परोक्षज्ञानजनकं श्रवणं केन हेतुना

शब्दादेव अपरोक्षज्ञानं इति परप्रक्रियाया निरासः

युक्तिमल्लिका

परोक्षज्ञानजनकं श्रवणं केन हेतुना ।

अपरोक्षफलं कुर्यात्सा ह्यदृष्टस्य कल्पना ।। २३ ।।

सुरोत्तमटीका

 पूर्वं श्रवणस्य साक्षात्कारहेतुतामङ्गीकृत्य दूषणमुदितम् । इदानीं तदेव न घटत इत्याह ।। परोक्षेति ।। सा अपरोक्षज्ञानजननरूपा ।। २३ ।।

सत्यप्रमोदटीका

 वस्तुतस्तु श्रवणस्य चरमसाक्षात्काराङ्गत्वमेव न सम्भवति । ‘श्रवणाद्यङ्गकनिदिध्यासनमपरोक्षज्ञानकरणमनःसहकारि’ इति न्यायामृतोक्तरीत्या मन एव करणम् । एतच्चाग्रे विवरिष्यते । श्रवणस्यापरोक्ष-ज्ञानजनकत्वमेव न घटते इत्याह परोक्षेति ।। २३ ।।

युक्तिमल्लिका

गेहे घट इति प्रोक्ते बहिस्स्थस्यापरोक्षधीः ।

गेहान्तस्स्थघटेऽपि स्यात्सापि दृश्यार्थदृङ्न किम् ।। २४ ।।

सुरोत्तमटीका

 ननु साक्षात्कारयोग्येऽर्थे प्रयुक्तश्शब्दः साक्षात्कारमेव जनयतीत्यत आह ।। गेह इति ।। सा शब्दजन्या प्रतीतिः

।। २४ ।।

सत्यप्रमोदटीका

 ननु शब्दस्य परोक्षधीहेतुत्वस्वाभाव्येऽपि यत्र अपरोक्षार्थविषयकत्वं तत्रापरोक्षज्ञानजनकत्वमित्यङ्गीक्रियते इति चेत्तथाऽप्य-दृष्टकल्पनादोषस्यानिस्तार एवेति अतिप्रसङ्गमुखेनाह गेह इति । बहि-स्स्थस्येति इन्द्रियसन्निकर्षाभावेऽपीति भावः । दृश्यार्थः अपरोक्षविषयः ।। २४ ।।

युक्तिमल्लिका

साक्षात्कारस्य योग्योऽर्थो यदा साक्षात्प्रदृश्यते ।

तत्र प्रयुक्तशब्दोऽपि साक्षात्कारफलो यदि ।। २५ ।।

तर्हि स्याद्ब्रह्मणस्साक्षात्कारः प्राक्कारणान्तरात् ।

तत्र प्रयुक्तशब्दस्तु व्यर्थस्स्यादिति मे मतिः ।। २६ ।।

सुरोत्तमटीका

 पक्षान्तरमाशङ्कते ।। साक्षात्कारस्येति ।। योग्यता-मात्रमेव नालं किन्तु तद्दर्शनसमये प्रयुक्तश्शब्दस्साक्षात्कारमेव जनयतीति शङ्काभिप्रायः। यद्यपीयं शङ्का प्रकृतानुपयुक्ता । घटस्येव ब्रह्मणः श्रवण-दशायामेव चक्षुरादिना मनसा वा दर्शनाभावात् । तथापि घटादौ चेमां शङ्कां परिहर्तुमियमाशङ्का । दूषयति ।। तर्हीति ।। २५,२६ ।।

सत्यप्रमोदटीका

 नैष दोषः । एककाले तस्यैव पुरुषस्य अपरोक्षो यो विषयः तद्विषयकः शब्दोऽप्यपरोक्षज्ञानं जनयतीति नियम्यते । घटस्तु बहिस्स्थस्य न शब्दश्रवणकालेऽपरोक्षः । अतो नोक्तोऽतिप्रसङ्ग इत्याक्षिपति साक्षात्कारेति ।। परिहरति तर्हीति । कारणान्तरेण शब्दान्येन मानस-साक्षात्कारादिना ।। २५,२६ ।।

युक्तिमल्लिका

किञ्च फूत्का(फट्का)रलिङ्गेन दृश्यमानेऽपि हस्तिनि ।

जायमानानुमाऽपि स्यात्साक्षात्कारात्मिका तव ।। २७ ।।

सुरोत्तमटीका

 फूत्कारः वेतण्डशुण्डादण्डोत्थस्वनविशेषः । तव मते । दृश्यमानार्थे ज्ञानकरणत्वस्योभयत्र साम्यादिति भावः।। २७ ।।

सत्यप्रमोदटीका

 अतिप्रसङ्गान्तरमाह किञ्चेति । लिङ्गेन जायमाना इति योजना । दृश्यमानेति । एकस्मिन्नेव कालेऽपरोक्षविषयेत्यर्थः । अनुमाऽपीति परोक्षज्ञानजननस्वभावाऽपि । अपिशब्देन अयं गज इति शब्दस्यापि सङ्ग्रहः । इदं चोपलक्षणम् । ‘‘जीवाः परमात्मनो न भिद्यन्ते आत्मत्वादिति लिङ्गजन्यायाः, श्रवणात्प्रागापाततो वेदान्तजन्यायाः, भाषा-प्रबन्धजन्याया अनधीतवेदान्तजन्यायाश्चैक्यप्रतीतेरापरोक्ष्यापातेन श्रवण-नियमादेरयोगात्’’ इति न्यायामृतोक्तान्यतिप्रसङ्गान्तराणि ग्राह्याणि । ब्रह्मण-स्तदभिन्नैक्यस्य च स्वप्रकाशत्वेनापरोक्षत्वादिति भावः

।। २७ ।।

युक्तिमल्लिका

एकगोष्ठप्रविष्टाः किं महिषीधेनुपूर्वकाः ।

एकाकारफलं दद्युरिदं चादृष्टकल्पनम् ।। २८ ।।

सुरोत्तमटीका

 दूषणान्तरं चाह ।। एकगोष्ठेति ।। इदं विजातीय-करणानामेकत्र सन्निवेशे स्वजातिविरुद्धफलजनकत्वम् । किञ्च चक्षुःकरणक एवापरोक्षज्ञाने शब्दस्यापि करणतोच्यते उत तदजन्यसाक्षात्कारान्तरे । नाद्यः। एकज्ञाने करणद्वयानपेक्षणेन संशयोत्तरप्रत्यक्षे व्याप्तिदर्शनस्येव सहकारित्वस्यैव प्राप्तेः । न द्वितीयः । केवलशब्दादेवान्यत्रापि तदुदयप्रसङ्गात् ।। २८ ।।

सत्यप्रमोदटीका

 करणशक्तिमतिलङ्घ्य ज्ञानस्य विषयानुसारित्वे अतिप्रसङ्गान्तराण्याह एकगोष्ठेति एकस्मिन्नेव विषये सन्निवेशमात्रेण स्वभावातिक्रमणे, एकत्र गोष्ठे समाविष्टानां गोमहिषीपूर्वकाणामपि परस्पर-कार्यजनकत्वं स्यादित्यर्थः । ‘‘चाक्षुषादिविषयकस्मृत्यनुमितिस्पार्शनज्ञाना-देश्चाक्षुषत्वाद्यापातात् । लिङ्गशब्दादिसिद्धे चेन्द्रियात्परोक्षधीप्रसङ्गात् । एवञ्च ‘परोक्षे चापरोक्षे च चाक्षुषी स्पार्शिनीव च । अपरोक्षे परोक्षा धीर्युक्ता करणशक्तितः’ । तस्माद्ये विरुद्धे ज्ञानत्वावान्तरजाती परोक्षत्वापरोक्षत्वे तदाश्रययोर्ज्ञानयोर्भिन्नत्वात् यश्चैको विषयस्तत्र विरुद्धजात्यभावात्प्रत्यक्ष-विषयमपि शाब्दज्ञानं परोक्षमेव’ इति न्यायामृतोक्तमत्रोक्तस्योपपादन मत्रानु-सन्धेयम् । विस्तरस्तत्रैव शब्दप्रत्यक्षभङ्गे ।। २८ ।।

युक्तिमल्लिका

दशमस्त्वमसीत्युक्तिरपि शाब्द्या धिया स्वया ।

चित्तव्याक्षेपहन्त्र्येव दशमोऽहमिति प्रमा ।। २९ ।।

तत्रापि मानसी नो चेदहं त्वोल्लेखिनी कथम् ।

दशमस्त्वमसीत्यत्र ह्यहंशब्दो न विद्यते ।। ३० ।।

त्वंतामेव ज्ञापयेत्सा नाहन्तां ज्ञापयेद्धि वाक् ।

शब्दो वदेत्स्वशक्यार्थमशक्यार्थं कथं वदेत् ।। ३१ ।।

सुरोत्तमटीका

 प्रमेयं दूषयित्वा दृष्टान्तं च दूषयति ।। दशम इति ।। स्वात्मना सह दशसङ्ख्याकजनेषु सत्सु स्वानवलोकिनो बहिर्मुखस्य दशमः क इति शङ्कायां प्रयुक्ता ‘‘दशमस्त्वमसी’’त्युक्तिरित्यर्थः । शाब्द्या शब्द-करणिकया । धिया परोक्षज्ञानेन । चित्तव्याक्षेपहन्त्री अन्यत्रैवासक्तं तच्चित्तं त्वन्त्वप्रकारेणैव तत्स्वरूपं प्रबोध्य स्वस्वरूपाभिमुखं विदधत्येवेत्यर्थः । मानसीत्युपलक्षणम् । साक्षिरूपिणी वा । नो चेत् मनःकरणिका नो चेत् । अहमित्युल्लेखस्य मनःकरणके साक्षिरूपे च ज्ञान एव दर्शनात् । नन्वहं शब्दप्रयोगे शाब्द्यामपि प्रतीतौ अहं त्वोल्लेखोऽस्तीति चेत् । सत्यम् । प्रकृते सोऽपि नास्तीत्याह ।। दशम इति ।। शक्तिग्रहप्रकारेणैव ज्ञानजनकत्व-नियमादिति भावः।।२९–३१ ।।

सत्यप्रमोदटीका

 यच्चोक्तं परेण तत्त्वमसीति वाक्यादेवापरोक्षधीः दशमस्त्वमसीत्यादौ शब्दादेवापरोक्षधीदर्शनादिति । तत्र दृष्टान्तं दूषयति दशम इत्यादिभिः । शाब्द्या परोक्षया । चित्तेति अन्यत्र व्यासक्तं तच्चित्तं स्वस्वरूपाभिमुखं विदधतीत्यर्थः । प्रमा मानसीति योजना । वृत्तिज्ञान-सहकारेणैव शब्दानां अर्थबोधकत्वस्य क्लृप्तत्वात् । अङ्गीकृतश्चायं न्यायः परेणापि ‘न ह्यक्षरबाह्यो वाक्यार्थः’ इति वचनात् ।। वाक्यार्थं वृत्तिमहिम्ना लब्धार्थम् ।। २९–३१ ।।

युक्तिमल्लिका

घटत्वाकारधीरेव घटशब्देन जायते ।

द्रव्यत्वाकारधीर्द्रव्यपदादुभयवत्यपि ।

दशमोऽहं त्विति तु या मतिस्सा मानसी ध्रुवम् ।। ३२ ।।

सुरोत्तमटीका

 ननु स्वस्वरूपे अहंत्वस्यापि विद्यमानत्वात्त्वमिति पदेनैव तस्यापि बोधोऽस्त्वित्यत आह ।। घटत्वेति ।। उभयवत्यपि द्रव्यत्व-घटत्ववत्यपि ।। ३२ ।।

सत्यप्रमोदटीका

 ननु तत्र दशमे अहंत्वमप्यस्तीति चेत्किं तावता । तद्बोधकपदाभावात् । अन्यथा वृत्त्यविषयत्वेऽपि तत्र विद्यमानत्वमात्रेण शाब्दत्वे घटशब्देन द्रव्यत्वाकारधीरपि स्यात् ।। ३२ ।।

युक्तिमल्लिका

अव्युत्पन्नस्य तद्वाक्यश्रवणेऽपि मतिर्न सा ।

व्युत्पत्तिश्शब्दजन्यार्थज्ञाने क्लृप्तं हि कारणम् ।। ३३ ।।

अतः शाब्दप्रबोधोऽस्ति मध्ये व्यासङ्गभञ्जकः ।

समाहितमनास्तु स्वं दशमं मनसेक्षते ।। ३४ ।।

सुरोत्तमटीका

 युक्त्यन्तरमपि सूचयन्नेतदेव विशदयति ।। अव्युत्पन्न-स्येति ।। सा वाक्यजन्या ।। ३३,३४ ।।

सत्यप्रमोदटीका

 क्लृप्तमिति । तदुक्तं सुधायां ‘शक्तिज्ञानानुरोधित्वा-दभिधानस्य’ इति ।। ३३,३४ ।।

युक्तिमल्लिका

कारुः स्वकण्ठपरशुं विस्मृत्य बहु चिन्तयन् ।

अयं परशुरित्युक्ते किं शब्दादेव पश्यति ।। ३५ ।।

उक्तिः परोक्षज्ञानेन चित्तव्याक्षेपनाशिनी ।

पश्चात्स्वकण्ठपरशुं चक्षुषैव स पश्यति ।। ३६ ।।

सुरोत्तमटीका

 शब्दप्रयोगेऽपि तत्तदर्थसाक्षात्कारश्चक्षुरादीन्द्रियैरेवेत्यत्र दृष्टान्तमाह ।। कारुरिति ।। शब्दप्रयोगेऽपि परशोश्चक्षुषैव दर्शनस्य सर्वजन-सम्प्रतिपन्नत्वाद्विप्रतिपन्नस्थलेष्वप्येवं ज्ञानद्वयमवर्जनीयमिति भावः ।। ३५,३६ ।।

सत्यप्रमोदटीका

 व्यासङ्गभञ्जकत्वमात्रं न तु करणानां स्वस्वभावाति-क्रम इत्येतद् दृष्टान्तेन दर्शयति कारुरिति ।। ३५,३६ ।।

युक्तिमल्लिका

स्वतस्समाहितमना दशमोऽहमिति स्वयम् ।

मनसैवाभिपश्येच्चेद्ब्रह्म पश्येत्तथैव हि ।। ३७ ।।

सुरोत्तमटीका

 अहं दशम इति ज्ञानं मानसमेवेत्यत्र युक्त्यन्तरमप्याह ।। स्वत इति ।। स्वतः शब्दप्रयोगं विना । समाहितमनाः सावधानचित्तः । अविवेकिन एव शब्दापेक्षा । विवेकी तु यूयं नव अहं तु दशम इति स्वयमेव प्रत्येतीति सर्वानुभवसिद्धम् । तस्मादविवेक्यपि शाब्द्या प्रतीत्या चित्तं स्वाभिमुखीकर्तुमेव शब्दमपेक्षते । तथा स्वस्थचित्तस्तु विवेकिवत्स्वात्मानं स्वमनसैव दशमोऽहमिति पश्यति । वृथा करणवैषम्यकरणे कारणाभावादिति भावः । तथैवेत्यनेनासम्प्रज्ञातसमाधिस्थयोगिनि चित्तव्याक्षेपाभावा-द्बाह्येन्द्रियाणामुपरतत्वेन शब्दश्रवणासम्भवाच्च स्वस्थचित्तवत् मनसैव ब्रह्मापरोक्षज्ञानं न तु शब्दसहायेनेति सूचयति । एवं च परोदीरितबहिर्मुख-दृष्टान्तः कथं प्रकृतोपयोगी । न हि ‘‘शान्तोदान्त उपरतस्तितिक्षुस्समाहितो भूत्वाऽऽत्मन्येवात्मानं पश्येदि’’त्युक्तब्रह्मापरोक्षज्ञानिनः कदाप्यसमवधान-मुचितम् । एवं च ब्रह्मदर्शनदशायां क्व शब्दादपरोक्षज्ञानम् । कस्य वेदं निदर्शनमिति भावः । नन्वस्तु योगिनश्शब्दानपेक्षा । इदानीं बहिर्मुखं जनमभिमुखीकर्तुगुरुणोपदिश्यमानवेदान्तवाक्यरूपशब्दस्योपयोगोऽस्तीति चेत् । सत्यम् । तथापि गुरूपदिष्टशब्दश्रवणसमनन्तरमेव तस्य ब्रह्मापरोक्ष-दर्शनाभावेन पुनर्दृष्टान्तवैयर्थ्यस्य तदवस्थत्वात् । न च वाच्यमिदानीमपि शब्दश्रवणसमनन्तरमेव वाक्यार्थविशिष्टब्रह्मदर्शनमप्यस्तीति । त्वदुक्तमहा-वाक्यार्थे प्रतिवादिनां विवादाभावप्रसङ्गात् । घटो दृष्ट इतिवद्दृष्टं ब्रह्मेति प्रतिवक्तव्यत्वाच्च ।। ३७ ।।

सत्यप्रमोदटीका

 समाहितमनाः चित्तव्यासङ्गरहितः । तथैव हि मनसैवानुद्रष्टव्यं इति श्रुतिप्रसिद्धेः । ‘यत्र चैवात्मनाऽऽत्मानं पश्यन्’ इति स्मृतेश्च ।। ३७,३८ ।।

युक्तिमल्लिका

शब्दस्तु व्यवधानस्योच्छित्त्यै कर्णे निपातितः ।

शाब्दीं करणसामर्थ्यात्त्वमाकारां धियं दिशेत् ।। ३८ ।।

सुरोत्तमटीका

 बहिर्मुखेऽपि व्यासङ्गनिवर्तकत्वेन प्रागुक्तांशस्य सहकारितामनूद्य दृष्टान्तमुखेनाप्युपपादयति ।। शब्दस्त्विति

।। ३८ ।।

युक्तिमल्लिका

ततस्समाहितमनाः पश्येदहमिति स्वयम् ।

अहंत्वोल्लेखिनी शब्दाभावे धीर्मनसैव हि ।। ३९ ।।

प्रतिबन्धनिरासे हि निमित्तान्तरतः कृते ।

दहनादेव दाह्यस्य दाहः स्यान्नान्यतः क्वचित् ।। ४० ।।

सुरोत्तमटीका

 शब्दाभावे अहमिति शब्दाभावे ।। ३९,४० ।।

सत्यप्रमोदटीका

 अहंत्वोल्लेखिनी धीः इति योजना । शब्दाभावे अहमिति शब्दाभावे ।। ३९ ।।

युक्तिमल्लिका

प्रतिबन्धनिरासेन तस्य स्याच्चरितार्थता ।

सहकारी भवेद्वासौ स एव न हि दाहकः ।। ४१ ।।

सुरोत्तमटीका

 असौ प्रतिबन्धनिवर्तकः ।। ४१ ।।

सत्यप्रमोदटीका

 भवेद्वेति उपचारेणेति भावः । असौ प्रतिबन्ध-निरासोपक्षीणः । तदुक्तं सुधायां ‘तथाऽपि प्रतिबन्धनिवृत्तौ सत्यामेव निर्णय इति प्रतिबन्धकनिरासहेतोरपि विचारस्योपचारेण निर्णयहेतुत्वात्’ इति ।अत एव वा इत्यनास्थासूचकः।।४१ ।।

युक्तिमल्लिका

अहंशब्दाप्रयोगेऽपि ह्यहमाकारधीत्वतः ।

दशमोऽहमिति ज्ञानं न शाब्दं स्वस्थधीर्यथा ।

पराकरोति ते पक्षमनुमानमपीदृशम् ।। ४२ ।।

सुरोत्तमटीका

 परोदीरितदृष्टान्तेऽपि दशमोऽहमिति ज्ञानस्य शब्दा-करणकत्वेऽनुमानमाह ।। अहमिति ।। अहं दशम इति वाक्यजनितज्ञाने व्यभिचारपरिहाराय विशेषणम् । स्वस्थधीः स्वस्थस्याहं दशम इति धीः ।। ४२ ।।

सत्यप्रमोदटीका

 ज्ञानम् अस्वस्थस्य जायमानं विमतम् । अहं दशम इति वाक्यजन्यज्ञाने व्यभिचारवारणाय हेतौ विशेषणम् । विपक्षे यदि शाब्दं स्यात् तर्हि शब्दप्रयोग एव जन्यं स्यात् । अन्यथाऽकारणकार्योत्पत्तिप्रसङ्ग इति बाधकसद्भावान्नाप्रयोजकता । अत एव न दृश्यमानविषयकत्वाभाव उपाधिः ।। ४२ ।।

युक्तिमल्लिका

दृष्टियोग्ये प्रयुक्तोऽपि शब्दो यद्यपरोक्षकृत् ।

गृहे घटोऽस्तीत्युक्तेऽपि तर्हि स्यादपरोक्षधीः ।। ४३ ।।

सुरोत्तमटीका

 दृश्यमानेऽर्थे प्रयुक्तश्शब्दस्साक्षात्कारमेव जनयतीति मतं सङ्ग्रहाय पुनरप्यनूद्य प्रकारान्तरेण च दूषयति ।। दृष्टियोग्य इति ।। ४३ ।।

सत्यप्रमोदटीका

 दृष्टियोग्य इति । तथा च ब्रह्मणो दृश्यमानत्वा-भावेऽपि चरमसाक्षात्कारयोग्यत्वात् तस्य शब्दादापरोक्ष्यं सम्भवतीत्याशयः । स्यात् बहिःस्थस्येति शेषः । गेहस्थघटस्य दर्शनयोग्यत्वात् ।। ४३ ।।

युक्तिमल्लिका

दृश्यमाने प्रयुक्तस्तु शब्दो यद्यपरोक्षकृत् ।

असमाहितचित्तस्य कथं तर्ह्यपरोक्षधीः ।। ४४ ।।

न ह्यसौ विस्मृतस्वात्मा पुरा शब्दप्रयोगतः ।

आत्मानं मनसा पश्येद्व्याक्षेपाक्षिप्तचेतनः ।। ४५ ।।

सुरोत्तमटीका

 व्याक्षेपाक्षिप्तचेतनः व्याक्षेपनिरस्तमनोव्यापार इत्यर्थः।। अत एतादृशे प्रयुक्तं दशमस्त्वमसीति वाक्यमपि दृश्यमाने प्रयुक्तशब्दत्वा-भावात् त्वन्न्यायेनैव न साक्षात्कारजनकं स्यादिति भावः । पूर्वं दार्ष्टान्तिके शब्दप्रयोगसमये दृश्यमानत्वाभाव उक्तः । इदानीं तु दृष्टान्त एवेति विवेकः ।। ४४,४५ ।।

सत्यप्रमोदटीका

 दोषान्तरं वक्तुं पूर्वं निरस्तमपि पुनराशङ्कते दृश्यमान इति । तथा च दशमस्त्वमसीति वाक्यजन्यज्ञाने दृष्टान्तीकृते साधनवैकल्यम् । न केवलं प्रागुक्ता पक्षेऽसिद्धिः । उपपादयति कथमिति । व्यासक्तस्य आत्मनि दृश्यमानत्वाभावात् । पुरेति अनन्तरं व्यासङ्गपरिहारेण दर्शन-सम्भवादिति भावः ।। ४४,४५ ।।

युक्तिमल्लिका

दृश्यमानेऽपि शब्देन साक्षात्कारान्तरप्रमा ।

अनानुभविकत्वेन वैयर्थ्याच्च न शोभते ।

सैव चेत्तर्हि शब्दोत्था साक्षात्कारप्रमा क्व ते ।। ४६ ।।

सुरोत्तमटीका

 किञ्च दृश्यमानेऽपि प्रयुक्तश्शब्दः दर्शनान्तरं साधयति उत तदेवेति विकल्प्याद्यं दूषयति ।। दृश्यमान इति ।। वैयर्थ्याच्चेत्युपलक्षणम् । अन्यत्रापि तज्जनकत्वप्रसङ्गादित्यपि द्रष्टव्यम् । द्वितीयं दूषयति ।। सैवेति ।। तस्याश्च प्रागेव स्वकरणजनितायाः पुनश्शब्देनापि जननायोगादिति भावः ।। ४६ ।।

सत्यप्रमोदटीका

 दृश्यमाने इति विषयसप्तमी । शब्देनेत्यनेन अन्वयः । साक्षात्कारान्तरेति । पुरुषान्तरस्य अथवा स्वस्यैव कालान्तरे जाततद्विषयक-साक्षात्कारेत्यर्थः । अनानुभविकत्वेनेति । ‘‘केषाञ्चिदपरोक्षे स्वर्गादावस्माकं शब्दादपरोक्षधीः स्यात् एकपुरुषाभिप्राये पूर्वेद्युश्चैत्रस्यापरोक्षे इदानीं शब्दा-दपरोक्षधीः स्यादि’’ति न्यायामृतोक्तोऽनुभवविरोधो ध्येयः ।। वैयर्थ्याच्चेति व्यवहारे भट्टनयमङ्गीकुर्वाणस्य तव तत्त्वमसिवाक्यस्याधिगतार्थगन्तृत्वप्राप्त्याऽ-प्रामाण्यप्रसङ्गादित्यर्थः । सैवेति । अन्योन्याश्रयप्रसङ्गेन साक्षात्कारप्रमा-जननासम्भवात् । शब्देन अपरोक्षज्ञानजननेऽर्थस्य दृश्यमानत्वसिद्धिः ।दृश्यमानत्वसिद्धौ हेतुसिद्ध्या अपरोक्षप्रमारूपसाध्यसिद्धिरिति।।४६ ।।

युक्तिमल्लिका

करणस्य बलाच्चेद्धीस्तर्हि शाब्देन सा भवेत् ।

दृष्टेऽर्थे तर्करसिकस्यानुमानाद्यथाऽनुमा ।। ४७ ।।

सुरोत्तमटीका

 पक्षान्तरमाशङ्क्य दूषयति ।। करणस्येति ।। शब्दस्य तत्रैव सामर्थ्यादिति भावः ।। ४७ ।।

सत्यप्रमोदटीका

करणस्य शब्दस्य बलात् स्वभावात् । प्रमाणसंप्लव-मात्रेण न करणानां स्वस्वभावातिक्रम इत्याह दृष्ट इति ।। ४७ ।।

युक्तिमल्लिका

तस्माद्दर्शनमुद्दिश्य तादर्थ्येनास्य कीर्तनात् ।

करणत्वं श्रुतिबलाद्वाच्यं नान्याऽस्ति ते गतिः ।। ४८ ।।

सुरोत्तमटीका

 तस्मात् शब्दश्रवणस्य क्वाप्यपरोक्षज्ञानजनकत्वा-दर्शनात् । अस्य श्रवणादेः । श्रुतिबलादेव श्रवणस्यापरोक्षज्ञानजनकत्वं वक्तव्यमिति भावः ।। ४८ ।।

सत्यप्रमोदटीका

 कीर्तनात् ‘आत्मा वाऽरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्य’ इति श्रुतौ ।। ४८ ।।

युक्तिमल्लिका

श्रुतिस्तु श्रवणं वक्ति मननं ध्यानमन्ततः ।

पारंपर्यात्तु तत्राद्ये हेतुर्ध्यानं तु मुख्यतः ।। ४९ ।।

न चेत्कर्मैव हेतुस्स्यादङ्गं स्याच्छ्रवणाद्यपि ।

कर्मणा ज्ञानमित्याह यतः श्रुतिरचञ्चला ।। ५० ।।

सुरोत्तमटीका

 तत्र श्रवणमनननिदिध्यासनानां मध्ये । आद्ये श्रवण-मनने । मुख्यतः द्वारान्तरं विना । उक्तविधया मनःकरणकदर्शनोपयोगीत्यर्थः। अयमभिसन्धिः । ‘‘मनसैवैनं पश्यती’’ति श्रुत्या इतरव्यवच्छेदपूर्वकं तृतीयया मनस एव करणत्वनिर्णीतेस्सहकारितयैवैषां कथनं न करणतया द्विकरणकैक-क्रियायोगात् त्रयाणामपि करणत्वप्रसङ्गाच्चेति ।। ४९,५० ।।

सत्यप्रमोदटीका

 आद्ये श्रवणमनने हेतू इति वचनव्यत्ययेनान्वयः । मुख्यतः इति । श्रवणाद्यङ्गकनिदिध्यासनं साक्षात्कारजनकमनसः अव्यव-धानेन सहकारीत्यर्थः । तदुक्तं न्यायामृते ‘‘तस्माच्छ्रवणसामर्थ्यरूपलिङ्गेन ततस्तु पश्यते निष्कलं ध्यायमान इत्यादिवाक्येन निदिध्यासनस्य फलस्•म्बन्धात् प्रकरणेन च श्रवणादिकं निदिध्यासने सन्निपात्यङ्गम् । युक्तश्च विप्रकृष्टस्य फलोपकारात् सन्निकृष्टस्य फलोपकारः’’ इति ।। न चेत् सामर्थ्य-रूपलिङ्गमनादृत्य द्रष्टव्यः श्रोतव्य इति सन्निधानमात्रेण अङ्गित्वाङ्गीकारे । कर्मैव ‘कर्मणा ज्ञानमातनोति’ इति श्रुतौ ज्ञानरूपसाक्षात्कारसन्निधानात् । हेतुः अङ्गि । श्रवणाद्यपि त्रितयमपि । अङ्गं कर्मणः । अचञ्चला द्वारान्तराऽनभिधायिनी ।। ४९,५० ।।

युक्तिमल्लिका

तस्मात्क्रमिकवेदोक्तकारणेषु यदुत्तरम् ।

ज्ञानादव्यवधानेन पूर्वं च तत एव तत् ।। ५१ ।।

सुरोत्तमटीका

 तस्मात् पूर्वतया श्रवणस्य मुख्यकारणत्वे कर्मण एव तत्प्रसङ्गात् । तत एव तादृशनिदिध्यासनादेव । तत् अपरोक्षज्ञानम् ।। ५१ ।।

सत्यप्रमोदटीका

 तत एव ध्यानादेव । तत् दर्शनम् ।। ५१ ।।

युक्तिमल्लिका

यदि श्रवणमात्रेऽपि सर्वेषां ब्रह्मदर्शनम् ।

जीवन्मुक्ताः कुतस्तर्हि शुकाद्या एव योगिनः ।। ५२ ।।

सुरोत्तमटीका

 श्रवणादेव ब्रह्मदर्शनाङ्गीकारे बाधकं चाह ।। यदीति ।। मन्दानामपि जीवन्मुक्तत्वं स्यादिति भावः । विवादाभावादेरुपलक्षणमेतत् ।। ५२ ।।

सत्यप्रमोदटीका

 श्रवणमात्रेऽपि इति । ‘तत्त्वमस्यादिवाक्योत्थ-सम्यग्धीजन्ममात्रतः । अविद्या सह कार्येण नासीदस्ति भविष्यति’ इति त्वत्प्रक्रियाऽनुसारेणेति भावः ।। एवेति इतरेषाम् अनुष्ठितश्रवणमात्राणां मन्दानां व्यवच्छेदासम्भवादिति भावः । जीवन्मुक्ता इति परपक्षे तत्सद्भाव-मुपेत्योक्तम् । वस्तुतो मुक्ता एव कुतो न स्युरित्याशयः । तदुक्तं सुधायां ‘ज्ञाने सति किमपि मुक्तिर्नैवापेक्षते इति सद्य एव साक्षात्कृतब्रह्मणां शरीरादिनिवृत्तिः प्रसज्येत’ इति ।। ५२ ।।

युक्तिमल्लिका

अनानुभाविकं चेदं श्रुतिकालेऽपि दर्शनम् ।

अश्नतः शृृण्वतश्चान्नं किं नास्ति महदन्तरम् ।। ५३ ।।

सुरोत्तमटीका

 श्रवणदर्शनयोरत्यन्तवैलक्षण्ये सर्वानुभवसिद्धं दृष्टान्तमाह ।। अश्नत इति ।। एकत्र तृप्तिदर्शनात् अन्यत्र तदभावात् रसनेन्द्रियमेव तत्तद्रसदर्शनकारणं न शब्द इति भावः ।। ५३ ।।

सत्यप्रमोदटीका

 श्रुतिकाले श्रवणानन्तरमेव । अन्तरं व्यवधानम् । ‘त्वम् अन्नवानसि’ इति श्रवणमात्रेणान्नसाक्षात्कारापत्त्या सद्य एव रसनेन्द्रि-येण रससाक्षात्कारजन्या तृप्तिः स्यात् । तच्चानानुभविकं इति हृदयम् ।।५३।।

युक्तिमल्लिका

तच्छब्दान्नापरोक्षं स्यान्नतरां निर्विकल्पकम् ।

यतस्त्वदुक्तवाक्येऽपि दशमत्वविशिष्टधीः ।। ५४ ।।

सुरोत्तमटीका

 तत् तस्मात् रसशब्देन रससाक्षात्कारादर्शनात् । नतरामित्येतदेव स्पष्टयति ।। यत इति ।। ५४ ।।

सत्यप्रमोदटीका

 नतरामिति ‘इदमित्थमि’ति ज्ञानमात्रस्य संसृष्टार्थ-विषयकत्वनियमेन निर्विकल्पकज्ञानस्यैवालीकतया सप्तमरसत्वेन ज्ञानविशेषस्य शाब्दस्य निर्विकल्पकत्वस्य अष्टमरसत्वादिति भावः ।। ५४ ।।

युक्तिमल्लिका

अन्वितार्थाभिधायित्वादन्योन्यान्वयमिश्रितम् ।

स्वार्थं मुख्यममुख्यं वा पदं वक्तीति ते मतम् ।

तच्छब्दान्निर्विकल्पा धीरिति रिक्तं वचस्तव ।। ५५ ।।

सुरोत्तमटीका

 तत् तस्मात् तव मतेऽपि शब्दस्यान्विताभिधायित्वात् ।। ५५ ।।

सत्यप्रमोदटीका

 रिक्तं वाक्यलक्षणव्याघातकारणम् । वाक्यं हि आकाङ्क्षासन्निधियोग्यतावतां पदानां समूहः । आकाङ्क्षाद्याः प्रत्येकमन्वय-घटितमूर्तय इति भावः ।। ५५ ।।

युक्तिमल्लिका

यौगपद्येन तद्योग्यगुणानुस्मरणं हरेः ।

अच्छिन्नतैलधारावदारात्तं दर्शयेद्धृदि ।। ५६ ।।

सुरोत्तमटीका

 उपसंहरति ।। यौगपद्येनेति ।। तत् तस्मात् श्रवणस्य दर्शनहेतुत्वायोगात् । अच्छिन्नतैलधारावद्यौगपद्येन हरेर्योग्यगुणानुस्मरणं स्वयोग्यगुणानुस्मरणमिति निदिध्यासनस्वरूपकथनम् ।। ५६ ।।

सत्यप्रमोदटीका

 अच्छिन्नेति ‘खण्डस्मृतिर्धारणं स्यादखण्डं ध्यान-मुच्यते’ इति तल्लक्षणोक्तेः । आरात् । ‘स्वयोग्यगुणोपेतस्य निर्दोषस्य भगव-द्विग्रहविशेषस्यादरनैरन्तर्याभ्यां विषयवैराग्यतद्भक्तिसहितात् बहुकालोपचिता-न्निदिध्यासनापरनामकाद्विचिन्तनादि’ति सुधोक्तरीत्याऽर्थो ज्ञेयः ।। ५६ ।।

युक्तिमल्लिका

ध्यानं च मनसा तस्माद्ध्यातृचित्तं हरीच्छया ।

तद्गं तमेवेन्द्रियत्वात्पश्यतीत्यतिमङ्गलम् ।। ५७ ।।

सुरोत्तमटीका

 साक्षात्कारस्येन्द्रियजन्यत्वनियमान्मनसैवैनं पश्यतीति श्रुतेश्च कथं ध्यानमात्रेण दर्शनमित्यत आह ।। ध्यानं चेति ।। तद्गं ध्येयप्रतिमान्तर्गतम् । तं ध्येयगुणवन्तं भगवन्तं पश्यतीति करणे कर्तृत्वोप-चारः । ध्यानप्रसन्नभगवदनुगृहीतं मनः योग्यजीवस्य भगवत्साक्षात्कारकरणं भवतीति भावः । एतत्सर्वं मनसि निधाय श्रोतृणां मनस्समाधानार्थं प्रागस्माभिः किञ्चित्प्रदर्शितमिति द्रष्टव्यम् ।। ५७ ।।

सत्यप्रमोदटीका

 मनसेति । ‘श्रवणदर्शनादिजनितमानसवासनामयस्य वस्तुनो मनसाऽवलोकनं ध्यानं’ इति सुधोक्तेः । हरीच्छयेति । अव्यक्त-स्वभावस्य प्रत्यक्षत्वानुपपत्तेः । ‘नित्याव्यक्तोऽपि भगवानीक्ष्यते निजशक्तितः’ इति अव्यक्ताधिकरणभाष्योदाहृतप्रमाणात् । ‘उपासना त्वापरोक्ष्यं गमये-त्तत्प्रसादतः’ इति च । तद्गं ध्येयप्रतिमान्तर्गतम् । तदुक्तं प्रतिषेधाधिकरणभाष्ये ‘तदुपासनं च भवति प्रतिमोपासनं यथे’ति । पश्यति साक्षात्करोति । इन्द्रियत्वेनेन्द्रियजन्यं प्रत्यक्षं इति लक्षणात् । तमेव ‘‘पश्यन्ति परमं ब्रह्म चित्ते यत्प्रतिबिम्बितम्’’ इति तत्रैवोक्तेः । इतीति । श्रवणादेव ज्ञानम् । तच्च प्रसादनैरपेक्ष्येणैव मोचकं इत्यादि परपरिकल्पितप्रक्रियापराकरणेन हेतुना । अशेषम् ‘अज्ञानां ज्ञानदो विष्णुर्ज्ञानिनां मोक्षदश्च सः,’ ‘यथा दृष्ट्या प्रसन्नः सन् राजा बन्धापनोदकृत् । एवं दृष्टः स भगवान् कुर्याद् बन्धविभेदनम्’ इत्यादिप्रमेयजातम् अतिमङ्गलं निराबाधं सुस्थिरमभूदिति भावः ।। ५७ ।।

युक्तिमल्लिका

यदङ्घ्य्रभिध्यानसमाधिधौतसुधियात्मनः ।

अनुपश्यन्ति तत्तत्त्वमित्याह भगवान् शुकः ।। ५८ ।।

सुरोत्तमटीका

 उक्तार्थं प्रमाणेन द्रढयति ।। यदङ्घ्य्रीति ।। अनेन ‘‘यदङ्घ्य्रभिध्यानसमाधिधौतया धियाऽनुपश्यन्ति हि तत्वमात्मनः । वदन्ति चैतत्कवयो यथा तथं स मे मुकुन्दो भगवान्प्रसीदतामि’’ति भागवतश्लोकं सङ्गृह्णाति ।। ५८ ।।

सत्यप्रमोदटीका

 उक्तं सर्वमपि प्रमेयं पिण्डीकृत्य प्रतिपादयद्भागवत-वचनमुदाहरति यदिति ‘यदङ्घ्य्रभिध्यानसमाधिधौतया धियाऽनुपश्यन्ति हि तत्त्वमात्मनः । वदन्ति चैतत्कवयो यथा तथं स मे मुकुन्दो भगवान्प्रसीद-ताम्’ । इति श्लोकः ।। ५८ ।।

युक्तिमल्लिका

ध्यानमेव प्रधानाङ्गं तेन चाज्ञानधीमलम् ।

क्षाल्यते धौतधीरेव दर्शने कारणं किल ।। ५९ ।।

सुरोत्तमटीका

 अस्य तात्पर्यमाह ।। ध्यानमिति ।। श्रवणमनने विहायास्यैवासाधारण्येन ग्रहणादिति भावः । तेन ध्यानाख्यसमाधिना । अज्ञानधीमलं अज्ञानाख्यमनोमलम् । धौतपदमहिम्ना लब्धोऽयमर्थः । तेन चाङ्गत्वस्फोरणं कृतमिति द्रष्टव्यम् । धौतधीः अज्ञानाख्यपङ्कक्षालनेन धवलीभूतधीः । दर्शने आत्मतत्वदर्शने ।। ५९ ।।

सत्यप्रमोदटीका

 प्रकृतोपयोगं दर्शयन् व्याख्याति ध्यानमिति । एवकारेण श्रवणस्याङ्गित्वप्रधानाङ्गत्वयोर्निरासः । क्षाल्यते स्वरूपावरकमज्ञानं ध्यानरूपपरोक्षज्ञानेन शिथिलीक्रियते । तथैव गीताभाष्योक्तेः । धीः दर्शने कारणम् । उत्तरश्लोके व्याख्यानं मनःसाक्षात्कारस्य करणम् । अङ्गाङ्गम् अङ्गस्य निदिध्यासनाङ्गस्य मननस्याङ्गम् । कारणं अङ्गि करणम् ।।५९,६०।।

युक्तिमल्लिका

धीशब्दोक्तं मनस्साक्षात्कारस्य करणं किल ।

अङ्गाङ्गं श्रवणं दृष्टिकारणं नतरां किल ।। ६० ।।

सुरोत्तमटीका

 धीशब्दार्थं वदन् तृतीयाबलेन लब्धार्थमप्याह ।। धी-शब्देति ।। अनुपश्यन्तीति ज्ञानकरणतयोक्तत्वादिति भावः । अतः प्रागुक्तकारण पदस्यैवकारसाहित्यात्करणपरम् । अतिशयितकारणस्यैव करण-त्वात् । अङ्गाङ्गं ध्यानाङ्गस्य मननस्याङ्गम् । साक्षाद्ध्यानाङ्गमपि नेत्यर्थः । अत एव नतरामित्युक्तम् ।। ६० ।।

युक्तिमल्लिका

एवं चार्थद्वयं सिद्धं यदस्माभिरुदीरितम् ।

परोदीरितमार्गौ यौ कुमार्गौ तौ बहिर्गतौ ।। ६१ ।।

सुरोत्तमटीका

 श्लोकस्य प्रकृतोपयोगं दर्शयति ।। एवमिति ।। अर्थद्वयं ध्यानस्य प्रधानाङ्गत्वम् । मनसः करणत्वरूपमङ्गित्वं च । परोदीरितमार्गौ श्रवणस्यैवाङ्गित्वं मनननिदिध्यासनयोरुत्तराङ्गत्वमिति मार्गौ । मार्गपदेनोक्त्या प्राप्तापराधपरिहाराय कुमार्गावित्यनुवादः ।। ६१ ।।

सत्यप्रमोदटीका

 अर्थद्वयं मनसः करणत्वम् । श्रवणस्य अङ्गत्वम् । कुमार्गौ गोविन्दप्रसादापलापकत्वेन कुपथौ । ‘कुपथं तं विजानीयाद्गोविन्द-रहितागमं’ इति स्मृतेः ।। ६१ ।।

युक्तिमल्लिका

परोक्षज्ञानकरणं साक्षात्काराय को वदेत् ।

को वा श्रवणमात्रेण तं पश्यति महाप्रभुम् ।

अज्ञैश्च शब्दमात्रेण दृष्टश्चेत्कलहः कुतः ।। ६२ ।।

सुरोत्तमटीका

 कलहः वादिप्रतिवादिनोर्विवादः । एतदेवाभिप्रेत्य प्रागस्माभिस्सङ्ग्रहायोक्तम् ।। ६२ ।।

सत्यप्रमोदटीका

 कुत इति श्रवणजनितदर्शनेन सद्यः शरीरपातापातात् ।। ६२ ।।

युक्तिमल्लिका

तैलधारावदच्छिन्नगुणसन्धानरूपया ।

मनोधारणया योगी पश्येच्चेदुचितं हि तत् ।। ६३ ।।

सुरोत्तमटीका

 ध्यानस्वरूपं निरूपयन्ध्यानस्यैव प्रधानाङ्गत्वमनुभाव-यति ।। तैलधारावदिति ।। ६३ ।।

सत्यप्रमोदटीका

 गुणसन्धानं योग्यगुणोपसंहारः । धारणया ध्यानेन । योगी परमात्मनः प्रसादेनेति पूरणीयम् । उचितम् । उक्तप्रमाणानुगुणम् ।। ६३ ।।

युक्तिमल्लिका

दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ।

इति गीतासु हरिणा निरणायि मतं मम ।। ६४ ।।

सुरोत्तमटीका

 ध्यानप्रसन्नभगवद्दत्तचक्षुषैव भगवद्दर्शनम् । न शब्द-श्रवणमात्रेणेत्यत्र गीतावाक्यमपि प्रमाणयति ।। दिव्यमिति

।। ६४ ।।

सत्यप्रमोदटीका

 दिव्यमिति ‘न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा’ इति पूर्वार्धम् । चक्षुः दर्शनशक्तिम् । साक्षाद्धीकरणादित्येकं पदम् । साक्षा-त्कारकरणात् । एवपदेन विजातीयकरणशब्दस्य व्यवच्छेदः ।। ६४,६५ ।।

युक्तिमल्लिका

अविद्यां किल विद्राव्य दिव्यं चक्षुर्दृशे दिशेत् ।

साक्षाद्धीकरणादेव साक्षाद्धीसंस्कृतादपि ।

नान्यस्माद्यद्ददौ दिव्यं चक्षुरेव निरीक्षितुम् ।। ६५ ।।

सुरोत्तमटीका

 अस्य तात्पर्यमाह ।। अविद्यामिति ।। प्राग्दर्शनाभाव-सम्पादकप्रतिबन्धकनिरासस्यावश्यकत्वात् । अविद्यां विद्राव्येत्युक्तम् । यत् यस्मात् । निरीक्षितुं स्वविश्वरूपं द्रष्टुं दिव्यं चक्षुरेव ददौ । तस्मात्संस्कृतादपि भगवदनुग्रहाख्यसंस्कारसहितादपि साक्षाद्धीकरणादेव साक्षाद्धीस्साक्षात्कारः । न त्वन्यस्माल्लिङ्गाच्छब्दाद्वेति सिद्धम् । अनुगृह्णन्नपि भगवान्न लोकमर्यादा-मुल्लङ्घितवान् । त्वन्तु निर्मर्यादस्तामप्युल्लङ्घयसि । अतस्त्वं नालौकिको नापि लौकिक इति भावः ।। ६५ ।।

युक्तिमल्लिका

चष्टेऽनेनेति तच्चक्षुर्मनो वा बाह्यमेव वा ।

चक्षुस्सहायेन मनो यतः पश्यति तं बहिः ।। ६६ ।।

सुरोत्तमटीका

 तर्हि चक्षुरिति कथनान्मनसः कथं करणत्वमित्यत आह ।। चष्ट इति ।। इति व्युत्पत्त्या तच्चक्षुः गीतोक्तं चक्षुः । बहिर्दर्शनेऽपि मनस एव प्राधान्यमित्याह ।। चक्षुस्सहायेनेति ।। ततःप्राधान्येन मन एव तत्रापि चक्षुः । अन्यथा भागवतगीतावाक्ययोर्विरोधात् । अन्तर्वा बहिर्वा तयोरुभयो-रेव दर्शनहेतुत्वस्य चक्षुषा पश्यति मनसा पश्यति सुखं पश्यतीति लोकवेद-सम्मतत्वात्स्मृतिद्वयेनापि मनश्चक्षुषी एव गृहीते न श्रावणस्पार्शनादि साक्षा-त्कारान्तरकरणानि । किमु वाच्यं तदा परोक्षज्ञानकरणलिङ्गशब्दादीनां दर्शनहेतुतयाऽसङ्ग्राह्यत्वमिति भावः ।। ६६ ।।

सत्यप्रमोदटीका

 यौगिकचक्षुःशब्देन मनसोऽपि सङ्ग्रहमाह चष्ट इति । सहायेनेति । ‘मनसस्तु बाह्येन्द्रियसन्निधानेन एते सर्वेऽपि विषया’ इति पद्धत्युक्तेः ।। ६६ ।।

युक्तिमल्लिका

किञ्च दक्षशिरश्छिन्दन्न च्छेदे कारणं पुरा ।

अपश्यत्किल तद्दृष्ट्यै दध्यौ पशुपतिश्चिरम् ।। ६७ ।।

इति भागवते ध्यानात्पूर्वं दृष्टेरभावतः ।

तदभावे भावरूपं व्यतिरेकमदर्शयत् ।। ६८ ।।

सुरोत्तमटीका

 ध्यानस्यैव दर्शने प्रधानाङ्गत्वं न श्रवणस्येत्यत्र भागवत-कथान्तरसंमतिमपि प्रमाणयति ।। किञ्चेति ।। व्यतिरेकं व्यतिरेकव्याप्तिम् । ‘‘शस्त्रैरस्त्रान्वितैरेनमनिर्भिन्नत्वचं हरः । विस्मयं परमापन्नो दध्यौ पशुपति-श्चिरमि’’ति भागवतवाक्यस्य तात्पर्यकथनमिदम् ।। ६७,६८ ।।

सत्यप्रमोदटीका

 अतीन्द्रियार्थसाक्षात्कारे ध्यानस्यैवाङ्गत्वं भागवताख्या- नेन अन्वयव्यतिरेकप्रदर्शनपूर्वकं निदर्शयति किञ्चेति । पुरा ध्यानात्पूर्वम् । कारणं विशेषनिमित्तम् । तदुक्तं गीताभाष्ये ‘स्वतः प्रायोनिमित्तैश्चा-विनाशिनोऽपि केनचिन्निमित्तविशेषेण स्यात् ककच्छेदवदि’ति । तत्र प्रमेयदीपिकायां ‘यथा दक्षस्य प्रजापतेश्शिरच्छेदो न स्वतो नापि वीरभद्रायुधेन निमित्तेन किन्तु यज्ञपशुभावनाऽऽख्येन निमित्तविशेषेण तथेत्यर्थः’ इति । तथा चातीन्द्रियार्थविषयकयोगिप्रत्यक्षे समाधिपरिपाकलक्षणयोग एव निमित्तम् । ‘‘समाधिपरिपाकवन्तो योगिनः’’ इति तत्त्वनिर्णयटीकोक्तेः ।। अनेन ध्यानाभावे अतीन्द्रियार्थदर्शनाभावः इति व्यतिरेकव्याप्तिः सिद्धेत्याह तदिति

।। ६७,६८ ।।

युक्तिमल्लिका

दृष्ट्वा संज्ञपने योगमिति ध्यानोत्तरक्षणे ।

दृष्टिं ब्रवीति यत्तेन तत्सत्त्वे सत्त्वरूपिणम् ।

अन्वमंस्तान्वयं ध्यानाददृश्यार्थस्य दर्शने ।। ६९ ।।

सुरोत्तमटीका

 ‘‘दृष्ट्वा संज्ञपने योगमि’’त्यनेन ‘‘दृष्ट्वा संज्ञपने योगं पशूनां स पतिर्मखे । यजमानपशोस्तस्य कायात्तेनाहरच्छिर’’ इति वाक्यं सङ्गृह्णाति । मखे यज्ञे । संज्ञपने याज्ञीयपशुहिंसायाः । योगम् उपायम् । स्वयज्ञभङ्गात्कुपितो हरिरिमं छेत्तुं न मुञ्चति । तस्मादिममेव यज्ञपशुं कृत्वैतच्छिर एव विच्छिद्य भगवदाहुतित्वेनाग्नौ जुहोमीति संकल्पाख्यमुपायं दृष्ट्वेति भावः । अन्वयम् अन्वयव्याप्तिम् ।। ६९ ।।

सत्यप्रमोदटीका

 ‘‘दृष्ट्वा संज्ञपने योगं पशूनां स पतिर्मखे । यजमान-पशोस्तस्य कायात्तेनाहरच्छिरः’’ । इत्युत्तरश्लोकपर्यालोचनयाऽन्वयोऽपि सिद्ध इत्याह दृष्ट्वा इति । अदृश्यार्थे अतीन्द्रियस्य संहारे निमित्तविशेषस्यार्थे

।। ६९ ।।

युक्तिमल्लिका

रौद्री विद्याऽनवद्येत्थं ध्यानस्य दृशि हेतुताम् ।

अन्वयव्यतिरेकाभ्यां निर्णिनायेति मे मतिः ।। ७० ।।

सुरोत्तमटीका

 रौद्री विद्या रुद्रकृतध्यानादिविद्या ।। ७० ।।

सत्यप्रमोदटीका

 रौद्री दर्शनार्थं रुद्रेणानुष्ठिता । विद्या ध्यानम् ।।७०।।

युक्तिमल्लिका

रुद्रोऽप्यद्रावयद्यस्याः क्षुद्रोपद्रवहृद्रुजम् ।

हृद्या मध्वस्य शुद्धा सा विद्या विद्योतते तराम् ।। ७१ ।।

सुरोत्तमटीका

 अधुनोक्तरीत्या भागवतभारतादिरहस्यानुकूलां मध्वस्य विद्यां स्तौति ।। रुद्र इति ।। यस्याः विद्यायाः । क्षुद्रोपद्रवः श्रवणादेवा-परोक्षज्ञानं न तु निदिध्यासनसहकृतमनस इति विपरीतप्रमेयम् । स एव हृद्रुक्हृदयरोगः तां हृद्रुजम् । श्रुतिस्मृत्यनुभवविरुद्धत्वात्स्वाभिमतहरेणैव तिरस्कृतत्वाद्वा क्षुद्रेत्युक्तम् ।। ७१ ।।

सत्यप्रमोदटीका

 क्षुद्रेति शब्दः परोक्षज्ञानस्यैव करणं न प्रत्यक्षस्य इति सार्वजनीनानुभवस्यापलापपरत्वात् । ‘यस्य प्रसादात्परमार्तिरूपा-दस्मात्संसारान्मुच्यते नापरेण’ इत्यादिश्रुतिभिः ‘मत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम्’ इत्यादिस्मृतिभिश्च सुस्पष्टतया सिद्धस्य भगवत्प्रसादरूप-महिम्नोऽवधीरणादिति भावः । हृद्रुजं तात्पर्यविषयीभूतार्थविरोधिनीं पर-प्रक्रियाम् । अद्रावयत् स्वयं माध्वसिद्धान्तानुरोधानुष्ठानेन पराचष्ट ।। ७१ ।।

युक्तिमल्लिका

इदं त्रयं प्रधानाङ्गं मनः करणमुच्यते ।

प्रतिबन्धे न तत्पश्येत्तदपाये तु पश्यति ।। ७२ ।।

सुरोत्तमटीका

 त्रयं श्रवणादित्रयम् । प्रधानाङ्गं कर्मादिभ्यः प्रधानाङ्गम् । एतेषां मध्ये तु पूर्वोक्तरीत्या ध्यानस्यैव प्राधान्यं द्रष्टव्यम् ।। ७२ ।।

सत्यप्रमोदटीका

 प्रतिबन्ध इति । दर्शनप्रतिबन्धकान्युक्तानि गीतायाम् । ‘लभते ब्रह्मनिर्वाणं ऋषयः क्षीणकल्मषाः । छिन्नद्वैधा यतात्मानः’ इति । तदर्थो भाष्ये ‘क्षीणपापा महाज्ञाना जायन्ते गतसंशयाः ।’ क्षीण-कल्मषत्वं पापक्षयः । महाज्ञानाः श्रवणादिना विदितवेद्याः । द्वैधः संशयो विपर्ययो वा क्षीणकल्मषत्वयतात्मत्वछिन्नद्वैधत्वानां हेतुहेतुमद्भावे । इति प्रमेयदीपिकाऽनुसारेण तात्पर्यं बोध्यम् ।। ७२ ।।

युक्तिमल्लिका

प्रतिबन्धनिवृत्त्यर्थं श्रवणाद्यापि मृग्यते ।

अतश्श्रुतिश्श्रवणतो मुक्तिरित्यपि सा जगौ ।

एवं च मनसैवेति श्रौतावधृतिरप्यभूत् ।। ७३ ।।

सुरोत्तमटीका

 मृग्यते मनसा । अतः श्रवणादेरप्यङ्गत्वात् । सा श्रुत्वैव मोक्षमाप्नोतीत्यादिका । एवं च मनस एव दर्शनकरणत्वात् ।। ७३ ।।

सत्यप्रमोदटीका

 श्रवणादीति आदिपदेन पुण्यकर्मादिकं ग्राह्यम् । पापक्षयहेतुत्वात् पुण्यकर्मणाम् । ‘येषां त्वन्तगतं पापं जनानां पुण्यकर्मणां’ इति गीतोक्तेः । ‘श्रुत्वा मत्वा तथा ध्यात्वा तदज्ञानविपर्ययौ । संशयं च पराणुद्य लभते ब्रह्मदर्शनम्’ इति च प्रमाणम् । श्रुतिः ‘श्रुत्वैव मोक्षमाप्नोति’ इति श्रुतिः । एवकारोऽयोगव्यवच्छेदपरः । श्रुतिमतिनियतध्यानजज्ञान-योगेनैवेति अन्ययोगव्यवच्छेदपरो वा । परंपरया कारणेऽपि कारणत्वव्यवहारः स्वर्गकामो यजेतेति श्रुतौ घृतेन पुष्टिर्जायत इति लोके च सिद्धः । ज्ञान-प्रतिबन्धकपापक्षयाख्यमसाधारणकारणं कार्यस्य लक्षणं भवत्येवेति प्रमेय-दीपिकोक्त्या प्रतिबन्धकनिवृत्तेरपि कारणत्वव्यवहारो बोध्यः ।। ७३ ।।