हितं न जानाम्यहितं न जाने नाकर्तुमीशो न च कर्तुमीशः

स्वप्ने स्वदृष्टस्तोत्रस्यार्थः

युक्तिमल्लिका

हितं न जानाम्यहितं न जाने नाकर्तुमीशो न च कर्तुमीशः ।

यथा नटान्नाटकदारुयन्त्रं तथा हरेः प्रेरणयैव वर्ते ।।७२१।।

सुरोत्तमटीका

 जीवकर्तृत्वादिनानामतनिराकरणाय ग्रन्थकारेणैव कृतं स्तोत्रमस्मिन्ग्रन्थे प्रवेशयति । स्वप्ने जाते प्रवेशितं किल । तस्यार्थो लेशतः कथ्यते । स्वानिष्टकर्मणः स्वेनैव क्रियमाणत्वादकर्तुमीशो नेत्युक्तम् । दारु-मयनर्तक्यादिप्रतिमां सूत्रेण नर्तयन्नटः । तस्मात् । उत्तमपुरुषप्रयोगबलात् अहमिति लभ्यते । तेन च जीवकर्तृत्ववादनिरासं सूचयति । अनेन

स्वास्वतन्त्रानुकल्पासीद्योगक्षेमं ममेच्छती ।

ईशस्य हि वशो लोको योषा दारुमयी यथा ।।

इति भागवतश्लोकं सूचयति ।। ७२१ ।।

सत्यप्रमोदटीका

 अयं स्वकृतस्तोत्रान्तर्गतः श्लोकः परमात्मनः स्वातन्त्र्योपादनद्वारा तस्य मोक्षरूपफलदातृत्वसमर्थकतया स्वस्वप्नानुसारेण फलसौरभेऽत्र निवेश्य व्याख्यायते यदभूदित्यादिना ।। परिशिषेण भगवतः स्वातन्त्र्यं साधयितुं जीवस्य तावत्तन्निकरोति हितमिति । मत्तः स्मृतिर्ज्ञान-मपोहनं च इति गीतोक्तिं हृदि कृत्वाऽऽह न जानामीति । भगवतः प्रेरणां विनेति शेषः । एवं नाकर्तुमीश इत्यादावपि । ‘ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया’ इति गीतां ‘ईशस्य हि वशे लोको योषा दारुमयी यथा’ इति भागवतं चानुरुध्यास्वातन्त्र्ये दृष्टान्तमाह यथेति ।। ७२१ ।।

युक्तिमल्लिका

यदभूत्तद्धरेर्यच्च नाभूत्तच्च हरेः परात् ।

जीवो विष्टिगृहीतोऽस्मात्किं भवेत्किं च नो भवेत् ।।७२२।।

सुरोत्तमटीका

 यत् सुखसंपदादिकम् । यच्च दुःखमरणादिकम् । स्वहितकरणे शक्त्यभावात् स्वाहितस्यैव करणाच्च स्वानिष्टभाराद्युद्वहनाय राज्ञाविष्टं गृहीतपुरुषवत् स्वानिष्टसंसारे उत्पत्तुं स्थातुं मर्तुं च नियामकः कश्चिदीशोऽप्यपेक्षित इति भावेन विष्टिगृहीत इत्युक्तम् । अनेन इतरव्यपदेशा-द्धिताकरणादिदोषप्रसक्तिरिति ब्रह्मसूत्रोक्तयुक्त्या जीवकर्तृत्ववादो जीवेश्वरा-भेदवादश्च निराकृत इति ज्ञातव्यम् ।। ७२२ ।।

सत्यप्रमोदटीका

 अभूत् इत्युपलक्षणं भवति भविष्यति चेत्यपि ध्येयम् । एवं नाभूदित्यत्रापि । जीवस्य स्वाहितकरणं हिताकरणं चेति दोषौ स्तः । तेन करणाकरणयोस्तस्यास्वातन्त्र्यं निश्चीयते । तथा च प्रत्यक्षेण सिद्धे कर्तृत्वे युक्त्याऽन्याधीनत्वं, तस्य चान्यस्य ‘सृष्टिः स्थितिश्च संहारो नियतिर्ज्ञान-मावृतिः । बन्धमोक्षौ च पुरुषाद्यस्मात्स हरिरेकराट्’ इत्यागमेन हरित्वं इति जीवस्य हर्यधीनकर्तृत्वं संसिध्यतीति भावः । जीव इति । अयं पुनः विशेषः । विष्टिगृहीतस्य सत्ताऽदिकं न राजाधीनम् । जीवस्य तु हर्यधीनमिति ।।७२२।।