यदेकज्ञानतस्सर्वविज्ञानं च श्रुतौ श्रुतम्
एकविज्ञानेनसर्वविज्ञानंइतिप्रतिज्ञाऽर्थः
युक्तिमल्लिका
यदेकज्ञानतस्सर्वविज्ञानं च श्रुतौ श्रुतम् ।
अतोऽपि न परात्मैक्यं सिद्ध्येदद्वैतवादिनाम् ।। ९५० ।।
सुरोत्तमटीका
‘उत तमादेशमप्राक्षो येनाश्रुतं श्रुतं भवत्यमतं मतम-विज्ञातं विज्ञातं भवतीति श्रुतौ ब्रह्मविज्ञानेन सर्वविज्ञानमुच्यते । तच्च सर्वस्य ब्रह्मस्वरूपत्वमभिप्रेत्यै’वेति मायावादिनो वदन्ति । तदपि न युक्तमित्याह ।। यदेकेति ।। श्रुतौ श्रुतं यत् अतोऽपीति सम्बन्धः ।। ९५० ।।
सत्यप्रमोदटीका
उद्दालकेन पुत्रमदापनिनीषया ‘उत तमादेशमप्राक्षः येनाश्रुतं श्रुतं भवति इति तं प्रति, चोदना कृता । अनेन एकविज्ञानेन सर्वविज्ञानप्रतिज्ञानेन सर्वस्य जगतो ब्रह्मणाऽभेदः सिध्यतीति परप्रक्रिया । तां दूषयति यदिति ।। ९५० ।।
युक्तिमल्लिका
यदि स्याद्ब्रह्मविज्ञाने ज्ञेयं जगदिदं च ते ।
तदा शङ्कावकाशः स्यान्नैवं किल भवन्मतम् ।। ९५१ ।।
सुरोत्तमटीका
कुतो न सिद्ध्येदित्यत आह ।। यदीति ।। भवन्मतं एवं पूर्वोक्तप्रकारेण न किल ।। ९५१ ।।
सत्यप्रमोदटीका
इदं चानुपपत्त्या अभेदगमकं इति परस्याशयः । न च स युक्तः । अस्या अर्थापत्तेः सर्वाङ्गविकलत्वादाभासत्वमिति वक्तुं आदौ तावदाक्षेपकस्य प्रमितत्वसिद्धिमाह यदीति ।। ९५१ ।।
युक्तिमल्लिका
निष्प्रकारकचिन्मात्रनिर्विकल्पकदृक्तव ।
ब्रह्मदृग्जगतोऽज्ञानं तदा कस्यास्ति कथ्यताम् ।। ९५२ ।।
सुरोत्तमटीका
तर्हि कथमित्यत आह ।। निष्प्रकारकेति ।। तव मते ब्रह्मदृक् ब्रह्मपरोक्षज्ञानं निष्प्रकारकस्य निर्धर्मकस्य चिन्मात्रस्य ब्रह्मचिन्मात्रस्य चित्त्वरूपधर्मस्यापि व्यावृत्त्यर्थं मात्रपदम् । निर्विकल्पकदृक्किल निर्विकल्पक-रूपापरोक्षज्ञानं किल । तदा एतादृशनिर्विकल्पकज्ञानदशायाम् । कस्य जगत इति सम्बन्धः । तव मते ब्रह्मापरोक्षज्ञानरूपे श्रवणमननोत्तरकालीने एक-विज्ञाने ब्रह्मधर्माणामपि न भानम् । अन्ततश्चित्त्वस्यापि न भानमिति प्रक्रिया । तदा सर्वस्य जगतो ज्ञानं कथं सम्भावितमिति भावः ।। ९५२ ।।
सत्यप्रमोदटीका
एकब्रह्मविज्ञानेन सर्वविज्ञानं आक्षेपकं सर्वस्य ब्रह्मणैक्यमाक्षेप्यम् । तत्राक्षेपकस्य प्रमितत्वं अन्यथाऽनुपपद्यमानत्वं चेति ओ । आक्षेप्यस्य प्रमाणाविरुद्धत्वं तदुपादकत्वं चेति । तत्र आक्षेपकं पररीत्येवासिद्धम् । मुमुक्षुं श्वेतकेतुं प्रति मोक्षहेतुभूतं ब्रह्मज्ञानं खल्वत्रोपदिष्यते । तच्च वेदान्तजन्यचरमवृत्तिज्ञानमेव । यदाह ‘श्रुतमयेन ज्ञानेन तत्त्वमभिधाय चिन्तामयीमवस्थामवलम्बमानस्यान्तःकरणपरिणामात्मकं वृत्तिरूपं ज्ञानमुप-जायते तेन भवेदविद्यानिवृत्तिरिति । (वादा.) तादृशं च ज्ञानं ब्रह्मप्रातिपदिक- मात्रविषयकं निष्प्रकारकमेव परस्याखण्डार्थवादिनो मतं इत्याह तव ब्रह्म-दृगिति । जगत इति भिन्नं पदम् । तस्मिन् ज्ञाने जगतः प्रकारतया भाना-सम्मतेरेवेत्याह तदेति ।। ९५२ ।।
युक्तिमल्लिका
अपि चारोपितज्ञानं नाधिष्ठानस्य दर्शने ।
अतोऽपि न जगज्ज्ञानं ब्रह्मज्ञानं भवन्मते ।। ९५३ ।।
चरमब्रह्मविज्ञानप्रशंसार्थं खलु श्रुतिः ।
अर्थवादमिमं वक्ति ततश्चरममेव तत् ।
वाच्यं त्वयैकविज्ञानं कथं तत्रान्यदर्शनम् ।। ९५४ ।।
सुरोत्तमटीका
युक्त्यन्तरं चाह ।। अपि चेति ।। आरोपितस्य रजतस्य अधिष्ठानस्य शुक्तिशकलस्य । अधिष्ठानयाथात्म्यज्ञानदशायां आरोपितज्ञानं कुत्रापि न भवतीत्यर्थः । भवन्मते ब्रह्मणि जगतः कल्पितत्वमतो ब्रह्मतत्वज्ञान- दशायां तत्रारोपितजगज्ज्ञानं कथं तव मते स्यादिति भावः ।। अत्रोक्तं ज्ञानं चरमज्ञानमेवेत्यत्र युक्तिमाह ।। चरमेति ।। इमं येनाश्रुतमित्यादिकम् । उपलक्षणं चैतत् । अश्रुतं श्रुतममतं मतमित्युक्तश्रवणमननोत्तरकालीनत्वात् वीत्युपसर्गबलाच्चेत्यपि द्रष्टव्यम् । तदेकविज्ञानमिति सम्बन्धः । तत्र एक-विज्ञाने । अन्यदर्शनं जगद्दर्शनम् ।। ९५३,९५४ ।।
सत्यप्रमोदटीका
अपि चेति भवन्मते ब्रह्माधिष्ठानं जगच्च तस्मि-न्नारोपितम् । न हि अधिष्ठानयाथात्म्यापरोक्षज्ञानवतः तत्र आरोपितविषयकं क्वापि दृष्टचरम् । अपरोक्षदृशो मिथ्यादर्शनं न क्वचिद्भवेत्’ इति । (तत्वो.) ‘न हि शुक्तिज्ञो रजतज्ञ इत्युच्यते । विरोधात्तयोर्ज्ञानयोः । नेदं रजत-मित्यरजतज्ञो हि शुक्तिज्ञो भवति’ इति च भगवत्पादोक्तेः (वि.त.नि. ६३२) । अङ्गीकृतं च परैरेवैष नियमः ‘‘लोके शुक्त्यादितत्त्वं विजानतां यतोऽध्यस्तरूप्यादि अविज्ञातं भवति, अजानतामेव तु अध्यस्तं विज्ञातं भवति इति प्रसिद्धं, तथा ब्रह्मणि ज्ञेयत्वस्याध्यस्तत्वादेव न तत्त्वविदो ज्ञातं ब्रह्म पश्यन्तीत्यर्थः (आनन्दगिरि के.शा.भा.९-११-३१) । चरममेव तत् मुमुक्षुं प्रत्युपदिष्टत्वात् ।। ९५३, ९५४ ।।
युक्तिमल्लिका
अतो भ्रान्तजगज्ज्ञानमधिष्ठानात्मदर्शने ।
जातमित्यपि नैकस्य ज्ञानात्सर्वस्य दृक्तव ।। ९५५ ।।
तस्माद्भ्रमस्य द्वावंशौ स्त इत्यपि न ते गतिः ।
भ्रमानुकूलसामान्यधीर्विज्ञानं कथं वद ।। ९५६ ।।
सुरोत्तमटीका
अतः एकविज्ञानस्य चरमापरोक्षज्ञानत्वात् । भ्रान्त-जगज्ज्ञानं जगद्भ्रमरूपज्ञानमिति यावत् । अधिष्ठानात्मदर्शने अधिष्ठानभूत-ब्रह्मदर्शने सत्येव जातं न त्वन्यथा । भ्रान्तेरधिष्ठानज्ञाननियतत्वादित्यर्थः । इत्यपि इति हेतोरपि । तव मते । एकस्य ज्ञानं सर्वस्य दृक् नाभूत् । जग-दारोपदशायां यदधिष्ठानब्रह्मज्ञानं तदेव एकविज्ञानमस्तु । तदा सर्वविज्ञान-मप्यस्त्येव । अयमेव श्रुत्यर्थ इत्यपि त्वया वक्तुं न शक्यते । एकविज्ञानपदेन मोक्षहेतुभूतब्रह्मापरोक्षज्ञानस्यैव श्रुत्या अभिप्रेतत्वादिति भावः ।। तस्माद्भ्रम-कालीनाधिष्ठानज्ञानरूपब्रह्मज्ञानस्याप्रस्तुतत्वात् । दोषान्तरं चाह ।। भ्रमेति ।। तथा सति वीत्युपसर्गवैयर्थ्यं च स्यादिति भावः ।। ९५५,९५६ ।।
सत्यप्रमोदटीका
यद्यपि भ्रमस्य द्वावंशौ अधिष्ठानसामान्यविषयकं आरोपितविषयकं चेति । तत्र अधिष्ठानसाधारणधर्मज्ञानं आरोपं प्रति च हेतुः । तथाऽपि न तदत्र श्रुत्या विवक्षितम् ।तस्य मोक्षाहेतुत्वेन विज्ञान-पदेनोक्त्यसम्भवादित्याह विज्ञानमिति ।। ९५५,९५६ ।।
युक्तिमल्लिका
एवमप्यखिलभ्रान्तजगदैक्यं भवेत्परम् ।
अप्रशंस्य प्रशंसा स्यात्प्रक्रमस्याप्यतिक्रमः ।। ९५७ ।।
सुरोत्तमटीका
पुनरपि दोषत्रयमाह ।। एवमिति ।। एवमपि भ्रम-कालीनाधिष्ठानज्ञानस्यैकविज्ञानत्वेऽपि । अनेनैकविज्ञाने सति सर्वविज्ञानेन भ्रान्तिकल्पितजगदैक्यमेव ब्रह्मणो भवेत् । अस्मिन्नेकविज्ञाने तस्यैव सर्वस्य भ्रान्त्या प्रतीयमानत्वात् । तच्च विरुद्धमिति भावः । अप्रशंस्यस्य संसार-हेतुतया निन्द्यस्य । प्रक्रमस्य मोक्षोपयोगिब्रह्मज्ञानोपक्रमस्य ।। ९५७ ।।
सत्यप्रमोदटीका
तथात्वे वा भ्रान्तिफलकत्ववर्णनपरमेतद्वाक्यं प्रशंसा-रूपार्थवादात्मकं न स्यादित्याह एवमिति ।। ९५७ ।।
युक्तिमल्लिका
एकज्ञानेन सर्वस्य ज्ञानं काण्वश्रुतिः पुरा ।
प्रस्ताव्य पुनराहैतदमृतत्वमिति स्फुटम् ।। ९५८ ।।
सुरोत्तमटीका
श्रुत्यन्तरसमाख्यया च मोक्षोपयोगिब्रह्मज्ञानमेवेदमेक-विज्ञानमित्याह ।। एकज्ञानेनेति ।। काण्वश्रुतिः आत्मनि विज्ञाते सर्वमिदं खलु विज्ञातं स्यादिति श्रुतिरित्यर्थः । एतदमृतत्वमित्यनेन एतावदरे खल्व-मृतत्वमिति श्रुतिं संगृह्णाति । ओ गार्गि एतावत् एतादृशमाहात्म्यसहितं एतज्ज्ञानमित्यर्थः । अमृतत्वं मुक्तिः खलु । इति वाक्ययोजना ।। ९५८ ।।
सत्यप्रमोदटीका
काण्वश्रुतिसमाख्ययाऽस्य ज्ञानहेतुत्वं समर्थयति एकेति । एतदमृतत्वं एतज्ज्ञानं अमृतत्वहेतुः ।। ९५८ ।।
युक्तिमल्लिका
लाङ्गलं जीवनमिति प्रोक्ते जीवनहेतुता ।
यथा याति तथा मुक्तिहेतुतावागियं किल ।। ९५९ ।।
सुरोत्तमटीका
अस्यार्थं सदृष्टान्तमाह ।। लाङ्गलमिति ।। मुक्तिहेतुता-वाक् ज्ञानस्य मुक्तिहेतुतावाक् । इयं एतावदरेखल्वमृतत्वमिति श्रुतिः । यथा लाङ्गलं जीवनमिति सामानाधिकरण्योक्तावपि लाङ्गलस्य जीवहेतुतैवार्थः । तथा एतावदेवामृतत्वमित्युक्तेऽपि पूर्वोक्तज्ञानस्यामृतत्वहेतुतैवार्थ इति भावः । किलेत्यनेन आत्मनि विज्ञाते सर्वमिदं विज्ञातं स्यात् । एतावदरे खल्व-मृतत्वमित्युपसंहारात् अमृतत्वसाधनमात्मदर्शनं द्रष्टव्य इत्यनूद्येति विवरणोक्तिं लाङ्गलं जीवनमिति तत्वदीपनोक्तदृष्टान्तवचनं सूचयति ।। ९५९ ।।
सत्यप्रमोदटीका
निमित्तनैमित्तिकयोरभेदव्यपदेशं दृष्टान्तेन उपपादयति लाङ्गलेनेति । ‘दधित्रपुसं प्रत्यक्षो ज्वरः’ ‘आयुर्वै घृतं’ इत्यादिवैदिक-प्रयोगोऽपि द्रष्टव्यः ।। ९५९ ।।
युक्तिमल्लिका
अतः प्रमैव वाच्येयं सा ते चिन्मात्रगोचरा ।
एकज्ञानेन सर्वस्य ज्ञानं तस्मात्कथंवद ।। ९६० ।।
सुरोत्तमटीका
अतः स्वमत एव सिद्धत्वात् । प्रमा चरमापरोक्षप्रमा । इयं एकविज्ञानरूपा । सा चरमापरोक्षप्रमा । ते मते । तस्माच्चिन्मात्र-गोचरत्वात् ।। ९६० ।।
सत्यप्रमोदटीका
अतः भ्रमस्य मोक्षहेतुत्वासम्भवात् ।। ९६० ।।
युक्तिमल्लिका
तदनारोपरूपैव वाच्या सा चरमप्रमा ।
सर्वस्य नास्तिताज्ञानमपि तत्र न ते मते ।। ९६१ ।।
सुरोत्तमटीका
तन्मोक्षहेतुत्वात् । सा एकप्रतीतिः अनारोपरूपा चरम-प्रमैव वाच्येति सम्बन्धः । ननु सर्वस्य नास्तिताज्ञानं हि बाधः । अतो बाधरूपे चरमज्ञाने निषेध्यतया सर्वज्ञानमप्यस्तीति शङ्कां निराकरोति ।। सर्वस्येति ।। ते निष्प्रकारकचरमज्ञानवादिनः । ब्रह्मचिन्मात्रनिर्विकल्पकरूपे चरमज्ञाने सर्वज्ञानमपि न शोभते ।। ९६१ ।।
सत्यप्रमोदटीका
निर्विकल्पचरमज्ञाने जगदभावज्ञानस्यापि प्रकारतया भानं न सम्भवतीत्याह सर्वस्येति ।। ९६१ ।।
युक्तिमल्लिका
यतो ह्यभावविषयं न प्राहुर्निर्विकल्पकम् ।
सर्वस्याभावधीस्सा स्यात्सर्वज्ञानं तु तत्कथम् ।। ९६२ ।।
सुरोत्तमटीका
सर्वाभावज्ञानं तु सुतरां न घटत इत्याह ।। यत इति ।। अस्मिन्पक्षे दोषान्तरं चाह ।। सर्वस्याभावधीरिति ।। ९६२ ।।
सत्यप्रमोदटीका
निर्विकल्पकवादिभिरपि अभावनिर्विकल्पकं नाङ्गीकृतं चेत्याह यत इति । उपेत्याप्याह सर्वस्येति ।। ९६२ ।।
युक्तिमल्लिका
घटस्य नास्तिताज्ञानं घटज्ञानं हि को वदेत् ।
न चेदद्वैतविज्ञानी परस्यत्वं तु भेददृक् ।। ९६३ ।।
सुरोत्तमटीका
न चेत् अभावज्ञानमभावज्ञानमेव न चेत् । भावज्ञानं च भवेच्चेदित्यर्थः । परः प्रतिवादी ।। ९६३ ।।
सत्यप्रमोदटीका
अशाब्दश्चायं प्रजल्प इत्याह घटस्येति । न चेत् तथात्वेऽपि त्वं वैयात्येन तथा व्यवहरसि चेदतिप्रसङ्गावाह औतेति ।।९६३।।
युक्तिमल्लिका
तदभावकथां वक्तुं तद्भावं कथयेद्धि कः ।
अर्थाभावज्ञमर्थज्ञं वक्ति को वा पुमान्भुवि ।। ९६४ ।।
सुरोत्तमटीका
बाधकान्तरमप्याह ।। तदभावेति ।। अभावाभावस्य भावरूपत्वेन भाव कथायामभावस्यापि निषेध्यतया कथ्यमानत्वात् रावणाभावं वक्तुं रावण सद्भावमेव कथयेदिति भावः । तथा अंजनभूखननादि-प्रयत्नेऽप्यर्थाभावदर्शी अर्थदर्शी स्यात् । एवं च सर्वव्यवहारसांकर्यं स्यादिति भावः ।। ९६४ ।।
सत्यप्रमोदटीका
पुमानिति । एवं प्रलापपरः पशुबुद्धिरिति ध्वनिः ।। ९६४ ।।
युक्तिमल्लिका
किं चैवं सर्वविज्ञानमेकज्ञानाद्यदीष्यते ।
तदा मिथ्याभूतसर्वजगदैक्यं भवेत्सतः ।। ९६५ ।।
सुरोत्तमटीका
अस्मिन्नपि पक्षे मिथ्याभूतजगदैक्यमेव ब्रह्मणः स्यादि-त्याह ।। किं चेति ।। एवं निषेध्यतया । सतः ब्रह्मणः ।। ९६५ ।।
सत्यप्रमोदटीका
जडजगदैक्याङ्गीकारे जडस्य मिथ्यात्वेन सतो ब्रह्मणो मिथ्यात्वापत्तिं प्रागुक्तां स्मारयति तदेति ।। ९६५ ।।
युक्तिमल्लिका
तस्मात्तदेकज्ञानेन सर्वज्ञानं श्रुतीरितम् ।
तव नार्थाय कस्मैचिदनर्थायाभवत्परम् ।
जीवैक्यस्यानुपायत्वाज्जडैक्यस्यैव चागतेः ।। ९६६ ।।
सुरोत्तमटीका
मंदाशङ्कापरिहारमुपसंहरति ।। तस्मादिति ।। तत् अधिष्ठानसामान्यज्ञानेनारोपितज्ञानरूपं जगन्नास्तितारूपबाधज्ञाने निषेध्यतया जगज्ज्ञानरूपं च । अर्थाय जीवैक्यरूपार्थाय । अनर्थाय मिथ्याभूतजगदैक्याय । तदेव विशदयति ।। जीवैक्यस्येति ।। ९६६ ।।
सत्यप्रमोदटीका
अर्थाय जीवैक्यसिद्धिप्रयोजनाय । अनर्थाय भ्रान्त-जडैक्यसिद्धये । तथा च ‘सर्वं खल्विदं ब्रह्म’ इति श्रुतिव्याख्यानोक्त-सर्वदोषाणां तदवस्थतेति घट्टकुटीवृत्तान्तः ।। ९६६ ।।
युक्तिमल्लिका
अतो जैवैक्यमाशास्यं ज्ञाने ज्ञातमिदं जगत् ।
प्रदृश्यमानमखिलं किल किं केन सङ्गतम् ।। ९६७ ।।
सुरोत्तमटीका
अतः अपेक्षिताप्राप्तेरनपेक्षितप्राप्तेश्च किं केन सङ्गतमिति सम्बन्धः ।। ९६७ ।।
सत्यप्रमोदटीका
किञ्च काण्वश्रुतौ ‘सर्वं खल्विदं विज्ञातं’ इति इदं-शब्दः श्रूयते । स च दृश्यमानजडपर एवेति जडैक्यसिद्धिदोषो वज्रलेप इत्याह इदमिति ।। ९६७ ।।
युक्तिमल्लिका
विरुद्धो हेतुरुक्तस्स्यान्मिथ्यात्वस्य तु साधने ।
चरमब्रह्मविज्ञाने सर्वस्य ज्ञातता यतः ।। ९६८ ।।
ब्रह्मवज्जगदेतच्च करोति परमार्थसत् ।
अतः श्रुत्यर्थकथने तवेष्टं नैव सिद्ध्यति ।। ९६९ ।।
सुरोत्तमटीका
दोषान्तरं चाह ।। विरुद्ध इति ।। विरुद्धो हेतुः ब्रह्म-प्रमाविषयत्वरूपहेतुः । दृश्यत्वं हि मिथ्यात्वे हेतुरुक्तः । तच्च जगतः उक्त-रीत्या चरमवृत्तिविषयत्वे प्रमाविषयत्वरूपमेवाभूत् । एवं च ब्रह्मवज्जगत-स्सत्यत्वसाधकत्वेन विरुद्ध इत्यर्थः । एतज्जगत् । इष्टं मिथ्यात्वजीवैक्यादि ।। ९६८,९६९ ।।
सत्यप्रमोदटीका
जगति दृश्यत्वं नाम चरमप्रमाविषयत्वमिति व्याख्याने प्रमाविषयत्वस्य मिथ्यात्वाभावव्याप्तत्वेन दृश्यत्वहेतोर्विरुद्धतैवेत्याह विरुद्ध इति ।। ब्रह्मैक्ये जडस्य परमार्थसत्त्वापत्तिमाह ब्रह्मवदिति ।। ९६८,९६९ ।।
युक्तिमल्लिका
अश्रुतार्थपरं त्वां तु श्रौतार्थो हन्ति धीमताम् ।। ९७० ।।
सुरोत्तमटीका
भावज्ञानस्य अभावज्ञानताया अश्रुतत्वात् अश्रुतार्थपरम् ।। ९७० ।।
सत्यप्रमोदटीका
अश्रुतेति जगदभावेत्यर्थः ।। ९७० ।।
युक्तिमल्लिका
अतस्सत्यत्वचित्त्वाद्यैस्सदृशत्वाच्चराचरम् ।
तदङ्गेष्वाश्रितत्वाद्वा तज्ज्ञाने ज्ञायते जगत् ।। ९७१ ।।
सुरोत्तमटीका
अतः अन्यार्थस्यायोगात् । आद्यपदेनार्थक्रियाकारित्वं नित्यत्वमानन्दादिकं च गृह्यते । सदृशत्वात् हरेस्सदृशत्वात् । चराचरपदेन चेतनाचेतनजगदुच्यते । तदंगेषु तस्य हरेरवयवेषु । तज्ज्ञाने ब्रह्मज्ञाने इत्येवार्थ इति शेषः ।। ९७१ ।।
सत्यप्रमोदटीका
धीमतामर्थमाह अत इति । सादृश्याभिव्यञ्जकं च सत्यत्वं साधारणम् । चित्त्वं जीवेषु । आदिपदेन मुक्तियोग्येषु इति यथायथं ग्राह्यम् ।। ९७१ ।।
युक्तिमल्लिका
दृष्टैकधूमसादृश्याद्धूममात्रस्य धीर्न किम् ।
व्याप्तिग्रहाय तच्छब्दवाच्यत्वस्य ग्रहाय वा ।। ९७२ ।।
सुरोत्तमटीका
सादृश्यादेकविज्ञानेन सर्वविज्ञानं सर्वजनसंप्रतिपन्न-दृष्टान्तमुखेन दर्शयति ।। दृष्टेति ।। दृष्टस्यैकधूमस्य सादृश्यात् एतन्निष्ठसकल-धूमप्रतियोगिक सादृश्यादित्यर्थः । वस्तुस्थित्या आकारादिना अस्यातीता-नागत सकलधूमसदृशत्वादिति यावत् । तच्छब्दो धूमशब्दः । एकधूमदर्शने हि स्वाकार सदृशाकारत्वरूपसादृश्यप्रत्यासत्त्या सर्वे धूमाः व्याप्तिग्रहाय संकेतग्रहाय वा गृह्यन्त इति सर्वेषामविवादम् । सामान्यप्रत्यासत्त्येति वदं-स्तार्किकोऽपि एक ज्ञानेन सर्वज्ञानमङ्गीकरोत्येव । अभावसाध्यकव्याप्तिग्रहाय अभावादि पदसंकेतग्रहाय च सादृश्यस्यैव प्रत्यासत्तितया तेनापि वक्तव्यत्वात् । सर्वत्रापि सैव प्रत्यासत्तिरस्तु । किं च वराहादिपरीक्षां बोधयन्तोऽपि रूपरेखाभारादिनैव बोधयन्ति । ते पुनस्सर्वत्र तादृशरेखादिभिरेव वराहत्वबुद्धिं कुर्वन्ति । विलक्षणरेखादिना तु तद्बुद्धिं त्यजन्तीति आपणवीथीस्था अपि जानन्ति । रेखादिकं विना केवलं वराहत्वजात्या न कस्यापि क्वचिद्बोधः । अतोऽन्वयव्यतिरेकाभ्यां सादृश्यस्यैवोपस्थापकत्वमुचितम् ।
किं च जातेराधारमात्रमलम् । आधारनियमवती च जातिः कंचिदाधारमेव ज्ञापयेत् । आकारविशेषबोधने कथं तस्याः शक्तिः । यदि च एकत्र यादृशाकारवति सा दृष्टा अन्यत्रापि तादृशाकारवानेवाधारो भवेदिति नियमः । अतस्तमपि बोधयतीति मन्यसे तर्हि यादृशतादृशशब्दार्थस्य सादृश्यत्वेन जातिवादिनापि व्यक्तिगतसादृश्यस्यैव पुरस्कर्तव्यत्वात् सैव प्रत्यासत्तिरस्तु । लाघवात्सर्वानुभवसिद्धत्वाच्च । अपि च मुखप्रतिभासाय दर्पणादिना प्रतिमुखं पश्यंस्तार्किकोऽपि सदृशस्य सदृशान्तरोपस्थापकत्वं कथं न मनुते । न हि तदेव तत् । प्रतिमुखत्वात् । नापि मुखत्वजातिमत् । येन जात्यैवोपस्थापकं स्यात् । प्रतिमुखत्वादेव । अतस्साधूक्तं दृष्टैकधूमसादृश्यादिति ।। ९७२ ।।
सत्यप्रमोदटीका
दृष्टेति । समर्थितं चैतत् ‘इति व्युत्पत्तिरपि हि सादृश्येनैव गम्यते’ इत्यनुव्याख्यानव्याख्यासुधायां वैशेषिकनये । व्युत्पत्तिः व्याप्तेः कार्यकारणभावस्य, लक्ष्यलक्षणभावस्य च उपलक्षणम् ।। ९७२ ।।
युक्तिमल्लिका
नानालङ्कारगन्धाद्यैरलङ्कृतनिदर्शने ।
तदलङ्कारगन्धादिदर्शनं च न किं नृणाम् ।। ९७३ ।।
सुरोत्तमटीका
सर्वाधारहरिदर्शने सर्वस्य ज्ञानमित्यत्रापि दृष्टान्तमाह ।। नानालङ्कारेति ।। ९७३ ।।
सत्यप्रमोदटीका
आश्रितत्वादित्युक्तं उपपादयति नानाऽलङ्कारेति ।। ९७३ ।।
युक्तिमल्लिका
अद्भुतानीह यावन्ति भूमौ वियति वा जले ।
त्वयि विश्वात्मके तानि किं मेऽदृष्टं विपश्यतः ।। ९७४ ।।
इत्युक्रूरवचः पश्य विश्वरूपं च तं स्मर ।
शिशोर्यस्य किलास्ये प्रागपश्यद्विश्वमम्बिका ।। ९७५ ।।
सुरोत्तमटीका
अस्मिन्नर्थे प्रमाणं चाह ।। अद्भुतानीति ।। इहेत्यस्य विवरणं भूमावित्यादि । सर्वात्मके सर्वमात्मनि यस्य सः सर्वात्मा । स्वार्थे कप्रत्ययः । तानि अद्भुतानि सन्तीत्यर्थः । सर्वात्मकपदस्य सर्वस्वरूप-त्वार्थकत्वे त्वयि तानीत्युक्ताधाराधेयभावायोगात् उक्त एव विग्रहः । अतः सर्वाधारं त्वां विपश्यतः मे अदृष्टं किं न किमपि । तवदर्शने त्वदङ्गाश्रित-सर्वस्यापि दृष्टत्वादिति वाक्यार्थः । एवं च एकविज्ञाने सर्वविज्ञानस्य कानु-पपत्तिरिति भावः । विश्वरूपं विश्वं आपातालं जगत् स्वाङ्गे रूपयति प्रकाश-यतीति विश्वरूपं तं नारायणम् । अणुरूपे विश्वरूपाभावशङ्कां परिहरति ।। शिशोरिति ।। अंबिका यशोदा ।। ९७४,९७५ ।।
सत्यप्रमोदटीका
सर्वात्मके सर्वाधारे । सर्वं आत्मनि मय्येवेति विग्रहः। आत्मशब्दस्य स्वरूपार्थकत्वे त्वयीति अधिकरणसप्तमीविरोधः ।। अम्बिका यशोदा ।। ९७४,९७५ ।।
युक्तिमल्लिका
त्वयि दृष्टेऽखिला दृष्टा इति ग्रामेश्वरं नरम् ।
अन्यदर्शनजन्यस्य फलस्याप्यत्र सम्भवात् ।। ९७६ ।।
यथा वदन्ति सर्वेषां हरिं सर्वेश्वरं तथा ।
महाफलप्रदातारं प्रशंसति महाप्रभुम् ।। ९७७ ।।
सुरोत्तमटीका
भगवतस्स्वातन्त्र्यमादायापि एकविज्ञानेन सर्वविज्ञानं घटयितुं दृष्टान्तमाह ।। त्वयीति ।। अन्यदर्शनजन्यस्य अप्रधानपुरुषान्तर-दर्शनजन्यस्य । अत्र प्रधानपुरुषदर्शने सति यथा वदन्तीति पूर्वेणान्वयः । सर्वेषां महाफलप्रदातारं प्रशंसति । भगवद्विज्ञानादेव सर्वं ज्ञातं भवतीति स्तौति ।। ९७६,९७७ ।।
सत्यप्रमोदटीका
‘प्रधानपुरुषज्ञानाद्ग्रामो ज्ञात इति व्यपदेशोऽस्ति’ इति भगवत्पादोक्तिं हृदि कृत्वाऽऽह त्वयीति ।। सर्वेश्वरस्य हरेर्ज्ञाने अप्रधानभूतदेवतादिज्ञानसिद्धिरित्येतदेव एकविज्ञानेन सर्वविज्ञानोक्तेरभिप्रायः न तु अभेदो न वा मिथ्यात्वं इत्याह महाफलेति ।। ‘ज्ञानादेव सर्वे कामाः सम्पद्यन्ते’ इति श्रुतेः ‘तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः’ इति स्मृतेश्च । (न्या.२८४) अङ्गीकृतश्च सर्वविज्ञानस्य ज्ञातार्थं फलफलिभाव एवेति औत-भाष्यकारेणापि ‘सर्वान् अपि वेदानधीत्य सर्वं चान्यद्वेद्यमधिगम्याप्यकृतार्थ एव भवति यावदात्मतत्त्वं न विजानाति इत्याख्यायिकातोऽवलभ्यते इति शां.भा. । अत्र विस्तरः भेदपराण्येव खलु ब्रह्मसूत्राणि इति ग्रन्थे (प.९०-९१) ।। ९७६,९७७ ।।
युक्तिमल्लिका
अमुख्योऽर्थोऽपि मुख्यार्थगुणलाभाय कथ्यते ।। ९७८ ।।
सुरोत्तमटीका
ननु तर्हि सर्वस्य ज्ञाने यत्फलं तद्भवतीत्यनुक्त्वा सर्वस्य ज्ञानं भवतीति श्रुतौलाक्षणिकप्रयोगः किं निमित्त इत्यतः सर्वत्र लाक्षणिकाद्य-मुख्यप्रयोगस्य बीजमाह ।। अमुख्य इति ।। मुख्यार्थगुणलाभायेत्यमुख्यार्थ गुणलाभस्याप्युपलक्षणम् । प्रकृते मुख्यार्थभूते सर्वज्ञाने भगवज्ज्ञानाद-प्रधानत्वाख्यगुणलाभात्स एवोक्तः । गङ्गायां घोष इत्यादौ अमुख्यार्थेऽपि गुणलाभः
।। ९७८ ।।
सत्यप्रमोदटीका
श्रुतावमुख्यप्रयोगस्य प्रशंसैव प्रयोजनमित्याह अमुख्येति ।। ९७८ ।।
युक्तिमल्लिका
गङ्गापदेन तीरस्य लक्ष्यत्वे तस्य तत्पदात् ।
पावित्र्यमपि यत्सिद्ध्येद्वाक्यं च लघु जायते ।। ९७९ ।।
सुरोत्तमटीका
तदेव दर्शयति ।। गङ्गापदेनेति ।। तस्य तीरस्य । तत्पदात् गङ्गापदात् । लक्ष्यत्वे यद्यस्मात् । तर्हि गङ्गातीरे घोष इत्याद्येव वाक्यमस्तु । कस्मादमुख्यवृत्तिराश्रीयत इत्यत आह ।। वाक्यं चेति ।। ९७९ ।।
सत्यप्रमोदटीका
शब्दलाघवेन बह्वर्थबोधाय एवंविधोऽमुख्यप्रयोगो लोकसिद्ध इत्याह गङ्गेति ।। ९७९, ९८० ।।
युक्तिमल्लिका
यदल्पपदवाक्येन बहोर्मुख्यार्थयोगिनः ।
अर्थस्य वक्त्री तद्वृत्तिरियं लोकमता मता ।। ९८० ।।
सुरोत्तमटीका
यद्यस्मात् । मुख्यार्थयोगिन इति प्रकृतापेक्षया । अर्थस्य प्रयोजनस्य । तत्तस्मात् । गङ्गातीरे घोष इत्यतो गङ्गायां घोष इत्यस्य सिंह-सदृशो देवदत्त इत्यस्य सर्वज्ञानफलं भवतीत्यतस्सर्वं ज्ञातमित्यस्य च लघुत्वात् वाक्यलाघवाय गुणलाभाय चामुख्यावृत्तिरिति भावः ।। ९८० ।।
युक्तिमल्लिका
किं च ब्रह्मणि विज्ञाते सति तस्य प्रसादतः ।
सार्वज्ञं जायते नृणामिति सर्वस्य सम्मतम् ।। ९८१ ।।
सुरोत्तमटीका
श्रुतेरतिस्पष्टमर्थान्तरं चाह ।। किं चेति ।। नृणां सनक-नारदादीनाम् । इति इदं प्रमेयम् ।। ९८१ ।।
सत्यप्रमोदटीका
अथवा रूढोपचारोऽयं इति न प्रयोजनगवेषणमित्याह किं चेति । ‘यो मामेवमसंमूढो जानाति पुरुषोत्तमम् । स सर्वविद् इति भगव-त्प्राधान्यज्ञानिनः सर्वज्ञत्वव्यवहारात् । सर्वज्ञत्वं च तत्तद्योग्यमेवेति अन्यदेतत् ।। ९८१,९८२ ।।
युक्तिमल्लिका
अतः श्रुतिरियं साध्वी ब्रवीत्यखिलसम्मतम् ।
इदमेवार्थमित्यासीत्सर्वं श्रुतिमनोहरम् ।। ९८२ ।।
सुरोत्तमटीका
अतस्सर्वजनसंमतत्वात् । इति अनेन प्रकारेण । सर्वं प्रमेयम् ।। ९८२ ।।
युक्तिमल्लिका
सर्वकर्तृत्वसार्वज्ञसर्वेशत्वादिसद्गुणैः ।
सहितस्य हरेर्ज्ञाने सर्वं च ज्ञायते यतः ।। ९८३ ।।
सुरोत्तमटीका
अर्थान्तराणि चाह ।। सर्वकर्तृत्वेति ।। ९८३,९८४ ।।
सत्यप्रमोदटीका
सर्वकर्तृत्वेति । कर्तृत्वादिविशेषणतया सर्वस्य सामान्यतः तत्तद्योग्यतानुरोधेन ज्ञानादिति भावः ।। ९८३ ।।
युक्तिमल्लिका
अतोऽप्येकस्य विज्ञाने सर्वज्ञानं भवेन्मम ।
निर्विकल्पकचिन्मात्रज्ञाने तेऽज्ञ कुतोऽन्यदृक् ।। ९८४ ।।
सत्यप्रमोदटीका
ममेति ‘विष्णोः सर्वोत्कर्ष एव सर्वागमानां महा-तात्पर्यं’ इत्यङ्गीकारिणः । ते इति । निर्विकल्पकज्ञानमेवालीकम् । तद्विषय-तया अन्यज्ञानप्रत्याशा त्वतिदूरे इति भावः ।। ९८४ ।।
युक्तिमल्लिका
बर्हिष्मन्नेतदाख्यानं परोक्षेण प्रकीर्तितम् ।
यत्परोक्षप्रियो देवो भगवान्विश्वभावनः ।। ९८५ ।।
इति भगवतोक्त्या च क्वचिद्वाग्वृत्तिरीदृशी ।
श्रुतीनां च स्मृतीनां च तत्त्वं गूहयितुं महत् ।। ९८६ ।।
सुरोत्तमटीका
मम मते श्रुतीनां स्मृतीनां च प्रायो निगूहितार्थत्वमेव स्वभावः । अतस्सर्वत्र विरुद्धापातार्थे भरो न कर्तव्य इत्यत्र प्रागुक्तस्मृतिं स्मारयति ।। बर्हिष्मन्निति ।। ९८५,९८६ ।।
सत्यप्रमोदटीका
अमुख्यवृत्तेः प्रयोजनमुक्तम् । त्वादृशानां तमो-योग्यानां मोहनमपि ज्ञानाङ्कुरसंरक्षणायापरं प्रयोजनमित्याह गूहयितुमिति
।। ९८५,९८६ ।।