अन्योन्याभावभेदोऽयं न ह्यसत्येषु मन्मते
अत्यन्ताभावस्यअप्रामाणिकप्रतियोगिकत्वसाधनम्
युक्तिमल्लिका
अन्योन्याभावभेदोऽयं न ह्यसत्येषु मन्मते ।। ७४८ ।।
सुरोत्तमटीका
साधनवैकल्यमेवोपपादयति ।। अन्योन्येति ।। अन्योन्या- भावभेदः अन्योन्याभावाख्यभेदः ।। ७४८ ।।
युक्तिमल्लिका
यदा धर्म्येव नैवास्ति तदा तस्यैव नास्तिता ।
तत्राऽन्योन्यात्मताऽभावो ह्यप्रसक्तनिषेधनम् ।। ७४९ ।।
सुरोत्तमटीका
कुतो नास्तीत्यतो युक्तिमाह ।। यदेति ।। धर्मी शश-विषाणादिः । नैवास्ति सर्वथा नास्तीत्यर्थः । तस्यैव शशविषाणादेरेव । तदाशशविषाणमेवनास्तीत्युच्यते । न तु तदन्यात्मनानास्तीति व्यवह्रियते । असत्त्वेन स्वतादात्म्यस्यैवायोग्यतयाऽन्यतादात्म्यस्य सुतरामप्रसक्तेः । तत्र शशविषाणादौ । अन्योन्यात्मताऽभावः अन्योन्यतादात्म्यस्याभावो निषेधन-मित्यर्थः । अप्रसक्तनिषेधनं हीति सम्बन्धः । अतस्तत्रान्यतादात्म्यनिषेध-रूपभेदस्यैवाभावेन भेदत्वस्य सुतरामभावात् साधनवैकल्यम् । वस्तुस्थित्यभि-प्रायेण मन्मत इत्युक्तम् । युक्तिस्तु सर्वेषामपि साधारणीति भावः ।। ७४९ ।।
सत्यप्रमोदटीका
अन्योन्याभावरूपभेद इति निर्देशः वक्ष्यमाणदूषणस्य स्फुटीकरणार्थम् । पृथक्त्वं अन्योन्याभावः स्वरूपं इत्येषामैक्यस्य अत्तृत्वनये अनुव्याख्याने व्युत्पादितत्वात् ।। ७४९ ।।
युक्तिमल्लिका
तदेव नास्ति चेत्कस्य तादात्म्यं तत्र शङ्क्यते ।
शशशृङ्गं स्वतो नास्ति न तु नास्तीतरात्मना ।। ७५० ।।
सुरोत्तमटीका
अप्रसक्तिमेवोपपादयति ।। तदेवेति ।। स्वतस्स्वयमेव । इतरात्मना नास्तीति न तु ।न केनापि व्यवह्रियत इत्यर्थः।।७५० ।।
सत्यप्रमोदटीका
धर्मिण एव असत्त्वे तस्यान्यात्मताया अप्रसक्ते-स्तन्निषेधो नेत्येतदभिनीय दर्शयति शशशृृङ्गमिति ।। ७५० ।।
युक्तिमल्लिका
अतस्तत्रान्यवस्तुभ्यो भेदावसर एव न ।
यतो धर्मिस्वरूपोऽयमन्योन्याभाव ईर्यते ।। ७५१ ।।
सुरोत्तमटीका
अतः अन्योन्यतादात्म्यप्रसक्त्यभावात् । तत्र असति । ननु तर्हि शशविषाणे वस्तुस्थित्या विद्यमान इतरतादात्म्याभावः क इति चेत् वस्तुस्थित्या विद्यमानश्शशविषाणाभाव इव सप्तम्या निर्दिष्ट शशविषाण-स्येतरतादात्म्यं प्रत्याधारत्वात्यन्ताभाव एवेति ब्रूमः । भेदस्त्विदमिदं नेति पदद्वयसामानाधिकरण्यमर्यादयोभयतादात्म्यं प्रसञ्जयित्वा यो निषेधस्स एव । तादात्म्यमेवात्र नास्तीत्याद्याकारेण यो निषेधस्स तु तदत्यन्ताभाव एव । अस्य च प्रतियोगिप्रसिद्ध्यैवालम् । न तु पुरोवर्तिनि तत्प्रसक्तिरपि नियमेनापेक्षिता । शशविषाणादिनिषेधे तददर्शनात् । भेदस्तूक्तरीत्या नियमेन पुरोवर्तिन्येव तत्प्रसक्तिमपेक्षते । सा च तादात्म्ययोग्ये सत्पदार्थ एव भवति न तु सर्वथा तादात्म्यायोग्येऽत्यन्तासति । किं चेदमित्यनूद्येदं नेत्याकारेण निषेधः स्वाकारेण सत्येव वस्तुनि भवति । सर्वथाऽविद्यमाने धर्मिणीदमेव नेत्येतावता पूर्तेः पुनरिदं नेत्यन्याकारेण निषेधस्य कथमवसरः । न हि कश्चिच्छशविषाणं घटो नेति ब्रूते । किन्तु शशविषाणमेव नेति निषेधति । प्रतीतिश्च ध्वस्तेऽ-नुत्पन्ने च घटे घट एव नेत्याकारा भवति । न तु तदापि घटोऽयं न पट इति कस्यापि प्रतीतिरस्ति । सति तु घटे घट एवायं न तु पट इति वस्त्वन्तर-तादात्म्यप्रतिषेधरूपैव जायते । प्रतीतिरेव च वस्तुव्यवस्थितौ प्रमाणम् । सति तु धर्मिणि तत्स्वरूपस्यैव निषेद्धुमशक्यत्वात् अन्यात्मनैव निषेधस्सम्भावितः । अतस्सन्मात्रधर्मिक एव भेदो नासति । एतत्सर्वमभिप्रेत्योक्तं भेदावसर एव नेति । अत्यन्तासति शशशृृङ्गादावन्योन्याभावरूपभेदाभावेऽतिप्रबलयुक्तिं चाह ।। यत इति ।। ७५१ ।।
सत्यप्रमोदटीका
अन्योन्याभावः स्वरूपभेद इत्यनर्थान्तरमित्याह यत इति ।। ७५१ ।।
युक्तिमल्लिका
घटोयमेव न पटः पटोऽसौ न घटस्त्विति ।
सामानाधिकरण्यस्य वस्त्वैक्ये ह्यनुशासनात् ।। ७५२ ।।
सुरोत्तमटीका
अयं घट एवेति सम्बन्धः । न घटस्त्विति । ईर्यत इति पूर्वेणान्वयः । नन्वेवं प्रतीतावपि कुतोऽन्योन्याभावस्य घटादिस्वरूपत्वमित्यत आह ।। सामानाधिकरण्यस्येति ।। इहापि घटादेर्धर्मिणः पटो नेत्याद्याकारेण पटप्रतियोगिकनञर्थभूतान्योन्याभावसामानाधिकरण्यदर्शनेनान्योन्या भावात्म-कत्वसिद्धिरिति भावः ।। ७५२ ।।
युक्तिमल्लिका
अतो नासति सोऽभावो भावाभावबहिष्कृतः ।। ७५३ ।।
सुरोत्तमटीका
अतः अन्योन्याभावस्य धर्मिस्वरूपत्वनियमात् । सोऽ-भावः अन्योन्याभावः । भावाभावबहिष्कृत इति तत्र हेतुगर्भविशेषणम् । असत्यन्योन्या भावाङ्गीकारेऽसतोऽपि तद्रूपत्वं स्यात् । अन्योन्याभावस्य धर्मिस्वरूपत्वनियमात् । तच्च विरुद्धम् । असतो भावाभावबहिष्कृतत्वादिति अतो नासति सोऽभाव इति हेतोस्सूचनात् ।। ७५३ ।।
युक्तिमल्लिका
अभावेषु हि सर्वेषु यो धर्मी विद्यमानता ।
तस्य सर्वस्य नियता नाभावोऽसति धर्मिणि ।। ७५४ ।।
सुरोत्तमटीका
युक्त्यन्तरं चाह ।। अभावेष्विति ।। तस्य धर्मिणः विद्यमानता नियतेति सम्बन्धः ।। ७५४ ।।
युक्तिमल्लिका
नाभूदत्र घटो नष्टो घटो नायं घटः पटः ।
शशशृङ्गं सर्वदेशकालेनेति हि धीर्नृणाम् ।। ७५५ ।।
सुरोत्तमटीका
अभावस्य धर्मिसत्तानियममुदाहरणेन द्रढयति ।। नाभूदिति ।। अत्रेतिपदं नाभूदित्यनेन नष्ट इत्यनेन च सम्बध्यते । अत्र कपालादावुपादाने अयं घटःपटो नेति सम्बन्धः । सर्वदेशकाले सर्वस्मिन्देशे सर्वस्मिन्काले । अतः प्रागभावप्रध्वंसान्योन्याभावात्यन्ताभावानां चतुर्णामपि धर्मी सन्नेव ।। ७५५ ।।
युक्तिमल्लिका
पश्चात्सत्त्वं प्रागभावे नियतं प्रतियोगिनः ।
अतोऽसौ प्रागभावोऽभूत्प्रध्वंसप्रतियोगिनः ।
पूर्वसत्यं च नियतमुत्तराभावताऽस्य तत् ।। ७५६ ।।
सुरोत्तमटीका
प्रागभावे प्रतियोगिनो घटादेः पश्चात्सत्त्वं नियतमिति सम्बन्धः । अतः पश्चात्प्रतियोगिसत्त्वनियमात् । असौ अभावः । तत्तस्मात् पूर्वसत्त्वनियमात् । अस्य प्रध्वंसस्य ।। ७५६ ।।
युक्तिमल्लिका
सद्भ्यामभाव इति हि ततः प्राहुर्विपश्चितः ।
नाशेन जन्मना तस्माज्जगत्सत्यत्वमुच्यते ।। ७५७ ।।
सुरोत्तमटीका
उक्तार्थे प्राचां वाचं संमतित्वेनाह ।। सद्भ्यामिति ।। ततः प्रागभाव प्रध्वंसयोः प्रतियोगिसत्त्वस्यापि नियतत्वात् । सद्भ्यां विद्य-मानाभ्यां धर्मिप्रतियोगिभ्यां निरूप्यत इति वाक्यशेषः । तार्किकास्तु सर्वा-भावेष्वपि धर्मिप्रतियोगिसत्त्वनियमं वदन्ति । तदयुक्तम् । अत्यन्ताभाव प्रतियोगिनि शशविषाणे सन्निष्ठभेदप्रतियोगिनि असति च सत्त्वादर्शनात् । तत्त्ववादिनस्तु सर्वाभावेष्वपि धर्मिसत्त्वनियमं प्रागभावप्रध्वंसयोरेव प्रतियोगि-सत्त्वनियमं चाहुः । वक्ष्यति चैतद्ग्रन्थकारस्स्वयमेव । अत इदं वाक्यमस्माक-मप्यनुकूलमेवेति भावः । तस्मात्प्रागभावप्रध्वंसयोः प्रतियोगिसत्त्वनियमात् । उच्यते विवेकिभिः ।। ७५७ ।।
युक्तिमल्लिका
सतस्सदन्तराद्भेदे प्रतियोगिनि सत्यता ।
अविद्यमानाद्भेदे तु प्रतियोगी परं न सन् ।। ७५८ ।।
नायमारोपितश्चन्द्रो नेदं रजतमित्यपि ।
यतः प्रतीतिर्लोकानां धर्मी तत्रापि सन्भवेत् ।। ७५९ ।।
सुरोत्तमटीका
अन्योन्याभावे क्वचित्प्रतियोगिसत्त्वं क्वचिच्च तदन-पेक्षेत्याह ।। सत इति ।। अविद्यमानात् शशविषाणादेः ।। ननु किमर्थमयं विभाग इत्यत आह ।। नायमिति ।। यत इत्यस्य पूर्वेणान्वयः । धर्मी चन्द्रशुक्त्यादिः । तत्रापि अविद्यमानाद्भेदप्रतीतावपि ।। ७५८,७५९ ।।
सत्यप्रमोदटीका
भेदस्य धर्मिसत्त्वं नियतम् । प्रतियोगी तु क्वचिद-सन्नपि । तत्र दृष्टान्तावाह नायमिति ।। ७५८,७५९ ।।
युक्तिमल्लिका
त्रिकालनास्तिता धर्मिकालत्रितयमेव हि ।। ७६० ।।
सुरोत्तमटीका
अत्यन्ताभावेऽपि प्रागुक्तं धर्मिसत्त्वनियममुपपादय-न्प्रतियोगिसत्त्वं नैवापेक्षितमित्याह ।। त्रिकालेति ।। शशविषाणं नासीन्नास्ति न भविष्यतीति या कालत्रयनास्तिता । अत्यन्ताभाव इति यावत् । उपलक्षणं चैतत् । सर्वदेशेषु नास्तितेत्यपि ग्राह्यम् । तस्य धर्म्याधारः कालत्रितयं सर्वदेशाश्च । एव शब्देन शशविषाणं व्यावर्तयति ।। ७६० ।।
सत्यप्रमोदटीका
धर्मिणः सत्त्वं सर्वाभावसाधारणम् । अत्यन्ता-भावेऽपि त्रिकालसर्वदेशावेव धर्मिणौ । तौ च सन्ताविवेत्याह त्रिकालेति उपलक्षणं सर्वदेशेत्यपि ग्राह्यम् ।। ७६० ।।
युक्तिमल्लिका
शशशृङ्गस्य नास्तित्वं तद्गरूपादिनास्तिता ।
त्रिकालनास्तितैवेति धर्मी कालोऽखिलस्य सन् ।। ७६१ ।।
सुरोत्तमटीका
शशशृृङ्गे या रूपनास्तिता तस्या अपि त्रैकालिका-भावत्वात् कालत्रितयमेव धर्मीत्याह ।। शशशृृङ्गस्येति ।। तद्गं शशशृृङ्गगतं यद्रूपादि तन्नास्तिता । अखिलस्य शशविषाणाद्यत्यन्ताभावस्य तद्गत-रूपाद्यत्यन्ताभावस्य च ।। ७६१ ।।
सत्यप्रमोदटीका
अखिलस्य असद्धर्मिकाभावमात्रस्य ।। ७६१ ।।
युक्तिमल्लिका
असतः शशशृङ्गादेर्धर्मित्वं तूपचारतः ।। ७६२ ।।
सुरोत्तमटीका
प्रतियोगिभूतरूपव्यावर्तकतया शशविषाणे रूपात्यन्ता-भाव इति व्यवह्रियते न तु तस्य साक्षाद्धर्मितयेत्याह ।। असत इति ।।७६२।।
सत्यप्रमोदटीका
शशशृङ्गे रूपं नास्तीति प्रयोगस्तु उपचरितः । तत्रापि सर्वदेशेषु कालेषु नास्तीत्येवाशय इत्याह असत इति ।। ७६२ ।।
युक्तिमल्लिका
प्रतियोगित्वपूर्वास्तु धर्मिसत्तानपेक्षिणः ।
भावधर्मास्सन्ति तत्रात्यभावस्य गतिस्त्वियम् ।। ७६३ ।।
सुरोत्तमटीका
कथं तर्हि शशविषाणेऽत्यन्ताभावप्रतियोगित्वादि धर्मा-धारत्वमित्यत आह ।। प्रतियोगित्वेति ।। तत्र शशविषाणे । अत्यन्ताभावस्य शशविषाणादिप्रतियोगिकात्यन्ताभावस्य । इयं प्रागुक्ता । अभावप्रतियोगित्वं भ्रान्तिज्ञेयत्वं नास्तित्वेन ज्ञेयत्वादिकं चाविद्यमानस्यैव भवति । न तु कदापि विद्यमानस्य । अतस्ते धर्मिसत्तानिरपेक्षत्वात् शशविषाणादावेव स्युः । अत्यन्ताभावस्य तु सार्वदेशिकसार्वकालिकतया व्यवह्रियमाणत्वाद्देशकालावेव धर्मिणाविति भावः ।। ७६३ ।।
सत्यप्रमोदटीका
अत्र धर्मित्वं सत्त्वरूपत्वमेवाभिप्रेतम् । अत्यन्ता-भावप्रतियोगित्वादयस्तु न केवलं धर्मिसत्तानिरपेक्षाः । प्रत्युत तदसत्त्व-मेवापेक्षन्ते ।। ७६३ ।।
युक्तिमल्लिका
निषेधप्रतियोगित्वमात्रं सर्वस्य चासतः ।
देशः कालश्चाखिलोऽपि धर्मी तस्य निषेधने ।। ७६४ ।।
शशशृङ्गं न कुत्रापि न कदापीति हि प्रमा ।
तद्दैर्घ्यं च न कुत्रापि न कदापीति हि प्रमा ।। ७६५ ।।
सुरोत्तमटीका
तदेव विशदयति ।। निषेधेति ।। तस्यासतः ।। तद्दैर्घ्यं शशशृृङ्गदीर्घत्वम् ।। ७६४,७६५ ।।
सत्यप्रमोदटीका
अतः शशशृृङ्गे रूपं दैर्घ्यं नास्तीत्यादिनिषेधे देश-कालावेव धर्मिणौ इत्याह निषेधेति द्वाभ्याम् ।। ७६४,७६५ ।।
युक्तिमल्लिका
अत्यन्ताभावमात्रे तु प्रतियोगिन्यसत्यता ।
नियता कथमत्यन्ताभावस्सोऽपि सतो यदि ।
कालत्रयेऽप्यभावं हि तच्छब्दार्थं विदुर्बुधाः ।। ७६६ ।।
सुरोत्तमटीका
अत्यन्ताभावमात्रे सकलात्यन्ताभावे । अत्यन्ताभावस्य प्रतियोगी सर्वोऽप्यसन्नेव । विद्यमानस्यात्यन्ताभावायोगादिति भावः । सोऽपि अत्यन्ताभावोऽपि । तच्छब्दार्थं अत्यन्ताभावशब्दार्थम् ।। ७६६ ।।
सत्यप्रमोदटीका
मात्रशब्दः कार्त्स्न्यार्थः । नियतेत्यनेन क्वचि-दत्यन्ताभावः प्रामाणिकप्रतियोगिकोऽपि भवतीति स्वयूथ्यानां केषाञ्चिद्वादः प्रौढिवाद एवेत्यभिप्रैति । हीत्यनेन ‘प्राक् प्रध्वंससदात्वेन त्रिविधोऽभाव इष्यते’ इति तत्त्वसङ्ख्यानं प्रमाणयति ।। ७६६ ।।
युक्तिमल्लिका
योऽत्यन्ताभावमेवाह घटस्य स हि सर्वदा ।
जलाहरणयोग्यस्याभावाच्छुष्यद्गलो भवेत् ।
न चेदत्यन्तशब्दोऽयं शोषयेद्बहुजल्पतः ।। ७६७ ।।
सुरोत्तमटीका
अत एव घटादेरत्यन्ताभावप्रतियोगित्वकथनमयुक्त-मित्याह ।। य इति ।। सः घटात्यन्ताभाववादी । सर्वदाऽभावादिति सम्बन्धः । न चेत्सर्वदाऽभावो न चेत् । शोषयेत् गलं शोषयेत् । कदाचित्क्वचि-द्विद्यमानस्याप्यभावस्यात्यन्ता भावत्वेऽत्यन्तपदवैयर्थ्यमिति भावः ।। ७६७ ।।
सत्यप्रमोदटीका
अत्यन्तशब्द एवाभावस्योक्तरूपत्वं निर्धारयतीति साहित्यमुद्रयाऽऽह य इति । अन्यथा निरर्थकं अत्यन्तेत्युच्चारणं कण्ठशोष-मात्रायेत्याह जल्पतः इति ।। ७६७ ।।
युक्तिमल्लिका
प्रागभावादयोऽप्यत्यन्ताभावाः स्युर्न चेत्तव ।
धर्मी तस्याप्युक्तरीत्या सन्नेवेति विनिश्चितः ।। ७६८ ।।
सुरोत्तमटीका
न चेत् तत्रात्यन्तपदवैयर्थ्यं न चेत् । तस्य शश-शृृङ्गाद्यत्यन्ताभावस्य ।। ७६८ ।।
सत्यप्रमोदटीका
अन्यथा अभावस्य त्रैविध्येनोक्तो विभागोऽनुपपन्नः स्यादित्याह प्रागभावेति प्राक्कालावच्छिन्नः उत्तरकालावच्छिन्नः अत्यन्ताभाव इति प्राक्प्रध्वंसाभावयोरपि सदाऽभाव एवान्तर्भासम्भवादिति भावः । न च धर्मिणः सत्त्वासत्त्वाभ्यां तयोरत्यन्ताभावात्पार्थक्यम् । अत्यन्ताभावेऽपि धर्मिणः सत्त्वस्य विनिश्चितत्वादित्याह धर्मीति ।। ७६८ ।।
युक्तिमल्लिका
एवं च धर्मिणस्सत्त्वं सर्वाभावेषु यद्ध्रुवम् ।
अन्योन्याभावरूपोऽयं भेदो नारोपितेषु तत् ।। ७६९ ।।
सुरोत्तमटीका
सर्वाभावेषु प्रागभावप्रध्वंसान्योन्याभावात्यन्ताभावेषु । यद्यस्मात् । आरोपितेषु आरोपितचन्द्रेषु । सर्वथाऽविद्यमानेष्विति यावत् । तत्तस्मात् ।। ७६९ ।।
सत्यप्रमोदटीका
प्रकृतं यद् दृष्टान्तदूषणं तदुपयोगोक्त्या निगमयति एवमिति ।। ७६९ ।।
युक्तिमल्लिका
वर्तमानः परं धर्मी भावोऽस्याभाव एव वा ।
स च भावेषु भावात्मा ह्यभावेषु तदात्मकः ।। ७७० ।।
सुरोत्तमटीका
वर्तमानः विद्यमानः । अस्यान्योन्याभावस्य । सः अन्योन्याभावः ।। ७७० ।।
सत्यप्रमोदटीका
वर्तमानः सन् । परं केवलम् । न तु भावः एवेति अभाव एवेति वा नियम्यते । भावा ‘भावस्वरूपत्वादि’ति तत्वसङ्ख्यानोक्ते-रित्याह स इति ।। ७७० ।।
युक्तिमल्लिका
पट एव घटो नेति समानाधिकृतत्वतः ।
यतः प्रतीयते सर्वैस्ततो धर्मिण्यभिन्नता ।। ७७१ ।।
सुरोत्तमटीका
हीत्यनेन सूचितं हेतुमाह ।। पट एवेति ।। समानाधि-कृतत्वतः सामानाधिकरण्यादित्यर्थः । ततः सामानाधिकरण्येन प्रतीयमानत्वात् । घटःपटो नेति । अभावः भावो नेति भावेऽभावे च सामानाधिकरण्येन प्रतीय-मानत्वात् भावाभावात्मकोऽन्योन्याभाव इति भावः ।। ७७१ ।।
सत्यप्रमोदटीका
भेदस्य धर्मिस्वरूपत्वं सामानाधिकरण्यप्रयोगबलेन सिद्धमित्याह पट इति । एवं ‘घटाभावो घटो न’ इत्यपि अन्योन्याभावस्य अभावस्वरूपत्वे उदाहर्तव्यम् ।। ७७१ ।।
युक्तिमल्लिका
भावाभावविरोधश्च प्रतियोग्यनुयोगिनोः ।
घटाभावः पटवति घटवत्येव न ह्यसौ ।। ७७२ ।।
सुरोत्तमटीका
नन्वन्योन्याभावस्य भावस्वरूपत्वे भावाभावविरोध-शान्तिरित्यत आह ।। भावाभावेति ।। प्रतियोग्यनुयोगिनोः प्रतियोग्यनुयोगि-रूपभावाभावयोरेव । न तु यस्यकस्याप्यभावस्य येन केनापि भावेन विरोध इति भावः । तत्र हेतुमाह ।। घटाभाव इति ।। हि यस्मात् घटाभावः पटवति भूतले वर्तते । असौ घटाभावः घटवत्येव भूतले न । तस्मात्प्रतियोग्यनु-योगिरूपभावाभावायोरेव विरोधो न तु यस्य कस्याप्यभावस्य येन केनापि भावेन ।। ७७२ ।।
सत्यप्रमोदटीका
‘भावाभावविरोधोऽपि न तु सर्वत्र विद्यते । तदभावो हि तद्भावविरोधी न ततोऽपरः’ इति अदृश्यत्वादिनयेऽनुव्याख्यानोक्त-मनुरुध्याह भावेति । चशब्दः एवार्थः प्रतियोग्यनुयोगिनोरित्यनेन सम्बध्यते । न तदन्यत्र । संसर्गाभावे तन्नियमं दर्शयति घटाभाव इति ।। ७७२ ।।
युक्तिमल्लिका
एवं घटस्य भेदोऽयं पटेऽस्ति न घटे परम् ।
अतस्सिद्धो विरोधोऽस्मिन्प्रतियोग्यनुयोगिनोः ।। ७७३ ।।
सुरोत्तमटीका
अस्त्वेवं प्रकृते किमित्यत आह ।। एवमिति ।। एवं पूर्वोक्तघटाभाववत् । अयं घटस्य भेदः घटप्रतियोगिक भेद इत्यर्थः । पटेऽस्ति । तस्याप्रतियोगिरूपत्वात् तद्रूपोऽप्यस्तु । परं केवलं घटे न । तद्रूपताऽस्माभिरपि नोच्यते । अतः घटभेदस्य प्रतियोगिभूतघटरूपत्वानुक्तेः । अस्मिन्भेदे । प्रतियोग्यनुयोगिनोर्विरोधस्सिद्धः । घटप्रतियोगिकभेदस्य धर्मिभूत पटरूपत्वाङ्गीकारेऽपि प्रतियोगिभूत घटरूपत्वानङ्गीकारात् प्रतियोग्यनुयोगि-रूपभावाभावविरोधस्य भेदस्थलेऽपि न काचित्क्षतिरिति भावः ।। ७७३ ।।
सत्यप्रमोदटीका
अन्योन्याभावेऽपि तं दर्शयति एवमिति ।। ७७३ ।।
युक्तिमल्लिका
उक्तप्रत्यक्षबलतस्सोऽभिन्नस्स्वस्वधर्मिणा ।
अनवस्थाभियान्ते च धर्म्यैक्यं वाच्यमस्य हि ।। ७७४ ।।
सुरोत्तमटीका
सः भेदः । अस्य भेदस्य ।। ७७४ ।।
सत्यप्रमोदटीका
‘तत्तद्भेदस्य भेदान्तरभेदेऽनवस्थानं’ इति वादा-वल्युक्तदिशाऽऽह अनवस्थेति ।। ७७४ ।।
युक्तिमल्लिका
उक्तप्रत्यक्षानुसारात्प्रागेव स निगद्यताम् ।
धर्मित्वादीशक्लृप्तत्वात्तत्तच्छक्तिविशेषतः ।। ७७५ ।।
सुरोत्तमटीका
सः धर्म्यभेदः । अभेदे कथं धर्मधर्मिभाव इत्यत आह ।। धर्मित्वादीति ।। आदिपदेन धर्मत्वादिकं ग्राह्यम् ।। ७७५ ।।
सत्यप्रमोदटीका
धर्मधर्मिभावादि भेदव्यवहारः विशेषबलादित्याह तत्तच्छक्तिविशेषतः इति । समर्थितश्चायं विशेषो गुणसौरभे ।। ७७५ ।।
युक्तिमल्लिका
इह नेति प्रतीतस्तु भिन्नोऽभावस्त्रिरूपवान् ।
आधाराधेयभावो हि तेषां धर्मिषु दृश्यते ।
धर्म्यभेदे तु मानं न तद्भिन्नाः स्वस्वधर्मिभिः ।। ७७६ ।।
सुरोत्तमटीका
एवं तर्हि प्रागभावप्रध्वंसात्यन्ताभावानामपि प्राभाकर-रीत्या धर्मिस्वरूपत्वमस्त्वित्यत आह ।। इहेति ।। अभावः भिन्नः धर्मिणा भिन्न इत्यर्थः । तत्र हेतुं विशिनष्टि ।। आधारेति ।। तेषामभावानाम् । तत्तस्मात् । इह भूतले घटो न कपाले घटो न । कालत्रये शशशृृङ्गं नेत्य-भावत्रयस्यापि स्वधर्मिभिर्भेदसापेक्षाधाराधेयभावस्यैव प्रतीतत्वेनाभेद बाधक-सद्भावात्साधकाभावाच्च धर्म्यभेदो नाङ्गीक्रियत इति भावः ।। ७७६ ।।
सत्यप्रमोदटीका
‘यत्तदद्रेश्यमगोत्रं’ इति श्रुतौ ओश्यमित्यनेन दृश्य-प्रतियोगिकान्योन्याभावः, अगोत्रमित्यनेन तु बहुव्रीहिसमाश्रयणे न गोत्र-संसर्गाभावः प्रतीयते । तत्र अन्योन्याभावः धर्मिस्वरूपमित्युक्तम् । ब्रह्म न दृश्यं इति अन्योन्याभावस्य ब्रह्मसामानाधिकरण्येनैव प्रतीतः । अतो युज्यते समन्वेतव्यस्य दृश्यभेदस्य स्वरूपलक्षणत्वम् । गोत्रभेदस्तु नैतद्वाक्यबोध्यः । तस्य घटादिसाधारण्येन सरूपलक्षणत्वासम्भवात् । गोत्रसंसर्गाभावस्य तु ‘ब्रह्मणि गोत्रं नास्ति’ इति आधाराधेयभावेनैव प्रतीयमानत्वेन न सः धर्मिस्वरूपम् । भूतले घटो न इति प्रतीयमानभाववदित्याह इहेति ।। इयांस्तु विशेषः । ब्रह्मणि गोत्रं न इत्यत्र अत्यन्ताभाव एव । भूतले घटो न इत्यत्र यथातथं त्रिविधोऽपि संसर्गाभावः । स च त्रिविधोऽपि उक्तहेतोः धर्मिभिन्न एवेत्याह तदिति यथोक्तं सुधायां ‘भिन्न एव धर्मिणः प्रागभावादिः । धर्मिनाशेऽप्यविनाशादि’त्यादि ।। ७७६ ।।
युक्तिमल्लिका
एकाभावे त्वभावोऽन्यो मृतमारणमेव हि ।। ७७७ ।।
सुरोत्तमटीका
पूर्वं प्रसक्त्यभावात् धर्म्यभेदायोगात् धर्मिसत्त्वासम्भवाच्च शशविषाणादौ नान्योन्याभाव इत्युक्तम् । अधुनाऽभावस्या भावान्तरा-सहत्वाच्चात्यन्ताभावप्रतियोगिनि तस्मिन्नान्योन्याभाव इत्याह ।। एकाभाव इति ।। ७७७ ।।
सत्यप्रमोदटीका
तादात्म्यप्रसक्तेरेवाभावेन तन्निषेधात्मा अन्योन्या-भावः न शशविषाणधर्मिकः । तस्य अत्यन्ताभावप्रतियोगित्वादित्युक्तम् । सामान्यतः अभावस्य अभावान्तरासहिष्णुस्वभावत्वादप्येवमित्याह एकेति ।।
युक्तिमल्लिका
अन्योन्याभाव एवैको वर्तमानेषु वस्तुषु ।
न प्रध्वंसः प्रागभावो नात्यन्ताभाव एव वा ।। ७७८ ।।
सुरोत्तमटीका
तदेव विशदयति ।। अन्योन्याभाव इति ।। ७७८ ।।
युक्तिमल्लिका
इह भूमौ घटो नेति यो निषेधः प्रतीयते ।
स तत्संसर्गनाशो वा तस्य प्राङ्नास्तितैव वा ।। ७७९ ।।
सुरोत्तमटीका
नन्विह भूतले घटो नास्तीति वर्तमानघटस्यैवाभावान्तर-प्रतीतेरुक्तमयुक्तमित्यत आह ।। इह भूमाविति ।। सः अभावः । तस्य घटस्य संसर्गनाशः तत्संसर्गनाशः । तस्य तत्संसर्गस्य । प्राङ्नास्तिता प्रागभावः ।। ७७९ ।।
सत्यप्रमोदटीका
स्वसत्तादशायां प्रतियोगिसत्तासहिष्णुत्वस्वभावत्वं अन्योन्याभावस्यैकस्यैव नेतरेषां त्रयाणामित्याह अन्योन्याभाव इति ।।७७९।।
युक्तिमल्लिका
संसर्गो यत्र नैव स्यात्तत्र त्वत्यन्तनास्तिता ।
यो घटोऽस्ति कथं नास्ति स एव व्याहतं (हि) च तत् ।। ७८० ।।
सुरोत्तमटीका
यत्र काश्यादौ । ननु घटो नेति प्रतीयमानोऽभावः कथं तत्संसर्गाभावस्स्यादिति चेत् न । तार्किकेणापि घटात्यन्ताभावाभिमत-घटाभावस्य संसर्गाभावत्वेन व्यवह्रियमाणत्वात् । युक्त्यन्तरं चाह ।। यो घट इति ।। स एव कथं नास्तीति सम्बन्धः । तत् घटोऽस्ति घटो नास्तीत्येतत् । प्रागभावप्रध्वंसात्यन्ताभावेषु घटादि प्रतियोगिन एवाभावात् घटाद्यभावत्वं वक्तुं शक्यम् । इह तु प्रतियोग्यभिमत घटस्य विद्यमानत्वात्कथं तदभावो वक्तव्यः । एकेनैवाकारेणैकदा भावाभावयोरेकत्र विरुद्धत्वात् । विद्यमानत्वादेव विद्यमाने घटे प्रागभावप्रध्वंसयोरयोगात् घटस्वरूपेण भावो रूपान्तरेणैव चाभावो वाच्यः । किञ्च शशविषाणवदत्यन्ताभावायोगात् इह घटो नेति प्रतीतस्य तस्याभावस्यान्योन्याभावत्वायोगाच्च परिशेषेण घटसंसर्गस्यैवाभावो वक्तव्यः । घटसंसर्गे तु घटस्य पश्चादानयने प्रागभावस्य अन्यत्रापसरणे प्रध्वंसस्य सर्वथाऽसम्बन्धेऽत्यन्ताभावस्य च वक्तुं शक्यत्वात् । कथं तर्हि घटः पटो नेत्यत्र पटतादात्म्यस्य विद्यमानस्यैव घटेऽभाव इति चेत् । न । तत्रापि पटतादात्म्यसम्बन्धस्यैव घटे निषेधात् । स च नास्त्येवेति कथं विद्यमानस्या-भावः। ननु तर्ह्ययमप्यत्यन्ताभाव एवास्त्विति चेत् । न । नियमेन घटः पट इति समानाधिकरणपदद्वयार्थतया प्राप्ततादात्म्यं प्राक् प्रसज्य नेति तत्तादात्म्य-संसर्ग निषेधरूपत्वाख्येनात्यन्ताभाव वैलक्षण्येनान्योन्याभावत्वस्यैव न्याय्य-त्वात् । घटे पटतादात्म्यं नेत्यत्र तु पटतादात्म्यपदेन तादात्म्यस्य प्रसक्तावपि पदद्वयसामानाधिकरण्यार्थतया प्राप्ततादात्म्यप्रसक्त्यभावेनान्योन्याभावत्वा-योगात् । शशशृृङ्गं नेतिवत् तादात्म्यं नेत्याकारेण यत्र तादात्म्यं निषिद्ध्यते सोऽत्यन्ताभावः । अनीदृशाकारेण यत्र तादात्म्यं निषिद्ध्यते सोऽन्योन्याभाव इति विवेकः । अत एवायमभावः घटःपटो न पटो घटो नेत्येवमाकारेण प्रतीयते । अत्यन्ताभावस्तु शशशृृङ्गं नेत्येव । न तु शशशृृङ्गमिदं नेति ।।७८०।।
सत्यप्रमोदटीका
इहेति अधिकरणनिर्देशपूर्वकं यत्राभावः प्रतीयते तत्र सर्वत्रापीत्यर्थः । संसर्गस्य भूतत्वे नाशः भावित्वे प्रागभावः इति विवेचनीयम् ।।
यत्र एतद्घटभूतलसंसर्गः कदाऽपि नास्ति तत्र संसर्गस्यैव अत्यन्ताभावः न तु घटस्येत्याह संसर्ग इति । अन्यथा व्याघातादित्याह य इति । स एव कथं नास्तीत्यन्वयः । प्रामाणिकस्यात्यन्ताभावासम्भवादेवेति भावः । अत्र विस्तरः न्यायामृते अनिर्वाच्यत्वसाधकनिषेधप्रतियोगित्वान्यथाऽनुपपत्तिभङ्गे द्रष्टव्यः । अप्रामाणिकस्यैव अत्यन्ताभावप्रतियोगिकत्वं इत्यत्र तत्र तत्र आकरग्रन्थो-क्तानि निरवकाशप्रमाणानि अस्माभिः कृते भगवतो निर्दोषत्वलक्षण इति ग्रन्थे उदाहृतानि अत्र सुधीभिरनुसन्धेयानि ।। ७८० ।।
युक्तिमल्लिका
संसर्गो नेत्यभावस्तु तत्सम्बन्धस्य नास्तिता ।
काश्यामयं च संसर्गो नेति चास्य निषेधनम् ।। ७८१ ।।
सुरोत्तमटीका
ननु घटो नास्तीत्यभावो घटसंसर्गाभावश्चेत् संसर्गो नास्तीति योऽभावः प्रतीयते स कस्येत्यत आह ।। संसर्ग इति ।। तत्सम्बन्धस्य संसर्गसम्बन्धस्य । एवञ्चैतद्भूतलघटसंसर्गः काश्यां नास्तीति योऽभावः प्रतीयते सोऽप्येतद्भूतल घटसंसर्गस्य यःकाशीसंसर्गः तस्यैव । स च नास्त्येवेति न क्वापि प्रामाणिकस्यात्यन्ताभावप्रतियोगितेत्याह ।। काश्या-मिति ।। अस्य एतद्भूतलघटसंसर्गस्य ।। ७८१ ।।
सत्यप्रमोदटीका
घटे पटतादात्म्यं नेति अधिकरणनिर्देशेन तादात्म्य-निषेधस्तत्रापि तादात्म्यसंसर्गस्यैव निषेधः न तु पटतादात्म्यस्य । तस्य पटे विद्यमानस्य प्रामाणिकस्य निषेधासम्भवात् । काश्यां एतद्भूतलघटसंसर्गो नास्ति इत्यत्रापि संसर्गसंसर्ग एव निषेध्य इत्याह संसर्ग इति । अस्य संसर्गसंसर्गस्य ।। ७८१ ।।
युक्तिमल्लिका
घटसंसर्गवत्संसर्गस्य संसर्गनास्तिता ।
स चाप्रामाणिकस्तस्य ह्यत्यन्ताभाव एव सः ।। ७८२ ।।
सुरोत्तमटीका
घटसंसर्गवत् यथा घटो नास्तीत्युक्ते घटसंसर्गस्यैव निषेधस्तद्वत्काश्यामेतद्भूतलघटसंसर्गो नास्तीत्युक्तेऽपि संसर्गस्य एतद्भूतल-घटसंसर्गस्य यः काशीसंसर्गः तन्नास्तितेत्यर्थः । सः एतद्भूतलघटसंसर्गस्य काशीसंसर्गः । तस्य संसर्गसंसर्गस्य । सः अभावः ।। ७८२ ।।
सत्यप्रमोदटीका
तस्य अप्रामाणिकत्वेन युज्यते तस्यात्यन्ताभाव इत्याह घटेति । एवेति काश्यां एतद्भूतलघटसंसर्गसंसर्गस्य कदाप्यभावादिति भावः ।। ७८२ ।।
युक्तिमल्लिका
प्रामाणिकस्य प्रागूर्ध्वं प्रागभावविनाशने ।
वर्तमानत्वसमये त्वन्योन्याभाव एव हि ।। ७८३ ।।
सुरोत्तमटीका
तर्हि प्रामाणिस्य को भाव इत्यत आह ।। प्रामाणिक-स्येति ।। प्राक् उत्पत्तेः प्राक् । ऊर्ध्वं वर्तमानत्वादूर्ध्वम् । प्राक् प्रागभाव-प्रतियोगित्वं ऊर्ध्वं प्रध्वंसप्रतियोगित्वमित्यर्थः । वर्तमानत्वसमये तयोरभाव-योरभावात् सत एव सदन्तरभेदसद्भावात् एकनिष्ठभेदप्रतियोगित्वमन्यस्येत्यर्थः ।। ७८३ ।।
सत्यप्रमोदटीका
प्रामाणिकस्य घटस्य । प्राक् उत्पत्तेः पूर्वम् । ऊर्ध्वं नाशानन्तरम् । प्रागभावविनाशने प्रागभावः ध्वंसश्च । यथाक्रमं अन्वयः । एवेति प्रतियोगिसत्तायाः अन्योन्याभावातिरिक्ताभावान्तरस्यासहिष्णुस्वभाव-त्वादिति भावः ।। ७८३ ।।
युक्तिमल्लिका
अभूते प्रागभावोऽस्ति तादात्म्यस्याप्यसौ तदा ।
अतस्तदात्मतान्यस्मिन्न भूते नैव शङ्क्यते ।। ७८४ ।।
सुरोत्तमटीका
तर्हि प्रागभावदशायां भेदाभावात् अभूतादभूतान्तरस्य तादात्म्यं स्यादित्यत आह ।। अभूत इति ।। अभूते घटे । असौ प्रागभावः । तदा अभूतत्वदशायाम् । अतः तादात्म्यस्यापि प्रागभावात् । विरोधिभूत-भेदाभावेऽपि प्रागभावाख्य विरोधिसद्भावात् । अभूते घटे । नैव । अभूत-तादात्म्यमपि न शङ्कितुं शक्यमेवेति भावः ।। ७८४ ।।
सत्यप्रमोदटीका
घटप्रागभावदशायां तत्तादात्म्यस्यापि प्रागभावः इत्याह अभूते इति । अनुत्पन्ने इत्यर्थः । तस्मिन् अभूते इति पदच्छेदः । एकस्य अनुत्पन्नस्य अन्येन अनुत्पन्नेन तादात्म्यं नैव शङ्क्यते । उभयोरपि तादात्म्यप्रागभावस्यैव सत्त्वादित्यर्थः।। ७८४ ।।
युक्तिमल्लिका
ध्वस्ते तु ध्वंस एवास्ति नान्योऽभावस्तु कश्चन ।
तादात्म्यस्यापि नाशेन लीनान्यैक्यं च तस्य न ।। ७८५ ।।
सुरोत्तमटीका
अन्यः अभावः प्रागभावान्योन्याभावादिः । लीना-न्यैक्यं लीनस्य ध्वस्तस्यान्यस्य पदार्थस्यैक्यमित्यर्थः । तस्य लीनपदार्थांतरस्य । युक्तिस्तु पूर्ववदेव द्रष्टव्या ।। ७८५ ।।
सत्यप्रमोदटीका
उक्तं प्रकारं ध्वस्तयोरप्यतिदिशति ध्वस्ते इति । एवकारेण व्यवच्छेद्यमाह नेति । कश्चन अभावः प्रागभावः अत्यन्ताभावः अन्योन्याभावः । लीनान्यैक्यं ध्वस्तस्य अन्येन ध्वस्तेनैक्यम् ।। ७८५ ।।
युक्तिमल्लिका
वर्तमाने तु भेदोऽस्ति तेनान्योन्यमनेकता ।
अत्यन्ताभाव एवास्ति तथात्यन्तासतोऽपि हि ।। ७८६ ।।
तत्तादात्म्यं हि तन्मात्रं तस्याप्यत्यन्तनास्तिता ।
तेष्वन्योन्यं भेदकथा तादात्म्यस्याप्यसत्त्वतः ।। ७८७ ।।
सुरोत्तमटीका
ततः भेदसद्भावात् ।। तत्तादात्म्यं तस्य शशशृृङ्गादे-स्तादात्म्यं, तन्मात्रं शशशृृङ्गाद्यात्मकमेव । तस्यापि तत्तादात्म्यस्यापि ।तेषु शशशृृङ्गादिषु । भेदकथा उक्तरीत्या भेदाभावेऽपि भेदवार्ता ।असत्त्वतः अत्यन्ताभावात्।। ७८६,७८७ ।।
सत्यप्रमोदटीका
भेदः तादात्म्यविरोधी । ततो विरोधिभेदसद्भावात् । अवर्तमानयोः अतीतानागतयोस्तु, तादात्म्यविरोधिनोः तादात्म्यध्वंसतादात्म्य प्रागभावयोः सत्त्वेन न अतीतस्य अतीतेन तादात्म्यव्यवहारः इति विवेकः । शशविषाणनरविषाणयोरिव तत्तादात्म्ययोरत्यन्तासत्त्वेन न तयोस्तादात्म्य-व्यवहार इत्याह अत्यन्ताभाव इति । हिर्हेतौ । तस्यापि तत्तादात्म्यस्यापि । शशविषाणं नरविषाणं नेति भेदव्यवहारस्तु उपचरित एवेत्याह कथेति । वार्तामात्रं ननु भेदस्य सद्भावात् । भेदस्य धर्मिस्वरूपत्वनियमात् । तयोश्च निस्स्वरूपत्वात् ।। ७८६,७८७ ।।
युक्तिमल्लिका
तादात्म्याभावधीस्तस्य ह्यत्यन्ताभावतस्तदा ।
अतो भेदव्यवहृतिस्तत्र तत्र तथा तथा ।
सति तद्भेदसद्भावात्तेषु तद्भिन्नतावचः ।। ७८८ ।।
सुरोत्तमटीका
तस्य तादात्म्यस्य । हि यस्मात् । अतः तादात्म्य-स्याप्यत्यन्तासत्त्वात् । तद्भेदसद्भावात् तस्मादसतः भेदसद्भावात् । तेषु सत्सु ।। ७८८ ।।
सत्यप्रमोदटीका
तत्र तत्र तथातथा । निःस्वरूपे उपचरितः । सस्वरूपे निःस्वरूपात्तु वास्तवः । तेषु सत्सु । तद्भिन्नता असद्भिन्नता
।। ७८८ ।।
युक्तिमल्लिका
यथा कथञ्चिद्वैसादृश्याद्वातेष्वपि भेदवाक् ।
धर्म्यभावेन तेष्वन्योऽन्याभावस्यात्यसम्भवात् ।। ७८९ ।।
सुरोत्तमटीका
सिंहावलोकनन्यायेन पुनरसत्सु भेदकथाया युक्त्यन्तरं चाह ।। यथाकथञ्चिदिति ।। वैसादृश्यात् शशशृृङ्ग नरशृृङ्गादिविलक्षण-पदैर्व्यवह्रियमाणत्वात् । भिन्नभिन्नाभावप्रतियोगित्वाद्वा । तेषु शशशृृङ्ग-नरशृृङ्गादिषु । तेषु असत्सु ।। ७८९ ।।
सत्यप्रमोदटीका
वैसादृष्यात् भिन्नपदैर्व्यवह्रियमाणत्वात् ।। ७८९ ।।
युक्तिमल्लिका
तादात्म्यस्थप्रागभावो नाशोऽत्यन्तनिषेधनम् ।
ऐक्यस्य प्रागभावादिर्न भेदस्त्रितयं च तत् ।। ७९० ।।
सुरोत्तमटीका
ननु तादात्म्यप्रतियोगिकाभाव एव भेद इत्युच्यते । स च प्रागभावादिकमादायातीतादिष्वपि भवद्भिरेवाङ्गीकृतः । तथापि भेदो नास्तीत्यस्य कोऽभिप्राय इत्यत आह ।। तादात्म्यस्येति ।। तादात्म्यस्येति विशेषणं प्रागभावादिविशेष्यत्रयेपि संबध्यते । आदिपदेन प्रध्वंसात्यन्ता-भावयोर्ग्रहणम् । तत्त्रितयं च तादात्म्यप्रागभावादित्रितयं च न भेद इति योजना ।। ७९० ।।
सत्यप्रमोदटीका
अनुत्पन्ने घटे घटतादात्म्यप्रागभावः प्रतीयते । एवं अतीते घटे घटतादात्म्यध्वंसः अत्यन्तासति च तादात्म्यात्यन्ताभावः । तत् त्रितयं एतदभावत्रितयम् ।। ७९० ।।
युक्तिमल्लिका
घटे सति पटादीनां तादात्म्यं यन्निषिध्यते ।
घटः पटो न भवति पटो न घट इत्यपि ।
स एव भेदनामा यमन्योन्याभाव इष्यते ।। ७९१ ।।
सुरोत्तमटीका
तर्हि भेदः क इत्यतः प्रागुक्तं भेदमेव पुनस्स्मारयति ।। घटे सतीति ।। यत्तादात्म्यं घटःपटो न पटो घटो नेत्याद्याकारेण सति घटे पटादीनां निषिध्यते । सः एतादृशतादात्म्यनिषेध एव । एवपदेनेह तादात्म्यं नाभूत् इह तादात्म्यं ध्वस्तं इह तादात्म्यं कदापि नास्तीत्याकारक-तादात्म्यनिषेधत्रयं व्यवच्छिनत्ति । अयं अयमेव ।। ७९१ ।।
सत्यप्रमोदटीका
कस्तर्हि अन्योन्याभावाख्यभेदे साक्षिभूतः प्रत्यय इत्यत आह घटः पटो नेत्यादिना ।। ७९१ ।।
युक्तिमल्लिका
नास्ति तादात्म्यमिति तु प्रागभावादिरीर्यते ।
अन्योन्याभावभेदस्तद्वर्तमानेषु केवलम् ।। ७९२ ।।
सुरोत्तमटीका
व्यवच्छेद्यमेव सामान्यतो दर्शयति ।। नास्तीति ।। तत्तस्मात् अतीतादिषु भेदप्रतीत्यभावात् ।। ७९२ ।।
सत्यप्रमोदटीका
निगमयति नेति ।। ७९२ ।।
युक्तिमल्लिका
अतोऽभावोतिदुष्टोयं स्वगोत्रकलहप्रियः ।
धर्मिण्येकस्सदैकाकी प्रतियोगि(नि)षु ते त्रयः ।। ७९३ ।।
सुरोत्तमटीका
अतः एकाभावस्थलेऽभावान्तराभावात् । अतिदुष्टः अन्यनिषेधरूपत्वादतिक्रूरः । अतिदुष्टत्वमेवोपपादयति ।। स्वगोत्रेति ।। अभावस्याभावान्तरासहिष्णुत्वात्स्वगोत्रकलहप्रिय इत्यर्थः । भावनिषेधेन परगोत्रकलहात् अभावान्तरासहिष्णुत्वेन स्वगोत्रकलहाच्चातिदुष्ट इति भावः । तत्र विशेषमाह ।। धर्मिणीति ।। एकः अन्योन्याभावः । धर्मिणि धर्मिण्येव । न तु स्वप्रतियोगिनि । अन्योन्याभावप्रतियोगिनि शशविषाणादावत्यन्ताभाव प्रतियोगित्वस्यापि विद्यमानत्वात् । एकाकी स्वधर्मितादशायां तस्य प्रागभावादिकमसहमान इत्यर्थः । ते त्रयः प्रागभावप्रध्वंसात्यन्ताभावाः । प्रतियोगिनि स्वस्वप्रतियोगिन्येव एकाकिनः । स्वप्रतियोगितादशायामभावान्तर प्रतियोगित्वमसहमाना इत्यर्थः । स्वगृहेऽन्यमसहमानो लुब्ध इवैक एकाकी । अपरे तु स्वमारिते शत्रौ मारकान्तरमसहमानवीरभटा इवैकाकिन इति भावः ।। ७९३ ।।
सत्यप्रमोदटीका
अतिदुष्टत्वमेवोपपादयति स्वगोत्रेति । अभावत्वेन स्वसदृशेत्यर्थः । अभावस्य स्वधर्मिणि अभावान्तरासहिष्णुस्वभावत्वादिति भावः । एकः अन्योन्याभावः, धर्मिणि एकाकी स्वसत्तादशायां अभावान्त्तरं असहमानः । ते त्रयः संसर्गाभावाः प्रतियोगिनि एकाकिनः इति विभक्ति-विपरिणामेन अनुषङ्गः । प्रागभावः स्वप्रतियोगिनि ध्वंसप्रतियोगित्वं अत्यन्ता- भावप्रतियोगित्वं वा न सहते । एवं इतरत्रापि ।। ७९३ ।।
युक्तिमल्लिका
भावाभावस्वरूपत्वान्नान्योन्याभावता पृथक् ।
इति तत्त्वविवेकं तत्कुर्वन्गुर्वग्रणीर्मम ।। ७९४ ।।
सुरोत्तमटीका
उक्ताभावव्यवस्थाकल्पनायाः किं मूलमित्यतस्तद्दर्श-यति ।। भावाभावेति ।। ननु सर्वजनप्रसिद्धमन्योन्याभावपदं विहायान्योन्या-भावतापदेन कुतोऽन्योन्याभावस्य ग्रहणमिति चेत् । सत्यम् । अयमभि-सन्धिर्ग्रन्थकारस्य । भावाभावस्वरूपत्वादिति पूर्ववाक्ये भावपदेन भवतीति कर्तृव्युत्पत्त्या घट पटादयो भावा गृहीताः । अतः प्राक्प्रस्तुतां तामेव व्युत्पत्तिं मनसि निधाय प्रयोगकौशलं च विदुषामुपदिशन्नाचार्यः अन्योन्यं न भवत इत्यन्योन्याभावौ घटपटौ तयोर्भावोऽन्योन्याभावतेति तल्प्रत्ययान्तपदेना-न्योन्याभावमभ्यधादिति । वक्तुर्विवक्षापूर्विकाशब्दप्रवृत्तिरिति हि प्राचां वाचः । तत्तस्मात् ।। ७९४ ।।
सत्यप्रमोदटीका
अन्योन्यं न भवतः इत्यन्योन्याभावौ घटपटौ । तयोः भावः अन्योन्याभावता, भेद इति भावः । न पृथक् भावे विद्यमानो भावस्वरूपः । अभावे च अभावस्वरूपः । अतः तत्त्वविभागावसरे न पृथग्गणनीयः । असति तु नास्त्येव येन पृथग्गणना स्यादिति भावः ।।७९४।।