सर्ववस्त्वात्मकत्वं च यदनन्तत्वमीरितम्

श्रीमद्वादिराजतीर्थश्रीमत्पूज्यचरणविरचिता युक्तिमल्लिका

भेदसौरभम्

युक्तिमल्लिका

अनन्तशब्दार्थः

सर्ववस्त्वात्मकत्वं च यदनन्तत्वमीरितम् ।

तदयुक्ततमं मन्ये युक्तायुक्तविचारणे ।। १ ।।

श्रीमद्वादिराजतीर्थचरणारविन्दचंचरीक सुरोत्तमभिक्षुविरचितायां युक्तिमल्लिकाटीका भेदसौरभम्

सुरोत्तमटीका

अधुना विष्णोर्जीवजडात्मकप्रपञ्चादत्यन्तभिन्नतां साधयितुं तृतीयसौरभ-मुपक्रमते ।। सर्ववस्त्वात्मकत्वं चेति ।। सत्यं ज्ञानमनन्तं ब्रह्मेति श्रुतौ विद्यमानमनन्तत्वं सर्ववस्त्वात्मकत्वमिति यदुच्यते तदिति सम्बन्धः । मायावादिनोह्यनन्तशब्दस्य देशतः अन्तराहित्यं कालतः अन्तराहित्यं वस्तुतः अन्तराहित्यं चेत्यनन्त शब्दार्थः । तत्र वस्तुतोऽन्तराहित्यं नाम सकल-वस्तुभेदराहित्यमिति वदन्ति । तदयुक्ततममिति भावः ।। १ ।।

श्री सत्यप्रमोदतीर्थश्रीचरणविरचिता विवृतिः

सत्यप्रमोदटीका

रामं दिग्विजयं सुनिर्मलतनुं विभ्राजमानं सदा

श्रीसीतायुतमूलरामममलं सद्वंशरामं तथा ।

व्यासं विठ्ठलमप्रमेयसुसुखं मध्वं जयीन्द्रं गुरून्

अन्यान्मद्गुरुमानमामि सततं मद्योग्यसौख्याप्तये ।।

अथैतेषां कृपालेशमुपजीव्यैव केवलम् ।

बुद्धिशुद्ध्यै यथाबोधं विवृण्वे भेदसौरभम् ।।

भगवतो, गुणैः सर्वैरुदीर्णत्वं, दोषवर्जितत्वं च सौरभद्वयेन समर्थितम् । एवं वस्तुनिर्णये सञ्जाते किं मया कार्यमिति अधिकारिणः बुद्धिरुत्पद्यते । अथेदानीं तस्योपासना नित्यमादरेण कर्तव्येति विधीयते । सा च विष्णोर्जीव-जडात्मकात्प्रपञ्चादत्यन्तभिन्नत्वनिश्चये सत्येव सञ्जाघटीति । सः अत्यन्तभेदः सौरभेऽस्मिन् सौत्रयुक्तिभिरुपपाद्यत इति पूर्वसङ्गतिः स्वस्मिन्नेकवाक्यता च ।

सत्यं ज्ञानमनन्तं’ इति मन्त्रवर्णोक्तमनन्तत्वलक्षणं

देशतःकालतश्चैव गुणतश्च त्रिधा ततिः ।

 सा समस्ता हरेरेव न ह्यन्ये पूर्णसद्गुणाः ।’

इति प्रमाणेन परिष्कृतम् । मायिभिः तत्त्वप्रदीपिकायां अनन्तशब्दस्यार्थः अन्यथैव वर्णितः । अन्तशब्दस्य देशकालवस्तुपरिच्छित्वे व्युत्पन्नत्वात् ब्रह्मणि तन्न भवतीत्युक्ते सर्ववस्त्वभेद एव तस्य लभ्यते इति । तदेतदपाकरोति सर्ववस्त्वात्मकत्वमित्यारभ्य तत् त्रिवर्णं पदमिदं त्रिविक्रमपदोपममित्यन्तैः द्वानवतिश्लोकैः ।। अयुक्ततममिति । स्वमतविरुद्धत्वात् पूर्वोत्तरविरोधात् प्रमाणान्तरविरोधाच्चेति भावः ।। १ ।।

युक्तिमल्लिका

समस्तवस्तुरूपत्वं न तावत्स्वस्य शोभते ।

जडानृतविरोधित्वं यद्ब्रह्मणि जगौ स्वयम् ।। २ ।।

सुरोत्तमटीका

 कुतो नयुक्तमित्यत आह ।। समस्तेति ।। ‘‘अनृतजड-विरोधिरूपमन्तत्रयमलबन्धन दुःखताविरुद्धमिति ग्रन्थे ब्रह्मणोनृतसमस्तवस्तु-विरोधित्वकथनात् इदानीं समस्तवस्तुभेदराहित्य’’कथनमिदं स्वमतविरुद्ध-त्वादयुक्तमिति भावः

।। २ ।।

सत्यप्रमोदटीका

 स्वमतविरुद्धत्वं उपपादयति समस्तेति । समस्त-वस्तुरूपत्वम् । मायिना स्वभाष्ये अनन्तशब्दार्थतया वर्णितमिति शेषः । स्वस्य– मायिभाष्यकारस्य ।। न शोभते इति सुकुमारोक्तिः ।। व्याघात-दोषापादकतया लज्जाकरमिति भावः ।। अनृतविरोधतामात्रेण सत्यत्वं, जडविरोधितामात्रेण च ज्ञानत्वं ब्रह्मणः कथयन् अनृतात्मकतां जडात्मकतां च कण्ठोक्त्या प्रतिषिध्य पुनः तत्तद्वस्त्वात्मकं अनन्तशब्दार्थत्वेन आचक्षाणः कथं न व्याहतभाषी भवेदिति भावः ।। २ ।।

युक्तिमल्लिका

श्रुतिः प्राग्ज्ञानमित्याह यतस्तज्जडरूपता ।

न तस्याश्च मता नापि शब्दस्य हृदयङ्गमा ।। ३ ।।

सुरोत्तमटीका

 दूषणान्तरं चाह ।। श्रुतिरिति ।। यतश्श्रुतिः सत्यं ज्ञानमनन्तमिति श्रुतिः । प्राक्पूर्वभागे ज्ञानमिति ज्ञानरूपतामाह । तत्तस्मा-त्तस्याश्श्रुतेः । उपलक्षणं चैतत् । सत्यमिति ब्रह्मणः प्राक् सत्यत्वोक्ते-रधुनाऽनृतजगद्रूपत्वाङ्गीकारे परमते श्रुतिविरोधश्चेत्यपि द्रष्टव्यम् । दोषान्तरं च वक्तुमारभते ।। नापीति ।। शब्दस्यानन्तशब्दस्य । हृदयङ्गमा अभिप्रेता ।।३।।

सत्यप्रमोदटीका

 पूर्वोत्तरविरोधमुपपादयति श्रुतिरिति । प्राक्= अनन्तत्वकथनात् पूर्वम् । ज्ञानमित्युपलक्षणं सत्यमित्यपि ग्राह्यम् । एवं यतः उत्तरत्र गुणपूर्तिवाचिब्रह्मशब्देन लक्ष्यमाह । तत्=तस्मात् । तस्य ब्रह्मण इति वा । जडरूपता=अनृतरूपता, अपूर्णता च । तस्याः=श्रुतेः । न मता= पूर्वोत्तरविरोधप्रसङ्गान्न विवक्षिता ।। शब्दस्य=अनन्तेत्यस्य हृदयङ्गमा= व्युत्पत्तिबललभ्या । अन्तशब्दस्य त्वदुक्तवस्तुतः परिच्छेदरूपेऽर्थेऽभिधानाद्य-भावादिति भावः ।। ३ ।।

युक्तिमल्लिका

यद्देशतो व्याप्तिमाह देशतस्सोन्तशून्यताम् ।

कालतो व्याप्तिमाचष्ट कालतश्चान्तशून्यताम् ।। ४ ।।

सुरोत्तमटीका

 कुत इत्यत आह ।। यदिति ।। यद्यस्मात्स शब्दः देशतोन्तशून्यतां देशतोव्याप्तिमाह । तथोक्तयापीममेवार्थमाहेति यावत् । अन्तोह्यवधिः । तच्छून्यतानाम सकलदेशवर्तित्वरूपव्याप्तिरेवेति भावः । कालतोन्तशून्यतां च कालतोव्याप्तिमाचष्टेति योजना । भावस्तुपूर्ववदेव ।।४।।

सत्यप्रमोदटीका

 देशतः अन्तशून्यत्वं नाम परममहत्परिणामवत्त्वम् । एवं कालतः अन्तशून्यत्वं नाम अनादिनित्यत्वम् । एतदुभयाभिधानेन ब्रह्मणः अणुमध्यमपरिमाणवद्भ्यः तथा आद्यन्तवद्वस्तुभ्यो भेदः स्फुटमुक्तः । पुनः त्वदुक्तरीत्या वस्तुतः परिच्छेदराहित्यकथनेन पूर्वोक्तवस्त्वभेदोक्तौ श्रुतेः स्वव्याघातेनाप्रामाण्यं स्यादित्याह द्वाभ्यां यदित्यादिना ।। ४,५ ।।

युक्तिमल्लिका

विभोस्तदणुरूपत्वं नित्यस्यानित्यरूपताम् ।

कथं पुनरसौ ब्रूयान्न हि सस्वात्मघातकः ।। ५ ।।

सुरोत्तमटीका

 तत्तस्माद्विभोस्सकलदेशव्याप्तत्वापरपर्यायमहापरिमाणस्य अणुरूपत्वमणुपरिमाणघटपटादिरूपत्वं नित्यस्य सकलकालव्याप्तत्वापरपर्याय नित्यत्ववतोऽनित्यरूपतामनित्यघटपटादिरूपतां चासावनन्तशब्दः पुनर्देश-व्याप्तत्वकालव्याप्तत्वकथनानन्तरमेव कथं ब्रूयादिति सम्बन्धः । पूर्वार्धद्वये व्याप्तत्वनित्यत्वे उक्त्वा तृतीयार्धेऽस्मिंस्तद्विरुद्धमण्वनित्यपदार्थैक्यं च कथं स शब्दः सङ्घटयेदिति भावः । तत्र हेतुः सशब्दस्स्वात्मघातको नहीति । स्वोक्तार्थघातकोपि स्वाप्रामाण्यहेतुत्वात्स्वघातक एवेति भावेनोक्तं स्वात्म-घातक इति । पूर्वोत्तरविरुद्धार्थभाषित्वात् शब्दस्य स्वघातकत्वेना प्रामाण्यं स्यादतोनायं शब्दस्याप्यभिमतोर्थ इति भावः । अत्र चाणुत्वमहत्त्वप्राप्त्या नित्यत्वानित्यत्वप्राप्त्याचविरोधद्वयं द्रष्टव्यम् ।। ५ ।।

युक्तिमल्लिका

देशकालव्याप्ततोक्त्या यत्तद्भिन्नमभूत्पुरा ।

कथं पुनर्वस्तुरूपात्तत एव तदेकता ।। ६ ।।

सुरोत्तमटीका

 विरोधान्तरं चाह ।। देशेति ।। यद्ब्रह्म देशकाल-व्याप्तत्वोक्तया पुरा पूर्वमर्थद्वयकथनसमये तद्भिन्नं देशकालाभ्यां भिन्नं व्याप्य-व्यापकयोर्भेदावश्यंभावादिति भावः । पुनर्वस्तुरूपात् तत एव देशकालत एव । तदेकता तस्य ब्रह्मणः एकता । स्यादिति शेषः । सकलवस्त्वात्मकत्व कथने वस्तुरूपतन्मध्यपतितगगनकालैक्यस्याप्युक्तत्वादिति भावः । देशकाल-व्याप्तत्वोक्तिदशायां ब्रह्मणो देशकालभेदमुक्त्वा पुनस्सकलवस्त्वात्मकत्वोक्ति दशायान्ताभ्यामेव देशकालाभ्यामैक्यकथनाच्च पूर्वोत्तरविरोध इति साक्षाद्वाचनिकतयातिप्रबलं विरोधान्तरं द्रष्टव्यम् ।। ६ ।।

सत्यप्रमोदटीका

 किं च तिष्ठतु तावदितरवस्तुभेदनिषेधः । व्याप्तेः भेदसापेक्षतया देशकालयोः ब्रह्मणो व्याप्तत्वोक्त्या ताभ्यामेव भेदः परेणाङ्गीकार्य इत्याह देशेति ।। ६ ।।

युक्तिमल्लिका

सकृच्छतान्तशब्देन परिच्छेदं स्थलद्वये ।

वदंस्तदैवभेदं च कथमेकत्र वक्ति सः ।। ७ ।।

सुरोत्तमटीका

 दोषान्तरमप्याह ।। सकृच्छतेति ।। स्थलद्वये देशेकालेच । तदैव परिच्छेदकथनकाल एव । एकत्र वस्तुतो भेदराहित्यकथन-स्थले । सः अनन्तशब्दः । सकलवस्त्वात्मकत्वकथनसमयेऽन्तशब्देन भेदस्यैव वक्तव्यत्वादिति भावः ।। ७ ।।

सत्यप्रमोदटीका

 किं चात्रानन्तशब्दघटकोऽन्तशब्दः सकृदेव श्रुतः । तस्य च तथा स्थलद्वये परिच्छेदोऽर्थः एकत्र भेदरूपोऽर्थः आश्रितः । तत्र प्रष्टव्यं किमेष सकृदेवार्थद्वयं वक्ति उत विलम्बेन । आद्यमाक्षिपति कथमिति ।। ७ ।।

युक्तिमल्लिका

न हि द्विजिह्वः शब्दोऽसौ नापि त्रिक्षणवर्तिनः ।

विरम्य व्यापृतिर्युक्ता नापि सा विदुषां मता ।। ८ ।।

सुरोत्तमटीका

 कुतो न वक्तीत्यत आह ।। नहीति ।। असावनन्त-शब्दः । द्विजिह्वः द्वे जिह्वे यस्येति व्युत्पत्त्याद्विजिह्वो नहि । एकदैकमेवार्थं शब्दोवक्तीति तावत्स्वभावः । तथा च स्थलद्वयेपरिच्छेदाख्यमर्थमन्तशब्देन वदंस्तदैवान्यत्र भेदमपि वक्तुं जिह्वाद्वयवत्त्वे सति प्रभवति । अन्यथा नेति विनोदितोक्तिरियम् । ननु सकृत्प्रयुक्त एव शब्दः प्राक्परिच्छेदमुक्त्वानन्तरम्भेदं च स एव वदतु को दोष इत्यत आह ।। नापीति ।। विरम्य एकार्थकथनं समाप्य व्यापृतिः तदनन्तरमर्थान्तरकथनव्यापार इत्यर्थः । त्रिक्षणावस्थायिन-श्शब्दस्य तदयोगादिति भावः । अस्माकं मते शब्दस्य नित्यत्वेऽपि व्यञ्जकध्वनौ सत्येवार्थकथनाख्य फलाङ्गोकारात् । तस्य च त्रिक्षणावस्थायि-त्वात् दोषोयं समान इति द्रष्टव्यम् ।सा विरम्यव्यापृतिः।।८ ।।

सत्यप्रमोदटीका

 तत्र हेतुः न हीति । द्विजिह्वः=व्याहतभाषी । अन्यत्र सर्पः । ‘द्विजिह्वौ सर्पसूचकौ’ इति अमरः । द्वितीये दोषमाह विरम्य व्यापृतिरिति । पूर्वं परिच्छेदमर्थं उक्त्वा पश्चाद्भेदरूपार्थकथनस्य विलम्बित-त्वेन आशुतरविनाशिपदस्य तदयोगादिति भावः । यतः स्थित्वा स्थित्वा व्यापारः चेतनधर्मः स चाचेतने शब्दे न सम्भवतीति भावः । यत्र ‘अन्नात् पुरुषः’ ‘स वा एष पुरुषोऽन्नरसमयः’ इत्यत्र अन्नशब्दस्य प्रसिद्धान्नपरमात्म-रूपार्थद्वयाश्रयणं तत्र नान्नशब्दः सकृत्पठितः । नाप्येकया वृत्त्या । परमात्मनि परममुख्यवृत्तेः अन्यत्र हीनमुख्यवृत्तेराश्रितत्वात् । रसशब्देन विशेषणरूपज्ञापकसद्भावात् । ‘अद्यतेऽत्ति च भूतानि’ इति श्रुत्यैवार्थान्तरस्य निर्वचनात् । प्रकृते तु नैवम् । त्वया तस्यैव पदस्य विशेषणं विनाऽपि, एकयैव वृत्त्या, अन्तरेणैव निर्वचनाभिधानादिज्ञापकं, परस्परव्याहतस्यार्थ-द्वयस्य, युगपदेव स्वीकारात् । तदेतदाह नापीति ।। ८ ।।

युक्तिमल्लिका

देशकालान्तशून्यत्वं देशकाले च वर्तनम् ।

यथा वस्त्वन्तशून्यत्वं तथा वस्तुषु वर्तनम् ।

भवेत्परं द्विधा नैकपंक्तौ यत्परिवेषणम् ।। ९ ।।

सुरोत्तमटीका

 कस्तर्हिवस्तुतोऽनन्तत्ववादिनोमते युक्तार्थ इत्यतः प्रसङ्गात्तमप्याह ।। देशकालेति ।। देशे काले च वर्तनं यथा तथेति सम्बन्धः । वस्तुषुसकलवस्तुषु । परं केवलम् । देशकालान्तशून्यत्वं यथा सकलदेश-कालवर्तित्वं तथा वस्तुतोन्तशून्यत्वमपि सकलवस्तुषु वर्तनमेवस्यात् । परिच्छेदशून्यत्वस्य त्रिषु स्थानेष्वपि एकविध्येन भाव्यत्वादिति भावः । यद्यस्मात् । एकपङ्क्तौभोक्तॄणां लोके द्विधा प्रकारद्वयेन परिवेषणमन्नशाकादि-दानं न उचितं न निषिद्धमिति यावत् । तस्मात्तद्वत्स्थलद्वयेऽन्तशब्देन योऽर्थः कथितस्स एवापरत्रापि कथनीयः । अन्यथाप्रायपाठविरोधादिति भावः ।।९।।

सत्यप्रमोदटीका

 ‘मय्यनन्तगुणेऽनन्ते’ इति श्रुत्याद्यनुसारेण अत्र गुणतोऽनन्तत्वमेव लक्षणमभिप्रेतम् । तुष्यत्विति न्यायेन परोक्तं वस्तुनोऽ-नन्तत्वमर्थमभ्युपगम्यापि तदन्तशून्यत्वमित्यस्य, तत्र सर्वत्र वर्तनं, तदशेषा-धारत्वं वा लोकानुगुणं अर्थद्वयं उपपाद्य तेनैव सिद्धान्ताभिप्रेतमर्थं साधयति द्वाभ्यां देशेत्यादिना ।। देशकालौ देशतः कालतश्चान्तशून्यावित्युक्त्या तयोः सर्वदेशकालयोर्वर्तनरूपं व्याप्तत्वमेव लभ्यते । एवं परमात्मनः वस्तुतोऽन्त-शून्यत्वोक्त्याऽपि सर्ववस्तुषु वर्तनरूपं सर्ववस्तुव्याप्तत्वमेव श्रुत्यविरुद्धो लोकानुरोधी च मनोहरोऽर्थोऽस्तु । किं भेदराहित्यरूपदुरर्थोक्तिदुर्व्यसनेन । एवं सति प्रायपाठविरोधोऽपि परिहृतः स्यादित्याह द्विधेति ।। ९ ।।

युक्तिमल्लिका

बहुवस्त्वाश्रयत्वं वा भवेल्लोकनिदर्शनात् ।

रत्नतोऽनन्त इत्याहुर्यतो रत्नाकरं जनाः ।

तथा गुणानन्तता च स्याद्गुणैः पूर्णता हरेः ।। १० ।।

सुरोत्तमटीका

 सम्भावितमर्थान्तरं चाह ।। बहुवस्त्विति ।। बहुवस्त्वा-श्रयत्वं अपरिच्छिन्नवस्त्वाधारत्वं वा भवेत् अनन्तशब्दस्यार्थो भवेत् लोक-निदर्शनात् लौकिकदृष्टान्तात् । तदेवदर्शयति ।। रत्नत इति ।। यतः यस्मा-ज्जनाः रत्नाकरं सकलरत्नाधारं समुद्रं रत्नतोऽनन्त इत्याहुः । यथारत्नतोऽनन्त इत्युक्ते सकलरत्नाधार इत्यर्थोभवति तथा वस्तुतोनन्त इत्युक्ते सकलवस्त्वाधार इत्यप्यर्थो भवति । परिच्छेदशून्यत्वं हिशब्दलभ्योर्थः । वस्तुत इति च योग्यतया गृह्यते । तच्च सकलवस्तुषु ब्रह्मणः परिच्छेदाभावे वा सकलवस्तूनां ब्रह्मणि परिच्छेदाभावे वा स्यादेव । वस्तुपरिच्छेदाभावस्योभयथापि सम्भवात् । सकलवस्तुभेदशून्यत्वं तु नशब्दस्य प्रागुक्तार्थद्वयमर्यादया । नलोकमर्याद-यापीति भावः । प्रासङ्गिकार्थकथनस्य प्रकृतोपयोगमाह ।। तथेति ।। तथा रत्नाकरस्य रत्नतोनन्तत्ववत् । हरेर्गुणानन्तताच । गुणैस्सकलशुभगुणैः पूर्णता सकलशुभगुणाधारतेति यावत् । अनेन देशकालयोरधिकरणयोर्ब्रह्मण आश्रित-त्वाद्गुणेष्वपि ब्रह्मण आश्रितत्वमेवसिद्ध्येत् । गुणानां ब्रह्मण्याश्रितत्वं तु कथं सिद्ध्येदिति चोद्यमपि परिहृतम् । नापि प्रायपाठविरोधः । शब्दपठितस्य परिच्छेदस्य स्थलत्रयेप्यपरित्यागात् । योग्यतया गृहीतस्य वैचित्र्येऽपि तस्य साक्षाच्छब्दतोऽपरिपाठेन प्रायपाठविरोधस्यानवकाशादित्येकं समाधानम् ।।

सत्यप्रमोदटीका

 एवं तदाधारत्वरूपं अर्थान्तरमपि लोकनिदर्शनेन सङ्गमयति बहुवस्त्विति । रत्नतोऽनन्त इत्युक्ते रत्नाकरः समुद्रो बहुरत्नाश्रय इति यथा तथा वस्तुतः अनन्त इत्युक्ते सकलवस्त्वाश्रयत्वमेव लभ्यते । इदं चार्थद्वयं ‘‘यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति’’ इति गीताऽनुरोधीति ध्येयम् । अभ्युपगमेनोक्तार्थद्वयस्य सिद्धान्तार्थोक्त्युपयोगमाह तथेति । गुणैः पूर्णतेति । गुणकर्मकप्रवेशनकर्तृता गुणकर्तृकप्रवेशकर्मता अर्थद्वयानुसारेण ग्राह्या । तदुक्तं सुधायाम् ‘‘असावोङ्कारस्तस्य जिज्ञास्यस्य गुणैरानन्दाद्यनन्त-गुणैर्गुणान्वोततां वक्ति’’ इति ।। १० ।।

युक्तिमल्लिका

अन्तो नेत्येव शब्दार्थस्स तु योग्यो विमृश्यते ।

देशतः कालतश्चान्तो नाम देशाच्च कालतः ।। ११ ।।

परिच्छेदस्स चेयत्ता सा च क्वचिदसङ्गतिः ।

क्वचिच्च सङ्गतिस्ताभ्यां शून्यता सर्वसङ्गमः ।। १२ ।।

सुरोत्तमटीका

 ग्रन्थकारस्त्वेतावदपि वैषम्यमसहमानस्सर्वत्राप्येक प्रकारतामेव विशदयति ।। अन्त इति ।। अन्तो नेत्येव अन्तोनयस्येत्येव शब्दार्थः । अनन्तशब्दपदमर्यादया लभ्योर्थः । सतु शब्दार्थस्तु योग्यः येनयेनान्तशून्यत्वं युज्यते स सर्वोपीत्यर्थः । विमृश्यते विचारमर्यादयाऽऽ-नीयते । नतु शब्दशक्तयैव लभ्यते । विचारलभ्योर्थस्तु विचारे क्रियमाणे यस्य पदार्थस्याधारत्वं स तथैवाऽऽनीयते । यस्य च ब्रह्मण्याधेयत्वं स तु तथैवानीयत इति भावः । तत्र देशकालयोः कथं योग्यतेत्यतस्तां दर्शयति ।। देशत इति ।। स च परिच्छेदश्चेयत्ता । सा क्वचिदसङ्गतिः क्वचिच्चसङ्गतिरिति योजना । कयोश्चिद्देशकालयोरसम्बन्धः कयोश्चिद्देशकालयोस्सम्बन्धश्च देशकालपरिच्छेदो नामेत्यर्थः । ताभ्यां क्वाचित्कदेशकालसम्बन्धक्वाचित्कतद-सम्बन्धाभ्यां शून्यतारहितता तयोरभाव इति यावत् । अयमेव शाब्दः सर्व-सङ्गमः सकलदेशकालसम्बन्धः । अयमार्थः देशेकाले च क्वाचित्कसम्बन्ध-क्वाचित्का सम्बन्धयोरभावोनाम सकलदेशकाल सम्बन्ध एवेत्यर्थतोलब्धः ।। ११,१२ ।।

सत्यप्रमोदटीका

 अस्तु वा ब्रह्मणो देशकालयोराधेयत्वं गुणान्प्रति त्वाधारत्वमिति कथञ्चित्सम्बन्धमात्रे विशेषः । तथाऽपि योग्यतावशादङ्गीकार्य एष तृतीयः गुण एव । तथा सत्येव देशकालगुणव्याप्तिरूपेषु त्रिषु स्थलेष्वपि, अनन्तशब्दस्य परिच्छेदरूपेयत्ताया एकस्यैवार्थस्य, नञा निषेधरूपार्थलाभेन प्रायपाठानुगुण्यम् । देशकालाभ्यां भगवतः सम्बन्धः सयोगः, गुणैस्तु तादात्म्यं इति सम्बन्धे विशेषस्तु यथायोग्यो गुण एव न दोषावह इत्याह पञ्चभिः ।। अतो नेत्यादिना ।। ११-१५ ।।

युक्तिमल्लिका

तत्सर्वदेशकालेषु सम्बन्धोऽनन्तता यथा ।

समस्तगुणसम्बन्धो गुणानन्त्यं तथा विभोः ।। १३ ।।

सुरोत्तमटीका

 तत्तस्मात् । अनन्तता देशकालानन्तता । सकल देशकालसम्बन्ध एव देशकालानन्ततायथेत्यर्थः । तथा विभोर्नारायणस्य गुणानंतत्वं च समस्तगुणसम्बन्ध एव । यथादेशतोनन्त इत्युक्ते समस्तदेश-सम्बन्ध आयाति तथा गुणतोनन्त इत्युक्तेऽपि सर्वगुणसम्बन्ध एवायाति । एतावत्यर्थे न कुत्रापि वैचित्र्यमिति भावः ।। १३ ।।

युक्तिमल्लिका

अतो न पङ्क्तिभेदोऽस्ति पङ्क्तिपावनपंक्तिषु ।

अन्तस्य तन्निषेधस्य सर्वत्रैकविधत्वतः ।। १४ ।।

सुरोत्तमटीका

 अतस्सर्वत्रापि साम्यात् । पङ्क्तिपावनपङ्क्तिषु । पङ्क्ति-पावनानामाचार्याणां पङ्क्तिषु । पङ्क्तिभेदः पङ्क्तौ परिवेष्यमाणान्नभेद इत्यर्थः । यथास्तिकशिरोमणेराचार्यस्य पङ्क्तिषु पङ्क्तिभेदोनास्ति तथाऽऽचार्यैरुच्यमान शब्दार्थेष्वपि प्रायपाठविरोधोनास्तीति ध्वनितोप्यर्थ ऊह्यः । तत्रहेतुमाह ।। अन्तस्येति ।। एकविधत्वतः परिच्छेदरूपत्वेनैकविध्यात्।।१४ ।।

युक्तिमल्लिका

सम्बन्धश्च यथायोगं संयोगो द्रव्ययोस्तयोः ।

गुणानां गुणिनश्चैवं गुणगुण्यात्मता परम् ।। १५ ।।

सुरोत्तमटीका

 सम्बन्धश्च देशकालगुणानां सम्बन्धः । यथा योगं योग्यतामनतिक्रम्य । यत्र यत्र यो योग्यो भवतिस एव ग्राह्य इत्यर्थः । तदेव-दर्शयति ।। संयोग इति ।। आधाराधेयभाव इति यावत् । तयोर्देशकालयोः । परं केवलं गुणगुण्यात्मता गुणगुणिभावाख्यस्सम्बन्धः । आधाराधेयभाव इति यावत् । एवं च देशकालादिभिस्त्रिभिरपि हरेराधाराधेयभाव एवार्थोपि सम्बन्धः। स च क्वचिदाधारत्वपूर्वकः क्वचिदाधेयत्वपूर्व इति न नाम्नापि विशेषः । इयत्ता-रूप परिच्छेदाभावस्सर्वत्रानन्ततेति न कुचोद्यानवकाशः।। १५ ।।

युक्तिमल्लिका

शिशोर्वृद्धस्य यूनश्च यथायोग्यं हि भोजनम् ।

भिन्नभिन्नान्नदाने हि पंक्तिभेदं विदुर्बुधाः ।। १६ ।।

सुरोत्तमटीका

 आर्थेचार्थे ईषद्वैषम्यमात्रान्न प्रायपाठविरोध इत्यत्र दृष्टान्तमाह ।। शिशोरिति ।। यथायोग्यं शिशोरत्यल्पं वृद्धस्याल्पं यूनश्च बहुलं चेत्यर्थः । तर्हि कदापङ्क्तिभेद इत्यत आह ।। भिन्नभिन्नान्नेति ।। एकत्र सदन्नमपरत्र कदन्नं च दीयते चेत् तदापङ्क्तिभेदः ।। १६ ।।

सत्यप्रमोदटीका

 एवंरूपस्य विशेषस्य गुणत्वे लोकानुभवं निदर्शयति शिशोरिति । भिन्नेति । योग्यतामनतिक्रम्येत्यादि ।। १६ ।।

युक्तिमल्लिका

एकान्नस्य यथायोगं दाने को नेति शंसति ।

अतो वस्तुपरत्वोक्तिर्वस्तुतत्वाज्ञतावशात् ।। १७ ।।

सुरोत्तमटीका

 एकस्यैवान्नस्य तत्तद्भोक्त्रनुसारेणदाने न पङ्क्तिभेदः । एवं शब्दार्थ भूतसम्बन्धस्य यत्र यत्र यथा यो वक्तुं शक्यते तथा तथाग्रहणेन प्रायपाठविरोधोपीति भावः । अतः पूर्वोक्तपरिच्छेदभेदाख्यार्थद्वयरूप ग्रहण-दूषणात् । वस्तुपरत्वोक्ति श्श्रुतेर्वस्तुतः परिच्छेदराहित्य परत्वोक्तिरित्यर्थः वस्तुतत्वाज्ञतावशात् । वस्तुनो यथार्थज्ञानाभावादित्यर्थः । वस्तुतः परिच्छेद-राहित्यं सकलवस्त्वात्मकत्वमिति यावत् । परेणोक्तं यत्तत्स्वाज्ञानविजृंभित-मिति भावः । अथवा याऽनन्तश्रुतौ वस्तुपरत्वोक्तिर्वस्तुनस्सकलवस्तुनः परत्वोक्तिः परब्रह्मत्वोक्तिः परेषां सा वस्तुतत्वाज्ञतावशादिति योजना ।।१७।।

सत्यप्रमोदटीका

 वस्तुपरत्वोक्तिः=वस्तुनः प्रपञ्चस्य परत्वोक्तिः परेण ब्रह्मणा भेदनिषेधेन तादात्म्यार्थकथनम् । वस्तुतत्वाज्ञतावशात्=वस्तुनः ब्रह्मणः तत्त्वं स्वातन्त्र्यादिकम्, तथा वस्तुनः प्रपञ्चस्य तत्त्वं नित्यातादृशत्वं तदुभयाज्ञानवशात् ।। १७ ।।

युक्तिमल्लिका

किं चान्तशून्यतैवात्र शक्योर्थो योग्यतावशात् ।

आनेयमन्यद्योग्यं च नैतदुक्तप्रकारतः ।। १८ ।।

सुरोत्तमटीका

 दूषणान्तरं चाह ।। किञ्चेति ।। अत्रानन्तशब्दे शक्य-स्साक्षाच्छब्दवाच्यः । अन्यद्देशकालादिकम् । एतत् वस्तु । उक्तप्रकारतः । सर्वात्मकत्वस्य स्वमतादिविरुद्धत्वात् योग्यं नेति सम्बन्धः ।। १८ ।।

सत्यप्रमोदटीका

 अन्यत् भेदराहित्यवचनम् । योग्यं नेति सम्बन्धः । प्रमाणविरोधात्, परेण जडाभेदानङ्गीकारात् विशिष्टयोर्जीवपरमात्मनोर-भेदानुपगमात्, लक्षणया चिन्मात्रैक्यपरत्वोक्तेश्च पराभिप्रेतनिरङ्कुशमहत्त्वा-साधकत्वाच्चेति भावः ।। १८ ।।

युक्तिमल्लिका

महत्त्वस्य विरोधित्वादपि नैतदिहोचितम् ।। १९ ।।

सुरोत्तमटीका

 प्रकारान्तरेणाप्ययोग्यतामाह ।। महत्त्वस्येति ।। एत-त्सर्वात्मकत्वम् । सर्वात्मकत्वे ब्रह्मणोमहत्त्वासम्भवः । सच ब्रह्मविदाप्नोति परमिति पूर्ववाक्योक्तपरशब्देन विरुद्धः । अतोपि नोचितमिति सम्बन्धः ।। १९ ।।

सत्यप्रमोदटीका

 ‘ब्रह्मविदाप्नोति परम्’ इति प्रतिज्ञावाक्योक्तस्य परस्य ब्रह्मण एव हि अनन्तशब्देन लक्षणोक्तिः । तस्य च लक्षणवचनस्य, अपरेण प्रपञ्चेन अभेदपरत्वोक्तौ परस्यैव अपरत्वप्राप्त्या लक्ष्यलक्षणवाक्ययोः व्याघातः स्फुट एवेत्याह महत्त्वस्येति ।। १९ ।।

युक्तिमल्लिका

आधारभूतौ यद्देशकालावखिलवस्तुनः ।

ताभ्यामवध्यभावस्तु तौ द्वौ सर्वौ च नः प्रभोः ।

आधारभूतावित्यर्थे फलत्याधाररूपिणः ।। २० ।।

गुणाश्चाधेयरूपास्ते तैरवध्युज्खितिर्हरेः ।

सर्वस्य गुणराशेश्च स्वस्मिन्नाहिततां नयेत् ।। २१ ।।

सुरोत्तमटीका

 प्रकारान्तरेणापि प्रायपाठविरोधं परिहरति ।। आधारेति ।। यद्यस्मात् । अखिलवस्तुनः आधारभूताविति सम्बन्धः । अत्रेदमिदानीं वर्तत इति सर्वत्र व्यवहाराद्देशकालौ सर्वस्याप्याधाराविति भावः । ताभ्यां देशकाला-भ्याम् । नोस्माकं प्रभोर्नारायणस्येत्यर्थः । अस्मिन्नर्थे । आधारभूते देशेकालेच हरेरवध्यभावः सकलदेशकालेषु आहितत्वमेव योग्यतावशादानीयते । न तु तदर्थं पृथक्प्रयत्नीयमिति भावः । आधाररूपिणो हरेर्गुणास्त्वाधेय रूपाः । तैर्गुणैरव-ध्युज्खितिः अवधेरभावः । स्वस्मिन्हरौ । आहिततां आश्रितत्वम् ।।२०,२१।।

सत्यप्रमोदटीका

 ‘अवध्यभावस्तु’ इत्यस्य ‘इत्यर्थे फलति’ इत्यनेना-न्वयः । आधाररूपिण इत्यत्र प्रभोरित्यनुकर्षः । गुणाश्चेत्यनेन अन्वयः

।। २०, २१ ।।

युक्तिमल्लिका

यद्धर्मी स्वयमाधारो धर्मास्त्वाधेयरूपिणः ।

अतोन्तशब्दस्त्रिस्थान्यामप्यवध्यर्थको भवेत् ।। २२ ।।

सुरोत्तमटीका

 तत्र हेतुमाह ।। यदिति ।। यद्यस्माद्धर्मी स्वयं धर्मिभूत-पदार्थो घटादिः । धर्मास्तद्धर्मभूतारूपरसाद्याः । तस्माद्धरिरपि स्वधर्माणा-माधारः । तद्धर्मास्तु सार्वज्ञपूर्वा आधेया इति तैरवध्युज्खितिस्सर्वस्य गुण-राशेश्च स्वस्मिन्योग्यतावशादेवाहिततां नयेत् । न तु तदर्थं पृथक्प्रयत्नीयमिति भावः । अस्त्वेवं ततः किमित्यत आह ।। अत इति ।। त्रिस्थान्यां देशकाल-गुणाख्यस्थानत्रये ।। २२ ।।

सत्यप्रमोदटीका

 देशकालनिरूपितमाधेयत्वं ब्रह्मण उक्तम् । एवं तर्हि गुणनिरूपितमपि आधेयत्वमेव सम्बन्धस्तस्य भवेत् नोक्तरीत्या आधारत्वम् इत्यतः प्रागुक्तं मा विस्मार्षीः इत्याह यद्धर्मी इति । इदं चाभ्युपगम्योक्तम् । वस्तुतस्तु देशकालौ प्रत्यपि प्रभोराधारत्वमेव ‘एको दाधार भुवनानि विश्वा’ ‘भर्ता सन् भ्रियमाणो बिभर्ति’ इति श्रुतेः । तदुक्तं ‘अक्षरमम्बरान्तधृतेः’ इति

।। २२ ।।

युक्तिमल्लिका

नार्थभेदस्ततोऽस्माकं मते सुजनसंमते ।

वस्तुस्वभावानुगुण्यात्फलं स्वात्यम्बुकार्यवत् ।। २३ ।।

सुरोत्तमटीका

 ततः सर्वत्राप्येकार्थत्वादर्थभेद स्सकृत्प्रयुक्तशब्दस्य नानार्थत्वम् । किंत्वेकत्र साक्षाच्छतान्त शब्दस्यैव भेदार्थकत्वं वदतः परस्यै-वेति सूचयितुमस्मन्मत इत्युक्तम् । एतादृशदोषं परमते दृष्ट्वा सुजनास्तत्परि-त्यज्यास्मन्मतमेव संगृह्णन्तीति भावेनोक्तं सुजनसम्मत इति । वस्तुस्वभावानु-गुण्यात् तत्तद्वस्तुस्वभावानुसारात् । फलं देशकालयोर्भगवत आहितत्वं स्वगुणान्प्रतित्वाधारत्वमिति फलम् । तत्र दृष्टान्तः ।। स्वात्यंबुकार्यवदिति ।। यथैकमेवस्वात्यंबु शुक्तौपतितं मणिर्भवति पद्मपत्रेपतितं मणिवद्बिन्दूभवति । तप्तायः पिण्डपतितं नष्टं भवति । तथा शब्दस्यैकत्वेपि तत्तत्पदार्थ स्वभावा-देवात्रापि वैचित्र्यमिति भावः ।। २३ ।।

सत्यप्रमोदटीका

 अभ्युपगतं सम्बन्धे वैषम्यं लोकनिदर्शनेन सङ्गमयति स्वात्यम्ब्विति । तदुक्तं नीतिशतके ‘सन्तप्रायसि संस्थितस्य पयसो नानापि न ज्ञायते । मुक्ताकारतया तदेव नलिनीपत्रस्थितं राजते । स्वात्यां सागर-शुक्तिमध्यपतितं तन्मौक्तिकं जायते ।।’ इति ।। २३ ।।

युक्तिमल्लिका

महद्गुणत्वाद्यमनन्तमाहुरिति च स्फुटम् ।

यतो भागवते प्रोक्तं ततोप्येतदसङ्गतम् ।। २४ ।।

सुरोत्तमटीका

 परकीयार्थे दोषान्तरं चाह ।। महद्गुणत्वादिति ।। यतः यस्मात् । ततोपि भागवते भगवतो गुणैरन्तरहितत्वेनानन्त पदवाच्यत्वोक्ते-रपि । एतत् वस्तुतोऽनन्तत्वम् । अयमाशयः । अन्तत्रयशून्यत्वं अनन्तत्व-मित्यावयोरुभयोरपि संमतम् । देशकालयोश्च कालानन्त्यं देशानन्त्यमिति द्विप्रकारतापि संप्रतिपन्नैव । तृतीयप्रकारश्चोक्त भागवतवाक्यानुसारेण गुणा-नन्त्यमेववक्तुमुचितम् । नतु स्वकपोलकल्पितं वस्तुतोनन्तत्वमिति । महच्छब्दस्यान्ते आकारेण विकाराभावस्तदर्थस्य महत्त्वस्याप्यन्ते सावधिकत्व- रूपविकारा भावज्ञापनार्थं अगुणेति पदच्छेदभ्रमनिवारणार्थं च । एतेनैतदपि परास्तम् । परोक्तवस्तुतोनन्तत्वस्य विरुद्धत्वेऽपि गुणतोनन्तत्ववत् सकल-वस्त्वाधारतया भगवति वस्तुतोनन्तत्वमेव कुतोनोक्तमिति । भागवतोक्तस्य गुणानन्त्यस्यावश्यं सङ्ग्राह्यत्वात् । उक्तविधयास्य च सङ्ग्रहे प्रकारचतुष्टयत्वा-पातेन सर्वसंमतत्रित्वभङ्गप्रसङ्गात् ।। २४ ।।

सत्यप्रमोदटीका

 स्वोक्तं गुणानन्त्यं अर्थं भागवतसमाख्यया सङ्गमयति महदिति । प्रोक्तम्= आहुरिति विद्वद्रूढिप्रदर्शनपूर्वकं प्रकर्षेणोक्तम् ।। २४ ।।

युक्तिमल्लिका

अर्थद्वये न सन्देहस्तृतीयेऽर्थे हि संशयः ।

अतो विशिष्य तं व्यासो निर्णयायान्ववर्णयत् ।। २५ ।।

सुरोत्तमटीका

 सर्वस्रष्टृत्वसर्वाधारत्वापरपर्याय सर्वपालकत्व सर्वसंहर्तृ-त्वाख्यार्थत्रयप्रतिपादक सत्यशब्देन गतार्थत्वापाताच्च । तर्हि भागवते भगवता-व्यासेन किमर्थमेकमेवोदितमित्यत आह ।। अर्थेति ।। यतः अर्थद्वये । देशतोऽनन्तत्वकालतोनन्तत्वाख्यार्थद्वये । तृतीये अर्थे अनन्तपदार्थे । संशयः गुणानन्त्यं वा वस्तुत आनन्त्यं वेति सन्देहः । अतः वादिविवादसद्भावात् । तं गुणानन्त्यरूपार्थम् । निर्णयाय स्वचरणकमलचञ्चरीकमध्वमुनिनोक्तार्थ निर्णयाय । वस्तुतस्तु व्याप्तत्वनित्यत्वयोरपि गुणत्वात् गुणानन्त्यमेवानन्त शब्दार्थ इति गुरुशिष्ययोर्व्यासमध्वयोर्हृद्गमिति ज्ञेयम् ।। २५ ।।

सत्यप्रमोदटीका

 समाख्यावाक्ये गुणानन्त्यमात्रं कुतः कथितम्, अनन्तशब्दस्यैव अर्थद्वयं देशकालाभ्यामानन्त्यं कुतो नोक्तमित्यतस्तदंशे वादिविवादाभावात् देशकालव्याप्तेरपि गुणत्वेन गुणानन्त्योक्तौ तल्लाभाच्चेत्याह अर्थेति ।। २५ ।।

युक्तिमल्लिका

सद्भावं यापयेद्यस्मात्सत्यस्तस्मात्किल प्रभुः ।

भावप्रधानो निर्देशोस्त्यन्तर्णीतो यतश्च णिच् ।। २६ ।।

सुरोत्तमटीका

 अधुना सत्यं ज्ञानमनन्तं ब्रह्मेति मन्त्रवर्णोक्तलक्षणत्रय व्याख्यानरूपोत्तरग्रन्थार्थपर्यालोचनयाप्यस्मदुक्तगुणानन्त्यमेवानन्त शब्दार्थो न परोक्त इति वक्तुं लक्षणानि विवृण्वन्नुत्तरप्रबन्धार्थेन सङ्गमयति ।। सद्भाव-मित्यादिना ।। सतोभावस्सद्भावः । सत्त्वम् । सृष्टिरित्यर्थः । यापये त्सर्वस्य जगतः प्रापयेत् । तस्माज्जगत्सृष्टिप्रापकत्वात् । सत्य स्सत्यशब्दवाच्यः । ननु कथमनेन पदेनायमर्थोलभ्यत इत्यतश्शब्दमर्यादयैव तं दर्शयति ।। भावेति ।। यतः यस्मात् । वैयाकरणमते भावप्रधानो निर्देशोप्यस्ति । भवितृवाचितया प्रयुक्तोपि यश्शब्दःतन्निष्ठं भावं प्रधानीकृत्यवर्तते सभावप्रधानः । यथा द्व्येकयोर्द्विवचनैकवचन इति सूत्रे द्व्येकशब्दौद्वित्वैकत्वार्थौ । यतश्चान्तर्णीतो-णिच्च प्रयोगेषु वर्तते । साक्षात्कर्तृवाचिनापदेनकारयितुर्ग्रहणेऽन्तर्णीतोणि-जित्युच्यते । यथा मामयं प्रचलिष्यतीत्यादौ । अत्र चलिष्यतीत्यस्य चलयिष्य-तीत्यर्थस्य सर्वैरङ्गीकारात् । ततस्सद्भावं यापयेद्यस्मादिति पूर्वेणान्वयः ।।२६।।

सत्यप्रमोदटीका

 ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इति मन्त्रवर्णोक्तानि लक्षणानि विवरीतुं सृष्ट्यादि षट् प्रकरणानि प्रवृत्तानि । तत्र आनन्दमय-प्रकरणं अनन्तशब्दविवरणम् । आनन्दपूर्णता च न सर्वगुणपूर्णतां विना घटते ‘यो वै भूमा तत्सुखं नाल्पे सुखमस्ति’ इति श्रुतेः । एवं च गुणपूर्णतैवानन्त-शब्दार्थ इति पर्यवसितार्थसमर्थनायोत्तरप्रबन्धः । ‘तत्र लक्षणेषु सत्यत्वं सृष्ट्या’ ‘तस्माद्वा एतस्मादात्मन आकाशः सम्भूत इति सृष्टिप्रकरणेन उक्तम्’ इति सुधोक्तमाह सद्भावमिति । सच्छब्दः सद्भाववाची । ‘सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते’ इति गीतायाम् । सद्भावो जन्म । यथोक्तं गीताभाष्ये ‘सद्भावशब्देन प्रजननं सूचितमि’ति । तथा च जन्मवाचिनि कर्मण्युपपदे यातेरन्तर्णीतण्यर्थादातपेऽनुपसर्गे क इति कप्रत्यये कृतेऽयमस्मयादीनि छन्दसि इत्युपपदस्य भसंज्ञायां सत्यमिति भवति’ इति । भावप्रधानः=पदार्थताऽ-वच्छेदकमुख्यविशेष्यकबोधजनकः ।। २६ ।।

युक्तिमल्लिका

सत्त्वं सृष्टिस्संहृतिश्च जीवनं च विदां मते ।

कार्यात्मना विशरणं कारणस्य जनिर्मता ।। २७ ।।

सल्दृधातोर्विशरणं चार्थ इत्यपि संमतम् ।

यतः प्रागसतस्सत्त्वमुत्पत्तिरिति चोच्यते ।। २८ ।।

सुरोत्तमटीका

 नन्वेवमपि सत्त्वं विद्यमानत्वमेवस्यात् । सृष्टिः कथमित्यतस्तदागमनप्रकारं विवेचयितुमर्थान्तरमपि प्रतिजानीते ।। सत्त्वमिति ।। विदांज्ञानिनाम् । प्रकारमेव दर्शयति ।। कार्यात्मनेति ।। कारणस्य मृदादेः कार्यात्मना घटाद्यात्मना यद्विशरणं पृथुबुध्नोदरीभावादिः । सैवजनिर्मतेति सम्बन्धः । सद्लृधातोस्सदि्लतिधातोः । सद्लृविशरणगत्यवसादनेष्वितिधातु-व्याख्यानादिति भावः । प्रकारान्तरेणापि सत्त्वशब्दस्य सृष्टिवाचकतां दर्शयति ।। यत इति ।। उच्यते तार्किकैः । प्रागसत इति विशेषणयोजनेपि सत्ता-सम्बन्धस्यैव जनित्वकथनात् सत्त्वमेवजनिरितिभावः ।। २७,२८ ।।

सत्यप्रमोदटीका

 सत्यशब्दं सृष्टिसंहर्तृजीवनकर्तृत्वरूपार्थत्रयपरतया निर्वक्ति चतुर्भिः श्लोकैः सत्यमित्यादिना ।। सद्भावः जन्मेत्युक्तम् । तत्कथ-मित्यतः द्वेधा तद्दर्शयति कार्यात्मनेति प्रागसत इचि च । कारणात्मना सतः कार्यात्मना विकार एव जन्मेत्युक्तं भवति । तदनेन असदेवोत्पद्यते इत्य-सत्कार्यवादिनः एवं सदेवोत्पद्यते इति सत्कार्यवादिनश्च निराकृता वेदितव्याः । ‘विशरणं शैथिल्यलक्षणम् । सदेः क्विबन्तस्य सत्त्वमिति रूपम् । तस्य संहृतिरर्थः । एवं अस्तेः शत्रन्तस्य भावप्रधानं सत्त्वमिति रूपम् । तस्य जीवनमर्थः । तथा च सत् सत्वं जीवनं विशरणं वा भूतानां यापयतीति सत्य-मित्युक्तं भवति ।। इदं=सत्यशब्दोक्तं सृष्टिसंहारजीवनहेतुत्वरूपं लक्षणत्रयम् । आद्यैः ब्रह्मवल्ल्यां इत्यादिः । प्रकरणैः सृष्टिप्रकरणं अन्नमयप्रकरणं प्राणमय-प्रकरणं चेत्येतैः क्रमेण त्रिभिः ।। २७-३० ।।

युक्तिमल्लिका

अवसादनमप्युक्तं तद्धात्वर्थतया यतः ।

ततस्सत्त्वं संहृतिश्च भवेच्छब्दविदां मते ।। २९ ।।

सुरोत्तमटीका

 तद्धात्वर्थतया सद्लृधात्वर्थतया । ततः अवसादना-परपर्याय संहारस्यापि धात्वर्थत्वात् ।। २९ ।।

युक्तिमल्लिका

विद्यमानत्वमप्याहुस्सत्त्वं जीवनमेव तत् ।

इदं चाद्यैः प्रकरणैस्त्रिभिर्विव्रियते किल ।। ३० ।।

सुरोत्तमटीका

 यतश्च विद्यमानत्वमपि सत्त्वं तत् विद्यमानत्वं च जीवनमाहुरिति योजना । अतस्स्थितिरपि सत्त्वशब्देनोच्यत इत्यध्याहृत्य-योजनीयम् । सृष्टिस्थितिसंहारा इति त्रितयमपि सत्त्वम् । तदेतत् त्रितयं च जगतः यापयतीति सत्यशब्दोदितो भगवानिति समुदायार्थः । ततः किं प्रकृत इत्यत आह ।। इदं चेति ।। त्रिभिः । तस्माद्वा एतस्मादात्मन आकाशः सम्भूत इति सृष्टिप्रकरणेन । सवा एष पुरुषोन्नरसमय इत्यन्नमयप्रकरणेन । तस्माद्वा एतस्मादन्नरसमयात् । अन्योन्तर आत्मा प्राणमय इति प्राणमय प्रकरणेन चेत्यर्थः । आद्यैर्ब्रह्मवल्ली प्रथमभागस्थैः ।। ३० ।।

युक्तिमल्लिका

यत आत्मन आकाश इति भूतजनिं परात् ।

आह सृष्टिर्महासृष्टिस्तेन नाल्पेति शंसति ।। ३१ ।।

सुरोत्तमटीका

 विवरणप्रकारमेव दर्शयति ।। यत इति ।। परात्पर-मात्मनः । भूतजनिं पञ्चमहाभूतजनिम् । तेन सृष्टिस्सत्यमिति लक्षणवाक्ये प्रागुक्तासृष्टिः ।। ३१ ।।

युक्तिमल्लिका

ब्रह्मणो लक्षणं नोचेत्कुम्भकारेऽपि गच्छति ।

अबाध्यत्वमपीतो न तत्सृष्टिकथयापि न ।। ३२ ।।

सुरोत्तमटीका

 ननु किमर्थमिदं विकरणमित्यत आह ।। ब्रह्मण इति ।। नोचेत् प्रागुक्तसृष्टेर्महासृष्टित्वेन विवरणं न क्रियते चेत् । लक्षणं सत्यत्वाख्य-लक्षणम् । सत्यपदेनोक्तसृष्टिकर्तृत्वाख्यलक्षणस्यैवं विवरणाकरणे कुम्भकारेऽपि तल्लक्षणमतिव्याप्तं स्यात्तेनेदं विवरणमिति भावः । उपलक्षणं चैतत् । अद्यतेऽत्ति च भूतानि तस्मादन्नं तदुच्यत इति संहारस्यापि भूतसंहाररूपत्वेन महासंहारत्वं पालनस्यापि प्राणं देवा अनुप्राणन्तीत्यादि नादेवादि पालन-रूपत्वेन महापालनत्वं च विवृतम् । तेन भेकसंहर्तरि सर्पे स्वकुटुम्बरक्षके गृहिणिचातिव्याप्तिः परिहृतेति द्रष्टव्यम् । अस्य सर्वस्यापि पर्यालोचनया प्रागस्माभिर्जगत इति विशेषणं दत्तमिति मन्तव्यम् । स्वाभिमत लक्षणस्याति-व्याप्त्यभावमुत्तरग्रन्थसङ्गतिं तत एवासम्भवासम्भवं च दर्शयित्वा पराभिमता-बाध्यत्वाख्य लक्षणस्यातिव्याप्तिमुत्तरग्रन्था सङ्गतिं च दर्शयति ।। अबाध्यत्व-मिति ।। इतोपि कुम्भकारेऽतिव्याप्तेरपि । तत्सृष्टिकथया तस्य ब्रह्मणः सृष्टिकथया सृष्टिकर्तृत्वकथया । अबाध्यत्वं सत्यत्वं चेदुत्तरत्र ब्रह्मणस्सृष्टि-कर्तृत्व कथनं प्रकृतानुपयुक्तत्वेनासङ्गतं स्यादिति भावः ।। ३२ ।।

सत्यप्रमोदटीका

 ‘सद्भावं यापयेद्यस्मादि’त्यादिना भाष्यकृता स्वेतर-सर्वस्रष्टृत्वं लक्षणं सत्यशब्दार्थतयोक्तम् । तद्विवृणोति यत इत्यादिना सार्ध-श्लोकेन । अत्र स्रष्टत्वं इत्येवोक्तौ कुलालादौ अतिव्याप्तिः । अतः सर्वेति तदाह महासृष्टिरिति । आदिकालीनेत्यर्थः । तत्र ज्ञापकमाह यत इत्यादिना । तावत्युक्तेऽसम्भवः अतः स्वेतरेति । अत्र विवक्षितसृष्टेः पराधीनविशेषावाप्ति-रूपत्वात् । तस्याश्च आत्मशब्दवाच्ये पूर्णे ब्रह्मणि असम्भवात् । तदेतदुक्तं श्रुतौ आत्मन इति । पराभिमतं सत्यशब्दार्थं निराह अबाध्यत्वमिति । इतः प्रपञ्चमात्रे अतिव्याप्तेः । हेत्वन्तरं सृष्टिकथयेति न हि अबाध्यत्वोक्तेः सृष्टि-कथया सङ्गतिरस्ति इति भावः ।। ३१, ३२ ।।

युक्तिमल्लिका

वाग्विश्वं सत्यमित्याद्या यदबाध्यं जगज्जगौ ।

ततोऽपि न यतोऽन्यत्र गतं प्राहुरलक्षणम् ।

सूत्रे जन्मादिहेतुत्वलक्षणोक्तेश्च नेतरत् ।। ३३ ।।

सुरोत्तमटीका

 प्रागुक्तातिव्याप्तिं प्रमाणेन दृढीकुर्वन्प्रपञ्चमात्रेऽति व्याप्तिमाह ।। वागिति ।। विश्वं सत्यमित्याद्यावागिति सम्बन्धः । यद्यस्मात् जगदबाध्यं जगाविति सम्बन्धः । प्रपञ्चस्य सर्वस्याप्यबाध्यत्वेपि कुतोब्रह्म-लक्षणमलक्षणमित्यत आह ।। यत इति ।। अन्यत्र लक्ष्यादन्यत्र । ब्रह्मसूत्र-तत्सूचितश्रुतिभ्यां विरुद्धत्वाच्चनेदं लक्षणमित्याह ।। सूत्र इति ।। सूत्र इत्युप-लक्षणम् । यतोवा इमानि भूतानि जायन्त इति सूत्रसूचित श्रुतौ चेत्यपि ग्राह्यम् । इतरत् अबाध्यत्वलक्षणम् ।। ३३ ।।

सत्यप्रमोदटीका

 उक्तां प्रपञ्चेऽतिव्याप्तिं प्रमाणयति वागिति । सूत्र-विरोधं च परोक्तार्थस्याह सूत्रेणेति ।। ३३ ।।

युक्तिमल्लिका

अतः श्रुतिमतं वेत्ति प्राणोऽसौ भारतीपतिः ।

अन्यस्तामन्यथीकुर्वंच्छून्ये तमसि पात्यते ।। ३४ ।।

सुरोत्तमटीका

 अतः परोदीरितार्थस्य श्रुतिसूत्रादिविरुद्धत्वात् आचार्योक्तार्थस्य श्रुतिसूचितत्वाच्च । असौ सद्भावं यापयेद्यस्मात्सत्य-स्तस्माज्जनार्दन इत्यादिना एतच्छ्रुत्यर्थं वर्णयन् । अन्यः मायावादी । तां श्रुतिम् ।अन्यथीकुर्वन् असङ्गतार्थे योजयन्।।३४ ।।

युक्तिमल्लिका

अतस्स्वेतरसर्वस्य स्रष्ट्ता सत्यता भवेत् ।। ३५ ।।

सुरोत्तमटीका

 अतः पूर्वोक्तप्रकारात् । स्वेतरसर्वस्य स्वव्यतिरिक्तस्य सर्वस्य जगत इत्यर्थः ।। ३५ ।।

सत्यप्रमोदटीका

 भारतीपतिरिति हेतुगर्भं विशेषणम् । भारत्याः श्रुत्यभिमानित्वादिति हृदयम् ।। ३४,३५ ।।

युक्तिमल्लिका

पुनरन्नमयत्वोक्त्या महासंहर्तृतोच्यते ।

अद्यतेत्ति च भूतानीत्युक्तेस्संहर्तृताऽन्नता ।। ३६ ।।

सुरोत्तमटीका

 सत्यशब्दस्यार्थान्तरं च श्रुतिराहेत्याह ।। पुनरिति ।। महासंहर्तृता स्वेतरसकलजगत्संहर्तृता । तत्कथमित्यत आह ।। अद्यत इति ।। संहर्तृता अत्तृत्वापरपर्यायाऽत्तीति श्रुत्युक्ता अन्नता अन्नशब्द प्रवृत्तिनिमित्त-मित्यर्थः ।। ३६ ।।

सत्यप्रमोदटीका

 सर्वजगत्संहर्तृत्वं लक्षणं अन्यशब्दार्थ उक्तः । तत्र सर्वजगदित्यनुक्तौ भेकसंहर्तरि सर्पे गतम् । सर्वजगदिति विशेषणे श्रुतिं प्रमाणयति भूतानीति । अत्तीत्यनेन संहर्तृत्वं च प्रमापितं ज्ञेयम् । अत्र सर्वेति विशेषणं यथायोग्यमनुसन्धेयम् । यथोक्तं तत्त्वसंख्यानटीकायां ‘तत्र स्थितिनियमौ सर्वत्र । सृष्टिसंहृती नित्यानित्यस्यानित्यस्य च’ इत्यादिना ।। ३६ ।।

युक्तिमल्लिका

प्राचुर्यार्थो मयट्प्रोक्तस्स्वयं सूत्रकृतैव हि ।

सूचनात्खलु तत्सूत्रमतः पञ्चसु तं नयेत् ।। ३७ ।।

सुरोत्तमटीका

 तस्य महत्त्वप्राप्तिप्रकारमाह ।। प्राचुर्यार्थ इति ।। सूत्रकृता विकारशब्दान्नेति चेन्न प्राचुर्यादित्यानन्दमये मयट् शब्दार्थं वदता । नन्वानन्दमय शब्दस्थमयट् प्रत्ययस्य प्राचुर्यार्थत्वेप्यन्नमये तदर्थत्वं कुत इत्यत आह ।। सूचनादिति ।। अतस्सूत्रस्य सूचकत्वात्तंमयट् प्रत्ययार्थं पञ्चस्वन्न-मयादि पञ्चके । अतः अन्नमयस्थमयट् शब्दोपि प्राचुर्यार्थ एव अन्यथा प्रायपाठ विरोधादिति सूत्रकृतो हृदयम् । उपलक्षणं चैतत् । अद्यतेत्ति च भूतानीति श्रुतावेव भूतात्तृत्वकथनेन महासंहर्तृत्वलाभाच्चेत्यपि द्रष्टव्यम् ।।३७।।

सत्यप्रमोदटीका

 सर्वेति विशेषणस्य सूत्रे ज्ञापकमाह मयदिति । ‘उपलक्षणत्वं शब्दानामानन्दमयपूर्विणामि’ति भाष्योक्तमाह पञ्चस्विति ।। सूचनादिति । ‘लघूनि सूचितार्थानि’ इति सूत्रलक्षणोक्तेरिति भावः ।। ३७ ।।

युक्तिमल्लिका

इति लक्षणसूत्रोक्तं तृतीयं लक्षणं श्रुतिः ।

प्राहान्नमयतावाचा निन्द्यदेहस्तुनिर्न सा ।। ३८ ।।

सुरोत्तमटीका

 लक्षणसूत्रे जन्माद्यस्य यत इति सूत्रे । उक्तं तृतीयं जगत्संहर्तृत्वाख्यम् । इत्युक्तप्रकारेणान्नमयतावाचा प्राहेति सम्बन्धः । ननु देहस्यैव प्रस्तावोत्र कुतोनेत्यत आह ।। निन्द्येति ।। सा । स वा एष पुरुषोन्नरसमय इत्यादिना अन्नाद्वै प्रजाः प्रजायन्ते । याः काश्चपृथिवीं श्रिताः । अथो अन्नेनैवजीवन्ति । अथैनदपियंत्यन्त इति तत्रैवोक्तश्लोकेन च क्रियमाणस्तुतिः निन्द्यदेहस्तुतिर्नहीति योजना । निन्द्येत्यनेन–

त्वक् श्मश्रुलोमनखकेशपि नद्धमन्तर्मांसा

स्थिरक्त कृमिविड्भरितात्रवीतम् ।

जीवच्छवं भजति काममतिर्विमूढायाते

पदाब्जमकरन्दमजिघ्रतीस्त्री ।

इत्यादि भागवतवचनं स्मारयति । नहि सकलप्रजास्रष्टृत्वमन्ते देह-पातानन्तरं सकलप्रजाप्राप्यत्वं च एष पुरुष इत्युक्त दृश्यमानदेहस्योक्त-विधयानिन्दार्हस्य सम्भवतीति भावः ।। ३८ ।।

सत्यप्रमोदटीका

 सूत्रेति । जन्माद्यस्येति सूत्रेत्यर्थः । उक्तं तद्भाष्यो-दाहृतस्कान्दपुराणे उक्तम् । तृतीयमिति । ‘सृष्टिस्थितिश्च संहारो’ इत्यत्र तृतीयतयोक्तमित्याशयः । ननु अन्नात्पुरुषः इति पूर्वत्र प्रसिद्धान्नपरिणत-कोशस्यैव प्रतीतेः कुतोऽत्र अन्नमयशब्देन संहर्तृत्वरूपापूर्वार्थाश्रयणमित्यतः तत्रैव श्रुतावुत्तरत्रोदाहृतश्लोकोक्तस्तुत्यानुगुण्यादित्याह प्राहेति । अस्याः श्रुतेः सकलप्रजास्रष्टृत्वप्राप्यत्वादिमहामहिमवर्णनपरायाः कथमपि ‘देवसंज्ञितमप्यन्ते कृमिविड् भस्मसंज्ञितं’ इति भागवते निन्दितस्य कोशाख्यदेहस्य वर्णनपरत्वा-सम्भवादित्याह नेति ।। ३८ ।।

युक्तिमल्लिका

रौद्रव्यापारताशङ्का छेदायास्यादितः कथा ।। ३९ ।।

सुरोत्तमटीका

 ननु द्वितीय व्यापारं पालनं विहाय कुतस्तृतीयस्य संहारस्य मध्ये ग्रहणमित्यत आह ।। रौद्रेति ।। अस्य संहारस्य रौद्रव्यापारता शङ्काछेदाय रुद्रेण क्रियमाणव्यापारत्वशङ्कापनोदाय । उपलक्षणं चैतत् । परमतनिराकरण एव बहुसाहसवती श्रुतिश्चतुर्मुखव्यापारत्वेन प्रसिद्धसृष्टिं रुद्रव्यापारत्वेन प्रसिद्धसंहारं च क्रमेण विष्णौ प्रसाध्य विष्णुव्यापारत्वेन प्रसिद्धपालनमन्ते निबबन्धेत्यपि द्रष्टव्यम् । आदितः पालनादप्यादौ । कथाकथनम् ।। ३९ ।।

सत्यप्रमोदटीका

 ननु श्रुत्या सृष्टिस्थितिसंहाराः क्रमशो वर्णनीयाः । अन्नमयप्रकरणेन सृष्टिसंहारयोः, पश्चात्प्राणमयप्रकरणेन जीवनरूपस्थितेर्वर्णन मित्येवं क्रमोल्लङ्घनेन वर्णने को विशेषहेतुरित्यतः वादिविवादसदसद्भावावेत्याह रौद्रेति । उपलक्षणम् । चतुर्मुखेत्यपि ग्राह्यम् । विष्णुर्जीवनहेतुरित्यत्र सर्वे सम्प्रतिपद्यन्त इति भावः ।। ३९ ।।

युक्तिमल्लिका

प्राणनं जीवनं प्रोक्तं प्राचुर्यार्थे यतो मयट् ।

अतः प्राणमयत्वोक्त्या महापालकतोच्यते ।। ४० ।।

सुरोत्तमटीका

अधुना सकलजगत्पालकत्वं च सत्यशब्दार्थ इति वक्तुमारभते ।। प्राणनमिति ।। सत्त्वं जीवनमिति प्रागुपपादितम् । जीवनं प्राणनमिति च जीव प्राणधारण इति वचनेन जीवधातोः प्राणधारकत्वार्थ कथनात् पर्यायः । प्रकृष्टमननं चेष्टा यस्मादिति च व्युत्पत्त्या प्राणोजीवन-हेतुः । सत्त्वं जीवनं यापयतीच स एवोच्यते । अतः प्राणसत्यशब्द-योरैकार्थ्यमिति भावः । यतः यस्मात् । अतः पूर्वोक्तनिमित्तात् ।। ४० ।।

सत्यप्रमोदटीका

‘प्राणं देवा अनुप्राणन्ति मनुष्याः पशवश्च ये’ इति अनुव्याख्यानोक्तदिशा प्राणशब्दस्य प्रागुक्तसत्यशब्दसमानार्थकत्वं दर्शयति प्राणनमिति । तथा च प्राणन्ति प्रवर्तन्ते जीवन्ति वा सर्वभूतान्यनेनेति निरुक्तिर्ज्ञेया ।। ४० ।।

युक्तिमल्लिका

सर्वसामान्यवेत्तृत्वं ज्ञानत्वमिति च श्रुतिः ।

मनोमयगिरा प्राह यतो धातुस्स बोधने ।। ४१ ।।

सुरोत्तमटीका

 अधुना ज्ञानपदेन स्वोक्तलक्षणं विवृण्वन्ती श्रुति-र्मनोमयविज्ञानमय प्रकरणे प्रास्तावयदित्याह ।। सर्वेति ।। सः मनु इति धातुर्बोधने अवबोधने वर्तते । मनु अवबोधन इति धातोरित्यर्थः । विज्ञानमय-प्रकरणे ज्ञानस्य वीत्युपसर्गेण विशेषणात् अत्र च तदभावात् प्रत्युतावेत्युप-सर्गेण निकृष्टत्वकथनात् प्राचुर्यार्थकमयट् प्रयोगाच्च सर्वसामान्यवेत्तृत्वं ज्ञानत्व-मिति ज्ञानपदेनोक्तं लक्षणमिति मनोमयगिरा तस्माद्वा एतस्मात्प्राणमया-दन्योन्तर आत्मामनोमय इति मनोमय शब्देन प्राहेति योजना।। ४१ ।।

सत्यप्रमोदटीका

मनोमय प्रकरणस्य ज्ञानशब्दार्थत्वं स्पष्टयति सर्वेति । विज्ञानमयप्रकरणस्य तच्छब्दार्थत्वं तु स्पष्टमेव ।। ४१ ।।

युक्तिमल्लिका

यतो घटपटत्वादिसामान्यान्यपि वस्तुषु ।

सन्ति चित्रेष्वनन्तानि नतद्वेत्तापि सर्ववित् ।। ४२ ।।

सुरोत्तमटीका

ननु सामान्यवेत्तृत्वं अस्मदादिसाधारणत्वात् कथं लक्षणमित्यतस्तदपि भगवत्यसाधारणं कर्तुमाह ।। यत इति ।। यतश्चित्रेषु वस्तुषु ब्रह्माण्डबहिरन्तर्गतानन्तपदार्थेषु । अनन्तान्यसङ्ख्यानि । तत्तस्मात् । तद्वेत्ता अनन्तघटपटत्वादिसामान्यवेत्ता विचित्रानन्तपदार्थेषु विद्यमानान्यनन्त सामान्यानि तद्वैचित्र्यप्रकारांश्च यथाऽतिस्पष्टं भगवान्वेद न तथा पर इति हेतोः इदमपि लक्षणमसाधारणमेवेति भावः । अत एव ज्ञानविज्ञानयोश्चैवेत्यत्र ज्ञानपदेनोक्तसामान्यज्ञानस्यापि समग्रस्य षण्णां भग इतीरणेति भगशब्देनो-त्कीर्तनम् ।। ४२ ।।

युक्तिमल्लिका

विशिष्य सर्ववेत्तृत्वं ज्ञानत्वमिति सा पुनः ।

विज्ञानमयतोक्त्या वीत्युपसर्गयुताऽब्रवीत् ।। ४३ ।।

सुरोत्तमटीका

सा श्रुतिः पुनर्मनोमयप्रस्तावानन्तरं वीत्युपसर्गयुतासेति पूर्वेणान्वयः । शेषं पूर्ववत् ।। ४३ ।।