या श्रुतिर्नेति नेत्यात्मा गृह्य इत्यादिरूपिणी
नेति नेतीत्यादिवाक्यार्थः
युक्तिमल्लिका
या श्रुतिर्नेति नेत्यात्मा गृह्य इत्यादिरूपिणी ।
साऽप्यात्मानं जडाज्जीवाद्भिन्नं वर्णयति स्फुटम् ।। १४८४ ।।
सुरोत्तमटीका
श्रुत्यन्तरमपि भेदे प्रमाणयति ।। या श्रुतिरिति ।।१४८४।।
सत्यप्रमोदटीका
नेति नेति इति द्विरभिधानसार्थक्याय योग्य-मध्याहारमाह जडं न जीवचिच्च नेति । परार्थे तु तद्वैयर्थ्यमेवेत्याह तवेति
।। १४८४, १४८५ ।।
युक्तिमल्लिका
जडं नात्मा जीवचिच्च नात्मेत्यर्थो भवेन्मम ।
तव द्विधा निषेधस्याभावेन द्वौ नञौ वृथा ।। १४८५ ।।
सुरोत्तमटीका
योग्यशेषं पूरयित्वा श्रुतेरर्थमाह ।। जडं नात्मेति ।। एकमेवाद्वितीयं नेहनानेत्यादौ द्विधा निषेधस्याभावेन द्वौ नञौ वृथेति सम्बन्धः ।। १४८५ ।।
युक्तिमल्लिका
यथा घटो नेति पटो गृह्य इत्युदिते सति ।
घटादत्यन्तभिन्नोऽसौ पटस्सिद्ध्येन्न चापरम् ।। १४८६ ।।
सुरोत्तमटीका
जडं नेति आत्मागृह्य इत्युक्त्याभेदप्राप्तिर्भवतीत्यत्र दृष्टान्तमाह ।। यथेति ।। १४८६,१४८७ ।।
सत्यप्रमोदटीका
अनेन भेदस्यैव सिद्धिर्न मिथ्यात्वमित्यत्र दृष्टान्तमाह यथेति ।। १४८६ ।।
युक्तिमल्लिका
तथा जडजगन्नेति गृह्यो जीवजगच्च न ।
इत्यात्मा गृह्य इत्युक्ते कथमत्यन्तभिन्नता ।
जडजीवाख्यजगतो न सिद्ध्येत्परमात्मनः ।। १४८७ ।।
द्विर्निषेधबलाज्जीवजडयोश्च ग्रहो ध्रुवः ।
मिथ्यात्वाशानुपूर्वोक्तनिदर्शनपराहता ।। १४८८ ।।
सुरोत्तमटीका
पूर्वोक्तनिदर्शनं यथा घटोनेति पटो गृह्य इति निदर्शनम् । घटोनेति पटो गृह्य इत्युक्ते यथा घटस्य मिथ्यात्वं नायाति । प्रत्युत तद्भेद एव पटस्यायाति । तथा जगन्नेत्यात्मागृह्य इति त्वद्रीत्योक्तेपि जगतो न मिथ्यात्वं किं तु जगद्भेद एव आत्मनि सिद्ध्यतीति भावः ।। १४८८ ।।
सत्यप्रमोदटीका
प्रकृते सङ्गमयति तथेति ।। १४८७,१४८८ ।।
युक्तिमल्लिका
अन्यमीशमिति प्राह जीवादन्यमधीश्वरम् ।
श्रुतिः प्राग्द्वासुपर्णेति प्रोक्तवाक्यसमाख्यया ।। १४८९ ।।
सुरोत्तमटीका
भेदे श्रुत्यन्तरं चाह ।। अन्यमीशमिति ।। श्रुतिः आथर्वणोपनिषत् । प्राक्पूर्वभागे ।। १४८९ ।।
सत्यप्रमोदटीका
‘जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः’ इति श्रुतिं भेदे प्रमाणयति अन्यमिति ।। १४८९, १४९० ।।
युक्तिमल्लिका
घटकुड््यवदन्यत्वे साम्यं स्यात्तेन तं श्रुतिः ।
ईशमाह गुणाख्यं च महिमानं पुनर्जगौ ।। १४९० ।।
सुरोत्तमटीका
अतः जीवादन्यमित्युक्तं तं परमात्मानम् ।। १४९० ।।
युक्तिमल्लिका
त्रितयज्ञानतो जीवो वीतशोको भवेत्किल ।
इतिशब्देन तज्ज्ञानं सप्रकारकमाह च ।। १४९१ ।।
सुरोत्तमटीका
त्रितयज्ञानतः अन्यत्वसर्वेश्वरत्व सगुणत्वज्ञानतः । अन्यमीशं अस्य परपरमात्मनः महिमानं च इति द्वासुपर्णेत्यादि वाक्योक्त प्रकारेण यो वेति सवीतशोको भवतीति वाक्यार्थलाभास्त्रितय ज्ञानत इत्युक्तम् ।। १४९१ ।।
सत्यप्रमोदटीका
त्रितयं अन्यं ईशं महिमानं चेत्येतत्त्रितयं सप्रकारक-मिति । निष्प्रकारकज्ञानस्यालीकत्वादिति भावः ।। १४९१ ।।
युक्तिमल्लिका
साक्षान्मोक्षप्रदत्वोक्त्या तत्त्वमासीदिदं त्रयम् ।
तस्मादभेदस्साम्यं च नैर्गुण्यं च निराकृतम् ।। १४९२ ।।
सुरोत्तमटीका
तस्मादेतच्छ्रुतिबलात् ।। १४९२ ।।
सत्यप्रमोदटीका
साम्यं अत्यन्तसाम्यम् । परमं साम्यमित्यत्रोक्तं साम्यं च जरामरणादिराहित्येनैवेति सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च इति गीतायामेव विवरणात् ।। १४९२ ।।
युक्तिमल्लिका
वीतशोक इति प्राह यतस्स ज्ञानिनः फलम् ।
ततो जीवेशभेदेऽस्यास्तात्पर्यं चावगम्यते ।। १४९३ ।।
सुरोत्तमटीका
अस्याः श्रुतेः ।। १४९३ ।।
सत्यप्रमोदटीका
तात्पर्यं फलरूपतल्लिङ्गोक्या ।। १४९३ ।।
युक्तिमल्लिका
एष सर्वेश्वर इति काचिद्वक्ति तमीश्वरम् ।
स सर्वस्य वशी सर्वस्येशान इति चापरा ।
अतस्सयुक्तिकः स्वामिभृत्यभेदः श्रुतौ श्रुतः ।। १४९४ ।।
सुरोत्तमटीका
काचित् माण्डूकोपनिषत् । अपरा सर्वस्य वशी सर्वस्ये-शान इत्यादिरूपा बृहदारण्यकोपनिषत् । माण्डूकोपनिषदि एष सर्वेश्वर एष सर्वज्ञ एष सर्वान्तर्याम्येषयोनिस्सर्वस्येति सर्वेश्वरत्वे सर्वज्ञत्वादि युक्तित्रय कथनात् बृहदारण्यके च सर्ववशित्वादि युक्तिकथनात् सयुक्तिक इत्युक्तम् ।। १४९४ ।।
सत्यप्रमोदटीका
सयुक्तिकः इति तत्रैव वाक्यशेषे सर्वज्ञत्वसर्व-वशित्वादियुक्तीनामुक्तत्वादिति भावः ।। १४९४ ।।
युक्तिमल्लिका
य आत्मनि सदा तिष्ठन्नात्मनोऽन्तर इत्यपि ।
तेऽन्तर्याम्येष इत्याद्याः श्रुतयस्सूत्रसूचिताः ।
जगुर्जीवेशयोर्भेदं शतशोथ सहस्रशः ।। १४९५ ।।
सुरोत्तमटीका
य आत्मनीत्यनेन य आत्मनि तिष्ठन्नात्मनोन्तरोय-मात्मानवेदेति बृहदारण्यक वाक्यं गृह्णाति । ते अन्तर्यामीत्यनेन एष त आत्मान्तर्यामीति तत्रत्यं वाक्यान्तरं गृह्णाति । एतेषां वाक्यानां शारीर-श्चोभयेपि हि भेदेनैनमधीयते अन्तर्याम्यधिदेवादिषु तद्धर्मव्यपदेशादिति सूत्रद्वयविषयवाक्यत्वात् सूत्रसूचिता इत्युक्तम् ।। १४९५ ।।
सत्यप्रमोदटीका
‘य आत्मनि तिष्ठन्’ इति श्रुतिः औतिभाष्येऽपि भेदपरत्वेनाङ्गीकृता (भे.प.ब्र.सू.प.४७) ।। १४९५ ।।
युक्तिमल्लिका
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ।
इति गीतासु भेदोऽयं सयुक्तिकमुदाहृतः ।। १४९६ ।।
सुरोत्तमटीका
यो लोकत्रयमाविश्येति युक्तिकथनात्सयुक्तिकमित्युक्तम् ।। १४९६ ।।
सत्यप्रमोदटीका
सयुक्तिकमिति । प्रवेशभरणकर्तृत्वादि भेदकधर्मोक्तेः ।। १४९६ ।।