अत्र प्रतीतरजतस्यात्र सत्त्वं न बाधकात्
तार्किकाभिमतान्यथाख्यातिनिराकृतिः
अथ प्रमाण्य वाद:
युक्तिमल्लिका
अत्र प्रतीतरजतस्यात्र सत्त्वं न बाधकात् ।
साधकाभावतश्चान्यत्रापि सत्ता न सेत्स्यति ।। ४९३ ।।
सुरोत्तमटीका
अन्यथाख्यातिवादिनामित्यनेन स्वस्य तत्रास्वरसः प्राक्सूचितः । तमिदानीमुपपादयति ।। अत्र प्रतीतेत्यादिना ।। अत्र पुरो-वर्तिदेशे । बाधकात् नेदं रजतमित्यनुभवात् । अन्यत्र पुरोवर्तिदेशादन्यदेशे ।। ४९३ ।।
सत्यप्रमोदटीका
भ्रमस्वरूपं वैशेषिकादयोऽन्यथैव वर्णयन्ति । तद्दूष-णेन स्वाभिमतं तत्स्वरूपं समर्थयति अत्रेत्यादिना । अत्र पुरोदेशे । बाधकात् ‘असदेव रजतं प्रत्यभादित्युत्तरकालीनानुभवात् । शुक्तिरेवात्यन्ता-सद्रजतात्मना प्रतिभातीत्याचार्याः’ इति पद्धतिप्रदर्शितबाधानुभवात् । अत्र ‘असदेवे’त्यनेन, न देशान्तरे सत्, नापि ज्ञानस्वरूपं, नापि तात्कालिक-मुत्पन्नं, नापि सदसद्विलक्षणं इति मतान्तरनिरासः सूचितो भवति । बाधकादित्युपलक्षणं साधकाभावतश्चेत्युत्तरत्रोक्तमत्राप्यनुकर्षणीयम् । न चेदं रजतमत्रास्तीति प्रतीतिरेव पुरोदेशे सत्त्वे मानमिति वाच्यम् । तस्याविषय-सत्त्वावेदकत्वेऽपि बाधकसाक्ष्यनुभवपराहताया स्वविषयव्यवस्थापकत्वायोगात् । अन्यथाऽतिप्रसङ्गात् ।। ४९३ ।।
युक्तिमल्लिका
न ह्यत्र दृष्टं रजतमन्यत्रास्तीति धीर्नृणाम् ।
प्रतीतिरेव हि गतिस्तत्तदर्थव्यवस्थितौ ।। ४९४ ।।
सुरोत्तमटीका
साधकाभावमेव दर्शयति ।। नह्यत्रेति ।। नन्वन्यत्रा-स्तीति बुद्ध्यभावेऽपि तत्र तदङ्गीकारे को दोष इत्यत आह ।। प्रतीतिरेवेति
।। ४९४ ।।
सत्यप्रमोदटीका
देशान्तरे सदिति पक्षे बाधकमुक्त्वा साधकाभाव-मप्याह न हीत्यादिना ।। प्रतितिरेवेति । यथोक्तं ‘भगवती संविदेव हि विषयसत्त्वोपगमे नः शरणमि’ति ।। ४९४ ।।
युक्तिमल्लिका
इन्द्रियस्यैव सम्बन्धाद्विशेषणविशेष्ययोः ।
द्वयोश्च धीर्भवेत्तत्र प्राग्विशेषणधीर्वृथा ।। ४९५ ।।
सुरोत्तमटीका
ननु विशिष्टज्ञानस्य विशेषणज्ञानजन्यत्वनियमादस्यैव विशेषणस्य प्राग्ज्ञानायान्यत्र सत्त्वं वाच्यमित्यतस्स एव नियमो नापेक्षित इत्याह ।। इन्द्रियस्यैवेति ।। तत्र विशेषणविशेष्ययोरुभयोरपीन्द्रियसम्बन्धस्थले । प्राग्दण्डीति विशिष्टज्ञानात्पूर्वम्
।। ४९५ ।।
सत्यप्रमोदटीका
नन्वन्यत्र रजतं सदित्याकारकप्रतीतेरभावेऽपि इदं रजतमिति विशिष्टप्रतीतिरेव विशेषणस्य रजतस्यान्यत्र सत्तां गमयति । विशिष्टज्ञानं विशेषणज्ञानजन्यमिति नियमात् । न च विशेषणस्यासत्त्वे तज्ज्ञानं सम्भवति । सन्निकर्षासम्भवात् । पुरोदेशे सत्त्वं तु प्रमाणबाधितम् । अतो विशिष्टप्रतीतिनिर्वाहायान्यत्र सत्त्वं स्वीकार्यमेवेति कथं तत्र साधकाभाव इत्यतः किमेष विशेषणज्ञानजन्यत्वनियमः प्रत्यक्ष एवोतानुमित्यादावपि । नाद्य इत्याह इन्द्रियस्यैवेति । दण्डपुरुषयोर्युगपदिन्द्रियसम्बन्धे असंसर्गाग्रहे च सति विनैव दण्डज्ञानं दण्डीति ज्ञानोत्पादानुभवात् ।। ४९५ ।।
युक्तिमल्लिका
पूर्वं ज्ञातोऽप्यनुमितौ विशेष्यः पर्वतो यतः ।
प्राग्विशेषणधीरर्थसाक्षात्कारे वृथैव तत् ।। ४९६ ।।
सुरोत्तमटीका
ननु विशेषणत्वनिर्वाहाय पूर्वं तस्य ज्ञानमित्यत आह ।। पूर्वमिति ।। पूर्वं अनुमितेः पूर्वम् । अनुमानमात्रे धर्मिज्ञानस्य कारणत्वादिति भावः । तत् तस्मात् । प्राक् ज्ञातस्यापि पर्वतस्य विशेष्यत्वात् ।। ४९६ ।।
सत्यप्रमोदटीका
नापि द्वितीय इत्याह पूर्वमिति । अनुमितेः पूर्वम् । विशेष्यः धर्मी । विशेषणधीः साध्यप्रसिद्धिः । तदुक्तमनुव्याख्याने । ‘असिद्धसाधने दोषः को व्याप्तिर्यदि विद्यते’ इति । इदमुपलक्षणम् । शाब्द-बोधात्प्राक् पदार्थस्मृतिरपि नापेक्षितेत्यपि ग्राह्यम् । न हि व्याप्तिज्ञाने सति साध्योपस्थितिविलम्बेन अनुमितिविलम्बः दृष्टः । न वा शक्तिस्मृतौ सत्यां पदार्थोपस्थितिविलम्बेन शाब्दबोधविलम्बः । येन तयोः कारणत्वापत्त्या विशिष्टज्ञानस्य विशेषणज्ञानजन्यत्वं कल्प्येतेति भावः ।। ४९६ ।।
युक्तिमल्लिका
व्याप्तिज्ञानाय वह्न्यादेर्व्यापकत्वेन धीः पुरा ।
अपेक्ष्यते परं साध्यवैशिष्ट्ये धीर्न सिद्धधीः ।। ४९७ ।।
सुरोत्तमटीका
तर्ह्यनुमाने कुतो विशेषणज्ञानानुसरणमित्यतोऽन्यथासिद्धं तदित्याह ।। व्याप्तिज्ञानायेति ।। व्यापकत्वेन व्याप्यं हेतुं प्रतिव्यापकाख्या-परसम्बन्धित्वेन । व्याप्यव्यापकभावरूपव्याप्तिज्ञाने व्यापकस्यापि ज्ञेयतया निविष्टत्वात् तज्ज्ञानं न तु भाव्यनुमितिरूपविशिष्टज्ञानोपयोगितयेति भावः । पुरा अनुमितेः पूर्वम् । साध्यवैशिष्ट्यै पर्वतस्य साध्यवैशिष्ट्यै । विषय-सप्तमीयम् । विशिष्टविषये धीरित्यर्थः । सिद्धधीः प्राग्ज्ञातस्य धीः । अनुमितिविशेषणस्य साध्यस्य पूर्वं ज्ञातत्वनियमाङ्गीकारे हेतोस्सिद्धसाधनता स्यादिति सूचनाय सिद्धधीरित्युक्तम् ।। ४९७ ।।
सत्यप्रमोदटीका
ननु व्याप्तिरूपसम्बन्धज्ञानार्थमेव सम्बन्धिभूत-साध्योपस्थितिः, एवं शक्तिस्मरणार्थं पदार्थस्मृतिश्च अपेक्षिते एवेत्यतः तावतापि तयोर्हेतुहेतुत्वेनान्यथासिद्धत्वान्नानुमित्यादिहेतुता सेत्स्यतीत्याह व्याप्तीति । यदि नाम प्रागनुमितेः पक्षसाध्ययोर्वैशिष्ट्यं सिद्धं स्यात्तर्हि सिद्धसाधनताऽऽपत्त्याऽनुमानवैफल्यमेव स्यादित्याह सिद्धधीः इति । सिद्ध-साधनत्वेन प्रतिज्ञाऽसङ्गतिर्दोषः प्राप्नुयादिति भावः ।। ४९७ ।।
युक्तिमल्लिका
असन्निकृष्टदृष्टिं च यो दोषस्साधयेद्भ्रमे ।
स तस्याज्ञाततामात्रान्न बिभेतीति मे मतिः ।। ४९८ ।।
सुरोत्तमटीका
ननु तर्हि माऽस्तु प्रमास्थले विशेषणज्ञानस्योपयोगः । इन्द्रियसम्बन्धेनैव चरितार्थत्वात् । भ्रमे विशेषणेन्द्रियसम्बन्धाभावात् तदुपयोग इत्यत आह ।। असन्निकृष्टेति ।। असन्निकृष्टदृष्टिमिन्द्रियासम्बन्धिरजतदर्शनम् । सः प्रत्यक्षे असाधारणकारणेन्द्रियसन्निकर्षाभावेऽपि रजतादिकं दर्शयन् तस्य रजतस्य अज्ञाततामात्रात् पूर्वं ज्ञानाभावमात्रात् । मात्रपदेन विशेषणज्ञानस्य प्रमायामनुपयोगदर्शनेनानावश्यकत्वं सूचयति । असाधारणकारणमप्य-नपेक्षमाणस्य दोषस्य सन्दिग्धकारणानपेक्षा किं वाच्येति भावः ।। ४९८ ।।
सत्यप्रमोदटीका
यच्चोक्तं विशेषणस्यासत्त्वे सन्निकर्षायोगात्तत्सत्त्वं स्वीकर्तव्यमिति तन्निराह असन्निकृष्टेति । सन्निकर्षस्थानीयो दोषोऽ-सन्तमप्यर्थमुपस्थापयतीति न तदर्थं विशेषणस्य सत्त्वाङ्गीकारो युक्त इति भावः । सः असतोऽसन्निकृष्टस्याप्यर्थस्य रजतादेरुपस्थापनसमर्थः । अज्ञाततामात्रात् पूर्वं ज्ञानाभावमात्रात् । न बिभेतीतीति । अयमाशयः । रजतस्यासत्त्वे द्वे अनुपपत्ती परेणाशङ्किते । सन्निकर्षायोगेन विशेषणस्य रजतस्य ज्ञानस्यैवानुपपत्तिरिति एका । तदभावे च विशेषणज्ञानरूप-कारणाभावेन विशिष्टज्ञानोत्पादानुपपत्तिरिति द्वितीया । तत्राद्या सदला । प्रमायां सन्निकर्षस्य कारणत्वस्य क्लृप्तत्वात् । भ्रमस्थले दोषस्य सन्निकर्ष-स्थानीयत्वोक्त्या सा परिहृता । द्वितीया तु निर्दला । विशिष्टज्ञानं प्रति विशेषणज्ञानं कारणमित्यस्य प्रमायामप्यक्लृप्तत्वेन तदभ्युपगमेन कृताया विशिष्टज्ञानोत्पादानुपपत्तिशङ्काया गर्भस्रावेणैव निरस्ततया न तन्निरासाय कोऽप्यायास इति ।। ४९८ ।।
युक्तिमल्लिका
सर्वत्राप्यसतो ज्ञानं यदि चैकत्र नेष्यते ।
तर्हि तत्रासतो ज्ञानं कथं तत्रेति चिन्त्यताम् ।
दोषाच्चेत्तद्बलादेव सर्वत्राप्यसतोऽस्तु धीः ।। ४९९ ।।
सुरोत्तमटीका
ननु पुरोवर्तिन्यसतो रजतस्यान्यत्राप्यसत्त्वे सर्वथाऽ-सत्त्वप्रसङ्गेन कथं तद्दर्शनमिति चोद्यं प्रतिचोद्येन परिहरति ।। सर्वत्रेति ।। तर्हि सर्वत्रासत एकत्र ज्ञानाभावे । तत्र पुरोवर्तिदेशे । भूतलेऽविद्यमानघटस्य तत्रैवादर्शनादिति भावः । दोषाच्चेत् तत्रासतोऽपि तत्र ज्ञानं चेत्तद्बलात् दोषबलात् । तत्रासन्तं तत्र दर्शयितुं समर्थो दोषः कथमन्यत्रासन्तमेकत्र न दर्शयेत् । अस्य च प्रकारस्य घटादौ दृष्टत्वेन सुलभत्वात्सुखेनेदं दर्शयेदिति भावः ।। ४९९ ।।
सत्यप्रमोदटीका
सर्वत्राप्यसतः अत्यन्तासतः । नेष्यते सन्निकर्षा-भावादिति भावः । तर्हि तत एव हेतोः । तत्र पुरोवृत्तिदेशे । कथं केन निमित्तेन । चोद्यप्रतिचोद्ययोः साम्यमुक्त्वा परिहारस्यापि तदाह दोषादिति । तथा च, ‘यत्रोभयोः समो दोषः परिहारोऽपि वा समः । नैकः पर्यनुयोक्त-व्यस्तादृगर्थविचारणे’ इति न्यायात् अत्यन्तासतः कथं प्रतीतिरिति पर्यनुयोग एवायुक्त इति भावः ।। ४९९ ।।
युक्तिमल्लिका
असत्प्रतीतौ मानं च प्रतीतिरियमेव नः ।
अत्र प्रतीतं यन्मूर्तमिदं नान्यत्र नात्र च ।। ५०० ।।
सुरोत्तमटीका
नन्वसतः प्रतीतौ किं प्रमाणमित्यत आह ।। असत्प्रती-ताविति ।। इयमिदं रजतमित्यादिरूपा । तदुपपादयति ।। अत्रेति ।। यद्यस्मादत्र पुरोवर्तिदेशे प्रतीतं मूर्तं रजतसर्पादिविभुत्वरहितमित्यर्थः । अन्यत्र देशान्तरे न । अत्र पुरोवर्तिदेशे च नेति योजना । नेदं रजतमिति बाधकादत्र न । अत्र प्रतीयमानमूर्तत्वरूपबाधकात् अन्यत्र न । घटादिमूर्तद्रव्येषु तथा दर्शनादिति भावः
।। ५०० ।।
सत्यप्रमोदटीका
इयमेव इदं रजतमित्यादिरूपैव । इदं च रजतं च तत्तादात्म्यं चेति त्रितयं खल्वत्र प्रतीताववभासते । तत्रेदङ्कारास्पदं रजतं चोभे सती तादात्म्यमात्रमसदिति तव सिद्धान्तः । तथा च रजतस्यासत्त्वाभावान्नेयं प्रतीतिरसत्प्रतीतिविषये मानमिति च । अत्र विचारणीयम् । किं रजतस्य सर्वत्र सत्त्वमिति पक्षः उत पुरोदेशे आहोस्विदन्यत्र देशान्तरे । न तावदाद्य इत्याह मूर्तमिति । न द्वितीय इत्याह नात्रेति । बाधानुभवविरोधादित्याशयः । अत एव न तृतीयोऽपीत्याह नान्यत्रेति । अत्यन्तासदेव रजतं प्रत्यभादिति बाधानुभवस्तस्यात्रेवाऽन्यत्रापि सत्त्वं प्रतिक्षिपति । एवं चानुभवबलाद्रजतस्या-सत्त्वे स्थिते, इदं रजतमिति प्रतीतिरसत्प्रतीतिविषये मानमेव । एवकारो मानमित्यनेन सम्बध्यते । तेन बाधानुभवप्रमाणस्य निरवकाशतामभिप्रैति । यद्वेयमेवेति यथान्यासं योजना । नात्र प्रमाणान्तरं गवेषणीयमिति भावः । नः अनुभवानुसारिणाम् । तेनानानुभविकः परेषां देशान्तरे रजतस्य सत्त्वाभ्युपगम इति ध्वन्यते ।। ५०० ।।
युक्तिमल्लिका
किं च रूप्यस्य शुक्तेश्च तादात्म्यमसदीक्ष्यते ।
न चेत्प्रवृत्तिरभिलापो वा तत्र कथं नृणाम् ।। ५०१ ।।
सुरोत्तमटीका
प्रकारान्तरेणाप्यसत्प्रतीतिमुपपादयति ।। किञ्चेति ।। नचेन्नेक्ष्यते चेत्प्रवृत्तिश्शुक्तौ । अभिलापः इदं रजतमित्यादिरूपः
।। ५०१ ।।
सत्यप्रमोदटीका
‘किञ्चासतः प्रतिभासासम्भवे तादात्म्यमपि न प्रतिभासेत । तस्य कुत्राप्यभावात् । धर्मधर्मिभावस्तु वैधर्म्यमात्रमि’ति सुधोक्तं समर्थयते किं चेति ।। तादात्म्यमसदिति । अस्य च परेणैवाभ्युपगमान्न पूर्ववदुपपादनक्लेश इति भावः । असतोऽपि तादात्म्यस्य प्रतीतिर्नाङ्गीक्रियत इत्यत आह । ईक्ष्यत इति । न प्रत्यक्षमपलापार्हमिति भावः । तथा च प्रयोगः । इदं रजतमिति प्रत्यक्षं असद्भूतरजततादात्म्यविषयकं तद्विषयक-व्यवहारजनकत्वात् । यज्ज्ञानं यद्विषयकव्यवहारजनकं तत्तद्विषयकं यथा संमतमिति । व्यवहारश्च प्रवृत्तिर्वाऽभिलापो वेति भावः । वेत्यनेन हेतुद्वय-मभिप्रैति । विपक्षे हेतूच्छित्तिं बाधकमाह न चेदिति । व्यवहारव्यवहर्तव्य-ज्ञानयोः कार्यकारणभावभङ्गप्रसङ्ग एव बाधक इत्याशयः ।। अत्र अभिलाप इत्यत्र यतिभङ्गः शास्त्रत्वेन समाधेयः । एवमुत्तरत्रापि ।। ५०१ ।।
युक्तिमल्लिका
व्याश्रयस्यापि रूप्यस्य शुक्त्यभिन्नत्वधीर्भ्रमे ।
न चेत्तर्हि भवेद्रूप्यस्मरणं च भ्रमरतव ।। ५०२ ।।
सुरोत्तमटीका
व्याश्रयस्य व्यधिकरणस्य । नचेच्छुक्त्यभिन्नत्वधीर्नचेत् । केवलं व्यधिकरणप्रकारकधीश्चेदित्यर्थः ।। ५०२ ।।
सत्यप्रमोदटीका
ननु व्यवहारं प्रति उक्ततादात्म्यज्ञानस्य हेतुत्वं नाङ्गीक्रियते । किं नाम व्यधिकरणरजतज्ञानमात्रस्येत्याशङ्कते व्याश्रयस्येति । रूप्यर्धीरित्यनेनान्वयः । तेन रजतधीमात्रं भ्रमश्चेदित्यर्थलाभः । परिहरति रूप्येति । भ्रम इत्यनन्तरं स्यादित्युत्तरश्लोकस्थमुत्कृष्यते । नेष्टापत्तिरित्याह तवेति । अन्यथाख्यातिवादिन इत्यर्थः । अन्यत्र सतोऽन्यत्र धीरिति हि अन्यथाख्यातिलक्षणं तवाभिमतम् न तु पुनरन्यत्र सतो रजतस्य धीरित्ये-तावन्मात्रमित्यर्थः । रजतस्मरणमात्रस्य भ्रमत्वे इदं रजतमिति भ्रमस्याकारो न स्यात् पुरोवर्तिनि प्रवृत्तिश्च न स्यादिति भावः ।। ५०२ ।।
युक्तिमल्लिका
पुरोवर्त्युल्लेखिनी च यदि व्याश्रयधीर्भ्रमः ।
इदं च रजतं चेति शाब्दी धीस्स्यात्तदा भ्रमः ।। ५०३ ।।
सुरोत्तमटीका
पुरोवर्त्युल्लेखिनी पुरोवर्तिशुक्त्यादिविषयिणी व्याश्रय-धीरिति सम्बन्धः । रजतस्मृतिस्तु न तथेति भावः । दूषणमाह ।। इदंचेति ।। शाब्दीधीरित्युपलक्षणम् । रजतखण्डस्यापि तत्रैव सत्त्वे चाक्षुषीत्यपि द्रष्टव्यम् ।। ५०३ ।।
सत्यप्रमोदटीका
ननु पुरोवर्तिशुक्त्यादिकं व्यधिकरणरजतादिकं चेत्युभयं उल्लिखन्ती एका समूहालम्बना धीर्भ्रम इत्युपेयते । रजतस्मरणं तु न तथेति न पूर्वोक्तदोष इति प्रकारान्तरमाशङ्क्य परिहरति पुरोवर्तीति । शाब्दी धीरित्युपलक्षणम् । गृह्यमाणारोपस्थले चाक्षुषीत्यपि ग्राह्यम् । अयमाशयः । समूहालम्बनज्ञाने शुक्तिरजतयोर्द्वयोरपि मुख्यविशेष्यतैव । न तु शुक्त्यंशे रजतस्य अभेदसम्बन्धेन प्रकारतया भानम् । तथा चेदं रजतमिति सामानाधि-करण्येन निर्देशो नोपपद्येत । रजतार्थिनः शुक्तिकायां प्रवृत्तिश्च न घटेत । न हि घटपटाविति ज्ञानेन पटार्थिनो घटे प्रवृत्तिः सम्भाविनीति ।। ५०३ ।।
युक्तिमल्लिका
असंसर्गाग्रहं चापि यदि भ्रान्तावपेक्षसे ।
तदा मीमांसकाचार्यस्यान्तेवासी त्वमप्यभूः ।। ५०४ ।।
सुरोत्तमटीका
पक्षान्तरमाशङ्क्य दूषयति ।। असंसर्गेति ।। अस्मिन्पक्षे मीमांसकमतप्रवेशापत्तिरिति भावः ।। ५०४ ।।
सत्यप्रमोदटीका
नन्वेवं तर्हि इदमिति रजतमिति च ज्ञानद्वयं भ्रम इत्यङ्गीक्रियते । तयोर्ज्ञानयोर्भेदाग्रहेणैव व्यवहारः सम्पत्स्यत इत्याशङ्क्य समाधत्ते असंसर्गेति । इदं च संसर्गारोपाभिप्रायेण । तादात्म्यारोपस्थले भेदा-ग्रहमिति ज्ञेयम् । मीमांसकाचार्यस्येति । अगृहीतभेदं ज्ञानद्वयमेव व्यवहार-हेतुरित्यभ्युपगन्तुः प्राभाकरस्येत्यर्थः । अन्तेवासी तन्मतप्रवेशवान् । अन्यथाख्यातिमनङ्गीकुर्वाणः प्राभाकरस्तथाऽभ्युपगच्छतु नाम । त्वं तु तदङ्गी-कारवान् ‘अतस्मिंस्तदिति प्रत्ययो भ्रमः’ इति पूर्वाचार्यवचनमनादृत्य परमतं कस्माच्छरणीकुरुषे इति भावः ।। ५०४ ।।
युक्तिमल्लिका
यदा क्षीरस्थनीरस्य क्षीरेणैक्यं प्रतीयते ।
तदा तादात्म्यमात्रस्यासत्त्वं ते द्वे च नासती ।। ५०५ ।।
सुरोत्तमटीका
भ्रमविशेषणीभूतरजताद्यप्यसदेवेति प्रायिकी व्याप्तिः क्वचिदपवादोऽप्यस्तीत्याह ।। यदेति ।। ते द्वे क्षीरनीरे ।। ५०५ ।।
सत्यप्रमोदटीका
‘यत्रारोप्यमधिष्ठानसन्निहितं तत्र तत्तादात्म्यमात्र-मसत् । यत्र पुनरसन्निहितमारोप्यं तत्र तत्तत्तादात्म्यं चेत्युभयमप्यसत्’ इति सुधोक्तं हृदि कृत्वाऽऽह यदेति । ते द्वे क्षीरनीरे । नासती बाधोत्तरकालमपि स्वरूपद्वयानुवृत्तेः ।। ५०५ ।।
युक्तिमल्लिका
यतः क्षीरं च तत्रास्ति नीरं चास्ति निगूहितम् ।
अतस्तादात्म्यमात्रस्यासत्त्वं तत्र तयोस्तु न ।। ५०६ ।।
सुरोत्तमटीका
अतः क्षीरनीरयोः प्रतियोग्यनुयोगिनोस्सत्वात् तत्रै-तादृशस्थले तयोः प्रतियोग्यनुयोगिनोः न । असत्त्वं नेत्यर्थः ।। ५०६ ।।
सत्यप्रमोदटीका
विवृणोति यत इति । तत्र पुरोदेशे । अस्ति बाधोत्तरमप्यनुवर्तते । तयोः तादात्म्यप्रतियोग्यनुयोगिनोः क्षीरनीरयोः । अयमाशयः । क्षीरनीरयोः मेलने सति समानद्रव्याभिघातरूपार्थदोषान्नीरं निगूहितं भवति । तदा नीरे सन्निहितं क्षीरमारोप्यते । तत इदं क्षीरमेवेति भ्रमो जायते । बाधस्तु नेदं क्षीरमेकमेव किं तु नीरमपीत्युत्पद्यते । न पुनरसदेव क्षीरं प्रत्यभादिति । क्षीरस्यापि नीरवदनुवृत्तेः । तत्र क्षीरनीरे उभे अपि सत्ये तादात्म्यमात्रमसदिति निश्चीयत इति । गृह्यमाणारोपस्थले सर्वत्रायं न्यायः ।। ५०६ ।।
युक्तिमल्लिका
यदि तादात्म्यवत्तस्य प्रतियोगी च तत्र न ।
तदा तस्यापि चासत्त्वमिति तत्वविदो विदुः ।। ५०७ ।।
सुरोत्तमटीका
तर्हि कुत्र प्रतियोग्यसन्नित्यत आह ।। यदीति ।। तत्र यत्र प्रतीतिस्तस्मिन्देशे । तस्यापि प्रतियोगिनोऽपि ।। ५०७ ।।
सत्यप्रमोदटीका
स्मर्यमाणारोपस्थले तु नैवमित्याह यदीति । तत्र पुरोदेशे । तत्त्वविदः असदेव रजतं प्रत्यभादिति रजततत्तादात्म्ययोरु-भयोरप्यसत्त्वमावेदयतो बाधकानुभवस्य तत्त्वं निश्चिन्वानाः ।। ५०७ ।।
युक्तिमल्लिका
अतस्सतासंवलितमसच्चेक्ष्यं न संशयः ।
अधिष्ठानस्य चासत्त्वं यो वदेन्न स युक्तिमान् ।। ५०८ ।।
सुरोत्तमटीका
अत उक्तरीत्या तादात्म्यप्रतियोगिनोरेवासत्त्वात् अधिष्ठानस्य क्वाप्यसत्त्वाभावाच्च सता संवलितं मिश्रं ईक्ष्यमीक्षितुं योग्यम् । अधिष्ठानादेस्सर्वस्याप्यसत्त्वं यो वक्ति तं दूषयति ।। अधिष्ठानस्येति ।।५०८।।
युक्तिमल्लिका
इदन्ताधारशुक्त्यादिर्यतस्सर्वत्र चार्थकृत् ।
रूप्यादिर्न तथा तस्मात्तन्मात्रमसदीर्यते ।
यथाऽवस्थितसर्वार्थवादिभिस्तत्ववादिभिः ।। ५०९ ।।
सुरोत्तमटीका
यतो यस्मात् । इदंताधारशुक्त्यादिरित्यनेनाधिष्ठानत्वं स्फोरयति । अर्थकृदर्थक्रियाकारी । तथा शुक्त्यादिवदर्थक्रियाकारी तन्मात्रं तादात्म्यं तत्प्रतियोगिभूतरजतादिकं च । मात्रपदेनाधिष्ठानं व्यावर्तयति । यथावस्थितसर्वार्थवादिभिरित्यनेन तत्ववादित्वमुपपादयति ।। ५०९ ।।
सत्यप्रमोदटीका
‘असतः सत्त्वप्रतीतिः सतोऽसत्त्वप्रतीतिरित्यन्यथा-प्रतीतेरेव भ्रान्तित्वादि’ति तत्त्वनिर्णयोक्तं भ्रान्तिस्वरूपमनूद्योपसंहरति अत इति । सता विशेष्येणाधिष्ठानेन । संवलितं प्रकारतया सम्बद्धं असच्च रजतं रजतत्वं वा । प्रकारताऽवच्छेदकतया सम्बद्धं रजततादात्म्यं रजतत्वसंसर्गो वा । ईक्ष्यं अपरोक्षतया सत्त्वेन प्रतीतिविषयः । न संशयः मतान्तरेषु भ्रान्तिबाधयोरनुपपत्तेर्व्युत्पादितत्वादिति भावः । ‘यदि पुनरिदं रजतमित्यव-भासे चकासदसदेवाखिलमिति तदसत् । इदङ्कारास्पदस्य शुक्तिकाशकलस्य प्रागूर्ध्वं सत्त्वावगमात्’ इति सुधोक्तदिशाऽसत्ख्यातिवादिनां मतमपाकरोति अधिष्ठानस्येत्यादिना । न केवलं आरोपितस्येति चार्थः । नञोऽभावो विरोधश्चार्यः । स न युक्तिमान् तत्पक्षो युक्तिरहितो युक्तिविरुद्धश्चेति यावत् । विमतं अधिष्ठानमसत् भ्रान्तिविषयत्वात् तादात्म्यवत् इत्यस्य प्रत्यक्षविरोधेन बाधितत्वात् । हेतौ विषयत्वं प्रकारत्वं चेदसिद्धिः । विशेष्यत्वं चेत् विरोधः । विमतं इदन्ताधारशुक्त्यादिकं सत्यं अर्थक्रियाकारित्वादिति युक्तिविरुद्धं च । तदाह सर्वत्र चार्थकृदिति । न च वाच्यं शुक्त्यादिकं नेदन्ताऽऽधार इति । ‘यदि च न तदिदङ्कारास्पदं तदा न भ्रान्तिबाधयोरङ्गुल्यग्रेण निर्दिशेत् नोपाद-द्यान्न परित्यजेदि’ति सुधोक्तदोषापत्तेरित्यवधेयम् । तत्किं भ्रान्तौ प्रतीयमानं सर्वं सदेव । नेत्याह रूप्यादिरिति । तथा अर्थक्रियाकारी । तथा च बाधतदभावाभ्यामेवासत्त्वस्य सत्त्वस्य च व्यवस्थेति निष्कर्षः । यथावस्थितेति विशेषणं तत्ववादित्वोपपादकम् । सर्वेत्यनेनान्यथाख्यातिमङ्गीकृत्यापि देशान्तरे सत्त्वादिकमारोपितस्यायथावस्थितमेव वदन्तस्तार्किकादयो व्यवच्छिन्नाः । तत्त्ववादित्वं च यावत्प्रमाणदृष्टं तावत एव वक्तारस्तत्त्ववादिन इति सुधोक्ताप्तलक्षणानुसारेणावगन्तव्यम् ।। ५०९ ।।
युक्तिमल्लिका
यद्गुणो न प्रमाहेतुर्दोषाभावश्च नेष्यते ।
अनाप्ततार्किकोक्तत्वादाप्तोक्तत्वं गुणो न तत् ।। ५१० ।।
सुरोत्तमटीका
यदर्थं प्रामाण्यस्वतस्त्वमुक्तं तदिदानीमाह ।। यदिति ।। गुणोऽर्थसत्तादिर्दोषाभावश्च प्रमाहेतुर्नेष्यत इति सम्बन्धः । तत्तस्मात्कारणात् अनाप्तस्तार्किकस्तदुक्तत्वादाप्तोक्तत्वं वेदेन गुण इति सम्बन्धः ।। ५१० ।।
सत्यप्रमोदटीका
यत् यस्मात् । गुणः ऐशी प्रमा, विशेष्यनिष्ठ-विशेषणज्ञानमित्यादिरूपः प्रमामात्रानुगतत्वेन पराभिमतो वा, प्रत्यक्षप्रमायां सन्निकर्षार्थै, अनुमितिप्रमायां यथार्थलिङ्गपरामर्शः, शाब्दप्रमायां यथार्थ-वाक्यार्थज्ञानं इति तत्तत्प्रमासु प्रत्येकानुगतत्वेन तदभिमतो वा । दोषाभावश्च प्रमाहेतुर्नेष्यते प्रामाणिकैरिति शेषः । व्यभिचारादन्यथासिद्धेश्चेति भावः । तत् तस्मात् ज्ञानप्रामाण्यस्योत्पत्तौ स्वतस्त्वस्य सिद्धत्वात्, तत्सिध्द्यधीनं प्रकृतेऽपेक्षितं वेदरूपकरणप्रामाण्यस्याप्युत्पत्तौ स्वतस्त्वं सुलभम् । तदुक्तं वाक्यार्थचन्द्रिकायां ‘ज्ञानप्रामाण्यस्वतस्त्वव्युत्पादनेन करणप्रामाण्यस्वतस्त्व-व्युत्पादने सौलभ्यमि’ति । एवं तर्कताण्डवेऽपि ‘वेदरूपकरणस्य तज्जन्यज्ञान-प्रामाण्योत्पत्तिस्वतस्त्वसिद्ध्यधीनोत्पत्तिस्वतस्त्वमि’ति । सत्यप्येवं वेदरूप-करणप्रामाण्यस्य स्वतस्त्वं, तद्विरुद्धं आप्तोक्तत्वस्य गुणत्वं वदंस्तार्किकोऽ-नाप्तः । तद्वाक्यं चाप्रमाणं अनाप्तवाक्यत्वाद्विप्रलम्भकवाक्यवदिति भावः ।। ५१० ।।
युक्तिमल्लिका
तस्मान्नित्यैव वेदाख्यविद्या विद्यावतां मते ।
नित्यायां च कथं द्वैतमद्वैतं किल ते प्रियम् ।। ५११ ।।
सुरोत्तमटीका
ततोऽपि किं प्रकृत इत्यत आह ।। तस्मादिति ।। तस्मादाप्तोक्तत्वस्य गुणत्वाभावात् । नित्यायां वेदविद्यायां द्वैतं तत्वा-वेदकत्वाऽतत्वावेदकत्वाख्यद्विप्रकारकत्वं कथम् । नित्यायामित्यनेन पौरुषेय-विद्यायां विप्रलम्भादिमूलत्वसम्भवात्स्यात्तादृशी कल्पना । अपौरुषेयत्वेना-दुष्टायां श्रुतौ कथमुक्ता कल्पनेति सूचयति । ते तव सर्वत्राद्वैतं किल सर्वत्र भेदमसहमानो वेदे किमर्थं वाक्यभेदं करोषीति भावः ।। ५११ ।।
सत्यप्रमोदटीका
फलितमाह तस्मादिति । नित्या अपौरुषेया । यथोक्तं ‘अपि वेदानामङ्गीकार्या हि नित्यता’ इत्यनुव्याख्यानव्याख्यानसुधायां ‘अत्र नित्यताशब्देनापौरुषेयता विवक्षिता । नित्यताया बौद्धागमेष्वपि सत्त्वात्’ इति । पूर्वविद्याशब्दः करणे व्युत्पन्नः । उत्तरः भावे । तथा च ज्ञानिनां मत इत्यर्थः । नित्यायामित्युपलक्षणम् नित्यानुसारेषु पञ्चरात्रादि-ष्वित्यपि ध्येयम् । द्वैतं तत्त्वावेदकत्वातत्त्वावेदकत्वलक्षणो वाक्यभेदः । तदुक्तं तत्त्वनिर्णयटीकायां ‘श्रुतिस्मृतिलक्षणो हि सर्वोऽप्याभ्नायस्तावदेकमेव शास्त्रम् । भेदे प्रमाणाभावात्’ इति । किलेति अपहासे । भेदापलापव्यसनिनः शास्त्रे वाक्यभेदकल्पनमपहसनीयमिति । अनेन ‘मानत्वस्य स्वतस्त्वेन सा नातत्वं वदेत्क्वचित् । दोषश्च वेदे नानादौ’ इति प्रागुक्तस्योपसंहारः कृतो ध्येयः ।। ५११ ।।
युक्तिमल्लिका
तत्स्वतस्त्वेन सर्वत्र प्रामाण्यं गृह्यते श्रुतौ ।
पुन्दोषमूलदोषस्याभावात्तच्च न चाल्यते ।। ५१२ ।।
सुरोत्तमटीका
ननु नित्यत्वेऽपि वेदस्य कुतो नातत्वावेदकत्वमित्यत-स्तदुपपादयति ।। तदिति ।। तत्प्रामाण्यस्वतस्त्वसमर्थनात्त्वयाऽप्यङ्गी-कारात्स्वतस्त्वेन प्रामाण्यस्य स्वतस्त्वेन सर्वत्र श्रुतौ प्रामाण्यं गृह्यत इति सम्बन्धः । तच्च गृहीतं प्रामाण्यं पुन्दोषमूलदोषस्य पुरुषदोषनिबन्धनवाक्य-दोषस्याभावात् अपौरुषेयतया त्वया मया चाङ्गीकृतश्रुतावभावान्न चाल्यते नापोद्यते । दोषैकापोद्यत्वात्प्रामाण्यस्येति भावः ।। ५१२ ।।
सत्यप्रमोदटीका
न चाल्यते नापोद्यते । किन्त्वविरुद्धेऽर्थान्तरे श्रुतिरेव व्यवस्थाप्यते । तदुक्तं ‘वेदवेदानुसारेषु विरोधेऽन्यार्थकल्पना’ इति । तथा च तत्त्वमस्यादिवाक्यं सादृश्यैक्याद्यर्थान्तरपरत्वेनैव व्यवस्थाप्यम् । न तु पुनः परोक्तरीत्याऽबोधकत्वेनाप्रमाणं मन्तव्यमिति निष्कृष्टार्थः । महावाक्यानां औतिभिरबोधकत्वाङ्गीकारस्तद्भाष्ये स्पष्टः ।। ५१२ ।।