न शास्त्राभिज्ञाना न च नियमयुक्ता न यमिनो न मन्त्रानुष्ठानव्रतचरणचित्ता अपि वयम् ..
मङ्गलाचरणं स्वाहङ्कारखण्डनं च ।
युक्तिमल्लिका
न शास्त्राभिज्ञाना न च नियमयुक्ता न यमिनो
न मन्त्रानुष्ठानव्रतचरणचित्ता अपि वयम् ।
न तद्यत्न्नोपेतास्तदपि चतुरा एव नितरां
वदामो यद्दिष्ट्या हयवदन तुभ्यं नम इति ।। ९९८ ।।
सुरोत्तमटीका
ग्रन्थकारस्स्वगर्वपरिहारं कुर्वन् स्वेष्टदेवतां प्रणमति । न शास्त्राभिज्ञाना इति ।। ९९८ ।।
सत्यप्रमोदटीका
विनयं प्रदर्शयति नेति । ग्रन्थनिर्माणरूपेण कार्येणैव शास्त्राभिज्ञत्वादीनां कारणानां सिद्धत्वेन तन्निषेधस्य प्रमाणबाधितत्वात् । तुभ्यं नमः इति निर्देशेन हयग्रीवस्य प्रत्यक्षविषयता द्योत्यते । परोक्षत्वे ते नमः इत्यवक्ष्यत् । क्वचित्तथोक्तिः साकल्येनाज्ञेयत्वाभिप्राया । हयग्रीवस्य साक्षात्कारश्च शास्त्राभिज्ञत्वाद्यशेषसाधनसम्पत्समृद्धिमाक्षिपति ।। तेन वस्तुतो मयि हयग्रीवानुग्रहासादितं यमनियमव्रतादिकं साधनजातं अस्त्येवेति ज्ञाप्यते । अभिप्रेतेन साधनबहुत्ववत्त्वेन वयमिति बहुवचनम् । शास्त्राभिज्ञा इत्यादिकस्य निषेधप्रतियोगितया चतुरा इत्यस्य च विधेयतया अन्वयाम् वयमित्यस्या-विशेषणतया सविशेषणस्य तु नेति निषेधस्याप्रवृत्तेरेकस्मिन्नपि बहुवचनं ज्ञेयम् । चतुरत्वे हयग्रीवस्यापरोक्षस्य नित्यं नमनमेव प्रयोजकं न शास्त्राभिज्ञत्वादिमात्रं इति शंसनेन प्रतिश्लोकं युक्तिचतुरत्वपरिप्लुतेऽस्मिन्ग्रन्थे बुभूषुभिरादरातिशयः कर्तव्यः इति ध्वन्यते । दिष्ट्या इति हयग्रीवनमनस्य हर्षहेतुत्वं मङ्गलकरत्वं चाह । ‘दिष्ट्या हर्षे च मङ्गले’ इति मेदिनी । नितरां इत्येतच्चतुरा इति वदामः इति चोभयत्र सम्बध्यते । यतः कारणात् नितरां निरन्तरं भक्त्यतिशयेन हयवदन तुभ्यं नम इति वदामस्तस्मान्नितरां चतुरा इति हेतुहेतुमद्भावो ज्ञेयः । अनेन श्लोकेन अहङ्कारखण्डनं निमित्तीकृत्य ग्रन्थावसाने मङ्गलमपि हयग्रीवनमनरूपं समनुष्ठितं ज्ञेयम् ।। ९९८ ।।