खल एव खलो लोके नासुरा वैरिवैरिणः

एकजीववादनिरासः

युक्तिमल्लिका

खल एव खलो लोके नासुरा वैरिवैरिणः ।

एको जीवस्स निद्राति तस्य स्वप्नः किलाखिलम् ।। ६७७ ।।

सुरोत्तमटीका

 एवं बहुजीववादं निराकृत्यैकजीववादं निराकर्तुं दुर्नीति-विषयतया प्रस्तावयति ।। खल एवेति ।। वैरिष्वेव वैरिणः खला न दुर्जन-वत्खला नेत्यर्थः । दुर्जनेन किमधिकमाचरितमित्यत आह ।। एक इति ।। एक एवेत्यर्थः । स एकजीवः । निद्राति सर्वदा निद्राङ्करोति किल । तस्य एक-जीवस्य । अखिलं चेतनाचेतनात्मकं जगत् । असुरोऽपि स्वविरोधिसुरानेव द्वेष्टि न तु सकलं जगत् । अयं तु निर्निमित्तं एकजीवव्यतिरिक्त-सकलजगतस्स्वाप्नपदार्थसमतयाऽभावं वदन् जगत्क्षयकारित्वात् असुरा-दप्यधिकः खल इति भावः ।। ६७७ ।।

सत्यप्रमोदटीका

 एकजीववादमथ दुदूषयिषुः प्रस्तापयति खल एवेति । एकजीववादः इत्थम् । यथोक्तं तत्त्वनिर्णयटीकायाम् । एक एव ब्रह्मप्रतिबिम्बो जीवः । अन्ये जीवा जडवत् स्वरूपेणैव कल्पिताः । यथा स्वप्ने यथा वा चित्रभित्तौ । तत्र परमार्थतो यो जीवः तस्य तत्त्वज्ञानोदये तत्कल्पितोऽयं सर्वो ब्रह्माभ्यन्तररूपः प्रपञ्चो निवर्तते । प्रतीतिमात्रशरीरत्वात् । अन्यस्य प्रत्येतुर-भावात् । ईश्वरभेदस्यापि तेनैव कल्पितत्वात् इति । अस्य खलस्य एकजीवस्य सदृशः अन्यः खलो नास्तीत्याह खल एवेति । उपपादयति असुराः इति । वैरिणामेव वैरिणः ।। न तु निर्निमित्तम् । अयं तु ततोऽपि खल इत्याह एक इति । निर्निमित्तं सर्वेषां जीवानां स्वाज्ञानपरिकल्पितत्वेन मिथ्यात्वमापाद्य अशेषपुरुषार्थविघातकः । तथा च

तेऽमी मानुषराक्षसाः परहितं स्वार्थाय निघ्नन्ति ये ।

 ये तु घ्नन्ति निरर्थकं परहितं ते केन जानीमहे’

इति दुर्नीतिविषय इति भावः । तदुक्तं भगवत्पादैः ‘‘त आसुराःस्वयं नष्टा जगतः क्षयकारिणः’’ इति ।। ६७७ ।।

युक्तिमल्लिका

अहर्निशेति च प्रायो न विदुर्मोहिदेहिनः ।

कालः किलायं सर्वोऽपि स्वप्नस्सुप्तस्य कस्यचित् ।। ६७८ ।।

सुरोत्तमटीका

 मोहिदेहिनः विषयलंपटाः । इदमप्येकजीववादे दृष्टमित्याह ।। काल इति ।। अयं सर्वैर्जनैरहस्त्वेनानुभूयमानः । सर्वेषामहरिदं निद्रितैकजीववादी निशां वक्ति । एवञ्च विद्वानप्यहर्निशेति न जानाति चेत् कामीजनः कथं जानीयदिति भावः ।। ६७८ ।।

सत्यप्रमोदटीका

 मोहिदेहिनः कामलम्पटाः । प्रायो न विदुः यदा-कदाचित् तेऽपि विदुः इति भावः । अयं तु एकजीवो नित्यनिद्रितो अह-र्निशेति विवेकभ्रष्टः अतिलम्पटः ।। ६७८ ।।

युक्तिमल्लिका

करस्थदण्डपिण्डाभ्यां शवबुद्धिं जहौ शिवा ।

चरन्तस्संसरन्तश्च शवा जीवाः किलाखिलाः ।। ६७९ ।।

सुरोत्तमटीका

 मृगधूर्तकसदृशविवेकोऽप्येकजीववादिनो नास्तीत्याह ।। करस्थेति ।। आश्चर्यमरणं दृष्टं हस्ते दण्डकपिण्डकौ । ग्रामे कलकलो नास्ति शीघ्रबुद्धिःपलायनमिति पचन्तत्रिकावचनात् करस्थदण्डपिण्डाभ्यां कलकला-भावेन च शववन्निश्चेष्टतया शयानेऽपि पुरुषे शिवा शवबुद्धिं जहौ । चरन्तः इतस्ततस्सञ्चरन्तः संसरन्तः भोजनाभ्यंगस्नानपानादिसंसारव्यापारं कुर्वन्तः अखिलाः जीवाः देवदत्तयज्ञदत्तादिसकलजीवाः शवाः जीवचैतन्यरहिततया जीवापाये पतितशरीरवच्छवाः किल । सर्वव्यापारदर्शनेऽपि शवबुद्धेरत्यागात् शिवातोप्यप्रबुद्धोयं वादीति भावः ।। ६७९ ।।

सत्यप्रमोदटीका

 कश्चित्पुरुषः शिवां प्रलोभयितुं एकस्मिन् करे पिण्डं अपरस्मिन् समीपागतां ताडयितुं दण्डं च गृहीत्वा निश्चेष्टः शववत् पतितः । शिवा तु तं दृष्ट्वा दण्डपिण्डाभ्यां तस्य सजीवत्वमनुमाय पलायामास । तस्याः पशुतोऽपि निकृष्टोऽयमेकजीवः । अनादितोऽपि सर्वेषां शरीराणां हिताहितप्राप्तिपरिहारानुकूलां चेष्टां पश्यन्नपि तेषां निरात्मकत्वं मन्यमानस्य अस्य पशुबुद्धिरपहसनीयेत्याह किलेति ।। ६७९ ।।

युक्तिमल्लिका

हसति स्वैरिणी स्वैरमपरां स्वैरिणीमहो ।

किं न निर्जीवदेहात्मवादी चार्वाकहासकृत् ।। ६८० ।।

सुरोत्तमटीका

 हसतीति वाक्योक्तदुर्नीतेरप्येकजीववाद्येव पात्रमित्याह ।। किं नेति ।। निर्जीवदेहात्मवादी जीवरहितदेहानामेव जीवत्वं वदन्नेक-जीववादी चार्वाकस्य निर्जीवदेहात्मवादिनः चार्वाकस्य हासकृत् न किम् । यथा स्वैरिणी स्वैरिण्यंतरहासं कुर्वती । अकुशला एवञ्चार्वाकन्दूष-यन्नेकजीववादी जडदेहजीवभाववादस्य स्वमतेऽपि सद्भावादकुशल इति भावः ।। ६८० ।।

सत्यप्रमोदटीका

 प्रत्यक्षैकप्रमाणवादित्वात् चार्वाकः देहातिरिक्तं जीवं न मन्यते इति सह्यम् । युक्त्यागमानां प्रामाण्यमङ्गीकुर्वाणोऽपि मायावादी तत्सिद्धं सर्वशरीरस्थं जीवस्वरूपमपलपतीति ततोऽपि नास्तिकः । सत्यप्येवं चार्वाकमतनिराकरणं नाटयति । अहो स्वैरिणीवत् अस्य वञ्चकप्रवृत्तिरित्याह हसतीति ।। ६८० ।।

युक्तिमल्लिका

एकाशाखण्डने लोका दोषमाघोषयन्त्यहो ।

शुकाद्याः किल सर्वेऽपि न मोक्ष्यन्ते मुमुक्षवः ।। ६८१ ।।

सुरोत्तमटीका

 एकाशाखण्डने । एकस्य पुरुषस्याभीप्सितफलाप्रदाने नाशायाव्यर्थताकरणे । एवं सति शुको मुक्तो वामदेवोऽपि मुक्त इत्यादि-वाक्यानामर्थवादतां वदतस्सकलमुमुक्षूणां मोक्षाभावप्रतिपादने नाशां छिन्दत एकजीववादिनो दोषस्सुतरामाघोषणीय इति भावः ।। ६८१ ।।

सत्यप्रमोदटीका

 सर्वेषां ज्ञानिनां जीवभावापलापिनः तेषां मोक्षाशा-छेदनमप्यस्य महादोष इत्याह एकेति ।। ६८१ ।।

युक्तिमल्लिका

यजनाध्ययनादीनि मननश्रवणानि च ।

दानस्नानादिकं सर्वं दशा स्वाप्नी किलाफला ।। ६८२ ।।

सुरोत्तमटीका

 एकजीववादिमतेऽयमपि दोष इत्याह ।। यजनेति ।। अफला स्वाप्नी दशा किलेति सम्बन्धः । श्रुतिस्मृत्युक्तसकलसत्कर्मणां वैफल्य कथनादप्रामाणिकोऽयं वाद इति भावः ।। ६८२ ।।

सत्यप्रमोदटीका

 एवं सर्वैः क्रियमाणसाधनानां निष्फलत्वकथनेन विधिनिषेधशास्त्रापलापपापमप्यस्यापततीत्याह यजनेति ।। ६८२ ।।

युक्तिमल्लिका

ब्रह्मापि निर्ममे सम्यक्तपसोद्बुद्धशुद्धदृक् ।

अस्राक्षीन्निद्रितस्त्र्यक्षसहस्राक्षादिकान्किल ।। ६८३ ।।

सुरोत्तमटीका

 पुराणप्रक्रियाविरुद्धं चेदं मतमित्याह ।। ब्रह्मापीति ।। निद्रितः एकजीववादिनो जीवः । भागवतपुराणे ब्रह्मणापि शतवर्षं तपस्तप्त्वा हरेः प्रसादेन ज्ञानदृष्टिं प्राप्य जगत्सृष्टमित्युच्यते । एकजीववादी तु निद्रितो जीव एव ब्रह्मविष्णुशिवेन्द्रादिकं चेतनाचेतनात्मकं सकलजगत्सृजतीति वक्ति । अतः पुराणप्रक्रियाविरुद्धत्वात् अप्रामाणिको वाद इति भावः ।। ६८३ ।।

सत्यप्रमोदटीका

 ब्रह्मापीति । यथोक्तं भागवते

एवं पुरा धारणयाऽत्मयोनिः नष्टां स्मृतिं प्रत्यवरुह्य तुष्यन् ।

 तथा ससर्जेदममोघदृष्टिर्यथाऽप्ययात्प्राग्व्यवसायबुद्धिरि’ति ।। ६८३ ।।

युक्तिमल्लिका

अनादिकालतो यस्य निद्रा स किल कल्पकः ।

अनिद्रा वेदवेदान्तकर्तारः किल कल्पिताः ।। ६८४ ।।

सुरोत्तमटीका

 इतश्चातिपरिहास्योऽयं वाद इत्याह ।। अनादीति ।। यस्य एकजीवस्य । सः एकजीवः । अनिद्रास्सर्वज्ञा वेदवेदान्तकर्तारः नारायणवेदव्यासप्रभृतयः । इदं चान्धश्चारयति चक्षुष्मांश्चरति । मूको वक्ति वाग्मी शृृणोतीत्यादिवत्कथं न परिहास्यमिति भावः ।। ६८४ ।।

सत्यप्रमोदटीका

 अज्ञानी कल्पकः ज्ञानिनस्तु कल्पिता इति च प्रक्रिया तिरस्क्रियामेवार्हतीत्याह अनादीति ।। ६८४ ।।

युक्तिमल्लिका

हृता यैरार्यमर्यादा वृथा तेषां कथाऽपि नः ।

अचेतनो गुरुर्वक्ति निद्रितः शृणुते किल ।। ६८५ ।।

सुरोत्तमटीका

 इदं त्वेकजीववादमतं विद्वत्सभायां कथायोग्यमपि नेत्याह ।। हृता यैरित्यादिना ।। नः तेषां कथापि वृथेत्यन्वयः । कथमार्य-मर्यादाछेद इत्यत उक्तम् ।। अचेतन इति ।। अचेतनः जीवरहितः कल्पित-जीव इत्यर्थः । गुरुः उपदेष्टा । वक्ति तत्वं निरूपयति । निद्रितः एकजीवः शृृणुते किल ।। ६८५ ।।

सत्यप्रमोदटीका

 किं चायमेकजीवो न गुरुः । उपदेश्याभावात् । न शिष्य उपदेशकाभावात् । गुरोरचेतनत्वेन उपदेशकत्वायोगात् । निद्रितस्य शिष्यस्य श्रवणायोगाच्च ।। ६८५ ।।

युक्तिमल्लिका

स्वशिष्याज्ञानजगुरोर्विद्याऽपि तदविद्यया ।

स भेदज्ञो यमैक्यज्ञोऽनंक्षत्येष स मोक्ष्यते ।। ६८६ ।।

सुरोत्तमटीका

 तदविद्यया शिष्याविद्यया । सः कल्पकः जीवः । अयं कल्प्यो जीवः । अनेन कल्पकजीवस्य भेदज्ञानित्वादुपदेष्टरि कल्प्ये जीवे ऐक्यज्ञानं निर्निमित्तम् । कल्पकाविद्यया चेत् तस्यैव कुतो नाभूत् । अत इदं च युक्तिविरुद्धमिति सूचयति । एषः उपदेष्टा नंक्ष्यति स्वरूपत एव नाशं प्राप्स्यति । सः उपदेश्यः एकजीवः । अनेन गुरोर्न मोक्षः शिष्यस्य मोक्ष इत्येतदपि युक्तिविरुद्धमिति सूचयति । अचेतनस्य वक्तृत्वं निद्रितस्य श्रोतृत्वं शिष्यस्य कल्पकत्वम् । गुरोः कल्प्यत्वं च । विद्याया अविद्याजातत्वं सकलवेदशास्त्रादिप्रणेतुश्शिष्यत्वं तत्कल्प्यस्य गुरुत्वं गुरोरमोक्षः शिष्यस्य मोक्षश्चेत्यादिकं यो वक्ति सोऽयमुन्मत्तः कथमार्यानुसारीति भावः ।। ६८६, ६८७ ।।

सत्यप्रमोदटीका

 अपि च गुरुः तज्ज्ञानं च शिष्याज्ञानकल्पितम् । न चैवंविधेन उपदेशः सम्भवति । किं च गुरुः ऐक्यरूपतत्त्वज्ञानवानिति वाच्यम् । शिष्यश्च तदज्ञानवान् उपदेशात् प्राक् भेदज्ञानी इति च । यदा उपदेशेन यदैव शिष्यः प्रबुध्यते तदा गुरोः स्वरूपनाशः प्राप्नोति । न हि कोऽपि स्वरूपस्यैव नाशहेतौ उपदेशे प्रवर्तते इत्याह अभेदेति । अयं गुरुः । स शिष्यः । एष गुरुः।। ६८६ ।।

युक्तिमल्लिका

योऽचीक्लृपज्जगत्सर्वं शास्त्रस्तुतिसमन्वितम् ।

स जीवः किल शिष्योऽभूत्कल्प्यः कोऽपि गुरुः किल ।। ६८७ ।।

सत्यप्रमोदटीका

 स्वयं शास्त्रादिकल्पकस्य शिष्यत्वमेव असम्भवीत्याह य इति ।। ६८७ ।।

युक्तिमल्लिका

यद्यैक्यमा प्रमा वक्तुस्तर्हि स्वप्नोऽपि न भ्रमः ।

गौरवादप्रसिद्ध्यादेर्न स्वप्नस्य द्विरूपता ।। ६८८ ।।

सुरोत्तमटीका

 दोषान्तरं चाह ।। यदीति ।। वक्तुस्स्वप्ने कल्पितस्य गुरोः । ऐक्यमा ऐक्यज्ञानम् । यदि प्रमा तर्हि स्वप्नस्सर्वोऽपि भ्रमः भ्रम-रूपोऽन । स्वप्नःसर्वोऽपि भ्रान्तिरेवेति मतं गतमिति भावः । ननु कश्चित्स्वप्नः प्रमारूपोऽप्यस्तीत्यत आह ।। गौरवादिति ।। आदिपदेनापसिद्धान्तं प्रमाणा-भावं च सङ्गृह्णाति ।। ६८८ ।।

सत्यप्रमोदटीका

 वक्तुः कल्पितस्य गुरोः ऐक्यमा ऐक्यज्ञानम् । भ्रमः प्रमा वा । नाद्यः भेदसिद्धेः । द्वितीय आह यदीति । स्वाप्नमपि तज्ज्ञानं प्रमा चेत् स्वाप्नोऽर्थः सर्वोऽपि भ्रमः इति पक्षो गतः । अथैतन्मात्रस्य प्रमात्वं तर्हि द्विरूपता । गौरवं अप्रसिद्धिः अपसिद्धान्तश्च । इदं च परमत एव । स्वमते स्वाप्नस्यापि ज्ञानस्य प्रमात्वमेवेति ज्ञातव्यम् ।। ६८८ ।।

युक्तिमल्लिका

स्वप्नो न चेन्न जीवैक्यं तत्रैव द्रष्टुरेकता ।। ६८९ ।।

सुरोत्तमटीका

 तर्हि स्वप्नो मास्तु जाग्रद्दशैवास्तु को दोष इत्यत आह ।। स्वप्नो न चेदिति ।। जीवैक्यं जीवस्यैकता । तत्रैव स्वप्न एव । द्रष्टुर्जीवस्य । एक एव द्रष्टा । अन्यत्सर्वन्तद्भ्रमकल्पितमिति स्वप्न एव शङ्कितुं योग्यं, जाग्रदव-स्थायां द्रष्टुरेकता सर्वस्याप्यनभिमतैवेति भावः । उपलक्षणं चैतत् । स्वप्नादन्यत्र दृश्यमानबहुजीवानां एकजीवकल्पितत्वासम्भवेन बहुजीववादापातात् । स्वप्ना-दन्यत्र महीमहीधरादेरेकजीवकृतत्वायोगाच्च ।। ६८९ ।।

सत्यप्रमोदटीका

 अथ एतज्ज्ञानस्य प्रमात्वरक्षणार्थं दशाया जाग्रत्त्व-मङ्गीक्रियते तर्हि बहुजीववाद एवापन्नः । कुत इति तत्राह तत्रैवेति ।।६८९।।

युक्तिमल्लिका

जाग्रद्दशैव स्वप्नस्य साम्याद्यदि च तादृशी ।

सर्वसाम्ये स एव स्यात्किञ्चित्साम्ये न किञ्चन ।। ६९० ।।

सुरोत्तमटीका

 ननु जाग्रद्दशामेव पक्षीकृत्य स्वप्नसमत्वेन हेतुना द्रष्ट्रैक्यं साध्यत इत्यत आह ।। जाग्रद्दशैवेति ।। तादृशी स्वप्नवद्द्रष्टुरेकत्ववती । सर्वसाम्यं वा किञ्चित्साम्यं वेति हेतुं विकल्प्य दूषयति ।। सर्वेति ।। स एव स्वप्न एव । तथा च हेतोरसिद्धिस्स्यादिति भावः । किञ्चित्साम्यमपि वस्तु-त्वादिना साम्यं वाऽवस्थात्वेन वा साध्येन तद्व्याप्येन वेति विकल्प्य क्रमेण दूषयति ।। किञ्चित्साम्य इति ।। किञ्च न किमपि न । किञ्चित्स्वप्नसाम्येन द्रष्ट्रैक्यं साधयितुं न शङ्क्यते । तथा सति द्रव्यत्वेन घटवत्पटस्यापि जला-हरणोपयोगित्वसाधनप्रसङ्ग इति भावः ।। ६९० ।।

सत्यप्रमोदटीका

 अथ जाग्रद्दशा द्रष्टुरेकत्ववती स्वप्नसाम्यात् स्वप्नवत् इति साध्यते इति चेत् किं हेतौ सर्वसाम्यं वा किञ्चित्साम्यं वा विवक्षितम् । आद्ये आह सर्वेति । स एव स्वप्न एव । द्वितीय आह न किञ्चनेति । सिध्यतीति शेषः । न हि स्त्रीत्वसाम्येन मातुर्वन्ध्यात्वं साधनार्हमिति भावः ।।

युक्तिमल्लिका

दशात्वसाम्ये तेनैव स्वप्नोऽप्येतादृशो भवेत् ।

साध्येन साम्यं नासिद्धेर्व्याप्येन समताऽपि न ।। ६९१ ।।

सुरोत्तमटीका

 तेनैव दशात्वेनैव । एतादृशः जाग्रदवस्थावद्द्रष्टु-रनेकत्ववान् । साध्येन द्रष्टुरेकत्वेन । असिद्धेः प्रतिवादिनःजाग्रदवस्थायां द्रष्टु-रेकत्वासिद्ध्याऽन्यतरासिद्धेः । व्याप्येन समताऽप्यसिद्धेर्नेति सम्बन्धः ।।६९१।।

सत्यप्रमोदटीका

 यदि दशात्वं हेतुः तर्हि तेनैव हेतुना स्वप्नस्य जाग्र-द्दृष्टान्तेत अनेक द्रष्टृमत्त्वमपि सुसाधमित्याह एतादृशीति । द्रष्टुरेकत्वेन तद्व्याप्यधर्मेण वा स्वप्नदशासाम्यस्य हेतुत्वे प्रतिवाद्यसिद्धिः इत्याह असिद्धे-रिति ।। ६९१ ।।

युक्तिमल्लिका

बाह्याक्षोपरमश्चात्र न चेत्किं नानुमीयते ।

जाग्रत्त्वात्स न देवेकजीवताप्यत एव न ।। ६९२ ।।

यदि सोऽपि तदा श्रोत्राभावान्न श्रोतृतास्य हि ।

श्रोता न चेन्न प्रबोद्धा ततश्शास्त्रमनर्थकम् ।। ६९३ ।।

सुरोत्तमटीका

 विपक्षे बाधकमाह ।। बाह्येति ।। अत्र जाग्रदव-स्थायाम् । न चेत् द्रष्टुरेकत्वानुमानं न त्यजसि चेत् स्वप्नवज्जाग्रदवस्थायां द्रष्टुरेकत्वं साध्यते चेत् । समानन्यायत्वात् बाह्याक्षोपरमोऽपि साध्यस्स्यात् । बाधान्न चेत् तदपि न स्यादिति भावः । सः बाह्याक्षोपरमः । अत एव जाग्रत्त्वादेव । सोऽपि बाह्याक्षोपरमोऽपि । अङ्गीक्रियत इत्यर्थः । अस्यैक-जीवस्य । प्रबोद्धा ऐक्यप्रमावान् । ततः प्रबोद्धुरभावात् । बाह्याक्षोपरमाङ्गीकारे तन्मध्यपतितश्रोत्रस्याप्यभावप्रसङ्गेनैकजीवस्य श्रवणजन्यापरोक्षज्ञानस्याप्य-भावान्मोक्षाभावप्रसङ्ग इति भावः ।। ६९२,६९३ ।।

सत्यप्रमोदटीका

 ‘जाग्रदवस्था बाह्याक्षोपरमवती स्वप्नसाम्यादि’ति आभाससमानयोगक्षेमश्चेत्याह बाह्येति । न च साऽप्यङ्गीकाराधिकारिणी । तथा सति शिष्यस्यैकजीवस्य श्रोत्रभावापत्त्या श्रोतृताऽनुपपत्तेः । ततश्च ‘यदा जीवः प्रबुध्यते’ इति श्रुत्युक्तप्रबोधस्याभावेन शास्त्रमनर्थकं स्यादित्याह यदीति ।। ६९२, ६९३ ।।

युक्तिमल्लिका

किं च स्वप्नस्य सर्वस्य न द्रष्टैको गृहे गृहे ।

तद्वत्तद्द्रष्टृबाहुल्यस्यैवाप्तेः क्व च ते मतम् ।। ६९४ ।।

सुरोत्तमटीका

 दूषणान्तरं चाह ।। किञ्चेति ।। तद्वत् स्वप्नवत् । ते मतं द्रष्ट्रैक्यमतम् । स्वप्नसाम्येन हि परेण द्रष्ट्रैक्यं सिषाधयिषितम् । स्वप्नद्रष्टारश्च गृहे गृहे बहवो दृश्यन्ते । अतःस्वप्नसाम्येनापि द्रष्टृबाहुल्यस्यैव सिद्धेःएक-जीवमतं गतमिति भावः ।। ६९४ ।।

सत्यप्रमोदटीका

 आभासान्तरमाह किं चेति । विमतः स्वप्नः, द्रष्टृबाहुल्यवान् गृहे गृहे भिन्नभिन्नपुरुषद्रष्टृकस्वप्नवत् इति ।। ६९४ ।।

युक्तिमल्लिका

न सन्तीमे यदि स्वप्ना निदर्शनमदर्शनम् ।

प्राप्नोति तेऽनुमानस्य नादृष्टो दृष्टखण्डने ।। ६९५ ।।

यद्येतेषामपि द्रष्टा स एवेति मतं तव ।

न तन्मम मतं तेन स्वदर्शननिदर्शनम् ।। ६९६ ।।

सुरोत्तमटीका

 पराभिप्रायमुद्धाट्य दूषयति ।। नेति ।। एकजीवस्य स्वत एव मुख्यस्स्वप्नः । इमे तु स्वप्नाः तदीयस्वाप्नस्वप्नत्वात्स्वप्ना एव न भवन्ति । अतस्स्वप्ने द्रष्टृबाहुल्यं कुत्र सिद्धमिति यदि मन्यसे तदा सन्यसेर्जाग्रद्दशात्व-पक्षम् । किञ्च तेऽनुमानस्य विमतो जगत्स्वप्नः एकजीववान् । स्वप्नत्वात् संप्रतिपन्नस्वप्नवदित्यनुमानस्य । निदर्शनं दृष्टान्तः अदर्शनं लोपं प्राप्नोतीति योजना । सर्वजनसंप्रतिपन्नस्वप्नानां सर्वथाऽस्वप्नत्वेऽनुमानस्य दृष्टान्त एव नास्ति । स्वप्नत्वे च तद्वत् द्रष्टृबाहुल्यसिद्धिरित्युभयतःपाशारज्जुरिति भावः । दूषणान्तरं चाह ।। नादृष्ट इति ।। दृष्टखण्डने दृष्टानां सर्वजनसंप्रतिपन्नानामेषां स्वप्नानां खण्डने । अदृष्टस्सर्वैरननुभूयमानस्तवैकजीवस्वप्नः न न सिद्ध्येत् । ततश्च तवानुमानस्याऽश्रयासिद्धिरपि स्यादिति भावः ।। शङ्कते ।। यदीति ।। एकजीववादिमते देहान्तरे चेतनान्तराभावात् गृहे गृहे दृश्यमानस्वप्नानामपि स एव एकजीव एव द्रष्टेति मतम् । तत् सर्वस्वप्नानां त्वदभिमतैकजीवद्रष्टृकत्वम् । तेन ममासंमतत्वेन । स्वदर्शन निदर्शनं स्वदर्शनेनस्वसिद्धांतेनैव निदर्शनं दृष्टान्तो न तु मद्दर्शनरीत्या । मया तेषां तेषां स्वप्नानान्तत्तज्जीवद्रष्टृकत्वाङ्गी-कारात् । ततश्च मद्रीत्या दृष्टान्तस्य साध्यवैकल्यमिति भावः ।।६९५,६९६।।

सत्यप्रमोदटीका

 अथ मतं गृहे गृहे दृश्यमानाः स्वप्नाः एकजीव-स्वाप्नस्वप्नाः एव उपचरिता एव अनुपचरितस्तु एकजीवस्यैवैति । तन्न । तथा सति विमतः स्वप्नः एकजीववान् स्वप्नत्वात् सम्प्रतिपन्नवत् इति त्वदनुमानस्य आभासत्वापत्तेः । तथा हि किं उपचरितस्वप्नत्वं हेतुः उत अनुपचरितम् । नाद्यः असिद्धेः । न द्वितीयः दृष्टान्तस्य साध्यवैकल्यापत्तेः । न च सामान्यं हेतुः तदभावादेव । न हि जलनभोनलिनयोः नलिनत्वसामान्यमस्ति । एवं प्रबुद्ध-बहुपुरुषसमकालीनः स्वप्नत्वात् इत्यप्याभाससाम्यं द्रष्टव्यम् ।। ६९५,६९६ ।।

युक्तिमल्लिका

सन्ध्ये सृष्टिरिति प्रोक्तेस्स्वाप्नव्याघ्रगजादयः ।

सर्वे सत्याश्चेतनाश्च तत्स्वप्नोऽनल्पजीववान् ।। ६९७ ।।

सुरोत्तमटीका

 प्रकारान्तरेणाप्येकजीववादे दृष्टान्ताभावमुपपादयति ।। सन्ध्य इति ।। सन्ध्ये सुषुप्तिजाग्रदवस्थयोस्संधौ विद्यमाने स्वप्न इत्यर्थः । सन्ध्ये सृष्टिराह हीति सूत्रे अथ रथान् रथयोगान्पथस्सृजत इति सूत्र-खण्डोदितश्रुत्या स्वाप्नपदार्थानां सृष्टिप्रोक्तेरित्यर्थः । चेतनाः प्रत्येकं चेतन-भरिताः । यथा जाग्रदवस्थायां सृष्टा गजादयश्चेतनास्तथा स्वाप्नगजादयोऽपि भगवत्सृष्टत्वाच्चेतना एव । इयांस्तु विशेषः । एते स्वस्वकारणजनिता बहुकालावस्थायिनश्च । स्वाप्नास्तु वासनोपादानाः आशुतरविनाशिनश्चेति । तत्तस्मात् स्वाप्नगजादीनामपि प्रत्येकं चेतनात्मकत्वात् । अनल्पजीववान् बहुजीववान् ।। ६९७ ।।

सत्यप्रमोदटीका

 श्रुतिबाधितं तवानुमानमित्याह सन्ध्य इति । ईश्वरकर्तृकसर्जनकर्मत्वोक्तेस्तेषां सत्यत्वमेव । उक्तं च मायिभाष्यकृतैव गौड-पादकारिकायां ‘सत एव घटादेरुत्पत्तिर्विनाशो वा दृष्टः नासतः शश-विषाणादेरि’ति ।। ६९७ ।।

युक्तिमल्लिका

अतस्तत्रैकजीवत्वं प्रतिवादी न मन्यते ।

तत्सपक्षो विपक्षोऽस्य साधनं चाप्यसाधनम् ।। ६९८ ।।

सुरोत्तमटीका

 अतः बहुजीववत्त्वात् । प्रतिवादी तत्ववादी । तत्तस्मात् स्वप्नस्य बहुजीववत्त्वात् । अस्य परानुमानस्य । साधनं स्वप्नत्वादिति साधनम् । असाधनं पराभिलषितैकजीववत्त्वाख्यसाध्यासाधनम् । किन्तु बहुजीववत्त्वस्यैव साधनमभूदित्यर्थः ।। ६९८ ।।

सत्यप्रमोदटीका

 तथा च दृष्टान्तः साध्यविकल इत्याह अत एवेति । विरुद्धश्च हेतुरित्याह विपक्षः इति । असाधनं विपक्षमात्रवृत्तीत्यर्थः ।।६९८।।

युक्तिमल्लिका

तस्यैवायं यदि स्वप्नः कस्य जागरणं वद ।

तच्च तस्यैव चेदेते विरुद्धे कथमेकदा ।। ६९९ ।।

सुरोत्तमटीका

 दूषणान्तरं चाह ।। तस्येति ।। तस्य एकजीवस्य । अयं गृहे गृहे परिदृश्यमानः । तर्हि जागरणं पुरुषान्तरे परिदृश्यमानं जागरणं कस्य । तच्च जागरणं च । तस्य स्वप्नद्रष्टुरेकजीवस्य । एते स्वप्नजागरणे । एकस्यैव पुंसः यदा स्वप्नः तदैव तस्य जागरणं च विरुद्धमिति भावः ।। ६९९ ।।

सत्यप्रमोदटीका

 तस्यैव एकजीवस्यैव । अयं गृहे गृहे अनुभूयमानः । जागरणं गृहे एकस्य स्वप्नकाले पार्श्वस्थानां बहूनां इति शेषः । न च तदपि एकजीवस्यैव । युगपत् स्वाप्नस्वप्नस्य स्वाप्नजागरणस्य चानुपपत्तेरित्याह विरुद्धे इति ।। ६९९ ।।

युक्तिमल्लिका

स्वाप्नजागरितावस्था स्वाप्नस्वप्नविरोधिनी ।

अस्वाप्नौ तौ च नैकत्रेत्यविवादं हि वादिनाम् ।। ७०० ।।

सुरोत्तमटीका

 स्वप्नजागरणयोर्विरोधमुपपादयति ।। स्वाप्नेति ।। स्वाप्नजागरितावस्था स्वप्ने इतस्ततो गच्छामीति या जागरितावस्था सेत्यर्थः । स्वाप्नस्वप्नविरोधिनी स्वप्ने विद्यमानो यस्स्वप्नस्तस्य विरोधिनी । स्वाप्नजागरण-दशायां स्वाप्नस्स्वप्नोऽ पिन स्वाप्नस्वप्नदशायां च न स्वाप्नजागरणम् । अत-स्तत्रापि तयोर्विरोध एव । अस्वाप्नौ जाग्रद्दशायामेव विद्यमानं यज्जागरणं निद्राकाले विद्यमानो यस्स्वप्नस्तावस्वाप्नौ । तौ जागरणस्वप्नौ । अतस्स्वाप्नाव-स्वाप्नौ च जागरणस्वप्नौ नैकस्यैकदा सम्भवतः । एवञ्च स्वप्नद्रष्टुरेकजीवस्य गृहे गृहेऽनुभूयमानस्स्वाप्नः स्वाप्नजागरणं च कथमेकदैव भवत इति भावः

।। ७०० ।।

सत्यप्रमोदटीका

 न च विरोधोऽसिद्ध इत्याह अस्वाप्नाविति । विमते स्वाप्नजागरणे युगपद्विरुद्धे स्वाप्नजागरणत्वात् अस्वाप्नस्वाप्नजागरणवत् इति प्रयोगोऽभिप्रेतः ।। ७०० ।।

युक्तिमल्लिका

यदि जाग्रदवस्थादि तस्य नान्यस्य कस्यचित् ।

स्वयमेव स्वोपदेष्टेत्यायादायासभूस्तव ।। ७०१ ।।

सुरोत्तमटीका

 दोषान्तरं चाह ।। यदीति ।। तस्य एकजीवस्य । अन्यस्य कस्यचिन्न । यत्र क्वचिद्विद्यमानं जागरणं स्वप्नादिकं च तस्यैव नान्यस्येत्यर्थः । तर्हि स्वयमेव स्वोपदेष्टेति आयासभूःतवाऽयादिति योजना । जाग्रदवस्थापन्नो हि गुरुस्तमेक जीवं बोधयेत् । जाग्रदवस्था सर्वापि तस्यैव चेत्स्वयमेव स्वस्य बोधक इति प्राप्तम् । तथा चात्माश्रयप्रसङ्गः । अतः सर्वथा जागरणं तत्समानाधिकरणस्वप्नश्चान्यस्यैवेति वक्तव्यम् । एवञ्च स्वप्ने प्रागुक्त-बहुद्रष्टृकत्वमपरिहार्यमेवेति भावः ।। ७०१ ।।

सत्यप्रमोदटीका

 तस्य एकजीवस्य । न अन्यस्य गुर्वभिमतस्य । दूषयति स्वयमेवेति । आयासभूः आत्माश्रयः ।। ७०१ ।।

युक्तिमल्लिका

अतस्स्वप्ने न चेज्जीवो नैकजीवमतं तव ।

स्वप्नेषु सन्ति चेज्जीवा नैकजीवमतं तव ।। ७०२ ।।

सुरोत्तमटीका

 दूषणान्तरं सूचयन्नुभयतःपाशरज्ज्वा बध्नाति ।। अत इति ।। अतः जागरणस्य स्वप्नसमानकालीनस्य त्वदभिलषितैकजीवद्रष्टृकत्वा-योगे द्रष्टृनिरपेक्ष तत्समानयोगक्षेमस्वप्नस्यापि तद्द्रष्टृकत्वायोगात् । स्वप्ने जीवो न चेत् तदतिरिक्तजीवो न चेत् । निर्जीवैतत्स्वप्नवदेकजीवस्वप्नस्यापि निर्जीवत्व-सम्भवेन तवैकजीवमतं एको जीवोऽस्तीतिमतं न नाभूदित्यर्थः । अथवा । अतस्स्वप्नादुत्थितस्यास्यैवाहमद्राक्षमिति परामर्शदर्शनात् । तस्य च जीवान्तर-निमित्तत्वे प्रमाणाभावात् । स्वप्ने एतस्य स्वप्ने जीवो न चेत् सर्वस्यापि स्वप्नस्य निर्जीवत्वसम्भवात् भवदभिमतस्वप्नद्रष्टृदेहेऽपि जीवासिद्ध्या तवैकजीवमतं नेति योजना । इत स्पष्टम् ।। ७०२ ।।

सत्यप्रमोदटीका

 स्वप्ने गृहे गृहे दृश्यमाने । जीवः द्रष्टा न चेत् त्वद्रीत्या तस्यापि निर्जीवत्वाभ्युपगमे । यद्वा स्वप्नोत्थितस्य स्वप्नावस्थापरा-मर्शवतः प्रमितस्य स्वप्नद्रष्टुर्जीवस्यानभ्युपगमे । तव त्वदभिमतस्य स्वप्नदष्टुरेक-जीवस्यापि समानयोगक्षेमतया निर्जीवत्वेनाभावापत्तेः तव त्वदभिमतं एक-जीवमतं गतं स्वरीत्यैव अपास्तम् ।। ७०२ ।।

युक्तिमल्लिका

यदि देहेषु जीवाः स्युर्नैकजीवमतं तव ।

यदि देहेषु ते न स्युर्नैकजीवमतं तव ।। ७०३ ।।

सुरोत्तमटीका

 प्रकारान्तरेणाप्युभयतःपाशारज्जुमाह ।। यदीति ।। देहेषु दृश्यमानदेहेषु । ते जीवाः । जैवसकलव्यापारवता देहानां निर्जीवत्वे ईदृशैक-जीवदेहस्यापि निर्जीवत्वसम्भवादिति भावः ।। ७०३ ।।

सत्यप्रमोदटीका

 ते जीवाः । न स्युरिति । एकजीवाभिमतदेहं पक्षीकृत्य तदितरसर्वजीवदेहदृष्टान्तेन देहत्वहेतुना निर्जीवत्वसाधन-सौलभ्यादिति भावः ।। ७०३ ।।

युक्तिमल्लिका

देहेषु घटवैशेष्ये नैकजीवमतं तव ।

देहेषु तदवैशेष्ये किं नाहं कुरुते घटः ।। ७०४ ।।

सुरोत्तमटीका

 युक्त्यन्तरं चाह ।। देहेष्विति ।। एकजीवदेहव्यतिरिक्त-देहेष्वित्यर्थः । घटवैशेष्ये घटाज्जीवसाहित्याख्यवैशेष्ये । द्वितीये देहघटयो-रुभयोरपि निर्जीवत्व साम्ये घटोऽप्यहङ्करोमीति किं नाहंकुरुत इत्यर्थः । किञ्चानादिमायया सुप्तो यदा जीवः प्रबुध्यत इति श्रुत्या जीवस्य सुप्तिरेव श्रूयते न तु स्वप्नः । सुप्तस्य च मनआदिसकलेन्द्रियोपरमेन कल्पकत्वायोगाद-कल्पितमेव जगत्सिद्धम् । अनादिकालमारभ्य तवैकजीवस्य स्वप्नैकद्रष्टृत्वे सुप्तिजाग्रदाख्यावस्थाद्वयस्य विलोपप्रसङ्गश्च । स्वाप्नभोगस्य देहपोषकत्वा-सम्भवेनानादिकालमारभ्य जगत्कल्पकस्वप्नं पश्यतः भोगान्तराभावेन मृते-रावश्यकत्वात् तन्मरणेऽपि दृश्यमानं जगदकल्पितमेवाभूत् । अतो यत्किञ्चिदेतत् ।। ७०४ ।।

सत्यप्रमोदटीका

 वैशेष्ये जीवसाहित्यलक्षणे । चेष्टावत्त्वलिङ्गेन सिद्धे इत्यर्थः । न च अप्रयोजकता । घटस्याप्यन्यथा अहं करोमि इति सङ्कल्पः तत्पूर्वकचेष्टादिकं च स्यादिति बाधकसद्भावात् । तदुक्तमनुव्याख्याने

परस्य सत्यतां जानन्नपि यः स्वात्मतस्करः ।

 परो नास्तीति वदति किमित्युन्मत्तवद्भदेत् ।।

 पराभावेऽपि वाग् व्यर्था यदि नैवोच्यते तदा ।

 कशावेत्रादिकं तस्य तस्करस्योत्तरं वदेदि’ति ।। ७०४ ।।

युक्तिमल्लिका

देहेन सह सर्वेषु देहेष्वेको न गच्छति ।

देहं विसृज्य गच्छेच्चेन्मृतस्य स्यात्पुनर्भवः ।। ७०५ ।।

सुरोत्तमटीका

 ननु विमतानि शरीराणि मद्भोगायतनानि शरीरत्वा-न्मच्छरीरवदित्यनुमानात् सकलशरीरगतभोगानां एकजीवेनैव भुक्तिसिद्धेः कथमनेकजीवत्वमिति चेत् । तत्राह ।। देहेनेति ।। सकलदेहगतभोगानुभवः जीवकलाप्रवेशं विना न घटते । जीवकलाप्रवेशश्च देहेन सह सर्वदेहेष्व-सम्भावितः । देहं विहाय गमने पूर्वदेहे मरणमुत्तरदेहे जननं च स्यादिति भावः

।। ७०५ ।।

सत्यप्रमोदटीका

 किं च अनादिकालतः सुप्तस्य अशनाद्यभावान्मृत्युरेव स्यात् । दूरे प्रबोधः । यदि अन्यदेहान्प्रविश्य भोगान् भुंक्ते अतो न मरणं इति ब्रूयाः तत्र पृच्छामः ।। स्वदेहं विहाय अन्यदेहान् प्रविशति उताविहायेति । द्वितीयस्तु असम्भावित इत्याह देहेन सहेति । आद्ये आह मृतस्येति । पूर्वदेहपरित्यागेनेति भावः । पुनर्भवः देहान्तरप्रवेशात् ।। ७०५ ।।

युक्तिमल्लिका

देहं प्रविश्य भोगश्चेत्प्रागुक्तं दूषणं स्मर ।

अप्रविश्यैव भुंक्ते चेदेकदेहेऽप्यसौ कुतः ।। ७०६ ।।

सुरोत्तमटीका

 ननु देहप्रवेशं विनैव भोगोऽस्तु को दोष इत्यत आह ।। देहं प्रविश्येति ।। प्रागुक्तं पूर्वपद्योक्तम् । अप्रविश्य देहमप्रविश्य । एकजीव-देहेऽसौ प्रवेशः । तस्मिन्नपि देहेऽप्रविश्यैव भोगसम्भवादिति भावः ।।७०६।।

सत्यप्रमोदटीका

 अथ देहं सर्वथाऽप्रविश्यैव भोगः तर्हि भोगे देहस्य अकिञ्चित्करत्वापत्त्या सर्वथा देह एव तस्य माऽस्तु इत्याह एकेति ।।७०६।।

युक्तिमल्लिका

यद्येकस्याखिला भोगाः कलहः किं निबन्धनः ।

यद्यनेकेऽपि भोक्तारः कलहः किं निबन्धनः ।। ७०७ ।।

सुरोत्तमटीका

 युक्त्यन्तरमाह ।। यदीति ।। अखिला भोगाः सकलजीव- शरीरेषु विद्यमाना भोगाः । कलहः स एव भुङ्क्ते नाहमिति कलहः । द्वितीयपक्षे जीवबाहुल्यसिद्धेस्तत्ववादिनं प्रति कलहः ।। ७०७ ।।

सत्यप्रमोदटीका

 कलहः इति । एकमेवार्थं कामयमानेषु विरुद्धमतिषु अनेकेषु एकत्रसंस्थितेषु कलहः भवति । यथोक्तं भागवते ‘वासो बहूनां कलहः’ इति । एकस्यैव सद्भावे कुतो विरुद्धमतिः कुतस्तरां तन्निमित्तकः कलह इति भावः । कलह इति । त्वयैव तत्त्ववादिनां अस्माकं पक्षस्यैवाभ्यु-गतत्वादिति भावः ।। ७०७ ।।

युक्तिमल्लिका

यद्यशुद्धं च शुद्धं च भुंक्ते सर्वत्र सर्वदा ।

प्रायश्चित्तविधिस्तस्य व्यर्थः कुञ्जरशौचवत् ।। ७०८ ।।

सुरोत्तमटीका

 दोषान्तरमाह ।। यदीति ।। अशुद्धं मांसादिकम् । शुद्धमन्नादिकम् । तस्य एकजीवस्य । एकदिने प्रायश्चित्तं कृत्वापि पुनःपरदिने तेनैव तस्याशुद्धस्यैव भुज्यमानत्वात् कुञ्जरशौचवदित्युक्तम् ।। ७०८ ।।

सत्यप्रमोदटीका

 कुञ्जरोऽपि स्नानानन्तरं धूलीप्रक्षेपेण देहं मलिनयति । अयं तु एकेन देहेन प्रायाश्चित्तचरणसमय एव अन्यैर्देहैरशुद्धं आचरतीति ततोऽप्ययमविवेकीति हृदयम् ।। ७०८ ।।

युक्तिमल्लिका

अतो नात्रानुमामानमक्षं रुक्षं दिधक्षति ।

सुखदुःखादिकाध्यक्षान्बहून्साक्षाद्यदीक्षते ।। ७०९ ।।

सुरोत्तमटीका

 अतःयुक्तिविरुद्धत्वात् । अत्र एकजीवत्वे । यत्साक्षि-रूपप्रत्यक्षम् ।। ७०९ ।।

सत्यप्रमोदटीका

 ‘न चैकजीवाज्ञानपरिकल्पितं समस्तमि’त्यत्र किञ्चिन्मानमि’ति तत्त्वनिर्णयोक्तिमनुरुध्योपसंहरति अत इति । अक्षं साक्षि-प्रत्यक्षम् । रुक्षं निरवकाशम् । बहून् विभिन्नभोगानुसन्धानवतो जीवान् । ईक्षते स्वात्मानं अन्यगतानुसन्धानरहितं तद्भिन्नत्वे न प्रत्यक्षीकुरुते इति भावो बोध्यः । अन्यजीवेक्षणस्यायोगिसाक्षिष्वनुपपत्तेः ।। ७०९ ।।

युक्तिमल्लिका

यद्येकवचनान्तोक्त्या जीवैक्यं न स्याद्भवेत्तदा ।

अनादिमायया सुप्त इत्युक्त्या सुप्त एव सः ।। ७१० ।।

सुरोत्तमटीका

 यदा जीवः प्रबुध्यत इति श्रुतौ जीव इत्येकवचना-न्तोक्त्या जीवैक्यम् जीवस्यैकत्वम् । सुप्त एव निद्राङ्कुर्वन्नेव न तु स्वप्नमनुभव-न्नित्यर्थः । सः एकजीवः । तथा च जगतस्स्वप्नकल्पितत्वासिद्धिरिति भावः ।।

सत्यप्रमोदटीका

 ‘अनादिमायया सुप्तो यदा जीवः प्रबुध्यते’ इति श्रुतिरस्तु प्रमाणं इति चेन्न । अत्र जीवानामेकत्वप्रतिपादकपदाभावात् । जीवः इति चैकवचनं नीतिपरो राजा इत्यत्रैव समुदायैकत्वपरम् । एक एवेत्यव-धारणाभावात् । अविद्यमानपदाध्याहारेऽतिप्रसङ्गमाह सुप्त इति । एवकारेण स्वप्नदर्शनं व्यावर्तयति ।। ७१० ।।

युक्तिमल्लिका

धर्मं चरेति वचनाद्धर्मैक्यं किं न वर्ण्यते ।

अजामजोश्नुतेऽजोन्यो जहातीति वचः स्मर ।। ७११ ।।

सुरोत्तमटीका

 एकवचनान्तपदमहिम्ना वस्तुनोऽप्येकत्वाङ्गीकारेऽति-प्रसङ्गमाह ।। धर्ममिति ।। अत्र जात्येकवचनत्वे तत्रापि तथा स्यादिति भावः । जीवनानात्वे स्पष्टाञ्च श्रुतिं दर्शयति ।। अजामिति ।। अनेन अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः इति श्रुतिं संगृह्णाति । तत्र हि प्रकृतिबद्धतया ध्वस्तबन्धतया चाजपदोक्तौ द्वौ जीवौ स्पष्टं प्रतीयेते । भुक्तभोगां जहातीत्यस्य नित्यमुक्ते परमात्मनि अयोगात्तदन्यजीवस्यैव ग्राह्य-त्वादिति भावः । चेतनश्चेतनानामेको बहूनां येऽनुपश्यन्ति धीरास्तेषां शाश्वतमिति च विस्पष्टं बहुजीववादिनी श्रुतिरप्यनुसन्धेया ।। ७११ ।।

सत्यप्रमोदटीका

 जात्यैकवचनश्रौतप्रयोगं निदर्शयति धर्ममिति । बद्धजीवात् मुक्तजीवस्य अन्यत्वबोधकश्रुतिमाह अजामिति । अजो ह्येको जुषमाणोऽनुशेते । जहात्येनां भुक्तयोगामजोऽन्यः इति पूर्वार्धेन बद्धमुक्त्वा उत्तरार्धेन बन्धमनुभूय मुक्तजीवं संसारिणोऽन्यत्वेन अन्य इत्यभ्यासेनात्र स्पष्टमुक्तेः । जीवस्यैकमात्रत्वे नेयं बद्धमुक्तव्यवस्था युज्यते इति भावः ।।७११।।

युक्तिमल्लिका

अन्तर्बहिस्त्रिलोकीं यः पश्येत्सर्वत्र चक्षुषा ।

तं सर्वसाक्षिणं सुप्तं कथमाह श्रुतिर्बलात् ।। ७१२ ।।

सुरोत्तमटीका

 यो जगत्कल्पकस्तवैको जीवः । चक्षुषेत्युपलक्षणं स्वप्ने चेन्मनसेत्यपि द्रष्टव्यम् । स्वप्ने चेदन्तः । जाग्रति चेद्बहिः । अण्डान्तर्बहिर्वा । साक्षिणं कल्पकतया द्रष्टारम् । तं सुप्तं बाह्यज्ञानमात्रविधुरसुषुप्त्यवस्थापन्नम् । त्वत्प्रक्रियायाश्श्रुतेश्च बहुदूरमिति भावः ।। ७१२ ।।

सत्यप्रमोदटीका

 किं चात्र सुप्त इत्यस्य आवृत इत्येवार्थः । न तु निद्रावश इति । मायाशब्दस्य

महामायेत्यविद्येति नियतिर्मोहिनीति च ।

 प्रकृतिर्वासनेत्येवं तवेच्छाऽनन्त कथ्यते’

इति प्रमाणाद्विष्णोरिच्छैवार्थः । तथा चानादित ईश्वरेच्छारूपावरणेन आवृत इत्येवार्थः । न तु निद्रावश इति । अन्यथा तस्येन्द्रियोपरमेण त्रिलोकीदर्शनानुपपत्तेरित्याह अन्तरिति ।। ७१२ ।।

युक्तिमल्लिका

जीवैक्ये युगपद्भ्रान्तिप्रमिती कस्य का मृतिः ।

किं जन्म तस्य निद्रायां न स्याज्जगदिदं महत् ।। ७१३ ।।

सुरोत्तमटीका

 ननु सुप्तपदेन लक्षणयाऽज्ञानशबलजाग्रदवस्थैवोच्यते । अतो न विरोध इत्यत आह ।। जीवैक्य इति ।। जाग्रदवस्थापन्नजीवैक्य इत्यर्थः । युगपद्भ्रान्तिप्रमिती पुरुषद्वये एकत्रैकदैव जायमाना रजतभ्रान्ति-श्शुक्तिप्रमितिश्चेत्यर्थः । कस्य । तव मते जीवान्तराभावादेकजीवस्यैवेति वक्तव्यम् । तच्च विरुद्धम् । प्रमाभ्रमयोर्युगपदेकत्रायोगादयुक्तमतस्तत्प्रत्येतृ-जीवद्वयमावश्यकमिति भावः । का मृतिः किं जन्म । जीवस्य देहसंयोग-वियोगौ हि जन्ममरणतयालोके वेदे च कथ्येते । एकस्यैव जीवत्वे तदपि न स्यादिति भावः । तस्य एकजीवस्य । जीवत्वादेव निद्रापि संभाविता । अतस्तदा जगदभावप्रसङ्ग इति भावः ।। ७१३ ।।

सत्यप्रमोदटीका

 ननु सुप्तशब्देनाज्ञानशबलजाग्रदवस्थैव लक्ष्यते अतो नोक्तदोष इत्यत आह जीवैक्य इति । संसरद्भिर्जीवैरैक्ये इत्यर्थः । संसरन्तः खलु केचिद्भ्रान्ताः केचित्तदैव प्रमातारो दृष्टाः । तदैक्येऽस्यैकजीवस्य युगप-द्भ्रान्तिप्रमे प्रसज्येयाताम् । युगपज्जन्ममरणानि चापद्येरन् । अनादितः जागरितत्वासम्भवः । संसारिणोऽवस्थात्रयस्य नियतत्वात् । यदा कदाचि-न्निद्राङ्गीकारे जगद्विलयप्रसङ्ग इत्याह निद्रायामिति ।। ७१३ ।।

युक्तिमल्लिका

स्वप्ने कथञ्चिद्घटते तत्स्वप्नोऽयं भवेद्ध्रुवम् ।

निद्रा च निद्रैवास्य स्यात्किं न स्याद्दूषणं तदा ।। ७१४ ।।

सुरोत्तमटीका

 ननु दैनन्दिनप्रलयकाल एव तस्य निशा तदैव निद्रा च । अतस्तस्य निद्रायां जगदभावो नानिष्ट इति चेन्न । त्रैलोक्याभावमात्र-स्येष्टत्वेऽपि तदतिरिक्तभुवनाभावस्य प्रलयोदकाभावस्य च तदाप्यनिष्ट-त्वान्निद्राकालस्यैव स्वप्नकालत्वान्मध्येप्रलयं जगदुत्पत्तिप्रसङ्गः । पुनरह्नि जगदभावप्रसङ्गश्च । सैव तस्य निशा चेत्कस्य तर्हीयं मानुषी निशा । इदानींतननिद्रा च । न तावज्जडस्य । तस्यावस्थात्रयविधुरत्वात् । चेतनान्तरस्य चेत् बहुजीववादप्रसङ्गः । तस्यैव चेत् इदानीमपि निशि जगदभावप्रसङ्गः । तस्मान्नासौ जाग्रदवस्थापन्नः । उक्तदूषणपरिहारासंभवात् । किन्तु स्वप्नाव-स्थापन्न एव वाच्य इत्याह ।। स्वप्न इति ।। घटते । युगपद्भ्रान्ति-प्रमितिजन्ममृत्यादिकम् । न हि स्वाप्नभ्रान्तिप्रमितिजन्मादौ स्वप्नद्रष्टृजीवादपरो जीवोऽस्ति । अतस्स्वप्नस्य जाग्रदवस्थावन्नियन्तुमशक्यत्वात् विरुद्धमपि तत्र घटत इति भावः । स्वाप्नसृष्टिपक्षे तत्रापि नरकरितुरगादितात्कालिक-बहुजीवसद्भावेन जाग्रद्वदेव मर्यादाया वक्तुं शक्यत्वात्कथञ्चिदित्युक्तम् । तत्तस्मात् । अयं एकजीवभ्रमः । निद्रा सुप्तपदोक्ता निद्रा । अस्य एकजीवस्य । तदा मुख्यतो निद्रितस्य स्वप्नपक्षे किं दूषणं न स्यात् । प्रागुक्तं वक्ष्यमाणं च सर्वं दूषणं स्यादित्यर्थः ।। ७१४ ।।

सत्यप्रमोदटीका

 स्वप्ने इति स्वाप्नानां, युगपद् भ्रान्तिप्रमाश्रयणानां जन्ममरणवतां बहूनां जीवानां दृश्यमानानां विद्यमानत्वेनेत्युपस्कर्तव्यम् । घटते पूर्वोक्तम् । निद्रा श्रुत्युक्तसुप्तपदाभिहिता । निद्रैव न तु त्वद्विवक्षित-जागरितावस्था । तथा च प्रागुक्तदोषापरिहार इत्याह किमिति ।। ७१४ ।।

युक्तिमल्लिका

जगद्भङ्गभिया निद्रां सुभद्रां कुर्वतस्सदा ।

स्वप्नो जगच्चेत्कस्य स्यान्निषेधविधिशासनम् ।। ७१५ ।।

सुरोत्तमटीका

 तदेव दूषणं दर्शयति ।। जगदिति ।। निद्रितं प्रति निषेधविध्योरप्रयोजकत्वादन्यस्याचेतनत्वादिति भावः ।। ७१५ ।।

सत्यप्रमोदटीका

 भियेत्यपहासः । सुभद्रां अनादितः विच्छेदहीनाम् । कस्येत्याक्षेपः निद्रितस्य त्वदप्रसक्तेः ।। ७१५ ।।

युक्तिमल्लिका

यदा नो परमश्चक्षुरादेर्न स्वप्नवज्जगत् ।

यदा चोपरमः कस्य करणं कारणं वद ।। ७१६ ।।

सुरोत्तमटीका

 दूषणान्तरमाह ।। यदेति ।। चक्षुरादींद्रियाणामुपरमाभावे स्वप्न एव न स्यात् । स्वप्ने हि मनोमात्रस्योद्बुद्धता । इतरेन्द्रियाणामुपरमः । उपरमे च करणं एकजीवचक्षुरादिकरणं कस्य प्रयोजनस्य कारणम् । आसंसारं निद्राङ्गीकारेण तत्करणसृष्टेर्वैयर्थ्यादिति भावः ।। ७१६ ।।

सत्यप्रमोदटीका

 बाह्येन्द्रियोपरमाभावे स्वप्नस्य तदानीन्तनजगतश्चानु-पपत्तिं स्मारयति यदेति । अनादित इन्द्रियाणामुपरमे तेषां कारणत्वाभावेन वैफल्यमेवेत्याह कस्येति ।। ७१६ ।।

युक्तिमल्लिका

किं चैकजीवस्वप्नोऽयं साक्षात्स्वप्नो भवेद्यदि ।

स्वाप्नवैकुण्ठयात्रा च स्याद्धि स्वप्नेन किं भवेत् ।। ७१७ ।।

प्रबोधे गुरुशास्त्रादेर्निवृत्त्येतः फलान्तरम् ।

कदापि न भवेत्तस्य भवस्तस्माद्ध्रुवो भवेत् ।। ७१८ ।।

सुरोत्तमटीका

 प्रबलं दूषणमाह ।। किञ्चेति ।। स्वप्ने किं न भवेत् सर्वमपि संभावितमिति भावः । इदं च स्वाप्नोपदेशे ज्ञानमोक्षादिकं तवापि न फलम् । स्वाप्नोपदेशेन जाग्रति ज्ञानादिकं च न सम्भावितम् । स्वाप्नभोजनेन जाग्रति तृप्तेरदर्शनात् । स्वाप्नयज्ञेन जाग्रति स्वर्गाद्यदर्शनाच्च ।। इतस्स्वाप्न-ब्रह्मज्ञानमोक्षादिभ्यः । तस्य एकजीवस्य । भवस्संसारः । तस्मा ज्जाग्र-च्छ्रवणादेरभावात् ईदृशैकजीवस्य कदापि मोक्षो न भवेदित्यर्थः । उपलक्षणं चैतत् । ‘‘वैधर्म्याच्च न स्वप्नादिव’’दिति ब्रह्मसूत्रविरुद्धत्वाच्च नायं पक्षश्शोभत इत्यपि द्रष्टव्यम् ।। ७१७,७१८ ।।

सत्यप्रमोदटीका

 सुप्तस्य कल्पकस्य जीवस्य गुरोः स्वकल्पितत्वं जानतः तत्सकाशाच्छ्रवणं एवं स्वकल्पितं शिष्यं प्रति व्याख्यानं वा न सम्भवतीत्युक्तम् । अभ्युपेत्याह तदेति । स्वाप्नसाधनेन स्वाप्नमेव फलं न तु वास्तवमिति भावः । प्रबोधानन्तरं तु न गुरुः न शिष्यः न वा शास्त्रं इति वास्तवसाधनानुपपत्तिरेव । तथा च तस्य न मुक्तेः प्रत्याशेति सिध्यतीत्याह भव इति । ध्रुवः शाश्वतः ।। ७१७,७१८ ।।

युक्तिमल्लिका

जाग्रद्दशैव सा स्वप्नकथा यद्युपचारतः ।

देहे देहे तदा व्याप्तब्रह्मचैतन्यमस्ति ते ।। ७१९ ।।

देहोपादानमज्ञानं चास्ति देह्युचितक्रियाः ।

सन्ति निर्जीवता तेषां देहानां केन हेतुना ।। ७२० ।।

सुरोत्तमटीका

 स्वाप्नपक्षं दूषयित्वा जाग्रत्पक्षं पुनरपि प्रबलदोषान्तरेण दूषयति ।। जाग्रद्दशेति ।। सा एकजीवावस्था । तदा जाग्रद्दशात्वे । ते मते देह्युचितक्रियाः देहिनो जीवस्योचितक्रियाः अभिलापादयः । केन हेतुना न केनापि । एकजीवदेहवत् जाग्रदवस्थादेहत्वस्य ब्रह्मचैतन्यप्रवेशस्याभिलापादि-जैवधर्मस्य चोभयत्र साम्यात् उभयोरपि सजीवत्वमेव भवेत् । एवमपि निर्जीवत्वे क्वापि जीवो न स्यादिति भावः ।। ७१९,७२० ।।

सत्यप्रमोदटीका

 किं च तिष्ठन्तु जीवान्तराणि । व्याप्तस्य ब्रह्म-चैतन्यस्य देहे देहेऽनुप्रवेशस्तावदस्ति । तत एव देहान्तराणां सजीवत्वमेवास्तु तेनैव सन्तु च देह्युचितक्रियाः । निर्जीवत्वं कुतः । अन्यथा स्वदेहस्यापि निर्जीवत्वापत्तिः । तत्रापि ब्रह्मचैतन्यसन्निधानमेव सजीवत्वहेतुः । तदतिरिक्त-जीवाभावादित्याह जाग्रदिति ।। ७१९,७२० ।।

युक्तिमल्लिका

यद्यस्य माया सृष्टिस्सा द्रष्टा को स्यास्तदा वद ।

स्वयं चेन्नास्य माया भून्नापरोस्त्येकजीविनः ।। ७२१ ।।

सुरोत्तमटीका

 पक्षान्तरमाशङ्कते ।। यद्यस्येति ।। अस्य एकजीवस्य । सा जीवान्तरसृष्टिः । मायिककरितुरगादीनामिव निर्जीवत्वं सम्भवतीत्या-शयः । दूषयति ।। द्रष्टेति ।। अस्याः मायिकसृष्टेः । स्वयं एकजीव एव । द्रष्टा चेदिति सम्बन्धः । अस्य एकजीवस्य । मायावी स्वमायाकल्पितसृष्टिं स्वयं न पश्यति । स्वाश्रयाव्यामोहिनीमायेत्यङ्गीकारात् । किं तु द्रष्टृपुरुषान्तरनयनानि मन्त्रौषधादिनाऽऽच्छाद्य तेषां दर्शयति । अत एक जीवस्यैव द्रष्टृत्वे तन्मायात्वं न घटत इति भावः । अन्यश्च द्रष्टा नास्तीत्याह ।। नापर इति ।। ७२१ ।।

सत्यप्रमोदटीका

 एकजीववादः खलु विवरणकाराभिमतः । यद्यपि स मायासृष्टिं नाभिप्रैति । तथाऽपि सम्भावितत्वाच्चर्चार्थं स्वयमाशङ्क्य निषेधति यदीति । मायिकपदार्थानां द्रष्टा किं मायावी एकजीवः उत तदपरः । नाद्य इत्याह स्वयमिति । ‘न च मायाविना माया दृश्यते’ इति वचनात् । न द्वितीय इत्याह नापर इति ।। ७२१ ।।

युक्तिमल्लिका

रूपमात्रं तदापि स्यात्कथं शास्त्रनिरूपणम् ।

मायाकृत्रिमविप्रेषु वाग्वृत्तिर्न हि मायया ।। ७२२ ।।

सुरोत्तमटीका

 दूषणान्तरं चाह ।। रूपमात्रमिति ।। तदापि माया-सृष्टित्वेऽपि । उपलक्षणं चैतत् । एकजीववादो हि विवरणकारस्यैव पक्षः । तस्याविद्यातिरिक्तामायैव नास्ति । अतश्शङ्कैवेयं न घटत इत्यपि द्रष्टव्यम् ।। ७२२ ।।

सत्यप्रमोदटीका

 सर्वथा शास्त्रश्रवणादिकमसम्भावितमेवेत्याह रूपेति ।। ७२२ ।।

युक्तिमल्लिका

अथ स्वयं ब्रह्मणोंऽशः स्वांशाः सर्वेऽन्यदेहिनः ।

इति चेदेकजीवत्वं किं स योगप्रभाववान् ।

परिच्छिन्नैकदेहस्थः कथं देहान्तरं विशेत् ।। ७२३ ।।

सुरोत्तमटीका

 एक एव जीवस्तस्य च स्वप्नस्सर्वं जगन्निर्जीवं चेत्येव मायिनां सिद्धान्तः । ग्रन्थकारस्तु सम्भावितं पक्षान्तरमुत्थापयति ।। अथेति ।। स्वयमेकजीवः । स्वांशाः एकजीवांशा इति एकजीवत्वं चेदिति सम्बन्धः । दूषयति ।। किमिति ।। सः एकजीवः । एकदेहावच्छिन्नस्य जीवस्य पुन-रनन्तदेहेषु प्रविश्य जीवभावो परोक्षज्ञानोत्तरकालं प्रारब्धकर्मभोगाय कायव्यूहं संपादयतो योगिन एव घटते नान्यस्य । अयं चानादिकालमारभ्य जननमरण-नरकाद्यनेकक्लेशाननुभवन्न योगी नाप्यपरोक्षज्ञानी । अतोऽस्यानन्तानन्त-जीवदेहेषु कथंप्रवेशः । व्याप्तस्य तु ब्रह्मणः कथञ्चिद्घटते । अत ईदृशोऽप्येक-जीववादो न शोभत इति भावः । एतदेव विशदयति ।। परिच्छिन्नेति ।। ७२३ ।।

सत्यप्रमोदटीका

 देहान्तरेषु स्वांशाः सन्ति तेषु प्रविश्य स्वयं भुंक्ते इति पक्षान्तरमुत्थाप्य दूषयति अथेति । देहव्यूहनिर्माणे सौभर्यादिवन्नास्य योगप्रभावोऽस्तीत्याह किमिति । अज्ञाननिद्रितस्य अस्य अपरोक्षज्ञानस्य तत्कार्यस्य योगप्रभावादिकस्य चासम्भवादेवेति भावः ।। ७२३ ।।

युक्तिमल्लिका

देहे देहे पृथग्भोगान्भुञ्जन्तोऽनादितो यदि ।

सन्त्यनन्ताश्चेतनांशा बहुजीवत्वमेव तत् ।। ७२४ ।।

सुरोत्तमटीका

 एतत् एतादृशमतम् ।। ७२४ ।।

सत्यप्रमोदटीका

 एते जीवा एकजीवस्यांशाः सन्तु ब्रह्मणो वा । सर्वथा बहुजीवभाव एव पर्यवसित इत्याह देहे इति ।। ७२४-७२६ ।।

युक्तिमल्लिका

जीवाद्वा ब्रह्मणो वास्तुलुम्लिटोः किं विशेषणम् ।। ७२५ ।।

सुरोत्तमटीका

 अस्तु अंशविभागोऽस्तु ।। ७२५ ।।

युक्तिमल्लिका

गेहे गेहे स्थिता दीपा दीपान्मूलाग्नितोऽपि वा ।

भवन्तु बहुदीपत्वे न विशेषोऽस्ति कश्चन ।। ७२६ ।।

सुरोत्तमटीका

 तत्र दृष्टान्तमाह ।। गेहे गेह इति ।। बहुदीपत्वे गेहानां बहुदीपत्वे ।। ७२६ ।।

युक्तिमल्लिका

निर्जीवदेहसञ्चारे स्वदेहोऽप्यस्तु तादृशः ।

सर्वभ्रान्तिर्ब्रह्मणोऽस्तु संसरेन्मुच्यतां च तत् ।। ७२७ ।।

सुरोत्तमटीका

 किं च सर्वविकल्पगतोऽप्येकजीवस्य देहः केन कल्पितः। न तावत्स्वेनैव । देहोत्पत्तेः पूर्वं कल्पकत्वायोगात् । योगे वा जगत्कल्पनस्यापि देहं विनैव सम्भवेन देहाङ्गीकारवैयर्थ्यप्रसङ्गात् । स्वप्नद्रष्टु-स्स्वदेहकल्पकत्वस्य क्वाप्यदर्शनाच्च । अतो ब्रह्मणैवेति वक्तव्यम् । एवं सति सर्वे देहाः निर्जीवा एव सन्तु किं द्विप्रकारकल्पनयेत्याह ।। निर्जीवेति ।। स्वदेहः एकजीवदेहः । तादृशः निर्जीवः । तर्हि भ्रमः कस्येत्यत आह ।। सर्वेति ।। तद्ब्रह्म ।। ७२७ ।।

सत्यप्रमोदटीका

 ब्रह्मणोऽस्त्विति । न चेष्टापत्तिः ‘विद्यामयो यः स तु नित्यमुक्तः’ इति भागवतविरोधात् ।। ७२७ ।।

युक्तिमल्लिका

अज्ञानकार्यब्रह्मेशसर्वकर्तृत्वहन्तृते ।

युक्ते नेति तयोः कार्यत्वेनेत्यादावुदीरितम् ।। ७२८ ।।

सुरोत्तमटीका

 इदानीमेकजीवस्य जगत्कर्तृत्ववादे तच्छास्त्रस्य पूर्वोत्तर-विरोधं दर्शयति ।। अज्ञानेति ।। अज्ञानकार्ययोर्ब्रह्मरुद्रयोस्सर्वकर्तृत्वहन्तृते ब्रह्मणः कर्तृत्वं रुद्रस्य हन्तृत्वमित्यर्थः । तयोः कार्यत्वेनेत्यनेन तयोः कार्यत्वेन निखिलजगत्सर्जन संहरणसामर्थ्याभावादिति तत्वदीपनवाक्यं संगृह्णाति । आदौ मङ्गलपद्यव्याख्यानावसरे । इति वाक्ये उदीरितमिति सम्बन्धः । उपलक्षणं चैतत् । कारणत्वाक्रान्तं ब्रह्म नमस्कार्यमित्याहेति ब्रह्म-कारणतायाश्च निरूपणादित्यपि द्रष्टव्यम् । तयोर्विधिरुद्रयोः कार्यत्वेन अज्ञानकार्यत्वेनेति तद्वाक्यार्थः ।। ७२८ ।।

सत्यप्रमोदटीका

 किं च तत्त्वप्रदीपनाख्ये मायिग्रन्थे, बह्मणः रुद्रस्य चाज्ञानकार्यत्वेन तयोः कर्तृत्वं संहर्तृत्वं च नोपपद्येते इति व्याख्यातम् । इदानीं अज्ञानकार्यस्य एकजीवस्य तदुभयाङ्गीकारे पूर्वोत्तरविरोधः तत एव दोषेण शास्त्रस्यैव निद्रासदृशं अप्रामाण्यं ब्रह्मणो जगज्जन्मादिकारणत्व-लक्षणस्य एकजीवेऽतिव्याप्तिश्चेत्याह त्रिभिः अज्ञानेत्यादिना ।। ७२८-७३० ।।

युक्तिमल्लिका

पुनरज्ञानकार्यस्य जीवस्यास्य निगद्यते ।

सर्वस्य कर्तृता तेन जीवो जागर्ति चेत्तव ।। ७२९ ।।

निद्राति हृद्रुजा शास्त्रं मिथो यद्धि व्यरुध्यत ।

जीवेऽतिव्यापकं चेदं कथं स्याद्ब्रह्मलक्षणम् ।। ७३० ।।

सुरोत्तमटीका

 तेन कारणेन । तव जीवः एकजीवः । जागर्ति चेत् जागरूकतया वर्तते चेत् । हृद्रुजा पूर्वोत्तरविरोधाख्यहृदयव्याधिनानिद्राति निद्रितपुरुषवत् स्वार्थसाधकं न भवतीत्यर्थः । यत् शास्त्रम् । अज्ञानकार्यत्वात् विधिरुद्रयोः कर्तृता नेत्येकत्रोक्तम् । इदानीं पुनरज्ञानकार्यस्यैकजीवस्य सकल-जगत्कर्तृत्वमुच्यते । अतः पूर्वोत्तरविरुद्धत्वात् शास्त्रमुन्मत्तप्रलपितं स्यादिति भावः । दोषान्तरं चाह ।। जीवेऽतिव्यापकमिति ।। सूत्रविरुद्धश्च जीवस्य जन्मादिकारणत्वाङ्गीकार इति भावः ।। ७२९,७३० ।।

युक्तिमल्लिका

किञ्चासौ चक्षुराद्यक्षैः कल्पयेन्न तु साक्षिणा ।

अन्तरेव स्वतन्त्रेण सन्निकृष्टानि तानि च ।। ७३१ ।।

ज्ञापकानि ततो भ्रान्तेः पुरा सर्वमभूज्जगत् ।

अण्डस्यान्तर्बहिस्सर्वजीवोऽणुः कल्पयेत्कथम् ।। ७३२ ।।

सुरोत्तमटीका

 स्वप्नपक्षे दूषणान्तरं सूचयन्दोषान्तरं चाह ।। किं चेति ।। असौ एकजीवः । अन्तरेव देहान्तरेव । तानि चक्षुराद्यक्षाणि । ततः भ्रान्ति-जनकसन्निकर्षघटकतया जगतः प्राग्भावनियमात् । अयमाशयः । स्वप्नपक्षं दृढीकृत्य मनसैव स कल्पयतीति पक्षे तस्य चक्षुरादीन्द्रिय सृष्टिव्यर्था स्यात् । तैरपि कल्पयति चेदुक्तं दूषणं तदवस्थमिति । स्वप्नपक्षे श्रुतिविरोधं सूचयन् दोषान्तरं चाह ।। अण्डस्येति ।। सर्वं पुंसूक्तोक्तपादादिजम् ।। ७३१,७३२ ।।

सत्यप्रमोदटीका

 अक्षैः बाह्येन्द्रियैः । अन्तरेव स्वतन्त्रेणेति हेतुगर्भं विशेषणम् । तानि बाह्येन्द्रियाणि । ज्ञापकानि इत्यनेनान्वयः । ततः सन्निकर्षस्य पूर्वं जगतो विद्यमानत्व एवोपपत्तेः ।। तथा च भ्रान्तेः पूर्वमेव विद्यमानस्य न तत्कल्पितत्वमिति भावः । दोषान्तरं चाह अण्डस्येति । सर्वं पुरुषसूक्तोक्तपादचतुष्टयात्मकम् ।। ७३१,७३२ ।।

युक्तिमल्लिका

बहवः पुरुषा ब्रह्मन्नुताहो एक एव तु ।

नैतदिच्छन्ति पुरुषमेकं कुरुकुलोद्वह ।। ७३३ ।।

इति भारतकर्तैव यज्जीवबहुतैकते ।

प्राक्प्रस्ताव्योत्तरार्धेन नेच्छन्तीत्येकजीवताम् ।

प्रत्यक्षिपत्ततोऽप्येष पक्षो न स हि सूत्रकृत् ।। ७३४ ।।

सुरोत्तमटीका

 भारते पुरुषा बहवो वा एको वेति विकल्प्य एकं पुरुषं नेच्छन्तीति सिद्धान्तकरणात्तद्विरोधश्चैकजीववादस्येत्याह ।। बहव इति ।। सः भारतकर्ता व्यासः ।। ७३३,७३४ ।।

सत्यप्रमोदटीका

 ‘को ह्यत्र पुरुषश्रेष्ठः तं भवान् वक्तुमर्हति’ इति पूर्वार्धशेषः जनमेजयस्य एकजीववादानुवादेन पूर्वपक्षः ।

बहूनां पुरुषाणां च यथैका योनिरुच्यते ।

 तथा तं पुरुषं श्रेष्ठं आख्यास्यामि गुणाधिकम्’

इति उत्तरार्धशेषः वैशम्पायनेन बहुजीववादसमर्थनेन परिहारः । न पक्षः सूत्रकृत्संमतः इति शेषः । सः भारतकृत्।।७३३,७३४ ।।

युक्तिमल्लिका

निर्जीवसेनासंहारमुज्जिहासुः किलार्जुनः ।

अक्षोहिणीनां तद्युद्धं मृतानां मरणं किल ।

एकजीवकथा तस्माद्वृथैवेति मतिर्मम ।। ७३५ ।।

सुरोत्तमटीका

 गीताप्रमेयविरुद्धश्चैकजीववाद इत्याह ।। निर्जीवेति ।। उत्कर्षेण हातुमिच्छुः उज्जिहासुः । एकजीववादे कुरुसेनाया निर्जीवत्वात् तद्धनने कुतस्सर्वज्ञस्यार्जुनस्य मनोव्याक्षेपः कुतो वा मृतमारणरूपतद्युद्धस्य प्रशंसेति भावः । तस्मादर्जुनेन मनोव्याक्षेपकरणाद्युद्धस्तुतेश्च । वृथा निर्मूले-त्यर्थः । न केवलमेतावत् । मूलविरुद्धा चेत्यपि ग्राह्यम् ।। ७३५ ।।

सत्यप्रमोदटीका

 गीताविरुद्धश्चायं दुर्वाद इत्यपहसति निर्जीवेति । उज्जिहासुः परित्यक्तुमिच्छुः । मृतानामिति एकजीवस्य निद्रितस्य सेना-प्रविष्टत्वाभावादिति भावः ।। ७३५ ।।