तथा तत्त्वमसीत्याह श्रुतिर्ब्रह्म सदृक्षताम्
तत्वमसिश्रुत्यर्थः
युक्तिमल्लिका
तथा तत्त्वमसीत्याह श्रुतिर्ब्रह्म सदृक्षताम् ।
गुणैः कतियपैर्वक्तुं लोकवेदानुसारिणी ।। ९८७ ।।
सुरोत्तमटीका
तथा सिंहो देवदत्त इति वाक्यवत् । ब्रह्मसदृक्षतां जीवस्य कतिपयैर्गुणैर्ब्रह्म समानतां वक्तुं श्रुतिस्तत्त्वमसीत्याहेति योजना । लोकवेदानुसारिणीत्यनेन नेदं व्याख्यानमपूर्वमिति सूचयति ।। ९८७ ।।
सत्यप्रमोदटीका
ब्रह्मसदृशतां तेन ‘तद्वत्त्वमसि’ इत्यर्थः । तदुक्तं ‘तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवत्’ इति सूत्रभाष्ये
‘भिन्ना जीवाः परो भिन्नस्तथाऽपि ज्ञानरूपतः ।
प्रोच्यन्ते ब्रह्मरूपेण वेदवादेषु सर्वशः’ इति ।
‘अन्तरेणापि वसिं अतिदेशोऽवगम्यते । अब्रह्मदत्तं ब्रह्मदत्त इत्याह तेन वयं मन्यामहे बह्मदत्तवदयं भवती’ति महाभाष्योक्तेः (न्याया.२-२८ प. ५९५) ।। ९८७ ।।
युक्तिमल्लिका
अतिशूरं नरं प्राहुश्शार्दूल इति यज्जनाः ।
अग्निर्माणवकश्चेति यस्माद्वाक्चास्ति वैदिकी ।। ९८८ ।।
सुरोत्तमटीका
यद्यस्मात् । माणवको ब्रह्मचारी । तस्मिन्नग्निवत्तपसा दाहकत्वशक्तिबोधनायेति भावः । तस्माल्लोकवेदानुसारिणीति पूर्वेणान्वयः ।। ९८८ ।।
सत्यप्रमोदटीका
लोकवेदसंमतिं प्रयोगस्य दर्शयति अतिशूरमिति ।। ९८८ ।।
युक्तिमल्लिका
अथवा जीवपरयोर्भेदं वक्तुं सविस्तरम् ।
प्रावर्तत श्रुतिरियं नाभेदमिति मे मतिः ।। ९८९ ।।
सुरोत्तमटीका
किं च श्रुतिस्सर्वत्र स्वार्थप्रच्यावनपरं परं बहुधा धिक्कर्तुं नवभिर्दृष्टान्तैर्भेदं प्रदर्श्य नवधाऽतत्त्वमसीति जीवब्रह्मणोर्भेदं सतात्पर्यं साधितवती । अतोऽपि नेयं श्रुतिस्तवानुकूला । तथा हि । स यथा शकुनिः सूत्रेणेति वाक्योक्त शकुनि सूत्रदृष्टान्तेन सुषुप्तिदशायामपि सत्पदवाच्य-परमात्मनियम्यमत एव भिन्नं जीवं अतत्त्वमसीति प्राग्बोधितवती । पश्चात् यथासोम्यमधुमधुकृतोनिस्तिष्ठन्तीति वाक्योक्तमधुमधुकृन्निदर्शनेन तत्र तत्र परमात्मना सृष्ट्वा रक्षितं जीवं अतत्त्वमसीति बोधितवती । पुनः इमास्सोम्य नद्यः पुरस्तात्प्राच्यस्स्यंदन्त इति वाक्येन नदीसमुद्रदृष्टान्तेन प्रलये सर्वजीवा-नामाधारात्सृष्टौ बहिर्निर्गमने अवधिभूताच्च हरेर्भिन्नं जीवं अतत्त्वमसीति बोधितवती । अनन्तरं अस्य सोम्य महतो वृक्षस्येति वाक्ये जीवनामक-परमात्माधीनशोषणभाजन शाखास्थानीयं जीवं दुःखितया परमात्मनोऽ-त्यन्तभिन्नं जीवमतत्त्वमसीति बोधितवती । न्यग्रोधफलमत आहरेति वाक्ये च धानाणिमदृष्टान्तेनाणुतयाऽदृश्यात्परमात्मनो दृश्यं जीवं, अत एव भिन्नं अतत्त्वमसीति बोधितवती । सर्वथाऽदृश्यत्वेऽसत्त्वप्रसङ्गेन पुनर्लवणमेतदुक्ते वधायेति वाक्ये लवणोदकदृष्टान्तेन दृश्यलवणरसोपेतादृश्यलवणद्रव्यवत् दृश्यस्वातन्त्र्याख्यशक्तिमतो हरेः अस्वतन्त्रं अत एव भिन्नं जीवं अतत्त्व-मसीति बोधितवती । पुनः यथा सोम्य पुरुषं गन्धारेभ्य इति वाक्ये गन्धार-पुरुषदृष्टान्तेन गुरूपदिष्टज्ञानेन लभ्यात्परमात्मनः लब्धृजीवमत एव भिन्नं अतत्त्वमसीति बोधितवती । पुनः पुरुषं सोमोपतापिनं ज्ञातयः पर्युपासत इति वाक्ये ज्ञात्युपतापिदृष्टान्तेन अनुपतापिनः परमात्मनः उपतापोपलक्षित-मरणवन्तं जीवं अत एव भिन्नमतत्त्वमसीति बोधितवती । अन्ते पुरुषं सोम्योत हस्तगृहीतमानयन्तीति वाक्ये राजतस्करपुरुषदृष्टान्तेन अभेदोक्त्या स्वगुणाप-हारकहीनजीवानां बन्धनहननादिक्लेशरूपतमोदातुर्भेदोक्त्या स्वगुणान्स्वस्मिन्नेव स्तुवतश्च बन्धनहननादिविदूरमुक्तिदात्परमात्मनस्सदसद्गतियोग्यं अत एव भिन्नजीवं अतत्त्वमसीति बोधितवती । ग्रन्थकृच्च विस्तरभयात्परशङ्कापनोदाय कानिचिन्निदर्शनानि विवृण्वन् तमेवार्थं वक्तुमुपक्रमते ।। अथवेत्यादिना ।। त्वं अतत् तस्मादन्यद्वस्तु असीति श्वेतकेत्वाख्यजीवस्य परस्य च भेदं वक्तु-मित्यर्थः । असमर्थत्वद्योतनेन गर्विणस्तस्य गर्वपरिहाराय नपुंसकप्रयोगः । नवभिर्दृष्टान्तैर्भेदकथनात् सविस्तरमित्युक्तम् ।। ९८९ ।।
सत्यप्रमोदटीका
सविस्तरमिति । तथा हि तत्त्वनिर्णये ‘अतत्त्व-मसीति नवकृत्वोपदेशः सदृष्टान्तकः इति ।। ९८९ ।।
युक्तिमल्लिका
स्वप्नावसानकालीनसुप्त्यवस्थां प्रबोधयन् ।
स्वप्नान्तं सौम्य जानीहीत्याह शिष्यं गुरुः पुरा ।। ९९० ।।
सुरोत्तमटीका
शिष्यं श्वेतकेतुम् । गुरुः उद्दालकः । पुरा पूर्वम् । अक्षिगतस्य जाग्रदवस्था । कण्ठगतस्य स्वप्नः । हृदि सुप्तिरिति क्रमात् स्वप्नावसाने विद्यमाना सुप्तिरिति भावः ।। ९९० ।।
सत्यप्रमोदटीका
‘स्वप्नान्तं मे सौम्य विजानीहि’ इत्युपक्रमवाक्यं व्याख्याति स्वप्नेति । स्वप्नान्तः स्वप्नावसानकालीना सुषुप्त्यवस्था । तत्र जागरस्वप्नयोः शरीरेन्द्रियमनसामितस्ततो विक्षेपेण श्रान्तस्य जीवस्य श्रमापनोदाय स्वापे परमेश्वरायत्तताऽभिधीयते ।।९९० ।।
युक्तिमल्लिका
यत्र स्वपिति नामायं पुरुषो जीवचेतनः ।
स ता ब्रह्मचिता साकं सम्पन्नस्स्यात्तदाऽप्ययम् ।
न तु तद्भावमाप्नोति सेऽयं सुप्तिदशा किल ।। ९९१ ।।
प्राज्ञेन सम्परिष्वक्त इति शाखान्तरे श्रुतिः ।
प्राज्ञेन सम्परिष्वङ्गमेव सुप्तावकीर्तयत् ।। ९९२ ।।
सम्यगालिङ्गनं ह्येव सम्परिष्वङ्ग ईर्यते ।
सम्यक्प्राप्तिश्च सम्पत्तिर्भिन्नयोरेव किं न ते ।
यदेकस्य न ते दृष्टे दृष्टे सर्वत्र च द्वयोः ।। ९९३ ।।
सुरोत्तमटीका
यत्र यदा । सम्पन्नः सम्यक्प्राप्तः । सेयं जीवस्य ब्रह्मप्राप्तिदशा स्वप्नान्तं मे सौम्य विजानीहि । यत्रायं पुरुषस्स्वपिति नाम सता सोम्य तदा सम्पन्नो भवतीति श्रुतिव्याख्यानमिदम् । शाखान्तरे बृहदारण्यके । प्राज्ञेन सम्परिष्वक्त इत्यनेन प्राज्ञेनात्मना संपरिष्वक्तो न बाह्यं किञ्चन वेदेति श्रुतिमुपादत्ते ।। ते प्राप्त्यालिङ्गने ।। ९९१-९९३ ।।
सत्यप्रमोदटीका
‘यत्रायं पुरुषः स्वपिति नाम सता सोम्य तदा सम्पन्नो भवति’ इति वाक्यशेषं व्याचष्टे यत्रेति । सम्परिष्वक्त इत्यनन्तरं ‘न बाह्यं किञ्चन वेद’ इति वाक्यशेषः । सपरिष्वङ्गः सम्पत्तिरिति उभे अपि भेदनियते इति भेदसिद्धिरित्याह सम्यगिति
।। ९९१-९९३ ।।
युक्तिमल्लिका
अन्तर्हितस्य या प्राप्तिः प्रविष्टस्योदरे हरेः ।
सैवापीतिशब्दशक्तिशोधनेन त्वभिन्नता ।। ९९४ ।।
सुरोत्तमटीका
स्वं ह्यपीतो भवतीति श्रुतेरर्थमाह ।। अन्तर्हितस्येति ।। अदृश्यस्येत्यर्थः । सा अदृश्यतया प्राप्तिः ।। ९९४ ।।
सत्यप्रमोदटीका
‘स्वं ह्यपीतो भवति’ इति श्रुतिं विवृणोति अन्तर्हित इति । तिरोहितः सन् प्राप्तो भवतीत्येवार्थः । न त्वभिन्न इति । अपेरपि धातौ इणश्च गतौ निष्ठायाश्च कर्तरि शक्तेः क्लृप्तत्वादैक्ये योगरूढ््योरभावाच्च । ऐक्यार्थत्वे अतीत इत्यस्य भवतेश्चाकर्मकत्वेन श्रुतद्वितीयाऽयोगाच्च । अत्र विस्तरः न्यायामृते (२-२८ प.५९७) ।। ९९४ ।।
युक्तिमल्लिका
तिन्नन्तोऽत्र यदिण्धातुर्यत्पिधानार्थकोस्त्यपिः ।
अतोऽत्रान्यार्थविन्यासचिन्ता हन्ता फलैव ते ।। ९९५ ।।
सुरोत्तमटीका
शब्दशक्तिमेव दर्शयति ।। तिन्नंत इति ।। तिन्प्रत्य-यान्तः । अत्र अपीतिपदे । अपिः अपीत्युपसर्गः । अपीतिपदं तूक्तप्रत्ययान्त-मिति द्रष्टव्यम् । एवं शब्दशक्तिशोधने सम्यक्प्राप्तिरेवापीतिशब्दार्थो न त्वभेद इति भावः । स्वपदं च स्वस्मिन्स्वस्यैव गम्यगमकभावान्यथानुपपत्त्या स्वतन्त्रत्वाद्वा स्वामित्वेन स्वीयत्वाद्वा प्राक्सत्पदोदितब्रह्मपरम् ।। ९९५ ।।
सत्यप्रमोदटीका
अन्यार्थेति अभेदेत्यर्थः ।। ९९५ ।।
युक्तिमल्लिका
सुप्त्युत्क्रान्त्योश्च भेदेन नेत्याह निर्णयसूत्रकृत् ।
यतस्सुप्तौ च मुक्तौ चाभिदा शास्त्रविदोदिता ।
अतो द्विर्बद्धभेदोऽयं सुबद्धोऽभूच्छ्रुतेर्गले ।। ९९६ ।।
सुप्तिश्चावान्तरा मुक्तिर्देहादेरप्ययात्तव ।
सुप्तौ मुक्तौ च यन्नास्ति तदैक्यं स्यात्कदा वद ।। ९९७ ।।
सुरोत्तमटीका
सूत्रानुसारि चेदं व्याख्यानमिति भावेनाह ।। सुप्तीति ।। अनेन सुषुप्त्युत्क्रान्त्योर्भेदेनेति सूत्रं गृह्णाति । शास्त्रविदा वेदव्यासेन । द्विर्बद्धः सुप्तौ मुक्तौ च बद्धः । व्यासानुशासनशब्दानुशासनाभ्यां बद्ध इति वा ।। ९९६,९९७ ।।
सत्यप्रमोदटीका
सूत्रे च सुषुप्तौ भेदस्यैव समर्थितत्वाच्च न तमां अभेदार्थावकाश इत्याह सुप्तीति शास्त्रविदा निर्णायकसूत्रप्रणेत्रा । द्विः द्विवारं सुप्तौ मुक्तौ च ।। सुबद्धः मुक्तिप्रायसुप्तौ मुक्तौ चानुवृत्तस्य पारमार्थिकत्वा-वश्यम्भावात् ।। ९९६, ९९७ ।।
युक्तिमल्लिका
सदृष्टान्तमिमामेव वेदः प्राबोधयद्दशाम् ।
यतः शकुनिसूत्राख्यनिदर्शनमदर्शयत् ।। ९९८ ।।
सुरोत्तमटीका
सदृष्टान्तम् । स यथा शकुनिस्सूत्रेण प्रतिबद्धो दिशंदिशं पतित्वाऽन्यत्रायतनमलब्ध्वा बन्धनमेवोपाश्रयत इति दृष्टान्तपूर्वकम् । इमां सुप्तिम् ।। ९९८ ।।
सत्यप्रमोदटीका
सदृष्टान्तमिति । अन्यत्रापि श्रुतौ भिन्नश्येननीड-दृष्टान्तोक्तिरनुसन्धेया ।। ९९८ ।।
युक्तिमल्लिका
दार्ष्टान्तिके तत्र मनो मन्तृत्वाज्जीव एव तत् ।
न चेदुपक्रमोऽन्यस्य स्याच्चान्यस्योपसंहृतिः ।। ९९९ ।।
सुरोत्तमटीका
एवमेव खलु सोम्यैतन्मनो दिशंदिशं पतित्वा अन्य-त्रायतनमलब्ध्वा प्राणमेवोपाश्रयत इति दार्ष्टान्तिकवाक्ये । तत्तस्मात् । न चेन्मनश्शब्दो जीववाचको न चेत् । उपक्रमः यत्रायं पुरुषस्स्वपिति नामे-त्युपक्रमः । अन्यस्य पुरुषपदोदितजीवस्य ।। ९९९ ।।
सत्यप्रमोदटीका
दार्ष्टान्तिके ‘एवमेव खलु सोम्यैतन्मनः’ इति वाक्ये ‘मननान्मन उद्दिष्ट’ इति प्रमाणाज्जीवः एव मनःशब्दार्थः । ‘यत्रायं पुरुषः स्वपिति नाम’ इति पुरुषशब्देन तस्यैवोपक्रान्तत्वादित्याह मन इति ।।९९९।।
युक्तिमल्लिका
शकुनेश्शकुनाच्चायं जीवस्तत्रापि जीवति ।
यच्चेतनोपमा प्रायश्चेतनस्यैव शोभते ।। १००० ।।
सुरोत्तमटीका
शकुनाद्दृष्टान्ततयोक्त्याख्यशकुनात् । यथा गन्तुः पुरुषस्य समीचीनपक्षिणश्शकुने जाते सति जीवभयं नास्ति तथाऽत्रापि दृष्टान्ते शकुनेः प्रस्तावात् दार्ष्टान्तिकेऽपि जीवस्य नापगम इति भावः ।। १००० ।।
सत्यप्रमोदटीका
शकुनेः शकुनात् प्रवासोपक्रमे शुभसूचनात् न जीवभयं तथाऽत्रापि शकुनेश्चेतनस्य जीवस्य दृष्टान्तीकरणान्न जीवभावापगमेन ऐक्यभयमिति साहित्यमुद्रयाऽऽह जीव इति ।। १००० ।।
युक्तिमल्लिका
किञ्चान्तःकरणाख्यं ते मनो लीनं तदा तव ।
प्राणसंश्रयता तस्य कथं लीनस्य कथ्यते ।। १००१ ।।
सुरोत्तमटीका
ते मनः । तव मते तवदुराग्रहात् त्वन्मनस एव नाशोऽस्तु न तु मन्मनस इति भावेनोक्तं ते मन इति । किं च मनसो जीवत्वाभावे जीवपरयोरैक्यस्यापि न प्रस्तावस्स्यात् । अतस्त्वयापि मनःपदेन जीव एव वाच्यः ।। १००१ ।।
सत्यप्रमोदटीका
मनःशब्दस्यान्तःकरणार्थकत्वं परस्यापि दुर्घटमित्याह किञ्चेति । प्राणबन्धनमित्युक्तं प्राणाश्रितत्वं प्रलीनस्य न सम्भवतीत्याह प्राणेति ।। १००१ ।।
युक्तिमल्लिका
यतश्चोपरि तत्स्थाने प्रजाशब्दं हि जीवगम् ।
सन्मूला एव सोम्येमाः प्रजा इति वदिष्यति ।
अतो मनःप्राणशब्दौ जीवब्रह्मपराविमौ ।। १००२ ।।
इति भेदं सदृष्टान्तं प्राक्प्रस्ताव्यपुनर्गुरुः ।
तत्त्वमस्यादिवाक्येन कथमैक्यं वदेद्वद ।। १००३ ।।
सुरोत्तमटीका
तत्स्थाने मनस्स्थाने । एतत्समाख्यख्या प्रागुक्त-प्राणपदस्य ब्रह्मपरता मनःपदस्य जीवपरता चेति द्वयमपि सिद्धमिति भावः ।। १००२,१००३ ।।
सत्यप्रमोदटीका
स्वारब्धार्थं उपक्रमे सदृष्टान्तमुपपादितं भेदरूपार्थम् । उत्सृज्य दुराग्रहादपलप्य । द्विरूपायाः सावकाशायाः गिरः तत्त्वमसिवाक्यस्य बलात् आपातार्थे मोहात् अन्यार्थं अभेदरूपम् । आशास्ते केवलं दुराशां करोति । न तु पुनः स्वार्थसिद्धिः । मद्यपायी अतितामसः सर्वार्थान् विपरीतांश्च बुद्धिः सा पार्थ तामसी’ इति लक्षणसमन्वयात् ।। १००२-१००४ ।।
युक्तिमल्लिका
यस्त्वारब्धार्थमुत्सृज्य द्विरूपाया गिरो भरात् ।
मध्येऽन्यार्थमपि व्यर्थमाशास्ते मद्यपाय्यसौ ।। १००४ ।।
सुरोत्तमटीका
उपक्रमविरुद्धमप्यर्थं वदन्तमपहसति ।। यस्त्विति ।। द्विरूपायाः तदिति अतदिति च द्वे रूपे यस्यास्सा तस्याः । गिरः स आत्मा तत्त्वमसीति गिरः । क्वचित्पतिव्रतारूपं क्वचित्स्वैरिणीरूपं च यस्यानार्या-स्तस्या गिर इति ध्वनिः । अन्यार्थं उपक्रमविरुद्धार्थं व्यर्थं प्रयोजनं विनापि प्राक् यज्ञादि पुण्यकर्मारभ्य मध्येस्वैरिणीवाक्यात् तामालिङ्गन्यथा मद्यपायी तथा सावकाशवाक्यस्य उपक्रमविरुद्धार्थं वदन्नपि मद्यपाय्येव न विवेकीति भावः ।। १००४ ।।
युक्तिमल्लिका
सत्यतत्त्वमसीत्यस्मदर्थे मुख्ये न लक्षणा ।
न ते श्लोक्यं नापि शक्यं शक्यैक्यं तेन शोक्यसि ।। १००५ ।।
सुरोत्तमटीका
प्रबलं दूषणान्तरं चाह ।। सतीति ।। शक्यैक्यं तत्त्वं-पदमुख्यार्थयोरैक्यम् । ते मते । श्लोक्यं च न विरुद्धत्वाच्छक्यमपि न । तेन तत्ववादिनोक्तमुख्यार्थे सति लक्षणाऽयोगेन जहदजहल्लक्षणया ऐक्यं वदतस्तव मुख्यार्थासम्भवेन च शोकी दुःखवान् । मुख्यार्थस्तु मायिनैव नाङ्गीक्रियते । मुख्ये सम्भवत्यमुख्यायोगादिति न्यायेन उपक्रमानुकूलमुख्यार्थे सति लक्षणा-याश्च नात्रावकाशः । अतः परस्य महासंकटमभूदिति भावः ।। १००५ ।।
सत्यप्रमोदटीका
सति अतत्वमिति पदच्छेदे मुख्ये मदर्थे सतीत्यन्वयः । न लक्षणा युक्तेति शेषः । शक्ययोः मुख्यार्थयोरैक्यम् । न शक्यं स्वीकारा-नर्हम् । न स्वीकृतं च । ‘ऐक्यं नयोर्लक्षितयोर्न वाच्ययोः’ इति तेनेवोक्तेः । शोकी श्रुतीनामखण्डार्थपरत्वरूपाऽप्रामाण्यशङ्काऽनेन तमसि सुबहुलदुःखवान् ।। १००५ ।।
युक्तिमल्लिका
तत्त्वज्ञानश्रुतौ तस्मात्तत्त्वज्ञो मत्त एव सः ।। १००६ ।।
सुरोत्तमटीका
तत्त्वज्ञः तद्भावाख्यार्थज्ञः । श्रुतौ तत्त्वज्ञो न किं तु मत्त एवेति सम्बन्धः । पूर्वश्लोकेऽनुप्रासोऽलङ्कारः । अस्मिन्श्लोके तत्त्वज्ञो मत्त एव न तु तत्वज्ञः किं तु अतत्त्वज्ञ एव तत्वज्ञ इति फलितार्थं चादाय द्वेधा विरोधालङ्कारः ।। १००६ ।।
सत्यप्रमोदटीका
तस्य भावः तत्त्वं ब्रह्मैक्यं तज्जानातीति तत्त्वज्ञः न तत्वज्ञः यथार्थज्ञानवान्न अत्र विरोधाभासद्वयम् । तत्त्वज्ञः ब्रह्मैक्यज्ञानी न तत्त्वज्ञः । किन्तु ब्रह्मभावं स्वस्य अजानानः अतत्व एव तत्वज्ञः इति ।।
युक्तिमल्लिका
यत्सत्प्रतिष्ठसन्मूलसदायतनतां श्रुतिः ।
प्रजाशब्दोक्तजीवानां वक्ति तत्रैव सादरम् ।
अतस्त्रिधा प्रजानां च सतश्चोक्तैव भिन्नता ।। १००७ ।।
सुरोत्तमटीका
परकीयार्थे उपक्रमदृष्टान्तन्यायविरोधानुक्त्वा स्ववाक्य-विरोधं चाह ।। यदिति ।। यत् यस्मात् । तत्र एवमेव सोम्येमास्सर्वाः प्रजा-स्सन्मूलास्सदायतनास्सत्प्रतिष्ठा इति दार्ष्टान्तिकवाक्ये बहुशो भेदकथना-त्सादरमित्युक्तम् । त्रिधा सन्मूलं यासामिति सदायतनं यासामिति प्रकर्षेण तिष्ठत्यस्यामिति प्रतिष्ठा सदेव प्रतिष्ठा यासामिति च सृष्टेः प्राक्सृष्टिमध्ये सृष्टेरुपरितनमोक्षकाले चेत्यर्थः । एवं च एकस्मिन्नेव वाक्ये स्पष्टं भेदमुक्त्वा पुनस्तत्त्वमसीत्यभेदं च कथं ब्रूयादिति भावः । अथवा उक्तदार्ष्टान्तिकवाक्ये स्पष्टं भेदकथनात् तद्दृष्टान्तवाक्योक्तनदीसमुद्रादीनामपि भेद एव विवेकिना वक्तव्य इति भावः ।। १००७ ।।
सत्यप्रमोदटीका
सन्मूलाः इति सृष्टेः प्राक् । सदायतनाः इति मध्ये । सत्प्रतिष्ठाः इति मुक्तौ इत्येवं अवस्थात्रये सच्छब्दाभ्यासेन सतः ब्रह्मणः प्रजानां जीवानां च भेदकथनात् सादरमित्युक्तम् ।। १००७ ।।
युक्तिमल्लिका
लवणोदकदृष्टान्ते स्पष्टं भेदो निदर्शितः ।
यन्नैक्यं भिन्नरसयोर्योगेऽप्यालोडनं परम् ।। १००८ ।।
सुरोत्तमटीका
लवणोदकदृष्टान्ते भेदमनुभावयति ।। यन्नैक्यमिति ।। यत् यस्मात् । भिन्नरसयोः मधुरलवणाख्यरसयुक्तयोर्लवणोदकयोः । हेतु-गर्भमिदं विशेषणम् । भिन्नरसत्वेन विरुद्धधर्माक्रान्तत्वादेव नैक्यमित्यर्थः । योगे लवणस्य जलसम्बन्धे । जलान्तःप्रवेशन इत्यर्थः । परं केवलम् । मृत्तिकाया जलेनेवालोडनमेव न त्वैक्यमित्यर्थः ।। १००८ ।।
सत्यप्रमोदटीका
भिन्नरसयोः बहुव्रीहिः । जलस्य मधुरं लवणस्य लवणं रसमित्येवं भिन्नौ रसौ ययोस्तौ तयोः जललवणयोः । योगेऽपि मिश्रणेऽपि । नैक्यं न स्वरूपैक्यं किन्तु आलोडनं स्थानैक्यमेव ।। १००८ ।।
युक्तिमल्लिका
यथा तप्तोदके रूपस्पर्शाभ्यामभिभूतयोः ।
अबग्न्योरुभयोर्यागस्तथैव लवणोदके ।
रूपाभिभूतलवणे रसस्याभिभवोजले ।। १००९ ।।
सुरोत्तमटीका
तर्हि जलमाधुर्यस्य कस्मादननुभव इत्याशङ्कां दृष्टान्त-मुखेन परिहरति ।। यथेति ।। यद्यपि तप्तोदके जलस्य शीतस्पर्शाभिभवः । अग्नेश्च शुक्लभास्वररूपाभिभवः । तथापि उष्णस्पर्शशक्त्या जलाद्भिन्नोऽग्नि-रप्यस्त्येव । जलरूपमहिम्ना अग्नेर्भिन्नं जलमप्यस्ति । एवं लवणोदकेऽपि उदकस्य माधुर्यरसाभिभवः । लवणस्य च रूपाभिभवः । तथापि रसशक्त्या जलाद्भिन्नं लवणमप्यस्ति । रूपशक्त्या सांसिद्धिकद्रवत्वशक्त्या च लवणाद्भिन्नं जलमप्यस्ति । स्वनिष्ठगुणयोरेवाभिभवः । स्वरूपैक्यं तु नोभयत्रापि । अन्यथा अभिभूतरूपस्य ग्रहस्य ग्रस्तपुरुषैक्यं च स्यादिति भावः ।। १००९ ।।
सत्यप्रमोदटीका
यथेति तप्तोदके तेजसो रूपमात्राभिभवो न उष्ण-स्पर्शस्य जलस्य स्पर्शमात्राभिभवो न तु रूपस्य तथाऽपि स्वरूपभेदः, तथाऽत्रापि लवणस्य रूपाभिभवो न रसस्य, उदकस्य रसाभिभवो न रूपस्य स्वरूपे तु भिन्ने एवेत्याह यथेति ।। १००९ ।।
युक्तिमल्लिका
नदीसमुद्रावप्येवं गङ्गासागरसङ्गमः ।
इति शास्त्रप्रसिद्धेश्च वृद्धानां च प्रसिद्धितः ।
नदीशुद्धोदसंयोगो वार्धेस्स्याल्लवणोदके ।। १०१० ।।
सुरोत्तमटीका
दृष्टान्तान्तरेऽपि भेदमुपपादयति ।। नदीसमुद्राविति ।। एवं लवणोदकवत् । तत्रापि नदीजलस्य रसाभिभवमात्रं न त्वैक्यम् । ईष-त्समुद्रजलयोगे उभयस्वभावस्याप्यनुभवेन ऐक्यादर्शनात् । इयांस्तु विशेषः । समुद्रजलं सर्वदा लवणेनाभिभूतरसं नदीजलं तु कदाचित्समुद्रलवण-जलेनैवाभिभूतरसमिति । युक्त्यन्तरं चाह ।। गङ्गेति ।। नदीसमुद्रजलयोरैक्ये शास्त्रे लोके च प्रयुज्यमानसम्बन्धार्थकसङ्गमपदविरोध इति भावः । वार्धे-र्लवणोदक इति सम्बन्धः ।। १०१० ।।
सत्यप्रमोदटीका
शास्त्रप्रसिद्धितः ‘सितासिते सरिते यत्र सङ्गते’ इत्यादौ ।। १०१० ।।
युक्तिमल्लिका
शुद्धे शुद्धोदकं सिक्तं तादृगेव भवेत्परम् ।
एकप्रकारोदकयोरप्यैक्यं न तयोः किल ।। १०११ ।।
सुरोत्तमटीका
किं च श्रुतौ शुद्धोदकयोरेव योगैक्यस्य निषेधात् शुद्धोदक लवणोदकयोगे नेतरामैक्यमित्याह ।। शुद्ध इति ।। १०११ ।।
सत्यप्रमोदटीका
कैमुत्येन तत्र भेदमुपपादयति शुद्धे इति मुक्तावपि सरूपतैवेत्यत्र दृष्टान्तः । तदाऽपि न स्वरूपैक्यं किमु संसारे इति यथा । तथा समानप्रकारयोरपि शुद्धोदकयोर्यदा भेदः तदा विरुद्धप्रकारयोर्लवणमधुरोदक-योस्तथात्वं इति किमु वक्तव्यमिति
।। १०११ ।।
युक्तिमल्लिका
स्वोक्ततादृक्च दाढर्््यार्थमेवेत्यैक्यं व्यवच्छिनत् ।
यतः श्रुतिस्ततस्तत्र तयोरैक्यं न सर्वथा ।। १०१२ ।।
सुरोत्तमटीका
श्रुतिः यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवतीति श्रुतिः ।। १०१२ ।।
सत्यप्रमोदटीका
तादृगेव न तु तदेवेति स्वरूपैक्यव्युदासः सुस्फुट एवेत्याह स्वेति ।। १०१२ ।।
युक्तिमल्लिका
एवं चेत्कथमैक्यं स्याच्छुद्धोदलवणोदयोः ।
वृद्धेः प्रत्यक्षसिद्धत्वादप्यैक्यं नोभयत्र च ।। १०१३ ।।
सुरोत्तमटीका
युक्त्यन्तरं चाह ।। वृद्धेरिति ।। उभयत्र शुद्धोदकयोरेव सङ्गमे शुद्धोदकलवणोदकसङ्गमे च ।। १०१३ ।।
सत्यप्रमोदटीका
प्रत्यक्षसिद्धत्वादिति तद्वारिणः ईषद्वृद्धिः स्थूल-मतीनां अपि । सूक्ष्मधियां तु सर्वत्र । भामत्यामपि नदीसमुद्रोदकयोरैक्यस्य सपरिकरं ‘अवस्थितेरिति’ सूत्रभाष्यव्याख्याने दूषितत्वाच्च । (न्याया.५९८) ।। १०१३ ।।
युक्तिमल्लिका
न हि रासोत्सवस्यान्ते बहुमूर्त्येकतां गते ।
कृष्णो विशति नन्दस्य गृहद्वारमवर्धत ।। १०१४ ।।
सुरोत्तमटीका
प्राग्बहुतया दृष्टानामपि पुनस्सर्वथैक्ये वृद्ध्यभावं दृष्टान्तमुखेनोपपादयति ।। न हीति ।। बहुमूर्तिभिरेकतामैक्यम् । तस्मा-देकोदकस्य उदकान्तरेण सर्वथैक्ये वृद्धिरयुक्तैवेति भावः ।। १०१४ ।।
सत्यप्रमोदटीका
स्वरूपैक्ये तु न वृद्धिरित्येतन्निदर्शयति न हीति ।। १०१४ ।।
युक्तिमल्लिका
नद्यम्बुयोगे वर्षासु वार्धिरप्यभिवर्धते ।। १०१५ ।।
सुरोत्तमटीका
अस्ति च वार्धावपि वृद्धिरित्याह ।। नद्यंब्विति ।।
सत्यप्रमोदटीका
अभिवर्धते इदं तु मार्कण्डेयमुनेरनुभवसिद्धम् । प्रलयकालीनवर्षाजन्यसमुद्रवृद्धेस्तेनानुभूतत्वात् । इदानीं इतरेषां समुद्रस्य महत्त्वाद्वृद्ध्यदर्शनम् ।। १०१५ ।।
युक्तिमल्लिका
यतश्चोक्तं पुराणेषु सङ्गमे द्विगुणं फलम् ।
अतश्च न तयोरैक्यमैक्ये यत्स्यात्फलैकता ।। १०१६ ।।
सुरोत्तमटीका
युक्त्यन्तरं चाह ।। यत इति ।। यत् यस्मात् । फलैकता एकफलत्वम् । उभयोरैक्ये स्थलान्तरे एकस्मादेकफलवत् सङ्गमेऽपि एकमेव फलं स्यात् । फलद्वैगुण्ये न किंचित्कारणमिति भावः ।। १०१६ ।।
सत्यप्रमोदटीका
द्विगुणम् । उपलक्षणम् । ‘तत्राप्लुतासो दिवमुत्प-तन्ति’ । ‘ब्रह्मज्ञानेन वा मुक्तिः प्रयागमरणेन वा’ इत्याद्युक्तेः अधिक-फलमित्यर्थः ।। १०१६ ।।
युक्तिमल्लिका
समुद्रोदेऽपि लवणद्रव्यस्य च जलस्य च ।
संयोग एवेशकृतः सरिदब्ध्योस्तु किं पुनः ।। १०१७ ।।
सुरोत्तमटीका
नदीजलसमुद्रजलयोरैक्याभावे कैमुत्यमाह ।। समुद्रेति ।। एकदेवताके समुद्रजलेऽपि लवणजलयोस्संयोग एव न त्वैक्यं तदा किं वक्तव्यः नदीशुद्धजलस्य समुद्रलवणजलस्य चैक्याभाव इति भावः ।। १०१७ ।।
सत्यप्रमोदटीका
समुद्रोदेऽपीति एकदेवताकेऽपीत्यर्थः ।किं पुनर्भिन्न-भिन्नतत्तन्नद्यादिदेवताकेषु तत्तच्छरीरस्थानीयेषु नद्युदकेषु इति।।१०१७ ।।
युक्तिमल्लिका
पत्न््नयस्तु सरितस्सर्वः पतिस्तु सरितां पतिः ।
तद्भेदो नेक्ष्यते पुम्भिर्गाढालिङ्गनतः परम् ।। १०१८ ।।
सुरोत्तमटीका
तर्हि जलद्वयविवेकः कुतो न दृश्यत इत्यतस्साहित्य-मुद्रया तत्र हेतुं वदन्नभिमन्यमानयोरैक्ये अभिमानिनोरप्यैक्यं स्यात् । तच्च युक्तिविरुद्धमित्याह ।। पत्न््नयस्त्विति ।। यथा गाढालिङ्गने दंपत्योर्देहयोर्विवेको न दृश्यते । तथा नदीजलस्यापि समानाभिघाताख्यदोषात् क्षीरस्थनीरस्येव विवेको न दृश्यत इत्यर्थः ।। १०१८ ।।
सत्यप्रमोदटीका
उक्तं प्रमेयं शृङ्गररसेन मधुरयति गाढेति ।।१०१८।।
युक्तिमल्लिका
न हि प्रधानदिक्पालो वरुणोऽसौ निजालये ।
पिता मुनीनामेकाकी शेते तारापतेस्सखा ।। १०१९ ।।
सुरोत्तमटीका
मुनीनां पिता तारापतेस्सखेति च एकाकित्वाभावे हेतुगर्भं विशेषणद्वयम् ।। १०१९ ।।
सत्यप्रमोदटीका
प्रधानेति निऋति कुबेरादितः उत्तमेत्यर्थः । निजालये इति पत्नीभिः सहभावे हेतुः ।। १०१९ ।।
युक्तिमल्लिका
न चेद्वर्षासु वार्ध्यम्बुमध्यान्नद्यम्बुवार्धराः ।
आनयन्ति कथं शुद्धं वर्षन्ति च ततस्ततः ।। १०२० ।।
सुरोत्तमटीका
विपक्षे बाधकयुक्तिं चाह ।। न चेदिति ।। ऐक्याभावो न चेदित्यर्थः ।। १०२० ।।
सत्यप्रमोदटीका
न चेत् पाथःपरमाणूनां भिन्नत्वाभावे । वार्धराः मेघाः । अत्रायं विशेषः
‘स्वकीयमुदकं नद्यः समुद्रे नैव जानते ।
वायुस्तु तत्पृथग्भावं मेघे कृत्वा प्रवर्षति’
इति स्मृतेर्ज्ञातव्यः । (वि.त.टी. श्रीनिवासती. ५६८) ।। १०२० ।।
युक्तिमल्लिका
श्वेतं गङ्गोदकं स्वादु तुङ्गाम्बुयमुनाजलम् ।
नीलमित्यादिभेदोस्ति प्रत्यब्दमपि तज्जले ।। १०२१ ।।
सुरोत्तमटीका
समुद्रमध्यस्थनदीजलानामपि परस्परमैक्याभावे युक्ति-माह ।। श्वेत इति ।। तज्जले तासां गङ्गादीनां जले ।। १०२१ ।।
सत्यप्रमोदटीका
वायुनैवं विवेकेन तत्तज्जलानयनप्रदेशे प्रत्यब्दं वर्षणा-देव नदीजलानां रूपरसादिगुणभेदो निर्वहति नान्यथेत्याह श्वेतमिति ।।१०२१।।
युक्तिमल्लिका
सोऽब्धौ च भिन्नभिन्नाम्बुसद्भावेन विना कथम् ।
न ह्यपूर्वं स वार्वाहः कुर्वीताम्बु स्थले स्थले ।। १०२२ ।।
सुरोत्तमटीका
सः भेदः । वार्वाह इति हेतुगर्भं विशेषणम् । प्राग्विद्य-मानोदकस्य प्रापक एव न तु कर्ता । तस्मादुदकवैचित्र्यं न तन्निमित्तकमिति भावः ।। १०२२ ।।
सत्यप्रमोदटीका
न मेघा वायुर्वा अपूर्वं रूपादिकं सृजन्तीति युक्तमित्याह नेति ।। १०२२,१०२३ ।।
युक्तिमल्लिका
सर्वे च सङ्गमं ब्रूयुस्त्वं ब्रूषे कथमेकताम् ।
हन्ताज्ञाश्च हसेयुस्त्वां पूर्णप्रज्ञभटास्तु किम् ।। १०२३ ।।
सुरोत्तमटीका
किं च श्रौतस्मार्तलौकिकप्रवादबलात् शुद्धजलानामपि मेलने सति सङ्गम एव न त्वैक्यम् । किं पुनर्लवणोदकशुद्धोदकयोरिति भावेनाह ।। सर्वे चेति ।। १०२३ ।।
युक्तिमल्लिका
सितासिते च नद्यौ द्वे प्रयागे सङ्गते किल ।
मिश्रतीर्थं किलैकत्र चित्रतीर्थोदसङ्ग्रहः ।। १०२४ ।।
सुरोत्तमटीका
सितासिते इत्यनेन सितासिते सरितौ यत्र सङ्गते तत्राप्लुतासो दिवमुत्पतंतीति श्रुतिं सूचयति । एकत्र सरोवरे । चित्रतीर्थोद-सङ्ग्रहः । नानातीर्थजलमेलनं मिश्रतीर्थनामकतीर्थं किल । अस्थिप्रदानात्पूर्वं सर्वतीर्थेषु स्नानं कर्तव्यमिति दधीचिप्रार्थितेनेन्द्रेण ब्रह्माण्डोदरगततीर्थेभ्यः किंचित्किञ्चित्तीर्थजलमानीय नैमिषारण्यप्रान्तस्थिततदाश्रमस्थसरोवरे मेलनं कृतम् । तत्र स्नात्वा तेन मुनिना स्वदेहास्थिशक्राय दत्तम् । यस्य तीर्थस्य अद्यापि लोके वेदे च मिश्रतीर्थमित्येव नाम । इमां पौराणिकप्रसिद्धिं किलेत्यनेन सूचयति । तस्माद्बहुजलसमागमेऽपि मिश्रणमेव न त्वैक्यमिति भावः ।। १०२४ ।।
सत्यप्रमोदटीका
सितासिते सरितौ यत्र सङ्गते इति प्रयागेऽपि सङ्गम इत्येव व्यवहारः । सर्वेभ्यस्तीर्थेभ्यः किञ्चिज्जलं आहृत्य इन्द्रेण मिश्रीकृत्य निर्मितं सरोवरं मिश्रतीर्थं इति पुराणप्रसिद्धिः । तस्यापि मिश्रेत्येव व्यवहारः । न तु कुत्रापि ऐक्यमापन्नमिति । एवं निवृत्तिसङ्गममपि सङ्गम इत्येवाहुः । अतो लोकव्यवहारप्रतीपा तव प्रक्रियेत्याह सिते इति ।। १०२४,१०२५ ।।
युक्तिमल्लिका
निवृत्तिसङ्गमः सप्तनदीनां सङ्गमः किल ।
कृष्णाभीमरथीसङ्गं प्राहुरद्यापि सङ्गमम् ।। १०२५ ।।
सुरोत्तमटीका
सप्तनदीनां कृष्णवेणीतुङ्गाभद्राभीमरथीमलापहारिणी भवनाशिनीति सप्तनदीनां सङ्गमः निवृत्तिसङ्गमः किल । जनाः काडलूरसङ्गम इति प्राहुः ।। १०२५ ।।
युक्तिमल्लिका
नानारससमाहारो मधुन्यप्येकता किल ।
वृद्धिश्च रसवैचित्र्यं नो चेत्तत्र कुतो वद ।। १०२६ ।।
सुरोत्तमटीका
यथा सोम्य मधुमधुकृतो निस्तिष्ठन्तीति दृष्टान्तेऽपि नानात्ययानां वृक्षाणां समवहारमेकताङ्गमयन्तीति श्रुतौ स्पष्टं रसानां नानारस-समाहारस्यैवैकत्वेन व्यवहारात् त्वदभिलषितस्वरूपैक्यस्य नावकाश इत्याह ।। नानेति ।। मधुनि यो नानारसानां समाहारो मेलनं स एवैकता किलेति सम्बन्धः । युक्तिं चाह ।। वृद्धिरिति ।। वृद्धिः दिने दिने क्रमेणाभिवृद्धिः । रसवैचित्र्यं मधुराम्लादिरसवैचित्र्यम् । नो चेत् समाहारैक्यं नो चेत् । स्वरूपैक्यमेव भवति चेदित्यर्थः । तत्र मधुनि ।। १०२६ ।।
सत्यप्रमोदटीका
मधुमधुकृद्दृष्टान्ते तु स्पष्टं ‘समवहारं एकतां गम-यन्ति’ इति श्रुतिरेव स्वयं ‘समवहार एवैकता’ इति रसमेलनमेव मधु न तु रसानां स्वरूपैक्यमिति व्याख्याति । अतो न तत्र तव कुचोद्यावकाशः । स्वरूपैक्ये बाधकमाह वृद्धिरिति ।। १०२६ ।।
युक्तिमल्लिका
सति सम्पद्य न विदुरिति सर्वत्र यच्छतिः ।
दार्ष्टान्तिकोपसंहारं कुरुतेऽतो न तत्कथा ।। १०२७ ।।
सुरोत्तमटीका
सति सम्पद्य नविदुरित्यनेन प्रकारेण । इतिशब्दः प्रकारवचनः । सति सम्पद्यनविदुः सत आगम्य नविदुः सन्मूला-स्सोम्येमास्सर्वाः प्रजास्सता सोम्य तदासम्पन्नो भवतीति वाक्येष्वित्यर्थः । सर्वत्र बहुषु दृष्टान्तेषु । अतः दार्ष्टान्तिकविरोधात् । एकस्मिन्नपि दृष्टान्ते ऐक्यकथा न ।। १०२७ ।।
सत्यप्रमोदटीका
‘सति सम्पद्य न विदुः सति सम्पत्स्यामहे’ इति ते इह व्याघ्रो वा सिंहो वा’ इति सत आगम्य न विदुः सत आगच्छामहे इति न इह व्याघ्रो वा सिंहो वा’ इति भेदापरिज्ञानेनानर्थवचनाच्च । न हि गृहा-दागतस्य गृहे प्रविष्टस्य च तदैक्यम्’ । इति तत्त्वनिर्णयवाक्यं हृदि कृत्वाऽऽह सतीति तत्कथा ऐक्यकथा ।। १०२७ ।।
युक्तिमल्लिका
यस्मात्प्राग्भिन्नयोरैक्यं न स्याद्यत्नशतैरपि ।
तस्मात्सर्वेऽपि दृष्टान्ताः भेदस्यैव प्रसाधकाः ।। १०२८ ।।
सुरोत्तमटीका
युक्त्यन्तरं सूचयन्नेतदेव विशदयति ।। यस्मादित्यादिना ।। १०२८ ।।
सत्यप्रमोदटीका
यस्मादिति न हि भिन्नमभिन्नतां यातीति न्यायादिति भावः ।। १०२८ ।।
युक्तिमल्लिका
स त आगम्य न विदुः सति सम्पद्य चेति सा ।
मुक्तौ सम्पत्तिमेवाह सृष्टौ चागमनं ततः ।। १०२९ ।।
सुरोत्तमटीका
सा उपनिषत् । ततः सन्नामकपरमात्मनः ।। १०२९ ।।
सत्यप्रमोदटीका
सत आगम्येति सृष्टौ, सति सम्पद्येति मुक्तौ इति योग्यतयाऽन्वयः ।। १०२९ ।।
युक्तिमल्लिका
गमकस्य च गम्यार्थादागन्तुश्चागमावधेः ।
अवश्यं भिन्नता वाच्या मध्ये वाच्या कथं न सा ।। १०३० ।।
सुरोत्तमटीका
सा भिन्नता ।। १०३० ।।
सत्यप्रमोदटीका
अधिकरणस्यापादानस्य च आधेयादेर्भेदः व्युत्पत्ति-सिद्ध इत्याह गमकस्येति । एवं सृष्टौ मुक्तौ चेद्भेदः श्रुतिसिद्धो मध्येऽपि स भवेदेवेत्याह मध्ये इति ।। १०३० ।।
युक्तिमल्लिका
अनाद्यनन्तकालीनामेवं जीवेशयोर्भिदाम् ।
न विदुर्ये ते भवन्ति सिंहव्याघ्रादयः किल ।। १०३१ ।।
सुरोत्तमटीका
भूयोभूयः बहुवारम् । या त इह व्याघ्रा एवेत्यादिका । अर्थवादात् निन्दारूपार्थवादात् । सा उपनिषत् । मुक्तावपि भेदप्रतिपादनात् सति सम्पद्य सत आगम्येति भेदाभ्यासात् अर्थवादाच्च सम्यगित्युक्तम् । ततोन्यथा तत्त्वमिति ।। १०३१-१०३३ ।।
सत्यप्रमोदटीका
‘यद्यद्भवन्ति तत्तदा भवन्ति’ इति वाक्ये जीवानां विद्यमानभेदापरिज्ञानेन व्याघ्रादित्वापत्तिरूपस्यानर्थस्योक्तत्वात् दृष्टान्त-वाक्ययोरपि विद्यमानभेदापरिज्ञानमेव विवक्षितम् ।। १०३१ ।।
युक्तिमल्लिका
इति भेदाज्ञानिनिन्दां भूयो भूयः करोति या ।
अभ्यासादर्थवादाच्च सा सम्यग्भेदतत्परा ।
अतदित्येव गदितुं यतते न ततोऽन्यथा ।। १०३२ ।।
सदायतनसन्मूलसत्प्रतिष्ठत्वकीर्तनात् ।
स्थितौ सृष्टौ च मुक्तौ च भेदस्स्पष्टं निगद्यते ।। १०३३ ।।
सत्यप्रमोदटीका
सा अतत्त्वमसीति वाक् । नेति । तदिति पदच्छेदं न सहते ।। १०३२,१०३३ ।।
युक्तिमल्लिका
दार्ष्टान्तिकप्रकरणमेवं सर्वं हि शोधने ।
अभूद्भेदप्रकरणं तदैक्यस्य न भूरियम् ।। १०३४ ।।
सुरोत्तमटीका
इयमुपनिषत् ।। १०३४ ।।
सत्यप्रमोदटीका
इयं उपनिषत् भूः प्रतिपादिका ।। १०३४ ।।
युक्तिमल्लिका
तावदेव चिरं तस्य यावन्मोक्ष्येत कर्मभिः ।
प्रारब्धैरखिलैः पश्चात्सति सम्पद्यते किल ।। १०३५ ।।
इति प्रारब्धनाशाच्च पश्चाद्भाविनि या श्रुता ।
भिदा परममोक्षे ते कदा वा नास्ति सा वद ।। १०३६ ।।
सुरोत्तमटीका
तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्यत इति श्रुतेरभिप्रायमाह ।। तावदेवेति ।। तस्य ज्ञानिनः । प्रारब्धैः कर्मभिरिति सम्बन्धः । विमोक्ष्ये इत्यस्य पुरुषव्यत्यासात् विमोक्ष्येतेत्यर्थकथनम् । अथवा विमोक्ष्ये विमोक्ष्य इत्याशाङ्कुर्वन् यावन्नविमोक्ष्येतेति योग्यपदाध्याहारेणान्वयः । अथेत्यस्यार्थकथनं पश्चादिति । भोगेन प्रारब्धकर्मविमोचनानन्तरमित्यर्थः । प्रारब्धकर्मनाशानन्तरकालीनब्रह्मसंपत्तेर्मायिमतेऽपि परममोक्षत्वात् ते परममोक्ष इत्युक्तम् । सा जीवेश्वरभिदा।।१०३५,१०३६ ।।
सत्यप्रमोदटीका
न चात्रोक्ता सत्सम्पत्तेरपरममोक्षविषयेति शङ्क्यम् । प्रारब्धकर्मावसानकालीनत्वात् । अपरममुक्तौ प्रारब्धकर्मलेशावश्यम्भावा-दित्याह तावदेवेति । ‘तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्यते’ इति वाक्यमनेनोपादत्ते ।। १०३५,१०३६ ।।
युक्तिमल्लिका
गम्यगन्तृतयाऽन्योन्यं किं न तत्रापि भिन्नता ।
तन्न तामुन्नता वाक्ते निन्हुवीत सतां मतम् ।। १०३७ ।।
सुरोत्तमटीका
तत्रापि मुक्तावपि । तत्तस्मात् । तां भिन्नताम् । न निह्नुवीत न दूषयेत् । उच्चैस्स्वरकरणेऽपि भेददूषणं तवासाध्यमिति भावः ।।
सत्यप्रमोदटीका
उन्नता वाक् दोषच्छादनाय उच्चैर्वचनम् ।।१०३७।।
युक्तिमल्लिका
अतत्त्ववादिनामेव तच्चित्रं तत्त्ववादिता ।। १०३८ ।।
सुरोत्तमटीका
न तत् अतत् तस्य भावः अतत्त्वं तद्वादिनां जीवब्रह्म-भिन्नत्ववादिनामित्यर्थः । तत्तस्मात् । शब्दतो विरोधप्रतिभानात् चित्र-मित्युक्तम् ।। १०३८ ।।
सत्यप्रमोदटीका
प्रागुक्तं स्मारयति अतत्त्वेति ।। १०३८ ।।
युक्तिमल्लिका
ततो वर्णादिना छिन्नं पदं सन्धाय सा श्रुतिः ।
चरेद्भेदार्थलाभाय या ब्राह्मणजनप्रिया ।। १०३९ ।।
सुरोत्तमटीका
ततः युक्तियुक्तत्वात् । वर्णादिना अक्षराणामादिना अकारेण क्षत्रियादि वर्णानामादिना ब्राह्मणेनेति ध्वनिः । छिन्नपदं अकारच्छेदं कृत्वा परेण प्रदर्शितं तदिति पदम् । सन्धाय वर्णादिना सन्धायेति सम्बन्धः । चरेत् विदुषां संसदि सञ्चरेत् । अकारसन्धाने सति विद्वत्सभायोग्या तदभावे छिन्नपदवत् युक्तिबाधितायास्तस्याः विदुषां संसदि सञ्चरेत् । अकारसन्धाने सति विद्वत्सभायोग्या तदभावे छिन्नपदवत् युक्तिबाधितायास्तस्याः विदुषां संसदि सञ्चरणमेव न भवेदिति भावः । अकारेणैव स्वपदसन्धाने किं कारण-मित्यत आह ।। या ब्राह्मणजनप्रियेति ।। ब्राह्मणवद्वर्णादित्वात् अकार एव प्रीतिरिति भावः
।। १०३९ ।।
सत्यप्रमोदटीका
वर्णादिना । वर्णानां चतुर्णामादिः ब्राह्मणः । अक्षराणां आदिरकारः । ब्राह्मणेन अकारप्रश्लेषेण छिन्ना इत्यावृत्त्या योज्यम् । सा श्रुतिः त्वं इति शब्दः । चरेत् विद्वत्सभायामिति शेषः ।। १०३९ ।।
युक्तिमल्लिका
किञ्च शब्दोऽनित्य इति वाक्ये घटनिदर्शने ।
अनित्य इत्येव यथा पदच्छेदं विदो विदुः ।। १०४० ।।
एवं शकुनिसूत्राख्यस्पष्टदृष्टान्तशक्तितः ।
आत्मा तत्त्वमसीत्यत्राप्यतद्ब्रह्मेति गम्यते ।। १०४१ ।।
सुरोत्तमटीका
लौकिकदृष्टान्तेनाप्यतदित्येव पदच्छेदमुपपादयति ।। किं चेति ।। १०४०-१०४२ ।।
सत्यप्रमोदटीका
किञ्चेति ‘शब्दोऽनित्यः कृतकत्वात् घटवत्’ इति प्रयोगे प्रतिज्ञासन्दिग्धार्थाऽपि सधर्मघटदृष्टान्ताभिधानसामर्थ्यात् अनित्यता-विषयेति निश्चीयते तद्वत् । यदा त्वेकमपि भेदविषयत्वेनासन्दिग्धं दृष्टान्ताभि-धानं सन्दिग्धप्रतिज्ञावाक्यस्यार्थनिश्चयायालं तदा किमु वक्तव्यं नवस्वपि प्रकरणेषु न वा सन्दिग्धानि भेदविषयाणि दृष्टान्ताभिधानानि इति तत्त्व-निर्णयटीकां हृदि कृत्वाऽऽह शब्द इति ।। १०४०,१०४१ ।।
युक्तिमल्लिका
तस्माज्जीवेशभेदस्य साधिका भेदवागियम् ।
न ह्यतिस्तब्धबुद्धेस्स गुरुर्ब्रह्मैक्यमादिशेत् ।। १०४२ ।।
सत्यप्रमोदटीका
प्रकरणविरुद्धोऽत्राभेदोपदेश इत्याह न हीति ।। १०४२ ।।
युक्तिमल्लिका
अतः श्रुतिः केरलानां करवालमभूदियम् ।
धारा त्वत्पार्श्वगैवातिक्रूरा किं स्यात्तवानया ।। १०४३ ।।
सुरोत्तमटीका
अतः उभयथापि पदच्छेदसम्भवात् । इयं श्रुतिः केरलानां करवालमभूत् । यथा केरलशस्त्रस्य शत्रोराभिमुख्येन धारा स्वस्याभिमुख्येनापि धारा । अतः तमपि हन्यात् । कदाचित्स्वात्मानमपि हन्यात् । तथा इयं श्रुतिरपि परहननाय त्वया प्रयुक्ता त्वामेव हन्तीति भावः । तत्र हेतुमाह ।। धारेति ।। त्वत्पार्श्वगा धारैवातिक्रूरा । परोक्तयुक्तिशिला-ताडनेन तत्पार्श्वे मन्दीभूता । त्वत्पार्श्वे तु युक्त्यभावादतिक्रूरा । तस्मादतदिति पदच्छेदं कृत्वा त्वामेव हन्तीति भावः ।। १०४३ ।।
सत्यप्रमोदटीका
केरलानां करवालं स्वपरयोरुभयोरपि अभिमुख-धारोपेतम् । तथाऽत्रोभयथाऽपि पदच्छेदावकाशवती । तत्रापि विशेषमाह धारेति । स्वाभिमुखा अतिक्रूरा नवविधदृष्टान्तशाणोत्तेजिता । पराभिमुखा तु शिलायामिव अविषये अभिदायां प्रयुक्ता कुण्ठिता साधनासमर्थेत्याह किमिति ।। १०४३ ।।
युक्तिमल्लिका
किञ्च दृष्ट्वैव तं मुच्येतेत्याद्यागमराशिषु ।
ज्ञानमज्ञानमात्रस्य विरोधीति स्वकल्पितात् ।
युक्तिमात्राच्च भीतेन श्रौतोऽर्थो येन धिक्कृतः ।। १०४४ ।।
सुरोत्तमटीका
अपि च बन्धस्याज्ञानोपादानकत्वरूपमिथ्यात्वलाभाय ज्ञानमज्ञानस्यैव निवर्तकमित्यसम्भावितां कांचिद्व्याप्तिं परिकल्प्य तद्विरोधेन दृष्ट्वैव तं मुच्यते ना परेणेत्यादि सावधारणतया निरवकाशानां श्रुतीनां ज्ञाना-द्बन्धनिवृत्तिर्भवतीति श्रौतार्थं परित्यज्य ज्ञानादज्ञाननिवृत्तिरेव भवति । अज्ञाननिवृत्तौ च उपादानाभावाद्बन्धनिवृत्तिर्भवतीति श्रौतार्थस्याति विरुद्ध-मश्रौतमेवार्थमङ्गीकुर्वता परेण तत्त्वमस्यादिवाक्ये प्रत्यक्षेण द्वासुपर्णेति श्रुत्या विरुद्धधर्माक्रान्तत्वयुक्त्या उक्तविधया नवविधदृष्टान्तैश्च विरुद्धे आपात-तश्श्रौतार्थे महान्भरः क्रियते । अतस्स्वप्रक्रिययैव विरुद्धः परकीयराद्धान्त इत्याह ।। किं चेति ।। बद्धो मुच्येत बन्धनादित्यादि फलविधायकप्रबल-वाक्यान्यपि स्मारयितुं लिङन्तपदप्रयोगः । श्रौतार्थः ज्ञानस्य बन्धविनाश-कत्वरूपः । येन मायावादिना । प्रत्यक्षसहितात् विरुद्धगुणवत्त्वात् । अत एव महायुक्तेरित्युक्तम्।।१०४४,१०४५ ।।
सत्यप्रमोदटीका
स्वप्रक्रियाविरुद्धः परार्थ इत्याह किञ्चेति । मुच्येत मुच्यते । इत्यादीति’तरति शोकमात्मवित्’ । ‘तमेवं विद्वानमृत इह भवति’ इत्यादीत्यर्थः । स्वकल्पितात् अप्रामाणिकात् । वस्तुतः निवृत्तेः सत्यत्वेनैव व्याप्तेः गरुडध्यानसेतुदर्शनादिषु प्रमितत्वात् । धिक्कृतः अज्ञाने निवृत्ते, पश्चात् तदुपादानको मिथ्याभूतो बन्धो निवर्तते इति वदता इति शेषः ।। १०४४ ।।
युक्तिमल्लिका
तस्य प्रत्यक्षसहितविरुद्धगुणवत्वतः ।
महायुक्तेर्विरोधेऽपि मुख्येऽर्थेऽद्य कुतो भरः ।। १०४५ ।।
सत्यप्रमोदटीका
प्रत्यक्षेति नाहं निर्दुःख इत्यादिरूपेत्यर्थः । ‘द्वा-सुपर्णे’त्याद्यागमसहितेत्यपि ग्राह्यम् । ‘मुख्येऽर्थे’ इति गुडजिह्विकामात्रम् । वस्तुतः पदद्वयलक्षणाश्रयणेनामुख्य एवार्थ इति ध्येयम् ।। १०४५ ।।
युक्तिमल्लिका
अक्षस्य युक्तिश्रुत्यादेरमानत्वं यदीष्यते ।
युक्तिमात्रामानतायां हीनता का तवोच्यताम् ।। १०४६ ।।
सुरोत्तमटीका
युक्तिमात्रामानतायां ज्ञानमज्ञानस्यैव निवर्तकमिति स्वकपोलकल्पित युक्तेरमानतायामित्यर्थः ।। १०४६ ।।
सत्यप्रमोदटीका
इष्यते स्वकल्पितयुक्तिविरोधात् । तर्हि युक्तिमात्रेति । सकलप्रमाणविरुद्धत्वत्कुकल्पितयुक्तीत्यर्थः ।। १०४६ ।।
युक्तिमल्लिका
यद्यक्षादेरमानत्वं विरुद्धैक्यमपीष्यताम् ।
मानत्वे तु गुणत्यागः प्राणत्यागो भवेत्तव ।। १०४७ ।।
सुरोत्तमटीका
किं च विरुद्धगुणवत्त्वरूपयुक्तिरप्रमाणं चेत् तद्भया-भावात् । (बाष्पारोपितधूमत्वभ्रमकाल एव बाष्पबाष्पैक्यसद्भावेन) । विरुद्धगुणवतोरेवैक्यमङ्गीक्रियताम् । प्रमाणं चेत् तद्विषयभूतविरुद्धगुणयोरपि प्रामाणिकत्वावश्यंभावात् प्राणत्यागेऽपि ब्रह्मवन्न तत्त्याग इत्युभयतः पाशा-रज्जुरित्याह ।। यदीति ।। १०४७ ।।
सत्यप्रमोदटीका
यदीति । अयमाशयः प्रत्यक्षादिकं भेदावेदकं प्रमाणं न वा । द्वितीये विशिष्टैक्यमेव अङ्गीक्रियताम् । प्रत्यक्षादिविरोधस्या-किञ्चित्करत्वात् । आद्ये गुणत्यागस्य प्रमाणविरोधान्न लक्षणयैक्यसिद्धिरिति ।। १०४७ ।।
युक्तिमल्लिका
विरुद्धैक्यस्य चायुक्तिर्वाच्या कुत्राऽप्यदर्शनात् ।
तर्ह्यक्षमानतावश्यं न चेदैक्यं विरुद्धयोः ।। १०४८ ।।
सुरोत्तमटीका
प्रकारान्तरेणापि प्रत्यक्षप्रामाण्यस्यावश्यकत्वं प्रसाध्य तद्विरुद्धैक्यस्यैव हेयत्वमुपपादयति ।। विरुद्धैक्यस्येति ।। अयुक्तिः अयुक्तता । तर्हि अदृष्टमयुक्तं चेत् अर्थाद्दृष्टमेव युक्तमित्यस्यापि लाभात् अवश्यं अमानता वाच्या । न चेत् अक्षप्रामाण्यं न चेत् । अदृष्टस्याप्यङ्गीकर्तुं शक्यत्वा-द्विरुद्धैक्यमेव स्यादित्यर्थः ।। १०४८ ।।
सत्यप्रमोदटीका
ननु विरुद्धयोरैक्यं कुत्रापि न दृष्टं अतो विशिष्टैक्यं न युक्तमिति चेत् एवं तर्हि दृष्टमेव युक्तं अङ्गीकारार्हमित्यायातम् । तथा च प्रत्याक्षादिप्रामाण्यमवश्यं जातम् । एवं च स्वरूपैक्यस्य तद्विरुद्धस्य न सिद्धिः। तदुक्तं तत्त्वोद्योते ‘दृष्टस्य वस्तुनो बलवद्दृष्टिं विना नान्यद् बाधकमि’ति ।। १०४८ ।।
युक्तिमल्लिका
आदित्ये पुरुषो योऽसौ सोऽहमस्मीति च श्रुतिः ।
स यश्चायं पुरुषोऽस्ति यश्चादित्येऽस्ति सर्वदा ।। १०४९ ।।
स एक इति विस्पष्टसमाख्या श्रुतिसख्यतः ।
अर्थलक्षणया ब्रूते सुस्थसूत्रोक्तवर्त्मना ।। १०५० ।।
सुरोत्तमटीका
योऽसावादित्ये पुरुषस्सोऽहमस्मीति वाक्यस्यार्थमाह ।। आदित्य इति ।। स यश्चायमित्यनेन स यश्चायं पुरुषे यश्चासावादित्ये स एक इति वाक्यं गृह्णाति । अत्र हि उभयत्राप्याधारसप्तम्या आदित्यान्तर्यामिणः पुरुषान्तर्यामिणश्चैक्यकथनात् विस्पष्टेत्युक्तम् । अत एवास्याश्श्रुतेर्निरवकाशत्वं चेत्यपि द्रष्टव्यम् । लक्षणया अहंपदस्यान्तर्यामिपरतयेत्यर्थः । सूत्रोक्तवर्त्मना न वक्तुरात्मोपदेशादिति चेदध्यात्मसम्बन्धभूमा ह्यस्मिन्निति सूत्रोक्तमार्गेण ।। १०४९,१०५० ।।
सत्यप्रमोदटीका
‘योऽसावादित्ये पुरुषः सोऽहमस्मि’ इति श्रुतौ अहं शब्दः अन्तर्यामिपरः । ‘स यश्चायं पुरुषे यश्चासावादित्ये स एकः’ इति समाख्यानुसारादित्याह आदित्ये इति । समाख्यावाक्यं अन्तर्यामिरूपाभेदपरं इति स्पष्टम् । उभयत्रापि सप्तम्या निर्देशात् । लक्षणया अहंशब्दस्य अन्तर्यामिणि लक्षणया । इदं च मुखतः । वस्तुतस्तु अहमादिशब्दा अन्तर्यामिण्येव मुख्याः ।
‘तत्सम्बन्धात्तु जीवेषु तत्सम्बन्धादचित्स्वपि ।
वर्तन्ते उपचारेण’
इति तत्त्वनिर्णयोक्तेरिति ध्येयम् । सूत्रेति न वक्तुरात्मोपदेशादित्यादि-सूत्रेत्यर्थः ।। १०४९,१०५० ।।
युक्तिमल्लिका
एकवाक्येऽपि चादित्य इत्याधारत्वकीर्तनात् ।
स्वस्याप्याधारतैवोक्ता किमर्केशोर्कपूजकः ।। १०५१ ।।
सुरोत्तमटीका
एकवाक्ये अस्मिन्नेव वाक्य इत्यर्थः ।। आदित्य इति ।। योऽसावादित्य इति सप्तम्या आदित्याश्रितपुरुषस्यैव ग्रहणादित्यर्थः । स्वस्यापि सोहमस्मीति प्रोक्तस्य स्वस्यापि । आधारता लक्षणया स्वान्तर्यामि-पुरुषं प्रत्याधारतेत्यर्थः । विपक्षे बाधकमाह ।। किमिति ।। अर्कपूजकः सन्ध्यावन्दनादिना अर्कपूजकः ऋषिमनुष्यादिजीवः । र्ओशः योसावादित्ये पुरुष इत्युक्तार्कस्वामी किं नैवेत्यर्थः । आदित्ये पुरुष इत्युक्तादित्यान्तर्यामि- पुरुषस्य सोहमित्युक्तमनुष्यादि जीवस्वरूपत्वेऽर्कपूजकस्यैवार्कस्वामित्वं स्यादिति भावः ।। १०५१ ।।
सत्यप्रमोदटीका
आधारत्वम् । नियामकत्वेन पूज्यत्वम् । ‘य आदित्ये तिष्ठन् आदित्यं यमयति’ इति अन्तर्यामिनयोदाहृतश्रुतेः । अहंशब्देन अर्कादप्यधमः तत्पूजको जीव उच्यते । तादृशस्य स इति तच्चब्दपरामृष्ट र्ओशाभेदविधानं विरुद्धमित्याह किमिति।।१०५१ ।।
युक्तिमल्लिका
तत्स्पष्टभेदश्रुत्यक्षबाधे सति सतां मते ।
वृत्तित्रये च सत्यैक्यवाक्यं स्यात्क्व विरुद्धयोः ।। १०५२ ।।
सुरोत्तमटीका
किं चैक्याख्यमुख्यार्थस्य प्रत्यक्षादिबाधितत्वस्या-वर्जनीयत्वात् मुख्यार्थबाधे च वृत्त्यन्तरस्य सर्वसंमतत्वात् न क्वाप्यैक्य-स्यावकाश इत्याह ।। तदिति ।। तत्तस्मात्कारणात् ।। १०५२ ।।
सत्यप्रमोदटीका
वृत्तित्रये ।
‘तस्मात्परममुख्यत्वं विष्णावन्यत्र मुख्यता ।
उपलक्षणा च गौणी च तिस्रः शब्दस्य वृत्तयः’
इति अनुव्याख्यानोक्तेः । क्व विरुद्धयोरिति । विरोधे वृत्त्यन्तरस्यावश्य-माश्रयणीयत्वात् ‘पूर्वायोगे परग्रहः’ इति तत्रैवोक्तेः
।। १०५२ ।।
युक्तिमल्लिका
किञ्चैकजीवब्रह्मैक्यं वाक्यं नानेन सेत्स्यति ।
सर्वैक्ये किं प्रमाणं ते श्रुत्यर्थो न किलार्थिकः ।। १०५३ ।।
सुरोत्तमटीका
युक्त्यन्तरं चाह ।। किं चेति ।। एकजीवः श्वेतकेतुः । अनेन तत्त्वमसीत्यनेन । सर्वैक्ये सकलजीवैक्ये । एकस्यैक्ये अर्थात्सर्व-स्याप्यैक्यसिद्धिरित्यत आह ।। श्रुत्यर्थ इति ।। आर्थिकः अर्थात्सिद्धोऽर्थः । यश्चार्थादर्थो न स चोदनार्थ इति पूर्वाचार्यवचनादिति भावः ।। १०५३ ।।
सत्यप्रमोदटीका
एकजीवः श्वेतकेतुः । अर्थात्सर्वजीवाभेदः इति चेन्नासौ श्रौतार्थ इत्याह नेति । यश्चार्थादर्थः न स चोदनार्थ इति वचनात्
।। १०५३ ।।
युक्तिमल्लिका
तत्तत्पदोक्तयोरैक्ये सुप्रसिद्धा विरुद्धता ।
पदद्वयस्य लक्ष्यत्वाल्लघ्व्येकपदलक्षणा ।
तत्सम्बन्धात्तत्पदेन जीवोक्तौ किं गतं तव ।। १०५४ ।।
सुरोत्तमटीका
किं च पररीत्यैव परार्थे गौरवं स्वार्थे लाघवं चाह ।। तत्तदिति ।। एकपदलक्षणा त्वं तत् तदधीनोऽसीति तत्पदमात्रलक्षणा । मायावादिना हि तत्त्वं पदयोरुभयोरपि लक्षणया चिन्मात्रपरता वक्तव्या । अस्माकं तु तदिति पदच्छेदेऽपि एकपदमात्रलक्षणाङ्गीकारादस्मदर्थ एव लाघवाद्वक्तुमुचितः परकीयार्थस्तु गौरवान्नाङ्गीकारार्ह इत्याह ।। तत्सम्बन्धा-दिति ।। तत्पदेन तदिति पदेन ।। १०५४ ।।
सत्यप्रमोदटीका
उक्तयोः जीवेशयोः लक्ष्यत्वात् लक्षणाश्रयणात् । तत्पदेन तदितिपदेन सम्बन्धश्च तदधीनत्वादिः प्रमाणान्तरानुगुणः ।।१०५४।।
युक्तिमल्लिका
पञ्चम्यर्थे यत्तदिति पदं प्राहुर्यतोऽव्ययम् ।
तदित्यस्यैव तस्मादित्यर्थो वा तेन कथ्यताम् ।
ऋजुष्वनेकमार्गेषु सत्सु किं कुटिलाध्वना ।। १०५५ ।।
सुरोत्तमटीका
अर्थान्तरं चाह ।। पञ्चम्यर्थ इति ।। १०५५ ।।
सत्यप्रमोदटीका
प्राहुः ‘तदस्य कौषारव शर्मदातुः’ इत्यादौ सुबहुल-प्रयोगात् । अव्ययं तथा च तदुपरि सर्वविभक्तिलोपः । अनेकेति विभक्त्यन्त-राश्रयणेऽपि उपपद्यमानप्रकारेषु इत्यर्थः ।। १०५५ ।।
युक्तिमल्लिका
किञ्च ब्रह्मेन्द्ररुद्रादिशब्दास्सर्वेऽपि सर्वदा ।
तत्तद्विशिष्टार्थपरा विशिष्टैक्यं च ते मते ।
न विद्यते चितोरैक्यं यतो लक्षणया तव ।। १०५६ ।।
तद्देववासुदेवैक्यं वाक्यं नाख्याति ते क्वचित् ।
अत्राप्यत्रापि यत्तेन द्विदेव पदनाशनात् ।। १०५७ ।।
सुरोत्तमटीका
त्रिदेवतैक्यप्रतिपादकतया हरिहराद्यैक्यप्रतिपादकतया च प्रतीतवाक्यानां अनयैव दिशा अर्थो वाच्य इत्याह ।। किं चेति ।। तव मते । तत्तस्मात् विशिष्टैक्यस्य त्वयाऽनङ्गीकारात् चिन्मात्रैक्यप्रतिपादकपदाभावात् । देववासुदेवैक्यं ब्रह्मादिदेवानां वासुदेवेनैक्यम् । अत्रापि लज्जा अकारि । त्रपु लज्जायामिति धातोः कर्मणि लुङ् । यद्यस्मात् । तेन देवैक्यपरतया प्रतीय-मानवाक्येन । द्विदेवपदनाशनात् द्वयोर्देवयोर्वाचकपदयोर्मुख्यार्थत्यागाख्य नाशात् । अत्रापि देवतैक्येऽपि । अत्रापीति सम्बन्धः । देवतैक्ये मया कथिते पदद्वयमुख्यार्थत्यागः कर्तव्य इति वाक्यस्य लज्जा भवति । तस्मादेकपदमात्र लक्षणया देवान्तर्यामिणो हरेश्चैक्यं वक्तीति भावः । देवस्थानद्वयनाशादिति ध्वनिना बहुजुगुप्सा सूचयति ।। १०५६,१०५७ ।।
सत्यप्रमोदटीका
तत्तद्विशिष्टेति । कमलासनत्वशचीपतित्वादि-विशिष्टेत्यर्थः । अत्रापि । लुङ् । वाक्यस्य लज्जा भवतीत्यर्थः । अत्रापि स ब्रह्मा स शिवः इत्यादिवाक्येष्वपि । लज्जाहेतुः द्विदेवेति सर्वदेवेति तात्पर्यम् । पदानि सत्यलोकाधिपत्यादीनि । तेषां शासनात् मिथ्यात्वोक्त्याऽपलापात् ।। १०५६, १०५७ ।।
युक्तिमल्लिका
किञ्चावान्तरवाक्यं च महावाक्यं च ते मते ।
सर्वलक्षणया ब्रह्मरूपमात्रपरं किल ।
अतस्तव प्रक्रिययाऽप्यैक्ये मानं न किञ्चन ।। १०५८ ।।
सुरोत्तमटीका
अपि च निष्प्रकारकचरमापरोक्षप्रतीतिजनकतयाऽङ्गीकृत महावाक्यानां ब्रह्मस्वरूपमात्रपरत्वरूपाखण्डार्थनिष्ठत्वं मायावादिनां सिद्धान्त-रहस्यम् । एवं च तत्त्वमस्यादिवाक्यानामैक्यादिपरत्वाङ्गीकारे अपसिद्धान्तश्च स्यादित्याह ।। किं चेति ।। अवान्तरवाक्यं तत्पदार्थभूतब्रह्मप्रतिपादक-सत्यादिवाक्यम् । त्वं पदार्थरूपजीवप्रतिपादकं च वाक्यम् । महावाक्यं तत्त्वं-पदार्थयोर्जीवब्रह्मणोरद्वैतप्रतिपादकतयोभयपरं वाक्यम् । ते अखण्डार्थ-वादिनस्तव । ब्रह्मरूपमात्रपरं ब्रह्मस्वरूपमात्रपरम् । अतस्सकलमहावाक्यानां ब्रह्मस्वरूपमात्रपरत्वाङ्गीकारात् ।। १०५८ ।।
सत्यप्रमोदटीका
अवान्तरवाक्यं जीवब्रह्मरूपपदार्थप्रतिपादनपरं ‘विज्ञानघनः’ ‘सत्यं ज्ञान’मित्यादिरूपम् । महावाक्यं ऐक्यप्रतिपादनपरं तत्त्वमसीत्यादिकम् । ब्रह्मरूपमात्रपरं संसर्गासङ्गिप्रातिपदिकार्थमात्रपरं अखण्डार्थनिष्ठम् । ऐक्यरूपसंसर्गाबोधकम् ।। १०५८ ।।
युक्तिमल्लिका
अखण्डार्थत्वसन्त्यागे नाभूदैक्यं भवन्मते ।
अखण्डार्थपरत्वेऽपि नाभूदैक्यं भवन्मते ।। १०५९ ।।
सुरोत्तमटीका
एवं च परस्योभयतः पाशारज्जुरित्याह ।। अखण्डार्थ-त्वेति ।। अखण्डार्थत्वसंत्यागे सखण्डार्थत्वे । विशिष्टार्थपरत्व इति यावत्
।। १०५९ ।।
सत्यप्रमोदटीका
सन्त्यागे विशिष्टार्थपरत्वे । नेति विरोधादित्यर्थः । नेति ऐक्याबोधकत्वादित्यर्थः । एवं उभयतः पाशारज्जुः ।। १०५९ ।।
युक्तिमल्लिका
विशिष्टार्थपरत्वेऽपि विशेषणबलान्न तत् ।
अविशिष्टार्थनिष्ठत्वे साधकाभावतो न तत् ।। १०६० ।।
सुरोत्तमटीका
तदेवोपपादयति ।। विशिष्टेति ।। अखण्डार्थत्वसंत्यागे हि तत्त्वं पदयोर्विशिष्टार्थपरत्वमेव स्यात् । तस्मिंश्च विशेषणबलात् विरुद्ध सर्वज्ञाल्पज्ञत्वरूपविशेषणबलात् । तदैक्यं न । अविशिष्टार्थनिष्ठत्वे ब्रह्म-स्वरूपमात्रपरत्व इत्यर्थः । साधकाभावतः ऐक्यप्रतिपादकप्रमाणाभावतः ।। १०६० ।।
सत्यप्रमोदटीका
उपपादयति विशिष्टेति ।। १०६० ।।
युक्तिमल्लिका
ऐक्यस्यान्यस्य वा वाक्याद्वैशिष्ट्यं भासते यदि ।
निष्प्रकारकधीरन्ते शब्दादिति गतं मतम् ।
तस्मादैक्यं न वै शक्यं वाक्यैः साधयितुं त्वया ।। १०६१ ।।
सुरोत्तमटीका
तर्ह्यखण्डार्थवादस्त्यज्यत इति पक्षं प्राग्दूषितमपि दूषणान्तरेण दूषयति ।। ऐक्यस्येति ।। तस्मादखण्डार्थवादत्यागायोगात्
।। १०६१ ।।
सत्यप्रमोदटीका
वैशिष्ट्यं संसर्गः । वाक्यैः तत्त्वमस्यादिभिः तेषां बोधकत्वस्यैव त्वयाऽनङ्गीकारात् । ‘ज्ञानं च तस्य परात्मभावनिवृत्तिरेव । तज्ज्ञानं नैव जायते । (शा.भा.) इत्युक्ते (भे.प.ब्र.प.) । आकाङ्क्षासन्निधि-योग्यतानां अन्वयघटितत्वेन अन्वयाबोधकत्वे आकाङ्क्षादिमत्त्वरूपवाक्य-त्वस्यैवासम्भवादिति न्यायामृतोक्तदिशा ध्येयम् ।। १०६१ ।।