमणिर्भवेत् ।। ५८६ ।।

सुरोत्तमटीका

 तदेव दर्शयति ।। ग्राम इति ।। हे मायावादिन् । अस्मिन्ग्रामे त्वमेक एवेत्युक्ते भवान्श्वापि किं भवति । न भवत्येव । अतो दृष्टान्तद्वयेऽपि भिन्नस्याभेदादर्शनात् । दृष्टान्तान्तरमप्याह ।। किं वाचेति ।। काचः नीलमृण्मयमणिविशेषः । वाचा नीलमणिरित्यज्ञानां वाचा । अज्ञैर्वाचा नीलमणिसमुदाये नीलमणिरित्युक्तोऽपीत्यर्थः । नीलमणिः नील-रत्नम् । इतोऽप्यन्यस्यान्याभेदः कदापि न भवतीति भावः ।। ५८६ ।।

सत्यप्रमोदटीका

 विशिष्टैक्यस्य उदाहरणमाह ग्राम इति । सादृश्यै-क्येऽपि तदाह काच इति ।। ५८६ ।।

युक्तिमल्लिका

भ्रमराद्भ्रमरोऽन्यस्स्याद्दीपाद्दीपान्तरं भवेत् ।

तयोरैक्यं न तत्रापि द्वितायास्स्पष्टमीक्षणात् ।। ५८७ ।।

सुरोत्तमटीका

 भ्रमरकीटकनिदर्शने दीपाद्दीपान्तरनिदर्शनेऽपि नैक्य-मित्याह ।। भ्रमरादिति ।। भ्रमरात् मातृभूतभ्रमरात् । भ्रमरः पुत्रभूतभ्रमरः । द्वितायाः द्विरूपत्वस्य । कीटस्य भ्रमरतेव लोहस्य सुवर्णतापि लोहान्तर-जनितसुवर्णान्तराभेदाभावेनेश्वरशक्त्या नित्यसिद्धसुवर्णान्तराभेदाभावे न च बद्धस्यापि योग्य जीवस्य मुक्तौ सत्यां प्राचीन कादाचित्क मुक्तजीवराशिभ्यो नित्यमुक्तपरमात्मना चाभेदाभाव एवोपमा न तु तदभेदे । नित्यसिद्ध-सुवर्णान्तरसादृश्यमात्रस्यात्रापि दर्शनेन नित्यमुक्तभगवत्सारूप्यमात्रस्य स्यात् कथञ्चिदुपमा । तथापि सहजसुवर्णाल्लोहजसुवर्णस्य वैजात्यवन्नित्यमुक्त-भगवद्रूपान्मुक्तानां श्रीवत्सकौस्तुभाभावलक्षणवैजात्यमनवच्छिन्नानन्दाद्यभाव-रूपवैजात्यं च स्यादेव । अतोऽन्यस्यान्यात्मता नात्र दृष्टा । यो लोह-स्स्पर्शयोगे सति यत्सुवर्णीभवति तस्य तु सुवर्णस्य स लोह उपादानम् । स्पर्शयोगस्तु निमित्तमात्रम् । उपादानोपादेययोश्च प्रागप्यभेद एवेति अन्यस्यान्यात्मतायां नेदमपि निदर्शनम् । किं चावस्थान्तराख्यविकारवति जडे कीटदेहादौ भ्रमरदेहत्वाद्यवस्थान्तरप्राप्तावपि निर्विकारकीटचैतन्यस्य भ्रमरत्व-दशायामप्यवस्थान्तराख्यविकारादर्शनेन चैतन्यान्तराभेदादर्शनेन च परिच्छिन्न- जीवचैतन्यानामपरिच्छिन्नब्रह्मचित्त्वदशा तदभेददशा वा न त्रिदशायुषापि साधयितुं शक्या । अतः पराभिलषितप्रमेयेन किंचिन्निदर्शनम् । ग्रन्थकारणे तु युक्तिदारिद्य्राभावात् जडदृष्टान्तानामपि वैषम्यप्रदर्शनाय प्रयत्नः कृत इति ज्ञातव्यम् ।। ५८७ ।।

सत्यप्रमोदटीका

 

‘‘कीटः पेशस्कृतारुद्धः कुड््ये यान्तमनुस्मरन् ।

  संरम्भययोगेन विन्दते तत्सरूपताम्’’

इत्यत्रापि समानरूपताप्राप्तिरेवोक्ता न त्वेवैक्यमित्याह भ्रमरादिति । ईशसृष्टौ तेजोविनिमयदृष्टान्तोक्तिरपि दीपे दीपान्तरेषु च अभिमानिदेवतैक्य-विवक्षयैवेत्याह दीपादिति । जडदीपयोरैक्यमपहसनीयमित्याह द्विताया इति ।। ५८७ ।।

युक्तिमल्लिका

अयोऽपि स्वर्णतायोग्यं स्वर्णं स्यान्न तु मृत्तिका ।

तत्किं स्वर्णान्तराभिन्नं विक्रियायां क्रयोऽधिकः ।। ५८८ ।।

सुरोत्तमटीका

 तर्हि स्पर्शयोगेन लोहमात्रस्य सुवर्णत्ववज्ज्ञाने सति जीवमात्रस्य मुक्तत्वं स्यादित्यपि शङ्का न कार्येत्याह ।। अयोऽपीति ।। एवं मुक्तियोग्यस्य जीवस्यैव साधनानुष्ठानेऽपि मुक्तिस्स्यान्न तु यस्य कस्यापि जीवस्य । स्पर्शयोगेऽपि मृत्तिकायास्सुवर्णत्वाप्राप्तेरिति भावः ।। तत्स्पर्शयोगे सति लोहाज्जनितसुवर्णं स्वर्णांतराभिन्नं स्वर्णान्तरेण प्राग्लोहान्तरजनित-सुवर्णान्तरेण सहज जाम्बूनदादिसुवर्णेन चाभिन्नङ्किम् । नैव । तथा ज्ञानेन मुक्तोऽपि ज्ञानान्मुक्तजीवान्तरेण स्वभावमुक्तपरमात्मना चाभिन्नो न भवति । किन्तु स्वयमपि मुक्तान्तरवन्मुक्तो भवतीति भावः । एतदेवाभिप्रेत्य प्राक्टीकायां शङ्कासमाधानं चेति द्रष्टव्यम् । ननु प्राक्सिद्धसुवर्णस्य पश्चात्सिद्धसुवर्णस्य चाग्निनैकरसीकरणे ऐक्यं स्यादित्यत आह ।। विक्रियायामिति ।। विक्रियायां द्रवीभावाख्यविकारे । क्रयः मौल्यम् । प्राक्पञ्चवरहार्हखण्डयोरेकरसतायां दशवरहार्हता जायते । उपलक्षणं चैतत् । भारोऽप्यधिको जायते । अतस्तत्रातिसादृश्यादविवेकिभिरज्ञातोऽपि भेदो विवेकिनां मते वर्तत एवेति भावः

।। ५८८ ।।

सत्यप्रमोदटीका

 जीवस्यापि योग्यतावतः सत एव मुक्तौ परमात्मना सादृश्यैक्यं न सर्वस्य । तत्रापि नित्यमुक्तिस्वभावात्परमात्मनोऽत्यन्तभेद एवेत्यत्र दृष्टान्तमाह अयोऽपीति ।। ५८८ ।।

युक्तिमल्लिका

क्षीरान्तस्स्थितनीरस्याप्यन्तर्भेदोऽग्निनेक्ष्यते ।

अदनानदनाभ्यां हि यथा जीवेशयोर्हृदि ।। ५८९ ।।

सुरोत्तमटीका

 क्षीरान्तस्स्थितनीरस्याप्यैक्यं नास्तीत्याह ।। क्षीरेति ।। अग्निना अग्निकृतपाकेनेत्यर्थः । क्षीरमिलितनीरस्याप्यग्निना सम्यक्पाके सति नाशो जायते । क्षीरन्तु घनीभूतं तिष्ठत्येव । अतस्तयोर्नैक्यम् । एवमेव परमात्मनि निलीनतयान्तःप्रविष्टानां सायुज्यमुक्तानां मन्ददृष्टिभिःपृथग-दर्शनेऽपि नैक्यमिति भावः । श्रुत्या स्मृत्या चाति निश्चितत्वाद्दार्ष्टांतिकमेव तत्र दृष्टान्तीकरोति ।। अदनानदनाभ्यामिति ।। हृदि हृदयप्रदेशे । जीवान्तरा- दृश्यतया नियन्तुर्हरेरज्ञैस्स्पष्टमदृष्टोऽपि भेदः कर्मफलस्यादनानदनाभ्यां जीवेश्वरगत विरुद्धधर्माभ्यां सर्वैरपि सम्यङ्निश्चीयते । तथेति भावः ।।५८९।।

सत्यप्रमोदटीका

 अग्निना पाकेन । ईक्ष्यते जलस्य नाशः, क्षीरस्य तु घनीभाव इति विरुद्धधर्माभ्यामनुमीयते । यद्वा वसिष्ठादियोगिभिः प्रत्यक्षेणैव ईक्ष्यते । एवं हंसपक्षिणा । अदनानदनाभ्यां = एकः तयोः खादति पिप्पलान्नं अन्यो निरन्नोऽपि बलेन भूयानि’ति स्मृत्युक्तरूपाभ्याम् । अत्रापीक्ष्यत इत्यस्य पूर्ववदर्थद्वयम् । यद्वा आगमेनेश्वरं प्रतियोगिनं जानतः तद्विरुद्धस्वभावमात्मानं प्रत्यक्षीकुर्वतः साक्षिणाऽपि ईक्ष्यते । तदुक्तं ‘भुञ्जानं वा गुणान्वितम् । विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुष’ इति

।। ५८९ ।।

युक्तिमल्लिका

एवं भिन्नस्वभावानां जीवानां ब्रह्मणीश्वरे ।

अपरिच्छिन्नचिद्रूपे परिच्छिन्नाणुरूपिणाम् ।। ५९० ।।

अनादितोऽप्यनन्तानामनन्तक्लेशभोगिनाम् ।

ऐक्यं वाक्यशतेनापि वक्तुं शक्यं न कुत्रचित् ।। ५९१ ।।

सुरोत्तमटीका

 यथोक्तसमस्तलौकिक दृष्टान्तेष्वैक्य भ्रमविषयाणा-मेकतया वाक्यशतैर्निर्दिष्टानामपि विचार्यमाणे विरुद्धधर्मदर्शनात् परस्परं भेद एवास्ति तथा जीवानां परमात्मनश्चेत्याह ।। एवमिति ।। भिन्नस्वभावत्वमेव दर्शयितुमुक्तमपरिच्छिन्नचिद्रूप इत्यादि ।। ५९०,५९१ ।।

सत्यप्रमोदटीका

 वाक्यशतेनेति प्रत्यक्षविरुद्धार्थे वाक्यानां योग्यताऽ-भावे नाप्रामाण्यापत्तेः । अङ्गीकृता चेयं व्यवस्था मायिनाऽपि तत्त्वमसिवाक्ये प्रत्यक्षाविरोधाय लक्षणामाश्रयता । उक्तं च तेनैव ‘प्रत्यक्षेण विरोधोऽयमुभयो-रुपलभ्यते’ इति । ऐक्यं तयोर्लक्षितयोर्न वाच्ययोरिति च । एवं गीता-शाङ्करभाष्ये १८ अध्याये ‘न हि अग्निरनुष्णः अग्निर्न प्रकाशते इति ब्रुवच्छ्रुतिशतमपि प्रामाण्यमश्नुते’ इति ।। ५९०,५९१ ।।

युक्तिमल्लिका

मुख्यार्थबाधे वाक्यानामन्योऽर्थः कथ्यते बुधैः ।

यजमानः प्रस्तरः किमग्निर्माणवकोऽपि वा ।। ५९२ ।।

किं योषिदग्निरादित्यो यूपोऽन्धो मणिमीक्षते ।

मृदब्रवीत्किमुग्रा वा प्लवते किमपाञ्चवाक् ।। ५९३ ।।

सुरोत्तमटीका

 ननु लोके यथाकथञ्चिदस्तु वेदोक्तस्तु बाधितोऽप्यर्थः तथैव सङ्ग्राह्य इति मन्दाशङ्कामुभयवादिसंप्रतिपन्नवैदिकानेकलाक्षणिकप्रयोगं प्रदर्श्य दूषयति ।। मुख्यार्थबाध इति ।। वाक्यानां वैदिकवाक्यानाम् । बुधैः वेदार्थनिपुणैः । यजमानःप्रस्तरः । अग्निर्माणवकः । योषितमग्निं ध्यायीत । आदित्यो वै यूपः । अन्धो मणिमविन्दत् । मृदब्रवीत् । ग्रावाणः प्लवन्ते । आपोऽब्रुवन्निति वाक्यानि मनसि निधाय यजमानःप्रस्तरःकिमित्यादिक-मुक्तमिति द्रष्टव्यम् ।। ५९२,५९३ ।।

सत्यप्रमोदटीका

 वाक्यानां वेदे वेदानुसारिणाम् । तदुक्तं तत्त्वोद्योते ‘वेदवेदानुसारेषु विरोधेऽन्यार्थकल्पना’ इति । निदर्शयति । यजमानः यजमानकार्यकारी । अग्निः अग्निसदृशः । योषिदग्निरिति । नन्वग्निः प्रमदा नाम घृतकुम्भसमः पुमान् । सुतामपि रहो जह्यात्’ इति भागवतोक्तेः योषित् आग्निसदृशीत्यर्थः । आदित्यः आदित्यसदृशः । अन्धः प्राग्गुरूपदेशात् ज्ञानहीनः मणिं प्रधानं परमात्मानम् । मृत् तदभिमानिदेवता । इत्येवं अविरुद्धोऽर्थो ज्ञेयः । अन्यार्थः सादृश्यैक्यादिरूपः ।। ५९२,५९३ ।।

युक्तिमल्लिका

एतासां बाधितार्थानां यथाऽन्योऽर्थो मतस्तव ।

तथापि बाधितार्थैक्यवाक्येऽप्यन्योर्थ ईर्यताम् ।। ५९४ ।।

सुरोत्तमटीका

 फलितमाह ।। एतासामिति ।। ५९४ ।।

युक्तिमल्लिका

दृष्टार्थबाधो वाचा स्यात्तस्यास्स्वार्थे दृढे सति ।

बाधाभावे दृढोऽर्थस्स्यादित्यन्योन्याश्रयो न चेत् ।। ५९५ ।।

सुरोत्तमटीका

 विपक्षे बाधकमाह ।। दृष्टार्थेति ।। न चेत् बाधित-वाक्यस्यान्योऽर्थो न चेत् । वाक्यस्य तदेकार्थकत्वे सिद्धे तेन प्रत्यक्षबाधनम् । बाधकप्रत्यक्षाबाधे च मुख्यार्थ परित्यागे कारणाभावात् तूष्णीं वृत्त्यन्त-राश्रयणस्यानुचितत्वाच्च वाक्यस्य तदेकार्थत्वमित्यन्योन्याश्रय इति भावः ।। ५९५ ।।

सत्यप्रमोदटीका

 ‘न हि प्रत्यक्षसिद्धमन्येन केनापि बाध्यं दृष्टं ‘इति तत्त्वोद्योतोक्तिं विवृणोति दृष्टेति । न च वैपरीत्यं शंक्यम् । प्रत्यक्षस्य स्वभावतः प्रबलत्वात् । ‘न हि पञ्चाननः हरिणशावकाभावमपेक्ष्य वनमव-गाहते इत्युक्तेः ।। ५९४,५९५ ।।

युक्तिमल्लिका

गङ्गायां घोष इत्युक्तिः किं बाधं बाधते स्वयम् ।

बाधेन बाधितार्था स्यादन्यार्थेति विचार्यताम् ।। ५९६ ।।

सुरोत्तमटीका

 वाक्येनैव बाधकप्रत्यक्षबाधनं क्वाप्यदृष्टं चेत्याह ।। गङ्गेति ।। बाधेन बाधिताऽन्यार्था वा स्यादिति योजना ।। ५९६ ।।

सत्यप्रमोदटीका

 नो चेत् ‘गङ्गायां घोष’ इत्यत्र सर्वसम्प्रतिपन्नं लक्षणाश्रयणं न स्यादित्याह गङ्गायामिति ।। ५९६ ।।

युक्तिमल्लिका

यद्यापातप्रतीतोऽर्थो बाधितोऽपि भवेद्गिराम् ।

तर्ह्याकाशादिशब्देन ब्रह्ममीमांस्यते कुतः ।। ५९७ ।।

सुरोत्तमटीका

दूषणान्तरम् चाह ।। यदीति ।। आदिपदेन प्राणादि-शब्दा गृह्यन्ते । बाधितोऽप्यापातप्रतीतार्थोऽङ्गीकार्यश्चेत् आकाशस्तल्लिङ्गा-दित्याद्यधिकरणेष्वाकाशादिशब्दानां सर्वजनैरापाततः प्रतीत भूताकाशाद्यर्थ-कत्वं अनन्तत्वादि बाधकवशात्त्यक्त्वा प्रसिद्धब्रह्मपरत्व कल्पनारूपा मीमांसा भवद्भाष्यस्यापि मूलभूता व्यर्था स्यादिति भावः ।। ५९७ ।।

सत्यप्रमोदटीका

अन्यथा सर्वाऽपि मीमांसोन्मूलिता स्यादित्याह यदीति । आकाशाद्यधिकरणस्य चित्राज्याद्यधिकरणस्य च प्रवृत्तिर्न स्यात्

।। ५९७ ।।