दोषाभावाच्च नाज्ञानभ्रान्तिर्युक्ता मते तव

दोषाभावादारोपासंभवः

युक्तिमल्लिका

दोषाभावाच्च नाज्ञानभ्रान्तिर्युक्ता मते तव ।

तमोऽन्यभ्रमदोषोऽपि न हि दोषः स्वदर्शने ।। ५८ ।।

सुरोत्तमटीका

 दोषाभावाच्च नाज्ञानारोप इत्याह ।। दोषेति ।। तव मते । नन्वज्ञानस्यैवाज्ञानारोपे दोषत्वमस्त्वित्याशङ्क्य बहुधा दूषयति ।। तम इति ।। तमः अन्धकारः अन्यभ्रमे दोषः घटादिभ्रमे दोषोऽपि स्वदर्शनेऽन्धकारस्यैव दर्शने दोषो न हि । अन्धकारे सत्यन्धकारप्रमोदय दर्शनात् । एवमज्ञाने सत्यज्ञानवशादहंममतादिसांसारिकभ्रमोऽस्तु अज्ञानस्य स्वस्य तु प्रमैव स्यात् न भ्रम इति भावः । दोषोहि स्वयं विद्यमान एव भ्रमकारणं स्यात् । विद्यमानस्य च कथं भ्रम इति भावः ।। ५८ ।।

सत्यप्रमोदटीका

 अज्ञानज्ञानं, न भ्रमः, दोषाजन्यत्वात् साक्षिवत् व्यतिरेकेण रूप्यभ्रमवत् इति प्रयोगमभिप्रेत्याह दोषेति । न चासिद्धिः दोषस्य दुर्निरूपत्वात् । तथाहि, दोषो भवन्नज्ञानं वा तदन्यो वा । न द्वितीयः सर्वमज्ञानातिरिक्तं अज्ञानकार्यमिति तव मतेऽन्यस्यासम्भवादित्याह दोषा-भावादिति तवेति च । आद्येऽपि तदेवाज्ञानं स्वयं स्वभ्रान्तौ दोषः अज्ञानान्तरं वा । नाद्यः अनुभवविरोधादित्यत्र दृष्टान्तमाह तम इति । आत्माश्रयापत्तेरिति भावः । द्वितीये च तत्सत्यं मिथ्या वा । आद्ये तज्ज्ञानस्य प्रमात्वं स्यान्न भ्रमत्वमित्याह तमोऽन्तरमिति । तथा चाज्ञानमात्रमारोपित-मिति वादो दत्तजलाञ्जलिः । उपोद्बलकं सत्यत्वस्थापकम् ।। ५८,५९ ।।

युक्तिमल्लिका

तमोऽन्तरं च तमसः प्रमायै स्याद्भ्रमाय न ।

तेनाज्ञानान्तरं चाज्ञानस्योपोद्बलकं भवेत् ।। ५९ ।।

सुरोत्तमटीका

 ननूत्तराज्ञानस्य पूर्वाज्ञानं दोषस्स्यादित्यत आह ।। तमोन्तरमिति ।। यस्मात् तमोऽन्तरं तमसः प्रमायै स्यात् । तेन तमसः तमोऽन्तरप्रमानुकूलत्वेन । अज्ञानस्योपोद्बलकं दार्ढ्यसंपादकम् । अतः प्रमाया एव हेतुस्स्यादिति सम्बन्धः । अज्ञानबाहुल्ये अज्ञानस्य सुतरां प्रमैव स्यादिति भावः । तत्र हेतुं स्फोरयति ।। तद्भूयस्त्व इति ।। तस्य वस्तुतः भूयस्त्वे निबिडत्वे तद्भ्रमः क्व । विरलतमसिच्छायादौ कदाचित्तमोनेति भ्रमसम्भवेऽपि निशायां गुहादौ च निबिडेऽन्धकारेऽन्धकारभ्रमादर्शनादिति भाव; ।। तदेवानु-भावयति ।। अतद्वतीति ।। अतद्वति तद्रहिते । तत्सत्त्वे तत्प्रमाया एवावश्यम्भावादिति भावः ।। ५९,६० ।।

युक्तिमल्लिका

प्रमाया एव हेतुस्स्यात्तद्भूयस्त्वे क्व तद्भ्रमः ।

अतद्वति हि तद्धीत्वे भ्रमः स्यान्न तु तद्वति ।। ६० ।।

सत्यप्रमोदटीका

 भूयस्त्वे प्रतिभासमानं एकं तमः अज्ञानं वा । दोषविधया तत्प्रतिभासे कारणीभूतं अपरं तमः अज्ञानं इत्येवं भूयस्त्वे । अतद्वतीति । उपपादितं चैतदधस्तात् ।। ६० ।।

युक्तिमल्लिका

अनाद्यज्ञानवादे च तस्याज्ञानं न किञ्चन ।। ६१ ।।

सुरोत्तमटीका

 युक्तिदारिद्य्राभावादिदमाशङ्क्य दूषितम् । वस्तुतस्तु नैवं तन्मतमित्याह ।। अनादीति ।। तस्याज्ञानस्य । अज्ञानामज्ञानान्तरम् ।।६१।।

सत्यप्रमोदटीका

 किं च परेणाज्ञानस्यानादित्वमङ्गीकृतम् । यथोक्तं

अविद्या तच्चितोर्योगः षडस्माकमनादयः’ इति ।

अज्ञानस्य प्रातिभासिकत्वं च । तेनाज्ञानज्ञानमप्यनाद्येवेति तस्य जन्यत्वमेव नेत्याह अनादीति । तस्य अज्ञानज्ञानस्य । किञ्चन कारणीभूतम् । जन्यत्वस्यैवाभावात् ।। ६१ ।।

युक्तिमल्लिका

किं च प्रातीतिकाज्ञानं कथं स्वभ्रमकारणम् ।

भ्रमात्पूर्वो हि दोषस्स्याद्दोषजश्च भ्रमो भवेत् ।। ६२ ।।

सुरोत्तमटीका

 दूषणान्तरमाह ।। किञ्चेति ।। प्रातीतिकाज्ञानं प्रतीति-समसमयसत्ताकं स्वभ्रमकारणं स्वस्यैव भ्रमकारणम् । हि यस्माद्दोषः भ्रमात्पूर्वः । दोषस्य भ्रमकारणत्वेन कारणस्य च पूर्वभावित्वावश्यंभावादिति भावः । तदेवोपपादयति ।। दोषज इति ।। ६२ ।।

सत्यप्रमोदटीका

 प्रतितिरेवाज्ञानमिति परमते नाज्ञानस्य प्रतीति-कारणत्वं निर्वहतीत्याह द्वाभ्यां किं चेति ।। ६२,६३ ।।

युक्तिमल्लिका

दोषे धीस्स्याद्भ्रमाकारा भ्रमे सत्येव तच्च सत् ।

प्रातीतिकं भवेद्दोष इत्यन्योन्याश्रयो ध्रुवः ।। ६३ ।।

सुरोत्तमटीका

 दूषणान्तरमाह ।। दोष इति ।। दोषे अज्ञानाख्यदोषे सति । भ्रमाकारा अज्ञानभ्रमाकारा । भ्रमे सत्येव प्रातीतिकं तदज्ञानं सत् विद्यमानं दोषः स्वभ्रमहेतुर्दोषः । इत्यनेन प्रकारेणान्योन्याश्रयो ध्रुवः अपरिहार्यः । अज्ञानरूपदोषे सत्यज्ञानभ्रमः । अज्ञानभ्रमे सति प्रातीतिका-ज्ञानरूपदोषसत्त्वमित्यन्योन्याश्रय इति भावः ।। ६३ ।।

युक्तिमल्लिका

किं चाज्ञानाध्यासरूपी साक्ष्यनादिर्मते तव ।

जन्मैवास्य न युक्तं तद्दोषजत्वं तु दूरतः ।। ६४ ।।

सुरोत्तमटीका

 दोषान्तरं चाह ।। किञ्चेति ।। अज्ञानाध्यासरूपी अविद्या साक्षात्काररूपीत्यर्थः । तव मते अनादिरिति सम्बन्धः । साक्षिण-श्चिद्रूपत्वाङ्गीकारादिति भावः । अस्य साक्षिणः ।। ६४ ।।

सत्यप्रमोदटीका

 अध्यासेति । प्रतिभासेत्यर्थः । तदुक्तं सुधायां जिज्ञासानये ‘न खलु साक्ष्यवभासादन्याऽज्ञानसत्ता तवास्ति’ इति । स च साक्षी अनादिरङ्गीकृतः ‘जीव ईशो विशुद्धचिदि’ति तद्वचनात् । तस्य च जन्यत्वं व्याहतम् । दोषजन्यत्वं तु गर्भस्रावेणैव निरस्तमिति भावः ।। ६४ ।।

युक्तिमल्लिका

अमानत्वस्वतस्त्वं स्याद्दोषाजन्यो भ्रमोऽपि चेत् ।

अतः प्रमीयमाणत्वात्त्वय्यज्ञानमकल्पितम् ।। ६५ ।।

सुरोत्तमटीका

 दोषाजन्योऽपि भ्रमोऽस्तु को दोष इत्यत आह ।। अमानत्वस्वतस्त्वमिति ।। अप्रामाण्यस्वतस्त्वमित्यर्थः । भ्रमः दोषाजन्यश्चेत् तर्हीति शेषः । अतः अज्ञानज्ञानस्य साक्षिणो दोषाजन्यत्वनियमात् । अतः अज्ञानारोपायोगान्निमित्तात् । असम्भवदारोपाकारं दोषाजन्यं च ज्ञानमेव हि प्रमा । साक्षी चाजन्यतया दोषाजन्यः । एवम् अज्ञानतादात्म्याद्यगोचरतया तदनारोपरूपश्च तद्विषयत्वे प्रमाविषयत्वमेव स्यादिति भावः । प्रमीय-माणत्वादस्तीति प्रमया साधितत्वात् । त्वयि जीवे । अहमज्ञ इति जीव एवाज्ञानस्य साक्षिणा साधितत्वात् अज्ञानस्यारोपितत्वं ब्रह्माश्रितत्वं च न किंतु जीवाश्रितत्वमेवेत्यर्थः । यद्वा एतादृशतत्वज्ञानाभावाच्च त्वय्यज्ञान-मकल्पितं दृढमेव । एवं वदन् त्वमेवाज्ञानीति भावः ।। ६५ ।।

सत्यप्रमोदटीका

 उक्तानुमानेऽप्रयोजकतामाशङ्कते दोषेति । विपक्षे बाधकोक्त्या परिहरति अमानत्वेति ।। मथितमाह अत इति । प्रमीयमाणत्वात् अहमज्ञ इत्यबाधितप्रत्यक्षसिद्धत्वात् । त्वयि त्वदुपलक्षितजीवेषु । त्वयीत्या-वर्तते । विषयसप्तमी । जीवगतपारतन्त्र्यादिधर्मविषये । एवं त्वयि त्वदन्तर्यामिपरमात्मविषये च । यद्वा त्वयि मायावादिनि । अज्ञानं अज्ञानारोप विषयकमिथ्याज्ञानं अकल्पितं स्वभावः इति यावत् । तदुक्तं सुधायां ‘स्वयमेव भवत्यस्तीति स्वभावः नाज्ञानकल्पित इति यावदि’ति ।। ६५ ।।

युक्तिमल्लिका

तत्त्वज्ञानायोग्यताख्यदोषोस्त्यासुरसाक्षिषु ।

तन्मूलत्वं च तज्ज्ञाने विशेषाद्धटते मम ।। ६६ ।।

सुरोत्तमटीका

 नन्वयोग्यजीवानां साक्षी भवतामपि मते नित्यो भ्रम-रूपश्च । तत्र को दोषः का च ततो जनिरित्यत आह ।। तत्वज्ञानेति ।। तज्ज्ञाने आसुरसाक्षिरूपज्ञाने तन्मूलत्वं तत्वज्ञानायोग्यताख्यदोषजन्यत्वं तद्व्यक्तत्वमित्यर्थः । विशेषात् भेदप्रतिनिधिरूपविशेषात् । मम मते । योग्यतायाः ज्ञानस्य च तत्स्वरूपत्वेनैकत्वात् । भेदसापेक्षव्यङ्ग्यव्यञ्जक-भावघटनाय विशेषादित्युक्तम् ।। ६६ ।।

सत्यप्रमोदटीका

 ननु न सर्वत्राप्रमाया दोषजन्यत्वमिति नियमः । आसुरसाक्षिणां तमोयोग्यानां स्वरूपज्ञानं तावन्नियमेनायथार्थमङ्गीकृतम् । तदुक्तं पद्धतौ ‘अन्येषां अयथार्थमेवे’ति । न च तद्दोषजन्यम् । स्वरूप-त्वेनानादित्वात् । तथाऽज्ञानारोपः अनादिरपि दोषाजन्यः किं न स्यादिति शङ्कां तेषां स्वरूपज्ञानेऽपि दोषसद्भावोक्त्या परिहरति दोष इति । कोऽसौ दोष इत्यत आह तत्त्वज्ञानायोग्यताख्येति । उपलक्षणम् । विपरीतज्ञान-योग्यतेत्यपि ग्राह्यम् । ननु दोषसद्भावेऽपि न तज्जन्यत्वं तेषामयथार्थज्ञानस्य सम्भवति । तस्य तत्स्वरूपत्वेनानादित्वादित्यत आह तन्मूलत्वमिति । तद्व्यक्तत्वरूपं तत्प्रयोज्यत्वमित्यर्थः । तथा च अनादेः कथं जन्यत्वमिति चोद्यानवकाशः । न च प्रयोज्यत्वेऽपि चोद्यं सममेव । तद्व्यतिरेकप्रयुक्त-व्यतिरेकप्रतियोगित्वरूपतदधीनत्वस्य अनादिष्वप्यविकलत्वात् । अन्यथा परमते अनादेर्जीवब्रह्मविभागस्य अनाद्यज्ञानाधीनत्वोपगमस्यानुपपत्तेः । ननु च योग्यता अयथार्थज्ञानं चेति द्वयमपि स्वरूपमेव । कथं तयोर्व्यंग्यव्यञ्जक-भावोऽपि । तस्य भेदेनैव निर्वाह्यत्वादिति चेत् सत्यम् । यत्राभेदो न प्रमित आलोकघटादिषु तत्रैवमेतत् । प्रमिते त्वभेदे भेदकार्यव्यवहाराणां तत्प्रति-निधिना विशेषेण निर्वाहान्नानुपपत्तिरित्याह विशेषादिति । तदुक्तं भगवत्पादैः

भेदहीने त्वपर्यायशब्दान्तरनियामकः ।

 विशेषो नाम कथित’ इति ।

विशेषलक्षणं चोक्तं तत्रैव सुधायां ‘भेदहीनेऽप्यनुपचरितभेदव्यवहारनिमित्तं विशेष इति’ । अयं च निर्वाहो विशेषाङ्गीकारिणो मन्मत एव घटत इत्याह ममेति ।। ६६ ।।

युक्तिमल्लिका

निर्विशेषचितो दोषः कस्स्याज्जन्म च किं तव ।

अज्ञानारोपवादस्तदज्ञानादेव केवलम् ।। ६७ ।।

सुरोत्तमटीका

 निर्विशेषब्रह्मवादिनस्तव मते नेदं घटत इत्याह ।। निर्विशेषेति ।। समस्तधर्मशून्यचित इत्यर्थः । ते मते दोषः कः जन्म च किं न किमपि । निर्धर्मकत्वाङ्गीकारात् योग्यताख्यधर्मस्य चाभावादिति भावः । तत्तस्मात् आरोपमूलदोषाद्यभावात् । अज्ञानात् पूर्वोत्तरज्ञानाभावात् ।। ६७ ।।

सत्यप्रमोदटीका

 तव मते तु निर्विशेषचितोऽज्ञानसाधकत्वं दुर्घट-मेवेत्याह निर्विशेषेति । अज्ञानावभासस्य निर्विशेषचित्स्वरूपत्वोररीकारादिति भावः । उपसंहरति अज्ञानेति । अज्ञानात् आरोपस्वरूपस्य तद्धेतुदोषादि-विवेकस्य चेति शेषः ।। ६७ ।।

युक्तिमल्लिका

अज्ञानारोपमूलस्ते शास्त्रविस्तृतपादपः

मूलस्य दुर्बलत्वे तु सोऽपि वाताहतः पतेत् ।। ६८ ।।

सुरोत्तमटीका

 अधुनाऽज्ञानारोपासम्भवे च सर्वं तच्छास्त्रं गतमित्याह ।। अज्ञानेति ।। अज्ञानारोप एव मूलं यस्य सः । सोऽपि शास्त्रपादपोऽपि । वाताहतः मूलाभावे वाय्वाहततरुवत् । वातेन मुख्यप्राणेन । तदुक्तयुक्ति-भिरिति यावत् । आहतः ताडितः । पतेत् अधः पतेत् ।। ६८ ।।

सत्यप्रमोदटीका

 ‘अज्ञानासम्भवादेव तन्मतमखिलमपाकृतमि’ति मायावादखण्डनोक्तं पञ्चभिर्विवृण्वन्नाह अज्ञानेति । मूलेति अनुबन्धचतुष्टय-साधकाभिमतेत्यर्थः । विस्तृतेति शब्दत एव विस्तरोपेतेति यावत् । तदुक्तं ‘प्राच्यं शास्त्रं यत्सपादं तु लक्षमि’ति । अर्थतस्तु न तथेत्याह मूलस्येति । साधकतयोपन्यस्तमानाभासजालस्य दुर्बलत्वे सावकाशत्वादिना स्वाभिमत-साधनाक्षमत्वे । वाताहतः वाय्वंशमध्वोक्तिदूषितः पतेत् अनारम्भणीयता-मापद्यते । अपिः गर्हणार्थः । निर्मूलो विस्तरो गर्हणीय एवेति भावः । अत एवोक्तं ‘वाक्येनैकेनाक्षिपद्धर्षतीर्थ’ इति ।। ६८ ।।