सम्पूर्णस्वसुखज्ञाने संसारो मुक्तिरेव ते
ज्ञानाभावज्ञाने अनुपपत्तिभङ्गः
युक्तिमल्लिका
सम्पूर्णस्वसुखज्ञाने संसारो मुक्तिरेव ते ।
तदज्ञाने तु नाज्ञानबोधोऽवच्छेदको ह्यसौ ।। ९६ ।।
सुरोत्तमटीका
ज्ञानाभावपक्षे प्रतियोगिज्ञानेऽज्ञाने च न ज्ञानाभावो वक्तुं शक्यत इति दूषणं तवापि सममित्याह ।। संपूर्णेति ।। संपूर्णं स्वसुखं आत्मस्वरूपसुखं तस्येदानीं ज्ञानेऽनुभवे ते संसारो मुक्तिरेव स्यात् । अनवच्छिन्नानन्दानुभवो हि मुक्तिः । तदज्ञाने तस्य सुखस्याज्ञाने अज्ञानबोधो न । असौ स्वरूपानन्दः अवच्छेदको हि । स्वरूपानन्दं न जानामीत्यज्ञानं अवच्छेदकज्ञानं विना कथं स्यात् । स्वरूपज्ञानस्याज्ञानाविरोधित्वं वदतापि साक्षिणास्वरूपभूतानन्दानुभवो नेदानीं वक्तुं शक्यः ।। ९६ ।।
सत्यप्रमोदटीका
परेण भावरूपाज्ञाने ‘अहमज्ञः’ इति प्रत्यक्षं प्रमाण-मुपन्यस्तम् । तस्य ज्ञानाभावविषयतयाऽप्युपपत्तेर्न तेन भावरूपाज्ञानसिद्धिः । अहमज्ञ इति ज्ञानस्य ज्ञानाभावविषयत्वेनाभिमतात् मयि ज्ञानं नास्तीति ज्ञानाद्विषयभेदाप्रतीतेः । प्रतियोगिज्ञानाज्ञानाभ्यां ज्ञानाभावज्ञानदूषणं तु स्वव्याहतमित्याह द्वाभ्यां सम्पूर्णेति । अयमाशयः । चिदचित्संवल-नात्मकोऽहंपदार्थ इति परप्रक्रिया । तत्र अज्ञानं न तावदचिदंशे । तस्य ज्ञातत्वस्यैवानुभवेन तद्विषयाज्ञानासम्भवादित्याह अहमंश इति अहमंशभूतेऽ-चिदंश इत्यर्थः । ज्ञातत्वेऽपि कुतो नाज्ञानं इति चेत् समानविषयक-ज्ञानाज्ञानयोर्विरोधादिति भावः । अङ्गीकृतश्चायं विरोधस्त्वयैवेत्याह वाक्य-मिति । वक्ष्यति चैतदग्रे (१३९ श्लो.) । तथा च चिदंश एवाज्ञानमेष्टव्यम् । न चेद्बाधकमाह सम्पूर्णेति । सम्पूर्णसुखज्ञानस्वरूपत्वं हि चितस्त्वयाङ्गी-कृतम् । अन्यथा तद्भावस्यापुमर्थत्वापत्तेः । तदंशेऽप्यज्ञानं नाङ्गीक्रियते चेत्तर्हि इदानीं संसारे तदनुभव आवश्यकः । न तथा सम्भवति । तथा सति संसारस्य मुक्तित्वापत्तेरित्याह संसार इति । ते इत्यनेन जीवाश्रितमज्ञानं स्वस्वरूप-सुखज्ञानादिविषयकमिति मत्पक्षे नैतद्दोषावसर इति सूचयति । तदुक्तं ‘स्वभावाज्ञानवादस्य निर्दोषत्वान्न तद्भवेदि’ति । स्वरूपानन्दांशे चेदज्ञानबोध एव दुर्घटः स्यादित्याह तदज्ञान इति । तत्र हेतुः तर्हीति । असौ स्वरूपा-नन्दः । चित् स्वरूपावच्छिन्नाज्ञाने चित्स्वरूपस्यावच्छेदकत्वात्, अवच्छिन्न-ज्ञानं प्रति अवच्छेदकज्ञानस्य कारणत्वादिति भावः ।। ९६,९७ ।।
युक्तिमल्लिका
अहमंशे न तेऽज्ञानं किन्त्वानन्दादिके परम् ।
यद्भातं न तदज्ञातमितिवाक्यमनुस्मर ।। ९७ ।।
सुरोत्तमटीका
एतदेवोपपादयति ।। अहमंश इति ।। ते अज्ञानं नेति सम्बन्धः । परंत्वानन्दादिक एवाज्ञानम् । तत्र हेतुर्युद्भातमिति ।। यद्भातं न तदज्ञातमिति तत्वदीपनोक्त्या ज्ञातेंऽशेऽज्ञानस्य त्वयाप्यनङ्गीकारादिति भावः ।। ९७ ।।
युक्तिमल्लिका
अतोऽवच्छेदकज्ञानाभावान्नाज्ञानधीस्तव ।
अवच्छेदकतज्ज्ञाने भव एवापुनर्भवः ।। ९८ ।।
सुरोत्तमटीका
उपसंहरति ।। अत इति ।। अवच्छेदकस्य तस्यानन्दस्य ज्ञाने साक्षिणानुभवे । अपुनर्भवो मोक्षः । भावरूपाज्ञाने ज्ञानाभावे चाव-च्छेदक ज्ञानाभाव इति दूषणमुभयोरपि समम् ।। ९८ ।।
सत्यप्रमोदटीका
अतः अवच्छिन्नज्ञानं प्रति अवच्छेदकज्ञानस्य कारणतया व्यापकत्वात् । अवच्छेदकेति चित्स्वरूपभूतसुखज्ञानेत्यर्थः । अज्ञाने चित्स्वरूपावच्छिन्नाज्ञानेत्यर्थः । अथ एतद्दोषनिस्ताराय अवच्छेदक-ज्ञानमङ्गीकरोषि तर्हि प्रागुक्तदोषापत्तिरित्याह भव एवेति । अपुनर्भवः स्यादिति शेषः । तथा च तदर्थं प्रयत्नो व्याहन्येतेति भावः ।। ९८ ।।
युक्तिमल्लिका
यथाऽऽलोकपुरस्कारश्चक्षुषस्सर्ववस्तुनः
ग्रहणेऽप्यस्ति तमसो ग्रहणे तु स नेष्यते ।। ९९ ।।
सुरोत्तमटीका
कस्तर्हि परिहार इति सुहृद्भावेन पृच्छन्तं प्रत्याह ।। यथेति ।। चक्षुषस्सर्ववस्तुनो घटपटादेर्ग्रहणे । आलोकसहकृतचक्षुर्ग्राह्य-त्वाङ्गीकारात् । चक्षुषा तमसो ग्रहणे । सः आलोकपुरस्कारः ।। ९९ ।।
सत्यप्रमोदटीका
नन्वेवं अवच्छेदकस्य चित्स्वरूपस्य ज्ञाने अज्ञाने चेति पक्षद्वयेऽपि दौर्घट््ये अहमज्ञ इति प्रत्यक्षसिद्धस्याज्ञानज्ञानस्य का गतिरिति चेत् अवच्छिन्नज्ञानं अवच्छेदकज्ञानसापेक्षमिति व्याप्तेः सङ्कोचा-श्रयणमेवेति वक्तुं तत्रानुरूपदृष्टान्तमाह यथेति । पुरस्कारः सहकारि-कारणत्वेन नियतपूर्ववृत्तित्वम् । सर्ववस्तुनः तमसा वध्यघातुकभावानापन्न-घटपटादिरूपवद्वस्तुनः । कुतः सर्वशब्दसङ्कोच इत्यतो व्याप्तेस्तमसि व्यभिचारदर्शनादित्याह तमस इति ।। ९९ ।।
युक्तिमल्लिका
सिद्धव्याप्तेस्तु सङ्कोचो विरूद्धत्वाद्धि केवलम् ।
अत्रापि तत्पुरस्कारे न स्यादज्ञानमेव हि ।। १०० ।।
सुरोत्तमटीका
यत्र यत्र चक्षुषा स्वार्थग्रहणं तत्रालोकपुरस्कार इति लोकसिद्धव्याप्तेर्विरुद्धत्वात् । आलोके सति तमस एवायोगात् तमो ग्रहणेऽप्यालोकापेक्षणे तमसस्स्वरूपस्यैव नाशात् तन्मात्रे तदनपेक्षणम् । तथात्रापि अज्ञानज्ञानेऽपि तत्पुरस्कारे अज्ञानावच्छेदकप्रतियोग्यादि ज्ञानानु-सरणे अज्ञानमेव नश्येत् । ज्ञाने सत्यज्ञानायोगात् ।। १०० ।।
सत्यप्रमोदटीका
सिद्धेति उत्सर्गतःसिद्धेत्यर्थः । सङ्कोचः अपवाद-लक्षणबाधः । विरुद्धत्वात् तमआलोकयोर्वध्यघातुकभावलक्षणविरोधापन्न-त्वात् । हीत्यनेन विरोधस्य प्रमाणप्रसिद्धिमाह । केवलं तमोग्रहणमात्रे न तु तदन्यत्र घटपटादिग्रहणे । आलोकसद्भावे तमसः स्वरूपस्यैव नाशेन न तद्ग्रहसम्भव इति भावः । उक्तं उत्सर्गापवादन्यायं दार्ष्टान्तिके योजयति अत्रापीति । अर्थावच्छिन्नभावरूपाज्ञानग्रहेऽपि इत्यर्थः । तत्पुरस्कारे अवच्छेदकीभूतार्थज्ञानसापेक्षत्वाङ्गीकारे ।। १०० ।।
युक्तिमल्लिका
अतो व्याप्तेश्च सङ्कोचं कृत्वा सामान्यतो ग्रहः ।
वाच्योऽवच्छेदकादीनामज्ञानं तु विशेषतः ।
इति सर्वैस्समाधेयं त्वं सर्वेभ्यो बहिष्कृतः ।। १०१ ।।
सुरोत्तमटीका
अतो व्याप्तेरवच्छिन्नज्ञानमवच्छेदकज्ञानसापेक्षमिति व्याप्तेः । सामान्यतो ग्रहः सामान्यतो ज्ञानं अज्ञानं तु तद्विशेषत इत्येव वक्तव्यम् । स्वोपरि पततो वृक्षस्य छेत्ता त्वं सर्वेभ्यो बहिष्कृतः सकल-विद्वद्य्भो बहिर्भूतः ।। १०१ ।।
सत्यप्रमोदटीका
किं तत इत्यतो दौर्घट््यपरिहारोपायमाह अत इति । सर्वैः स्वव्याघातं चेतयद्भिः विवेकिभिः । त्वं व्याहतभाषी उन्मत्तः । तदुक्तं न्यायामृते अविद्याविषयभङ्गे ‘एवं च तद्विशेषसंशयं प्रति तत्सामान्यनिश्चय इव तद्विशेषावच्छिन्नाज्ञानज्ञानं प्रति तत्सामान्यज्ञानमेव हेतुः । तथा दर्शनात् । न हि विशेष ज्ञाते अवच्छिन्नज्ञानधीर्दृष्टा । अवच्छेदकज्ञानस्य तदज्ञानहेतुतापि हि दर्शनादेव कल्प्या । सामान्यविशेषभाव एव च नियामक इति नातिप्रसङ्ग’ इति । विस्तरस्तत्रैव ।। १०१ ।।
युक्तिमल्लिका
ज्ञानाविरोधि तेऽज्ञानं ज्ञाने सति कुतो न तत् ।
विरोधि चेत्परन्यायतरोस्त्वं मूलसेचकः ।। १०२ ।।
सुरोत्तमटीका
ज्ञानाविरोध्यज्ञानम् । ज्ञाने सति सुखादिज्ञाने सति कुतो न तत् अज्ञानं विरोधि चेत् ज्ञानविरोधि चेत् परन्यायतरोः परस्य प्रतिवादिनोन्यायतरोः त्वं मूलसेचकः । पररीत्यैव त्वयापि समाधानस्य वक्तव्यत्वात् ।। १०२ ।।
सत्यप्रमोदटीका
उक्तं नियामकं विपक्षे बाधकप्रदर्शनेन परेणाप्यङ्गी-कारयति ज्ञानेति ।। ते साक्षिज्ञानं अज्ञानस्फोरकमित्युपगच्छतस्तव मते । तत् मोक्षकालीनं सम्पूर्णस्वसुखज्ञानम् । कुतो न । इदानी संसार एवेति पूरणीयम् । साक्षिणा तदज्ञानानुभवान्नेदानीं तज्ज्ञानसम्भव इत्यतः स्यादेवं तथा यदि ज्ञानाज्ञानयोर्विरोधस्त्वत्सिद्धान्तः स्यात् । नैतदस्तीत्याह ज्ञानाविरोधीति । अथ विरोधमङ्गीकरोषि तर्हि अतिप्रसङ्गपरिहाराय पूर्वोक्तः सामान्यविशेषभावलक्षण-नियामकः अकामेनापि त्वया शरणीकरणीय इत्याह परेति ।। १०२ ।।
युक्तिमल्लिका
ज्ञानाभावपदार्थस्य सर्वथाऽभाव एव चेत् ।
अत्यन्ताभावशून्यं तज्ज्ञानं स्यात्परमार्थसत् ।। १०३ ।।
सुरोत्तमटीका
प्रतियोगिनो ज्ञानभावाभावाभ्यां ज्ञानाभावज्ञानं दूषय-न्मायावादी प्रष्टव्यः । किमेवं वदतस्तवमते ज्ञानात्यन्ताभाव एव नास्ति । उतास्तीति । आद्यस्योत्तरमाह ।। ज्ञानाभावेति ।। ज्ञानाभावपदार्थस्य ज्ञानात्यन्ताभावपदार्थस्य । तर्ह्यत्यन्ताभावशून्यं तज्ज्ञानं ब्रह्मवत् परमार्थ-सत्स्यात् । अत्यन्ताभावप्रतियोगित्वस्यैव मिथ्यात्वात् । अत्यन्ताभावाभावे तत्प्रतियोगित्वस्य सुतरामभावेन सत्यत्वापरिहारादिति भावः ।। १०३ ।।
सत्यप्रमोदटीका
किं चैवं ज्ञानाभावज्ञाने दौर्घट््यं वदन् मायावादी प्रष्टव्यः । ज्ञानाभावाख्यं पदार्थमेव नाङ्गीकरोषि उत तज्ज्ञानमात्रम् । आद्ये अभावोऽपि प्रागभावः प्रध्वंसः अत्यन्ताभावो वा । नाद्यः । प्रागभावाभावे ज्ञानानां अनादित्वापातात् । इदानीं वेदान्तश्रवणादिसाध्यमोक्षहेतुब्रह्मज्ञान-प्रागभावस्य त्वयाऽपि वक्तव्यत्वात् । अन्यथा श्रवणादिवैयर्थ्यापातात् । न द्वितीयः । ज्ञानानां नित्यत्वापातात् । तृतीये दोषमाह अत्यन्ताभावेति । तदत्यन्ताभावाभावे तस्य ज्ञानस्य अत्यन्ताभावाप्रतियोगित्वलक्षणं सत्त्वं ब्रह्मवत् स्वीकार्यं स्यादित्याह तदिति । न चेष्टापत्तिरित्याह परमार्थसदिति । तथा च सदद्वैतभङ्ग इति भावः । न च तद्दोषपरिहाराय ज्ञानस्य ब्रह्म-स्वरूपत्वं त्वया वक्तुं शक्यम् । महावाक्यादिना उत्पद्यमानस्य ज्ञानस्य ब्रह्मस्वरूपत्वे ब्रह्मणोऽप्युत्पत्तिप्रसङ्गादिति भावः ।। १०३ ।।
युक्तिमल्लिका
विद्यमानस्य चार्थस्य यथासम्भवमेव धीः ।
किं जात्यन्धमते नास्ति चित्ररूपवती क्षितिः ।। १०४ ।।
सुरोत्तमटीका
द्वितीयस्योत्तरमाह ।। विद्यमानस्येति ।। सर्वथाऽ-ज्ञातस्य वस्तुनोऽसम्भवादिति भावः । तत्र दृष्टान्तमाह ।। किं जात्यन्धेति ।। नानारूपवती अन्धस्य रूपज्ञानवत् तव मते तज्ज्ञानासम्भवाङ्गीकारेऽपि चक्षुष्मतामिव विवेकिनां मते सर्वथाऽज्ञाते वस्तुनि प्रमाणाभावाद्विद्यमानस्य ज्ञानात्यन्ताभावस्य ज्ञानमपि घटनीयमिति भावः । अङ्गीकृत्येदमुदितम् । वस्तुतस्तु ज्ञानेऽत्यन्ताभावप्रतियोगित्वरूपमिथ्यात्वबोधायात्यन्ताभावस्यापि बोद्धव्यत्वादिति द्रष्टव्यम् ।। १०४ ।।
सत्यप्रमोदटीका
अथाङ्गीकृत्यापि ज्ञानाभावं तज्ज्ञानमात्रं नाङ्गीक्रियत इति तत्राह विद्यमानस्येति । ज्ञानमेव विषयसद्भावे प्रमाणं इति विषयस्य विद्यमानत्वमङ्गीकृत्य तज्ज्ञानानङ्गीकारे मानाधीना मेयसिद्धिरिति न्यायविरोध इति भावः ।
ननूक्तमत्र प्रतियोगिज्ञानभावाभावाभ्यां ज्ञानाभावज्ञानं दुर्घटमिति तत्राह यथासम्भवमिति । ज्ञानावच्छेदकस्य विषयस्य सामान्यतो ज्ञानं विशेषतो ज्ञानाभावः इत्युक्तरीत्येति भावः । स्वमतमात्रानुसारेण प्रमितवस्त्वपलापेऽति-प्रसङ्गमाह किमिति । मते मतमात्रानुसारेण । नास्ति । चक्षुष्मतामपीति शेषः । अयं पुनरत्र विवेकः । चाक्षुषज्ञानाभावादन्धो रूपं नास्तीति मन्यत इत्येव । त्वं तु, रूपमङ्गीकृत्य चाक्षुषज्ञानमपलपन्नुन्मत्त इव, ज्ञानाभावं स्वीकृत्य तज्ज्ञानमपलपन् स्वन्यायविरोधमप्यचेतयमानो जात्युत्तरवादी ततोऽपि निकृष्ट इति । तदेतज्जातिपदग्रहणेन ध्वनितं ध्येयम् ।। १०४ ।।
युक्तिमल्लिका
अज्ञानस्य हि दौर्घट््यं यथा ते भूषणं सदा ।
तथा तज्ज्ञानदौर्घट््यमपि भूषणमस्त्विदम् ।। १०५ ।।
सुरोत्तमटीका
सौहार्देनोक्तमुत्तरमनङ्गीकुर्वतः प्रतिबन्द्या उत्तरमाह ।। अज्ञानस्येति ।। दौर्घट्यं ज्ञाने सत्यप्यावरकत्वरूपम् । तथा तज्ज्ञानदौर्घट्यं तस्य ज्ञानाभावरूपाज्ञानस्य यज्ज्ञानं ज्ञानाभावज्ञानमिति यावत् । दौर्घट्यं प्रतियोगिज्ञानाभावेऽपि ज्ञातत्वरूपदौर्घट्यम् ।। १०५ ।।
सत्यप्रमोदटीका
मायिमते आश्रयविषययोर्दुर्निरूपत्वेन अज्ञानं तावत् दुर्घटम् । दूषणमपि तद् दुर्घटत्वं तेन भूषणमित्येवाङ्गीकृतं ‘दुर्घटत्वमविद्याया भूषणं न तु दूषणमि’ति । तदेवं दुर्घटत्वं भूषणं, सुघटत्वं तु दूषणमिति तत्सिद्धान्तन्यायः । स्थितेऽप्येवं परमतं दुषयितुमुपक्रम्य ज्ञानाभावज्ञाने दुर्घटत्वं व्युत्पादयितुं तेन पराक्रान्तम् । दुर्घटत्वव्युत्पादने परमतं भूषितमेव भवति न त्वेव दूषितम् । सोऽयं तस्य दूषणोपक्रमः स्वसिद्धान्तन्यायमवधीर्य कृतोऽपहसनीय इत्याह द्वाभ्यां अज्ञानस्येत्यादिना ।। ‘सदा’ इत्यनेन अविद्याया दुर्घटत्वं तन्मते स्वरूपलक्षणं सूचितं ध्येयम् ।
‘अविद्याया अविद्यात्वे इदमेव हि लक्षणम् ।
मानापातासहिष्णुत्वं असाधारणमिष्यते ।।’
इति सुरेश्वरोक्तेः ।। १०५ ।।
युक्तिमल्लिका
किमेककुण्डलत्वेन कुण्डलद्वयवान्भव ।
दुर्घटस्य हि यो हन्ता स स्यादत्यन्तदुर्घटः ।। १०६ ।।
सुरोत्तमटीका
कुण्डलद्वयवान् अविद्यादुर्घटत्वाख्यभूषणज्ञानदुर्घटत्वाख्य- भूषणद्वयवान् । शास्त्ररूपतया कर्णयोग्यत्वात्कुण्डलेत्युक्तम् । मानाभाव ज्ञानस्यास्य ज्ञानाभावविषयकाज्ञाननिवर्तकत्वावश्यंभावे न दुर्घटहन्तृत्वा-दत्यन्तदुर्घटत्वमाश्रयणीयमित्याह ।। दुर्घटस्य हीति ।। हीत्यनेन समर्थगजस्य हन्तुः सिंहस्य ततोऽप्यतिसामर्थ्यं दृष्टमिति सूचयति ।। १०६ ।।
सत्यप्रमोदटीका
कुण्डलद्वयेति ज्ञानाभावतज्ज्ञानेति प्रकृतद्वयापेक्ष-योक्तम् । वस्तुतस्तु ‘अन्धन्तमोऽप्यलङ्कारो नित्यदुःखं शिरोमणिः’ इत्याद्युक्तरीत्या वस्त्रालङ्कारवान् भवेत्यर्थः । अज्ञानस्य दुर्घटत्वे तन्निवर्तकस्य ज्ञानस्य दुर्घटत्वं सुतरां सेत्स्यतीत्याह दुर्घटस्येति । नित्यनिवृत्तस्य अप्रामाणिकस्य निवर्तकाभिमतमप्यप्रामाणिकमेवेति भावः ।। १०६ ।।
युक्तिमल्लिका
किं च भावाज्ञानवादे दुर्घटत्वं यथेष्यते ।
अभावाज्ञानवादेऽपि दौर्घट््यं तद्वदिष्यताम् ।। १०७ ।।
सुरोत्तमटीका
एवमपि ज्ञानस्य दुर्घटत्वं नाङ्गीकारोषि चेत् तर्हि भाव-रूपाज्ञानवत् ज्ञानाभावरूपाज्ञान एव दुर्घटत्वमस्त्वित्याह ।। किं चेति
।। १०७ ।।
सत्यप्रमोदटीका
ननु, अज्ञानं न ज्ञानाभावः किन्तु भावरूपमेव । नञश्च विरोधोऽर्थः । अज्ञानमिति व्यवहारसाम्येऽपि ज्ञानाभावपक्षे नञोऽ-भावोर्थः । ज्ञानाभावज्ञानाय प्रतियोगिज्ञानज्ञानं अपेक्षितम् । न तु भावरूपा-ज्ञानज्ञानाय । अतो वैषम्यान्नैकस्याङ्गीकारेऽपरस्याप्यङ्गीकारापादनं साम्प्रत-मित्यतः आपादकांशस्य साम्यादकिञ्चित्करोऽयं भावाभावरूपो विशेष इत्याह किञ्चेति । भावरूपत्वमङ्गीकुर्वताऽपि परेण नाज्ञानस्य सुघटत्वमङ्गीक्रियते । दुर्घटत्वाख्यतत्स्वरूपलक्षणहान्यापत्तेः । नापि तदङ्गीकारार्हम् । अभावाज्ञान-पक्षे तदुक्तविकल्पदोषाणां वक्ष्यमाणरीत्या भावाज्ञानपक्षेऽप्यप्रतिबद्धप्रसरात् । अतः सर्वथा तद्दुर्घटमेवैष्टव्यम् । एवमपि चेत्तदङ्गीकारः किं तर्हि अभावा-ज्ञानेनापराद्धम् । दुर्घटत्वाविशेषात् । तदप्यङ्गीक्रियतामित्याह तद्वदिति । इदं चोपेत्योक्तम् । स्वपक्षे दौर्घट््यस्य निरसिष्यमाणत्वात् इति भावः ।। १०७ ।।
युक्तिमल्लिका
अज्ञानत्वाविशेषेण द्वयोरपि समत्वतः ।
पक्षपाते हेत्वभावात्पक्षपातो भवेत्तव ।। १०८ ।।
सुरोत्तमटीका
द्वयोः भावाभावरूपाज्ञानयोस्समत्वतः अज्ञानत्व-साम्यात् । तव पक्षस्य सिद्धान्तस्य पातः ।। १०८ ।।
सत्यप्रमोदटीका
अज्ञानत्वाविशेषेण । उपलक्षणम् । दुर्घटत्वाविशेषेण च । पक्षपाते अन्यतरानङ्गीकारे । पक्षपातः दुर्घटमङ्गीकारार्हमिति त्वत्सिद्धान्तन्यायस्य निर्निमित्तं परित्यागो दोषः ।। १०८ ।।
युक्तिमल्लिका
नित्यज्ञानमते ज्ञानसामान्याभाव एव न ।
चक्षुषा ब्रह्मविज्ञानस्याभावोऽज्ञानमुच्यते ।। १०९ ।।
सुरोत्तमटीका
रीत्यन्तरेणापि ज्ञानाभावज्ञाने परोक्तानुपपत्तिं परिहरति ।। नित्यज्ञानेति ।। ज्ञानसामान्याभावः ज्ञानत्वावच्छिन्नज्ञानाभावः । चेतनमात्रे साक्षिरूपज्ञानस्य सदा सत्त्वात् ज्ञानसामान्याभावो न घटत इति भावः । तर्हि प्रकृतेऽज्ञानं नाम किमित्यत आह ।। चक्षुषेति ।। अज्ञानमिति पदच्छेदः । ब्रह्म न जानामीति वदतोऽपि चक्षुषा तज्ज्ञानाभावोऽभिप्रेतो न तु सर्वथा तज्ज्ञाना-भावः । ब्रह्मपदेन परोक्षरूपतज्ज्ञानस्य सत्त्वात् । उच्यत इत्यनेन अज्ञानपदस्य ज्ञानविशेषाभावे प्रयोगो लोकरूढ इति सूचयति ।। १०९ ।।
सत्यप्रमोदटीका
यदि तर्हि न जानामीति प्रत्ययस्य भावरूपाज्ञानं न विषयः को विषयस्तस्येत्यतो ज्ञानाभाव एवेति ब्रूमः । ननु तत्राप्युक्तो दोषः । अवच्छेदकस्य विषयस्याज्ञाने ज्ञानज्ञानस्य तत्प्रतियोगिकाभावज्ञानस्य दुर्घटकत्वं इति चेत्स्यादेष दोषः यदि ज्ञानसामान्याभावं ब्रूमः न चैवम् । किं नाम ज्ञानविशेषाभावमेव । कुत एवं सङ्कोचाश्रयणमित्यतस्तस्यावश्यकत्वादेवेत्याह नित्यज्ञानमत इति । चेतनः साक्षी सदा सामान्यतः सर्वविषयकज्ञानरूप इति मते इत्यर्थः । तदुक्तं भगवत्पादैः ‘सर्वं सामान्यतो यस्मात्सर्वैरेवानुभूयते’ इति । ज्ञातृत्वं तत्स्वभावः । तद्धानौ स्वरूपहानिरेवेति भावः । ज्ञानत्वावच्छिन्न-प्रतियोगिताकाभावं प्रति ज्ञानत्वावच्छिन्नयत्किञ्चित्सत्त्वमपि विरोध्येवेति भावः । सङ्कोचप्रकारमेव विवृणोति चक्षुषेति ।। १०९ ।।
युक्तिमल्लिका
निष्किञ्चनपदं वित्तविशेषाभाववाग्यथा ।
एवं च मानसं ज्ञानं स्यादेव प्रतियोगिनः ।। ११० ।।
सुरोत्तमटीका
तत्र दृष्टान्तमाह ।। निष्किञ्चनेति ।। निष्किञ्चनपदं न विद्यते किञ्चनेति दरिद्रे प्रयुज्यमानं निष्किञ्चनपदं वित्तविशेषाभाववाक् वस्त्रभोजन पात्राद्यतिरिक्तधनकनकादिबहुतरवस्तुविशेषाभाववाक् । तथाऽ-ज्ञानपदं ज्ञानविशेषाभाववाचीति पूर्वेणान्वयः । अस्त्वेवं प्रकृते किमायात-मित्यत आह ।। एवं चेति ।। प्रतियोगिनो ब्रह्मज्ञानस्य तद्विशेषणीभूतब्रह्मणश्च मानसं मनः परिणामरूपज्ञानं स्यादेव ।। ११० ।।
सत्यप्रमोदटीका
निषेधवाक्यानां प्रमितेतरनिषेधकत्वं इति न्यायो गुणसौरभे व्युत्पादितः । तं लौकिकदृष्टान्तेन द्रढयति निष्किञ्चनेति । तं न्यायं प्रकृते सङ्गमयति एवमिति मानसं ज्ञानमिति उपलक्षणम् ।साक्षिरूपं सामान्यतः सर्वविषयकं ज्ञानं च ग्राह्यम्।।११० ।।
युक्तिमल्लिका
परोक्षरूपं तज्ज्ञानं यदभावश्च नोच्यते ।
ब्रह्मापरोक्षाभावेन न जानामीतिवाक्तु सा ।। १११ ।।
सुरोत्तमटीका
तज्ज्ञानं प्रतियोगिज्ञानं परोक्षरूपं शब्दलिङ्गादिजन्यं न तु मनसाऽपरोक्षीकरणम् । यदभावः प्रतियोगिनः प्रतियोगिविशेषणस्य ब्रह्मणो वा परोक्षरूपज्ञानाभावः । सा न जानामीति वाक् ब्रह्म न जानामीति वाक् तु ब्रह्मापरोक्षाभावेन ब्रह्मापरोक्षनिषेधिका । न तु तज्ज्ञानमात्रनिषेधिकेत्यर्थः ।। १११ ।।
सत्यप्रमोदटीका
मानसं इति पूर्वश्लोकोक्तं विशदयति परोक्षरूपमिति । तदिति अभावप्रतियोगिभूतेत्यर्थः । अनेन, ‘मनसैवानुद्रष्टव्यमि’ति श्रुत्यनु-सारादपरोक्षज्ञानस्यापि मनःकरणकत्वाङ्गीकारात् तादृशमानसज्ञानसद्भावे ब्रह्मापरोक्षज्ञानाभावेनेति उत्तरार्धे क्रियमाणो निषेधोऽश्लिष्ट इति शङ्काऽ-नवकाशः । मानसज्ञानपदेन शब्दलिङ्गजन्यस्य परोक्षज्ञानस्यैव विवक्षणादिति ध्येयम् । यदङ्गीकृतं तदभावो नोच्यते । यस्य अपरोक्षज्ञानस्याभाव उच्यते न तदङ्गीकृतमिति विषयभेदात् न विरोध इति पर्यवसितम् ।। १११ ।।
युक्तिमल्लिका
प्रत्यक्षवृत्तिवैरेऽपि न जानामीति ते यथा ।
प्रत्यक्षवृत्त्यभावेऽपि न जानामीति मे तथा ।। ११२ ।।
सुरोत्तमटीका
न केवलं लोकप्रसिद्ध्यादिनाऽज्ञानपदं ज्ञानविशेषाभाव-परं किं तु त्वद्रीत्यापीत्याह ।। प्रत्यक्षेति ।। ते तव मते । प्रत्यक्षरूपवृत्तिवैरे अपरोक्षरूपमनोवृत्तिवैरे विरोधे सत्यपि न जानामीति वाक् ज्ञानमात्र-निषेधार्थकसामान्यवाक् । परोक्षज्ञानाविरोधितयाऽङ्गीकृतेऽपरोक्ष वृत्तिमात्र-वैरिणि तव भावरूपाज्ञाने न जानामीति सामान्यवाग्यथा भवति तथा मे मम मते प्रत्यक्षवृत्त्यभावेऽपि ब्रह्मापरोक्षज्ञानमात्राभावेऽपि न जानामीति वाक् । नञश्च घटापरोक्षवृत्तिविरोधिनस्तम आदेः सङ्कोचं कृत्वाविरोध्येकदेशिनि भावरूपाज्ञाने प्रयोग इति बहुसङ्कोचकल्पना । मम तु परोक्षज्ञानमात्रात्सङ्कोच इति त्वत्तोऽप्यतिलाघवमिति द्रष्टव्यम् ।। ११२ ।।
सत्यप्रमोदटीका
भावरूपाज्ञानवादिनाऽपि सामान्यविशेषभावमाश्रित्यैव विरोधाभावः शक्यनिरूपणो नान्यथा गत्यन्तराभावादित्याह प्रत्यक्षेति । ब्रह्म न जानामि तत्कथय इति व्यवहारस्तावदस्ति । स कथं समाधेय इति वक्तव्यम् । सक्षिसिद्धमनूद्य प्रमाणबुभुत्सया व्यवहार इति न सम्भवति । अविशेषस्य साक्षिणस्त्वन्मते अज्ञानस्य अज्ञाततयाऽर्थानां च साधकत्वा-योगात् । तदुक्तं भगवत्पादैः ‘अविशेषस्य साध्या साधकता पुनः’ । साक्षि-सिद्धत्वे प्रमाणबुभुत्साया निष्फलत्वाच्च । साक्षिण एव प्रमाणत्वात्तस्यैव चाज्ञाननिवर्तकत्वात् । अन्यथा निवर्तकाभिमतवृत्तिप्रतिफलनाभावेन मोक्ष आनन्दस्वरूपाप्रकाशापातात् । अतः अकामेनापि सामान्यतः ब्रह्मणो ज्ञानं विशेषतस्तदज्ञानमित्येव पूर्वोक्तव्यवहारः त्वयाऽपि समाधेय इति न मां प्रत्येव पर्यनुयोग इत्याह ते यथेति मे तथेति च । प्रत्यक्षवृत्तिः इन्द्रियसन्निकर्ष-जन्यवृत्तिप्रतिफलितं चैतन्यमिति यावत् । तस्या एव वैरं निवर्तकत्वलक्षण-विरोधः यस्य अज्ञानस्य इति अङ्गीकर्तुः तव मते इति भावः । प्रत्यक्षवृत्तिः वैरं यस्य इति विग्रहः।।११२ ।।
युक्तिमल्लिका
अतो मम मतेऽज्ञानज्ञाने दौर्घट््यमेव न ।। ११३ ।।
सुरोत्तमटीका
उपसंहरति ।। अत इति ।। अतः ब्रह्म न जानामीत्यत्र परोक्षरूपप्रतियोगिज्ञानादेरङ्गीकारात् अपरोक्षरूपतज्ज्ञानमात्रनिषेधेन विरोधा-भावात् । मम मते अज्ञानज्ञानदौर्घट्यमिति पदच्छेदः । अज्ञानज्ञाने दौर्घट्यं दुर्घटत्वं प्रतियोगिज्ञानमङ्गीकृत्य पुनस्तस्यैव निषेधे सति विरोधः । प्रति-योग्यादेः परोक्षज्ञानमङ्गीकृत्य ब्रह्मापरोक्षज्ञानस्यैव निषेधे विरोधगन्धस्याप्य-भावादिति भावः ।। ११३ ।।
सत्यप्रमोदटीका
अतः सामान्यविशेषविषयकत्वेन एकविषयकज्ञानतद-भावयोर्विरोधाभावात् । मम मते सविशेषब्रह्मवादिन इति उपस्कर्तव्यम् । अज्ञानेति ज्ञानाभावेत्यर्थः । एवकारो मत इत्यनेन सम्बध्यते । तेन परमते दौर्घट््यं दुष्परिहरमेवेति सूचयति । तन्मते ब्रह्मणो निर्विशेषत्वेन सामान्य-विशेषभावाश्रयणेन परिहारस्याशक्यत्वात् । अनेन ‘किञ्च भावरूपाज्ञानपक्षेऽपि पूर्वमर्थो ज्ञातो न वा’ इत्यादिकम्, ‘तस्मान्नाविद्या निरूपणगोचरतामाचर-ती’त्यन्तं वादावल्युक्तं भावरूपाज्ञानखण्डनं विवृतं ध्येयम्।।११३ ।।
युक्तिमल्लिका
दौर्घट््यमेकं भूषा चेत्किं न स्याद्भूषणान्तरम् ।
परस्योत्तरमेवं च स्यादित्येव तदीरितम् ।। ११४ ।।
सुरोत्तमटीका
तर्हि तथा तज्ज्ञानदौर्घट्यमपि भूषणमस्त्विदमिति किमर्थं प्रागुत्तरं दत्तमित्यतः परस्योत्तरमेवं च वक्तुं शक्यमिति यौक्तत्वादेवोक्तम् । न तु स्वमतरीत्येत्याह ।। दौर्घट्यमिति ।। भूषणान्तरं दौर्घट्याख्यभूषणान्तरम् ।। तत् ज्ञानदौर्घट्यम्
।। ११४ ।।
सत्यप्रमोदटीका
पूर्वं ज्ञानाभावज्ञानस्य दौर्घट््योक्तिः पररीत्यैवेत्याह दौर्घट््यमिति ।। ११४ ।।