निरधिष्ठानधीत्वं च परोक्षप्रमयोपमा


 

बाधबाधानां दशधा संग्रहः

युक्तिमल्लिका

निरधिष्ठानधीत्वं च परोक्षप्रमयोपमा ।

पूर्वप्रमितदृक्त्वं च योगायोगश्च बाधकः ।। १२०६ ।।

सुरोत्तमटीका

 पराभिमतजगन्मिथ्यात्वाख्यविषतरोर्मूलरूपारोपच्छेदाय शाखारूपबाधच्छेदाय च स्वेन प्रागुपपादितदूषणाख्यमौक्तिकमणीन्स्वबुद्धिप्रद-मध्वाचार्यचरणद्वये द्वेधा समर्पयितु श्लोकाख्यसूत्रेण मालाद्वितयाकारतया सङ्गृह्णाति ।। निरधिष्ठानेत्यादिना विश्वमासीदनाकुलमित्यन्तेन ग्रन्थेन ।। नीरूपस्यौपनिषदस्य चाधिष्ठानाभिमतत्वद्ब्रह्मणः सार्वजनीनचाक्षुषवृत्तावुल्लेखा-योगात् स्वावेद्यस्य स्ववेद्यत्वेऽपि दृग्दृश्ययोरध्यास सम्बन्धमते स्वानध्यस्तस्य च ब्रह्मणोधिष्ठानचिद्रूपे स्वस्मिन्नुल्लेखायोगात् भूतले घटः घटे घटत्वं घटस्सन्पटस्सन्घटोऽस्ति पटोऽस्तीत्यादिसार्वजनीनप्रत्यये चोक्तविधया अधिष्ठानचैतन्योल्लेखायोगाच्च निरधिष्ठानधीत्वमधिष्ठानोल्लेखशून्यधीत्वम् ।

योगायोगाख्यचतुर्थदूषणरीत्या इन्द्रियार्थसन्निकर्षजन्या परोक्षवृत्तेः अपरोक्ष-वृत्तिकार्याज्ञाननिवृत्त्युत्तरकालीनघटादिज्ञानाभिमताधिष्ठानचैतन्यस्य च सन्निकर्ष- घटकतया प्राग्विद्यमानमत एव ब्रह्मवद्बाधायोग्यं च घटं प्रति तत्सत्तोत्तर-कालतयानयोः प्रयत्नशतेनापि तदारोपरूपत्वासम्भवे नोभयत्राप्यधिष्ठान-चिन्ताया व्यर्थत्वाच्च निरधिष्ठानधीत्वमिति चैकमिदमारोपदूषणम् ।। माया-सृष्टिपक्षेऽपि लौकिकमायामयपदार्थानां मायाविभ्रान्त्यकल्पितत्वदर्शनेन प्रत्युत-मायाविमन्त्रौषधादिना दुष्टद्रष्टृदृष्टिपरिकल्पितत्वदर्शनेन च मायिकजगतोऽपि न भगवद्भ्रान्तिकल्पितत्वम् । किन्तु द्रष्टॄणाम् अस्मदादीनां भ्रान्तिकल्पितत्वमेव वक्तव्यम् । तच्चार्थसन्निकर्षनिरपेक्षलौकिकमायायां घटते । अर्थसन्निकर्ष-सापेक्षजगज्ज्ञानेषु कथं तदुत्तरकालीनद्रष्टृदृष्टिजन्यत्वम् । तथाचास्मिन्पक्षेऽपि भ्रान्त्यकल्पितघटादिज्ञानायाधिष्ठानस्यानपेक्षितत्वात् निरधिष्ठानधीत्वस्यापरिहार एव । एवं चायमर्थसन्निकर्षस्तवानर्थपरंपरासन्निकर्ष एव । निरधिष्ठानभ्रमस्य परेणाप्यनङ्गीकारादपरिहार्यमिदं दूषणम् । पर्वते वह्निस्सन् गेहे घटस्सन् तमानयेत्यादिवाक्यजनितपरोक्षप्रमायां भासमानासत्ता तत्तदर्थगतैव न ब्रह्म-गतेति परस्यैवाभिमतम् । परोक्षवृत्तेरज्ञानानाशकत्वेनाधिष्ठानचैतन्यस्य तत्रानु-ल्लेखाङ्गीकारात् । अत एव नायं भ्रमः ।

एवं च तत्र प्रमीयमानतत्तदर्थगतसत्ताया एवापरोक्षवृत्तावप्युल्लेखसम्भवा-न्नाधिष्ठानगतसत्तारोपः । तथा तस्मिन्नेव वाक्ये प्रमीयमानवह्न्यादिवत् अयं वह्निरयं घट इत्यपरोक्षवृत्तावपि प्रतीयमानवह्निघटादीनामपि नारोपः । प्रागुक्तसत्तायाश्च नात्रैवाविद्यमानाया आरोपः । घटादिस्सन् अर्थक्रियाकारि-त्वात् पर्वतो वह्निमान् धूमवत्त्वात् । इयं शाला घटवती कुलालशालात्वा-दित्याद्यनुमितिरूपपरोक्षवृत्तौ प्रागुक्तापरोक्षवृत्तौ च निरधिष्ठानभ्रमत्वप्रसङ्गेन भ्रमत्वशङ्काया अप्ययोग्यायामत एव प्रमायां च प्रमीयमानत्वात् । न ह्येकस्यैवार्थस्यैकत्र प्रमा अपरत्र भ्रम इति वक्तुं शक्यते । वस्तुनो द्वैरूप्य-प्रसङ्गात् । परोक्षवृत्तितो परोक्षवृत्तेर्नैच्यप्रसङ्गाच्च । प्रवृत्तिनिवृत्त्यादिसकल-व्यवहारसंपादिकायास्स्वर्गापवर्गसाधक यज्ञादिस्वरूपेऽपि प्रमाणीभूतायाः विशेषदर्शनसहकृतत्वेनातिप्रबलायाः परोक्षवृत्तेरुक्तविधया प्रमात्वदृष्टेरधिष्ठान-चैतन्यारोपं विनापि स्वशक्तयैव सर्वोपकारकत्वदृष्टेश्च ।

सर्वप्रमाणोपजीव्यतया विविदिषन्ति यज्ञेनेत्यादिवाक्यात् तस्या अप्यु-द्देश्यतया साक्षान्मोक्षसाधकापरोक्षमानजातीयतया चातिप्रबलाया अपरोक्षवृत्तेः प्रमात्वस्य सुतरां वक्तव्यत्वात् । स्वशक्तयैव सर्वनिर्वाहकत्वसम्भवेन तदति-रिक्ताधिष्ठानचैतन्यरूपारोपस्यानुपयोगाच्च । न हि दासी पूज्या न तु राज्ञीति घटते । ‘‘तमेव भान्तमनुभातिसर्वमि’’ति त्वदभिलषितश्रुत्यर्थस्य परोक्ष-प्रतीतावेव भङ्ग इति या परोक्षप्रमयोपमा । इदं द्वितीयम् । एतत्सर्वं सूचयितुं परोक्षप्रमयेति चोपमेति चोक्तम् । तमसाऽऽवृतघटादाविदमित्युल्लेखादर्शने-नेहापि स्ववृत्तिकार्याज्ञाननिवृत्तेः पूर्वम् अज्ञानावृतचैतन्ये इदमित्युल्लेखासम्भवेन निरधिष्ठानभ्रमस्यायोगेन च पूर्वं वृत्तौ प्रमितघटादौ विषये यदधिष्ठानचैतन्यस्य दृक्त्वम् इदमस्यारोपरूपत्वे दूषणम् । इदं तृतीयम् । योगायोगः इन्द्रियार्थ-सन्निकर्षायोगः । इदं चतुर्थम् । सन्निकर्षाय प्राक् सतोऽर्थस्य पुनर्वृत्त्या-दावारोपायोगात् ।। १२०६ ।।

सत्यप्रमोदटीका

 श्रीमदाचार्याणां दशप्रमतिरिति मन्त्रवर्णसिद्धं नाम अत्यनुरूपरूपकं इति प्रदर्शयन्नेव स्वकृतसेवां तत्पादयोः समर्पयितुं जग-न्मिथ्यात्वनिराकरणे स्वोक्तबाधान् दशधा संगृहणाति निरधिष्ठानेत्यादि पञ्चभिः श्लोपैः । अयं घट इत्यपरोक्षवृत्तौ रूपादिहीनस्य अव्यक्तस्वभावस्य ब्रह्मण उल्लेखासम्भवेन, परोक्षवृत्तौ चिदनुल्लेखस्य परेणैवाङ्गीकृतत्वेन धीमात्रस्य अधिष्ठानाविषयकत्वेन भ्रमत्वानुपपत्तिः प्रथमं बाधकम् ।

परोक्षज्ञानेऽधिष्ठानानुल्लेखः परेणैवाभ्युपगतः । अन्यथा तस्यापि अपरोक्षैकरसचैतन्यसंवलनात्मकत्वे तत्रापि आपरोक्ष्यस्य अज्ञाननिवर्तकत्व-स्याङ्गीकारापातादिति परप्रक्रिया । तथा च निरधिष्ठानकविषयकत्वेन तस्य परोक्षज्ञानस्य प्रमात्वं तावत्सिद्धम् । तद्विषयाणां घटादिसकलवस्तूनां सत्यत्वं च । यान्येव परोक्षप्रमायां विषया तान्येवेन्द्रियसन्निकर्षबलादपरोक्षज्ञानेऽपि विषयाः । तथा चापरोक्षज्ञानस्यापि प्रमात्वं बलादापन्नम् । समानविषय-कत्वेऽपि एकस्य ज्ञानस्य प्रमात्वं इतरस्य तु भ्रमत्वं इति नैव सम्भवति । वस्तुनो द्वैरूप्यापातात् । तदिदमुक्तं परोक्षप्रमयोपमेति । अत्रोपमाशब्देन परोक्षप्रमाया न्यूनोपमात्वमेवाभिप्रैति । अपरोक्षप्रमाया रेखोपरेखाग्राहित्वेन तदनिवर्त्यदिङ्मोहादिनिवर्तकत्वेन इतरप्रमाणाबाध्यायाः सर्वप्रमाणोपजीव्या-परोक्षप्रमायाः परोक्षप्रमाऽपेक्षया बलीयस्त्वात् । अयं द्वितीयबाधः ।

पूर्वप्रमितदृक्त्वम् । दृशश्चैतन्यस्य अयं घटः इत्युल्लेखात्पूर्वं आवरण-निवृत्तेरावश्यकत्वेन वृत्त्युपरागं विनाऽऽवरणनिवृत्त्ययोगात् अपरोक्षवृत्तेः सन्निकर्षं विनाऽसम्भवात् सन्निकर्षस्य च संयोगस्य च सम्बन्धिद्वय-सत्त्वनियतत्वात् भ्रमात्पूर्वं विद्यमानपदार्थानां सर्वथा बाधायोगः । अयं तृतीयो बाधबाधः । योगायोगः । सन्निकर्षानुपपत्तिः । तदुक्तं भगवत्पादैः ‘योगः शशनृशृङ्गयोरि’ति । अयं चतुर्थो बाधबाधः ।। १२०६ ।।

युक्तिमल्लिका

मायाविभ्रान्त्ययोगश्च योगायोगोऽपरस्य च ।

रौद्री वाग्वारुणी वाक्च पार्थस्य वचनं तथा ।

श्रुतिश्चेति जगद्बाधारोपबाधा दशाभवन् ।। १२०७ ।।

सुरोत्तमटीका

 मायासृष्टिपक्षे मायाविनि ऐन्द्रजालिकादावपि भ्रान्त्या-देरदर्शनेन जगन्मायाविनि भगवति परिदृश्यमानजगद्भ्रान्तेरयोगः । तथा स्वदेहगेहकलत्रपुत्रवाहनशय्यादौ स्वस्य द्रष्टॄणां च मायया सुतरां विभ्रान्त्य-योगः लोकमर्यादोल्लङ्घने मायाविभ्रान्तेरेवायोगः । मायाविभ्रान्तित्वपक्षस्यैवा-योगादिति यावत् । तथा मायाया अज्ञानस्य विपरीता या भ्रान्तिः तदप-गमानन्तरं जायमानाभ्रान्तिरित्यर्थः । पूर्वोक्तरीत्या तस्याश्चायोग इति च भगवज्ज्ञानस्य जगदारोपरूपत्वे पञ्चमं बाधकम् ।

अपरस्य भगवन्मायिकघटादिपदार्थद्रष्टृजीवजातस्य योगायोगः । इन्द्रियार्थ-सन्निकर्षस्यायोगः । घटादिज्ञाने तदपरोक्षायोग इति यावत् । मायाविना द्रष्टॄणामग्रे निक्षिप्तकपर्दिकातृणादेरिन्द्रियसन्निकर्षे सति तन्मन्त्रौषधादिसामर्थ्येन तत्र सर्वथा अविद्यमानानाम् अत एव स्वेन्द्रियैरसम्बद्धानां करितुरगादीनां रजतादिभ्रान्तिषु रजतादेरिव दर्शनमिति ऐन्द्रजालिकमायासृष्टौ प्रक्रिया । जगति तु तत्तदर्थेन्द्रियसन्निकर्षे सत्येव तत्तदर्थापरोक्षज्ञानमिति परस्यापि मतम् । अतो जगद्दर्शने नियमेनापेक्षितेन्द्रियार्थसन्निकर्षाख्ययोगस्यायोग-स्स्यादिति । तथा मायासृष्टौ तुरगभ्रमाधिष्ठानकपर्दिकायामेव पुनर्गजादिभ्रमस्य योग उपायोऽस्ति । जगद्भ्रमे तु तं तौ पटस्यैव कपाले घटस्यैव । एवं चात्र तस्य योगस्यायोग इति । तथा ऐन्द्रजालिकसृष्टावर्थक्रियाया अदर्शनेन जगत्यर्थक्रियाया योगस्य सम्बन्धस्यायोगस्स्यादिति च मायाद्रष्टृपुरुषदृष्टेर्जग-दारोपरूपत्वाभावे षष्ठम् ।

रौद्रीवाक् नयस्य मायागुणचित्तवृत्तिभिर्निरीक्षतो ह्यण्वपि दृष्टिरज्यत इति पञ्चमस्कन्धे रुद्रेणोक्तवाक् । यस्य परमात्मनो निरीक्षतो दृष्टिः मायया अविद्यया ऐन्द्रजालिकविद्यया च गुणैस्सत्वरजस्तमोगुणैः चित्तवृत्तिभिः अहङ्काररागद्वेषाद्यैरण्वपि नाज्यते संसक्ता भवतीति विश्वविषयसर्वज्ञभगवद्दृष्टे-र्मायादिदोषलेशेनापि शून्यत्वकथनेन प्रमात्वनिर्णयात् प्रमाविषयघटादिप्रपञ्चस्य भगवज्ज्ञानेनान्यज्ञानेन वाऽऽरोपे मायासृष्टत्वे च कथ्यमाने सप्तमम् ।

वारुणीवाक् नमस्तुभ्यं भगवते ब्रह्मणे परमात्मने ।। न यत्र श्रूयते माया लोकदृष्टिविकल्पने’’ति कृष्णं प्रति वरुणेनोक्ता वाक् । सर्वज्ञभगवतो निर्मायत्वकथनेन तद्दृष्टजगतः प्रमाविषयत्वसमर्थनात् जगति तस्य भ्रान्ता-वन्यभ्रान्तौ मायासृष्टत्वे चाष्टमम् ।

भगवत्स्वरूपचितो मायानिरसनसमर्थत्वकथनात् भगवतस्स्वाश्रितमायया जगत्स्रष्टृत्वे भगवच्चैतन्यजगदारोपत्वे भगवद्दृष्टजगतोऽन्यदृष्ट्याऽऽरोपे च नवममिदं बाधकम् ।

श्रुतिः विश्वं सत्यं ‘‘याथातथ्यतोऽर्थान्व्यदधाच्छाश्वतीभ्यस्समाभ्य’’ इत्यादिरूपा । इयं जगतस्सत्यत्वप्रमाविषयत्वयथार्थत्वकथनात् तदारोपस्य साक्षादेव बाधिका । एवं च जगद्बाधारोपबाधाः जगतः बाधा पीडा यस्मात्स तथोक्तः । आरोपः जगदारोपः । तस्य बाधाः बाधकयुक्तय इत्यर्थः । दशश्रुत्या सह दशसङ्ख्याताः ।। १२०७ ।।

सत्यप्रमोदटीका

 मायाविभ्रान्त्ययोगः । अयं च ‘न च मायाविना माया दृश्यते विश्वमीश्वरः । सदा पश्यति तेनेदं न मायेत्यवधार्यतामि’ति भगवत्पादवचनेन समर्थितः । अयं पञ्चमः । अपरस्य योगायोगः ऐन्द्र-जालिकानामसत्त्वात्तत्र द्रष्टुरपरस्य इन्द्रियसन्निकर्षाभावः । जगद्द्रष्टुस्तु तैस्तै-र्वस्तुभिः सन्निकर्षोऽस्ति तस्य योगस्यायोगः । एवं आरोपितत्वे जगति पराभ्युपगतार्थक्रियाकारित्वस्य हेतोः पक्षसम्बन्धायोगः । अयं षष्ठः ।

रौद्री वाक् । (भागवते पञ्चमस्कन्धे १७ अध्याये १९श्लोके) ‘न यस्य मायागुणचित्तवृत्तिभिर्निरीक्षतो ह्यण्वपि दृष्टिरज्यते’ इति रुद्रकृतं सङ्कर्षण-नामकतुरीयभगवन्मूर्तेरुपस्थानम् । तस्यायोगः ‘अशक्ताः सत्यसृष्टौ हि मायासृष्टिं वितन्वते’ इति भागवततात्पर्योक्तः अयं बाधः सप्तमः ।।

वारूणी वाक् वरुणस्य कृष्णं प्रति वाक् । ‘नमस्तुभ्यं भगवते ब्रह्मणे परमात्मने । न यत्र श्रूयते माया लोकदृष्टिविकल्पना’ इति । अत्र कृष्णस्य दृष्टेर्लोकवदमायिकत्वोक्त्या तद्विषयप्रपञ्चस्य बाधासम्भवः । ‘न हि द्रष्टु-र्दृष्टेर्विपरिलोपो विद्यते’ इति श्रुतेः । अयं अष्टमः । पार्थस्य वचनम् । ‘मायां व्युदस्य चिच्छक्त्या कैवल्ये स्थित आत्मनि’ इति कृष्णं प्रति वचनम् । अत्र चितोऽज्ञानस्फोरकत्वनिरासेन अज्ञाननिरासकत्वोक्त्या चित आरोपा-धिष्ठानत्वासम्भवेन प्रपञ्चबाधस्य बाधः । अयं नवमः । श्रुतिः विश्वं सत्य-मित्यादिश्रुतौ सत्यशब्देन अबाधितत्वं प्रमिनन्तीति प्रमाणदृष्टत्वं चोच्येते । अत्र सत्यशब्दस्य विद्यारण्येनापि अनारोपितमित्येवार्थ उक्तः । अयं दशमः । एवं च बाधस्य बाधाः दशाभवन् ।। १२०७ ।।

युक्तिमल्लिका

सत्त्वस्याप्रतिषेधेन त्रिकालेष्वनिषेधनात् ।

अखण्डार्थत्वतो वाचां निर्विकल्पत्वतो धियाम् ।। १२०८ ।।

सुरोत्तमटीका

 सत्त्वस्य जगत्सत्त्वस्य त्रैकालिकनिषेधो हि परस्य बाधः। प्रागभावोत्तराभावसदृशजगन्निषेधमात्रस्य श्रुतावापाततः प्रतीतावपि जगत्सत्यं नेति तत्सत्यत्वस्य क्वापि निषेधाभावेनेत्यर्थः । इदमाद्यं बाधस्य बाधकम् । त्रिकालेऽष्वनिषेधनात् कालत्रयेऽपि जगन्नास्तीति निषेधाभावात् । इदं द्वितीयम् । वाचां मिथ्यात्वश्रुतीनाम् । अखण्डार्थत्वतः ब्रह्मस्वरूप-मात्रपरत्वतः । मिथ्यात्वप्रतिपादकश्रुतिर्हि परमते बाधिका । अखण्डार्थवाद-पर्यालोचनायां पररीत्यैव तदभावादिति भावः । इदं तृतीयम् । धियां साक्षा-द्बाधकत्वेनाभिमतचरमापरोक्षधियाम् । निर्विकल्पकत्वतः निष्प्रकारकत्वतः । जगन्नास्तित्वस्य प्रकारीभूय तत्राभावान्निर्विकल्पकस्य साधनबाधनाक्षमत्वा-च्चेत्यर्थः । चतुर्थम् ।। १२०८ ।।

सत्यप्रमोदटीका

 प्रकारान्तरेण दशधा बाधं समर्थयते सत्त्वस्येति । सत्त्वस्याप्रतिषेधेन विश्वं न सत्यं इत्येवं कुत्रापि श्रुतेरभावेन । अयं प्रथमः । नासदासीन्नोसदासीदित्यादिवाक्येषु पूर्वकल्पीयमूर्तामूर्तप्रपञ्चस्य ध्वंसस्य, स्रक्ष्यमाणस्य प्रागभावस्यैवोक्तत्वेन कुत्रापि पराभिमतत्रैकालिकनिषेध-स्याश्रवणादिति । परेणापि ‘एकमेवाद्वितीयं’ इति श्रुतेः स्वकार्यपतित-मन्यन्नास्ति इत्येव व्याख्यातमप्यत्रानुसन्धेयम् । अयं द्वितीयः । वाचां अखण्डार्थत्वात् । महावाक्यानां संसर्गासङ्गिसम्यग्धीजनकताङ्गीकारात् । संसर्गघटितलक्षणानां आकांक्षासन्निधियोग्यतानामसम्भवात् वाक्यलक्षणस्यैवा-भावेन मिथ्यात्वपरत्वस्य गर्भस्रावेणैव गतत्वात् । अयं तृतीयः ।।

निर्विकल्पत्वतो धियाम् । इदमित्थमिति सर्वधियां सप्रकारकत्वव्याप्यत्वेन व्यापकाभावेन ज्ञानत्वस्यैवासम्भवेन बाधकज्ञानत्वस्याशक्यशङ्कत्वात् । विस्तृतमेतत्प्रकारद्वयं न्यायामृते अखण्डार्थभङ्गप्रकरणे । अयं चतुर्थः । अङ्गीकृतश्च महावाक्यानां ज्ञानजनकत्वाभावः परेणैव तथाहि ‘तत्ज्ञानं नैव जायते ।। केवलमज्ञाननिवृत्तिरेव भवति’ इत्यादिना । युक्तिश्च तत्र परैरेवोक्ता । महावाक्याज्जायमानं ब्रह्म स्वरूपं तद्भिन्नं वा । नाद्यः । ब्रह्मणोऽप्युत्पत्तिप्रसङ्गात् । द्वितीये सत्यं चेदद्वैतभङ्गः । मिथ्या चेन्महा-वाक्यानामतत्त्वावेदकत्वम् । भागत्यागलक्षणया चिच्चितोरभेदो बोध्यते इत्यपि अवद्यम् । व्युत्पत्तिविरोधात् । तद्धर्मावच्छिन्नाभेदसम्बन्धावच्छिन्नप्रकारता-निरूपितविशेष्यताऽवच्छेदकसम्बन्धेन शाब्दबुद्धित्वावच्छिन्नं प्रति तद्धर्मभेदस्य नीलो घट इत्यादौ क्लृप्तत्वेन अत एव घटो घट इति वाक्येन अभेदबोधा-जननात् चित् चित् इत्यत्रापि विशेष्यतावच्छेदकचित्त्वस्यैव प्रकारताऽवच्छेद-कत्वेन अभेदबोधजननात् । विस्तरः भेदपराण्येव खलु ब्रह्मसूत्राणि इति ग्रन्थे । अयं चतुर्थो बाधः ।। १२०८ ।।

युक्तिमल्लिका

स्वस्वस्थानानिषेधाच्च शब्देऽक्षानुसृतीक्षणात् ।

एकज्ञानेन सर्वस्य ज्ञानात्सत्त्वश्रुतेर्बलात् ।। १२०९ ।।

सुरोत्तमटीका

 स्वस्वस्थानानिषेधात् जातेर्व्यक्त्याख्यस्थाने कार्य-स्योपादानाख्यस्थाने निषेधाभावादित्यर्थः । अन्यत्र निषेधस्य च स्वस्वस्थान एव स्थितिस्थिरीकरणहेतुतया सार्वत्रिकनिषेधाख्यबाधरूपत्वाभावादित्यर्थः । इदं पञ्चमम् । शब्देक्षानुसृतीक्षणात् शब्दे गङ्गायां घोषः यजमानः प्रस्तर इत्यादिशब्दे अक्षानुसृतीक्षणात् प्रत्यक्षानुसरणदर्शनात् । प्रत्यक्षबाधितार्थं त्यक्त्वा तदनुकूलार्थस्यैव कथनादित्यर्थः । मिथ्यात्वश्रुतेरपि घटस्सन्नित्यादि-प्रत्यक्षसिद्धजगत्सत्त्वनिषेधने सामर्थ्याभावेनान्यार्थ एव योज्यतया बाधकत्वा-योगादिति भावः । इदं षष्ठम् । एकज्ञानेन बाधकत्वेनाभिमतब्रह्मप्रत्यक्षेण सर्वस्य ज्ञानात् सर्वस्य जगतः परेणैव ब्रह्मवद्विज्ञानाङ्गीकारात् । एवं च ब्रह्मवत्सर्वस्य जगतस्साधिका धीः कथं बाधिकेति भावः । इदं सप्तमम् । सत्त्वश्रुतेर्बलात् श्रुत्यैव सत्यतया प्रतिपादितस्य जगतः पुनश्श्रुत्यैव बाधा-योगादिति भावः । बलादिति वदता ‘‘शाश्वतीभ्यस्समाभ्य’’ इत्यागामि-बाधस्यापि बाधं सूचयति । त्रैकालिकनिषेधाप्रतियोगित्वरूपसत्त्वस्य तादृश-निषेधप्रतियोगित्वाख्यमिथ्यात्वनिषेधरूपतया तत्प्रतिपादकसत्यत्वश्रुतेर्मिथ्यात्व श्रुतितोऽपि प्राबल्यं सूचयितुमपि बलादित्युक्तम् । इदमष्टमम् ।। १२०९ ।।

सत्यप्रमोदटीका

 स्वस्वस्थानेष्वनिषेधादिति । ‘नेह नानास्ति’ इति वाक्यं तुष्यत्विति न्यायेन ब्रह्मणि जगतः सत्त्वं निषेधतु । न तावता मिथ्यात्व सिद्धिः । व्यधिकरणत्वात् । घटे घटत्वं, तन्तुषु पटः, भूतले घटः इत्यादिना प्रत्यक्षेण सिद्धस्य स्वस्वस्थानेषु वृत्तित्वस्यानिषेधादेव । अयं च पञ्चमो बाधः। शब्देऽक्षानुसृतीक्षणादिति । उक्तं हि भगवत्पादैः । न हि प्रत्यक्षसिद्धमन्येन केनापि बाध्यं दृष्टमिति । अङ्गीकृतश्चायं नियमो बहुत्र परेणापि तत्त्वमसि वाक्यादिषु प्रत्यक्षविरोधभिया लक्षणामाश्रयता । अयं षष्ठो बाधः ।

एकज्ञानेन सर्वस्य ज्ञानादिति । इदं च जगतो मिथ्यात्वे न जाघटीति । उक्तं हि भगवत्पादैः । ‘न हि सत्यज्ञानेन मिथ्याज्ञानं भवति’ । ‘न हि शुक्तिज्ञो रजतज्ञो भवति’ इत्यादिना । परेणापि अत्र ब्रह्मज्ञानस्य फलत्वं जगद्ज्ञानस्य फलित्वमेव व्याख्यातम् । अतो ब्रह्मणः प्राधान्यं जगतोऽ-प्राधान्यमेव तात्पर्यार्थः । न तु मिथ्यात्वम् । अयं सप्तमो बाधः । सत्यत्व-श्रुतेर्बलादिति । ‘यथातथ्यतोऽर्थान् व्यदधाच्छाश्वतीभ्यः समाभ्यः’ इति विशिष्य त्रैकालिकनिषेधाप्रतियोगित्वरूपसत्यत्वस्य निरवकाशतया प्रतिपाद-नात् । श्रुत्यैव पुनस्तन्निषेधे व्याहृतेः । अयमष्टमो बाधः ।। १२०९ ।।

युक्तिमल्लिका

आरोपासम्भवाद् ब्रह्मासत्त्ववाक्साम्यतोऽपि च ।

बाधायोगेन सकलं विश्वमासीदनाकुलम् ।। १२१० ।।

सुरोत्तमटीका

 आरोपासम्भवात् अनारोपितस्य ब्रह्मणो बाधादर्शने-नारोपाभावे बाधस्याप्यसम्भवात् । सोऽपि नवमो बाधकः । ननु मिथ्यात्व-श्रुत्या मिथ्यात्वप्रतिपादनान्मिथ्यात्वमेव भाविबाधसाधकं भविष्यतीत्यतस्तामपि प्रतिबन्द्या निराकृत्य साधकाभावाख्यबाधकमेव स्थिरीकर्तुं ब्रह्मासत्त्ववाक्साम्यत इत्युक्तम् । मिथ्याश्रुत्या जगतो मिथ्यात्वसाधने ‘‘असदेवेदमग्र आसीदि’’ति श्रुत्या ब्रह्मणो मिथ्यात्वं स्यात् ।

ननु ब्रह्मणो मिथ्यात्वे तस्याप्यधिष्ठानान्तरं वाच्यम् । न च तदस्ति । अतस्साश्रुतिरन्यथा योज्येति शङ्काया गर्भस्रावमेव कर्तुमसत्त्वेत्युक्तम् । श्रुत्या ब्रह्मणो मिथ्यात्वप्रतिपादने ह्यधिष्ठानापेक्षा । ‘‘असदेवेदमग्र आसीदि’’ति श्रुत्या शशविषाणवद्ब्रह्मणो सत्त्वस्य प्रतिपादनात् नाधिष्ठानापेक्षेति भावः । अथवा असदेवेति सावधारणश्रुत्याऽऽरोप्यमाणादसतोऽन्यदधिष्ठानादिकं व्यवच्छिद्यासत्त्वस्यैव निरूपणात् अनवस्थापरिहाराय किं स्विदासी-दधिष्ठानमिति श्रुतिसमाख्यया च निरधिष्ठानको वाऽयं भ्रमोऽस्त्विति सूचनाय ब्रह्मासत्त्वेत्युक्तम् । असत्त्वस्य त्रिकालाभावत्वेन सावधारणश्रुतेरपि सूचनात् । त्वन्मते जगदारोपे ब्रह्माधिष्ठानं तस्यापि श्रुतिबलादारोपे वक्तव्ये पुनरधिष्ठा-नान्तरापेक्षायामनवस्था अतो ब्रह्मारोपो निरधिष्ठान एव वाच्यम् । किंस्विदिति श्रुत्या ब्रह्मण्यधिष्ठानाक्षेपे तु किं वक्तव्यमिति भावः ।

किं च निरधिष्ठानकत्वाद्ब्रह्मभ्रमो न चेत् तत एव जगद्भ्रमोऽपि न स्यात् । यदि च जगद्भ्रमे ब्रह्मैवाधिष्ठानमिति वदसि । तदा ब्रह्मभ्रमे जगदेवा-धिष्ठानमिति ब्रूमः । यदि च प्रलयकालीनब्रह्मभ्रमदशायां जगतो भावात् नाधिष्ठानत्वम् । तर्ह्यसत्पदोक्तब्रह्मणस्सर्वदाऽभावान्नाधिष्ठानत्वमिति समम् ।

अथवा असदेवेति सावधारणप्रयोगेण ब्रह्मणस्सर्वथाऽभाववत् इदमग्र इत्यत्र अस्याग्र एवेत्यवधारणाभावेन सूक्ष्मकालविधानाच्च परिदृश्यमानस्थूलाकार-मात्रनिषेधो न सर्वथेति गम्यते । ततश्च तदानीमपि सूक्ष्मरूपेणावसित-जगतोधिष्ठानत्वसम्भवात् नास्माकमनुपपत्तिः । किन्तु तवैव । अथवा अग्र इत्युक्तकालस्य तदानीमपि श्रवणात् तदेवाधिष्ठानं स्यात् । न च वाच्यं सप्तम्यन्त पदेनोदितस्य तस्य कथमधिष्ठानत्वमिति । इहेति सप्तम्यन्तपदे-नोदितब्रह्मवदेव सम्भवात् । नन्वेवं ब्रह्मण एवाभावे ब्रह्मप्राप्तिरूप-मोक्षस्याप्यभाव इति चेत् न । प्राप्तृचेतनात्मकजगदभावेऽपि तदभावस्य साम्यात् । जडात्मकजगन्मात्राभावेऽपि कामान्नीत्यादिपदोक्तप्राप्तृजीवो-द्देश्यफलाभावेन प्राप्तभावापत्त्या पुनस्तदभावतादवस्थ्यात् ।

यदि च सदेवेति श्रुतिसमाख्ययाऽसत्त्वश्रुतिमन्यथीचिकीर्षसि । तदा निषेधरूपतया प्रबलयाऽनयैव तामन्यथीकुरु । यदि च ब्रह्मक्षयाद्भीतो विधि-मेव मानयसि । तर्हि ब्रह्मभवनक्षयाद्ब्रह्ममहिमप्रतिपादकश्रुत्यादिक्षयात् ब्रह्म-पूजासाधनफलपुष्पादिक्षयात् गोब्राह्मणक्षयाच्च भीतो विश्वं सत्यमित्यादि विधिमेव मानय । नानास्तीति वाक्यस्य च नञ आवृत्त्या नास्तीति नेत्यर्थं परिकल्पय । अधिष्ठानानुपपत्तिवदारोपानुपपत्तेरपि मिथ्यात्वबाधकत्वेन जग-न्मिथ्यात्वश्रुतेरप्यर्थान्तरं परिकल्पय । एतत्सर्वं सूचयितुं साम्यतोऽपि चेत्युक्तम्

।। १२१० ।।

सत्यप्रमोदटीका

 आरोपासम्भवादिति । निर्धर्मकत्वेन निरंशत्वेन अविषयत्वेन च ब्रह्मणः अधिष्ठानत्वासम्भवात् । अङ्गीकृतं च भ्रमस्य, दुर्घटत्वं परैरेव । ‘तत्त्वप्रच्युतिविभ्रमक्षतिकरी तत्रान्त्यदृष्टिर्मता ।’ ‘न परमार्थतो भ्रमो नाम कश्चित् । न च संसारो नाम । किन्तु सर्वमेतत् सर्वानुपपत्तिभाजनत्वेन अनिर्वचनीयमिति युक्तमुत्पश्यामः’ इत्यादिना । अयं च नवमः । ब्रह्मासत्त्ववाक् साम्यातोऽपि च । नेहनानास्तीत्यादावापातार्थं परिगृह्य प्रमितविश्वसत्यत्वापलापे, असदेवेदमग्र आसीदित्यादि वाक्येन प्रमितब्रह्मसत्यत्वस्याप्यपलापप्रसङ्गादित्यर्थः ।।

ननु विश्वसत्यत्वस्य प्रमाणान्तरप्राप्तत्वेन तदनुवादेन श्रुत्या निषेधोपपत्तिः ।  ब्रह्मसत्यत्वस्य प्रमाणान्तराप्राप्तत्वात्कथमनुवाद इति चेन्न भ्रमानुपपत्त्या अधिष्ठानत्वेन कल्पितस्य अनूद्य निषेधोपपत्तेः । अधिष्ठानत्वेन प्रमितस्य कथं अनुवादः इति चेत् सर्वप्रमाणप्रमितस्य विश्वसत्यत्वस्य कथमनुवाद इति समम् । लोकसिद्धविश्वसत्यत्वानुवाद इति चेन्न ।

लोके च प्रमाणसिद्धं अनूद्यते भ्रान्त्या वा । नाद्यः । तत्प्रमाणविरोधात् । न द्वितीयः । तथैव लोके भ्रान्तिसिद्धस्य ब्रह्मसत्यत्वस्य ‘सत्यं ज्ञानमनन्तं’ इति श्रुत्याऽनूद्य ‘असदेवेदमग्र आसीदि’ति श्रुतिर्निषेधति इत्यतिप्रसङ्गः । यद्वा निरधिष्ठानक एव प्रपञ्चभ्रमोऽस्तु । किं स्विदासीदधिष्ठानमिति श्रुत्या अधिष्ठाननिषेधात् । यद्वा प्रपञ्च एव ब्रह्मारोपाधिष्ठानमिति वैपरीत्यं कुतो न स्यात् । तस्मात्त्यजेदेकं कुलस्यार्थ इति न्यायेन सकलप्रमाणविरोधपरिहाराय नेह नानास्तीति श्रुतेरेव अविरुद्धार्थकल्पनं आवश्यकमिति । अयं च दशमो बाधवाधः । अनाकुलं बाधाभावेन ब्रह्मवत्पारमार्थिकम् । ‘मिथ्यात्वस्य च मिथ्यात्वे सत्यत्वं स्थापितं भवेदि’ति वचनात् ।। १२१० ।।

युक्तिमल्लिका

दशधा बाधबाधानां प्रमितिर्यस्य चेतसि ।

दशप्रमतिनामासौ गुरुर्विजयतेतराम् ।। १२११ ।।

सुरोत्तमटीका

 इदानीं स्वरचितमालां श्रीमदाचार्यचरणे समर्पयति ।। दशधेति ।। बाधबाधानां बाधयोः मूलतोऽग्रतश्च जगदभावसम्पादकयो-रारोपनिषेधयोः बाधानां बाधकयुक्तीनां प्रमतिर्दशधा च यस्य चेतसि चकास्ति । बाधकयुक्तीनां दशविधत्वात् तद्विषयकप्रमितेरपि दशविधत्वम् । शतसहस्रादि-ष्वप्यवान्तरविभागविवक्षया दशत्वेनापि गणयितुं शक्यत्वात् दशधेत्यनेनैव शतधा सहस्रधेत्यादिकमपि दशप्रमतिपूर्णप्रज्ञनामार्थपर्यालोचनया ग्राह्यम् । ग्रन्थकारस्तु समुद्रजलात्पूरितघटजलवत् आचार्यकृपया स्वमनसि प्रतिभातदश-सङ्ख्याकयुक्तिसङ्ग्रहाय श्रौतदशप्रमतिनाम्नयेव तच्चित्तप्रतिभातानन्तार्थांश्च सङ्गृह्य स्तोतुं दशधेत्येवोक्तवान् । अत एव दशप्रमतिनामासौ गुरुः । दूरस्थ-बदरिकाश्रमस्थितत्वाद्वा स्वस्य असौ श्वास एव स्थितत्वाद्वाऽसौ गुरुरित्यु-क्तम् । विजयतेतरां सकलजगज्जीवनहेतुत्वेन समस्ताधिकारिसमुदायादप्यति-शयेन विजयते । उत्कृष्टो वर्तते । स्वभक्तश्रेयः प्रतिबन्धककल्पादींश्चाति-शयेनाभिभावयति चेत्यर्थः ।। १२११ ।।

सत्यप्रमोदटीका

 दशधेति । बाधानामनन्तत्वेऽपि अत्र दिङ्मात्र-प्रदर्शनाय दशानां एव चर्चा इति दशधा इत्यत्र प्रत्ययेन ज्ञाप्यते । दशप्रमितनामेति ‘दशप्रमतिं जनयन्त योषणः’ इति मन्त्रवर्णप्रसिद्धनामधेयः । विजयतेतरामिति । अतिशयार्थकतरामित्यनेन आदिगुरुत्वं, सर्वजीवावधि-कोत्कर्षः पापपाटनपण्डितत्वं च कथ्यन्ते ।। १२११ ।।